Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 2

Book 1. Chapter 2

The Mahabharata In Sanskrit


Book 1

Chapter 2

1

[रसयग]

समन्तपञ्चकम इति यद उक्तं सूतनन्दन

एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम

2

[स]

शुश्रूषा यदि वॊ विप्रा बरुवतश च कथाः शुभाः

समन्तपञ्चकाख्यं च शरॊतुम अर्हथ सत्तमाः

3

तरेता दवापरयॊः संधौ रामः शस्त्रभृतां वरः

असकृत पार्थिवं कषत्रं जघानामर्ष चॊदितः

4

स सर्वं कषत्रम उत्साद्य सववीर्येणानल दयुतिः

समन्तपञ्चके पञ्च चकार रुधिरह्रदान

5

स तेषु रुधिराम्भःसु हरदेषु करॊधमूर्च्छितः

पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम

6

अथर्चीकादयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम

तं कषमस्वेति सिषिधुस ततः स विरराम ह

7

तेषां समीपे यॊ देशॊ हरदानां रुधिराम्भसाम

समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम

8

येन लिङ्गेन यॊ देशॊ युक्तः समुपलक्ष्यते

तेनैव नाम्ना तं देशं वाच्यम आहुर मनीषिणः

9

अन्तरे चैव संप्राप्ते कलिद्वापरयॊर अभूत

समन्तपञ्चके युद्धं कुरुपाण्डवसेनयॊः

10

तस्मिन परमधर्मिष्ठे देशे भूदॊषवर्जिते

अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया

11

एवं नामाभिनिर्वृत्तं तस्य देशस्य वै दविजाः

पुण्यश च रमणीयश च स देशॊ वः परकीर्तितः

12

तद एतत कथितं सर्वं मया वॊ मुनिसत्तमाः

यथा देशः स विख्यातस तरिषु लॊकेषु विश्रुतः

13

[रसयग]

अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्दन

एतद इच्छामहे शरॊतुं सर्वम एव यथातथम

14

अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम

यथावच चैव नॊ बरूहि सर्वं हि विदितं तव

15

[स]

एकॊ रथॊ जगश चैकॊ नराः पञ्च पदातयः

तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते

16

पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः

तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते

17

तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः

समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः

18

चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी

अनीकिनीं दशगुणां पराहुर अक्षौहिणीं बुधाः

19

अक्षौहिण्याः परसंख्यानं रथानां दविजसत्तमाः

संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः

20

शतान्य उपरि चैवाष्टौ तथा भूयश च सप्ततिः

गजानां तु परीमाणम एतद एवात्र निर्दिशेत

21

जञेयं शतसहस्रं तु सहस्राणि तथा नव

नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः

22

पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च

दशॊत्तराणि षट पराहुर यथावद इह संख्यया

23

एताम अक्षौहिणीं पराहुः संख्या तत्त्वविदॊ जनाः

यां वः कथितवान अस्मि विस्तरेण दविजॊत्तमाः

24

एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः

अक्षौहिण्यॊ दविजश्रेष्ठाः पिण्डेनाष्टादशैव ताः

25

समेतास तत्र वै देशे तत्रैव निधनं गताः

कौरवान कारणं कृत्वा कालेनाद्भुत कर्मणा

26

अहानि युयुधे भीष्मॊ दशैव परमास्त्रवित

अहानि पञ्च दरॊणस तु ररक्ष कुरु वाहिनीम

27

अहनी युयुधे दवे तु कर्णः परबलार्दनः

शल्यॊ ऽरधदिवसं तव आसीद गदायुद्धम अतः परम

28

तस्यैव तु दिनस्यान्ते हार्दिक्य दरौणिगौतमाः

परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम

29

यत तु शौनक सत्रे तु भारताख्यान विस्तरम

आख्यास्ये तत्र पौलॊमम आख्यानं चादितः परम

30

विचित्रार्थपदाख्यानम अनेकसमयान्वितम

अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः

31

आत्मेव वेदितव्येषु परियेष्व इव च जीवितम

इतिहासः परधानार्थः शरेष्ठः सर्वागमेष्व अयम

32

इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुद्धिर उत्तमा

खरव्यञ्जनयॊः कृत्स्ना लॊकवेदाश्रयेव वाक

33

अस्य परज्ञाभिपन्नस्य विचित्रपदपर्वणः

भारतस्येतिहासस्य शरूयतां पर्व संग्रहः

34

पर्वानुक्रमणी पूर्वं दवितीयं पर्व संग्रहः

पौष्यं पौलॊमम आस्तीकम आदिवंशावतारणम

35

ततः संभव पर्वॊक्तम अद्भुतं देवनिर्मितम

दाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते

36

ततॊ बकवधः पर्व पर्व चैत्ररथं ततः

ततः सवयंवरं देव्याः पाञ्चाल्याः पर्व चॊच्यते

37

कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम

विदुरागमनं पर्व राज्यलम्भस तथैव च

38

अर्जुनस्य वनेवासः सुभद्राहरणं ततः

सुभद्राहरणाद ऊर्ध्वं जञेयं हरणहारिकम

39

ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम

सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम

40

जरासंध वधः पर्व पर्व दिग विजयस तथा

पर्व दिग विजयाद ऊर्ध्वं राजसूयिकम उच्यते

41

ततश चार्घाभिहरणं शिशुपाल वधस ततः

दयूतपर्व ततः परॊक्तम अनुद्यूतम अतः परम

42

तत आरण्यकं पर्व किर्मीरवध एव च

ईश्वरार्जुनयॊर युद्धं पर्व कैरात संज्ञितम

43

इन्द्रलॊकाभिगमनं पर्व जञेयम अतः परम

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः

44

जटासुरवधः पर्व यक्षयुद्धम अतः परम

तथैवाजगरं पर्व विज्ञेयं तदनन्तरम

45

मार्कण्डेय समस्या च पर्वॊक्तं तदनन्तरम

संवादश च ततः पर्व दरौपदी सत्यभामयॊः

46

घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः

वरीहि दरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते

47

दरौपदी हरणं पर्व सैन्धवेन वनात ततः

कुण्डलाहरणं पर्व ततः परम इहॊच्यते

48

आरणेयं ततः पर्व वैराटं तदनन्तरम

कीचकानां वधः पर्व पर्व गॊग्रहणं ततः

49

अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम

उद्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाद्भुतम

50

ततः संजय यानाख्यं पर्व जञेयम अतः परम

परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया

51

पर्व सानत्सुजातं च गुह्यम अध्यात्मदर्शनम

यानसंधिस ततः पर्व भगवद यानम एव च

52

जञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः

निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः

53

रथातिरथ संख्या च पर्वॊक्तं तदनन्तरम

उलूक दूतागमनं पर्वामर्ष विवर्धनम

54

अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम

भीष्माभिषेचनं पर्व जञेयम अद्भुतकारणम

55

जम्बू खण्ड विनिर्माणं पर्वॊक्तं तदनन्तरम

भूमिपर्व ततॊ जञेयं दवीपविस्तर कीर्तनम

56

पर्वॊक्तं भगवद गीता पर्व भीस्म वधस ततः

दरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः

57

अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते

जयद्रथवधः पर्व घटॊत्कच वधस ततः

58

ततॊ दरॊण वधः पर्व विज्ञेयं लॊमहर्षणम

मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते

59

कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम

हरद परवेशनं पर्व गदायुद्धम अतः परम

60

सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम

अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते

61

ऐषीकं पर्व निर्दिष्टम अत ऊर्ध्वं सुदारुणम

जलप्रदानिकं पर्व सत्री पर्व च ततः परम

62

शराद्धपर्व ततॊ जञेयं कुरूणाम और्ध्वदेहिकम

आभिषेचनिकं पर्व धर्मराजस्य धीमतः

63

चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः

परविभागॊ गृहाणां च पर्वॊक्तं तदनन्तरम

64

शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम

आपद धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम

65

ततः पर्व परिज्ञेयम आनुशासनिकं परम

सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः

66

तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम

अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम

67

पर्व चाश्रमवासाख्यं पुत्रदर्शनम एव च

नारदागमनं पर्व ततः परम इहॊच्यते

68

मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते

महाप्रस्थानिकं पर्व सवर्गारॊहणिकं ततः

69

हरि वंशस ततः पर्व पुराणं खिल संज्ञितम

भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाद्भुतं महत

70

एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना

यथावत सूतपुत्रेण लॊमहर्षणिना पुनः

71

कथितं नैमिषारण्ये पर्वाण्य अष्टादशैव तु

समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः

72

पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम

पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः

73

आस्तीके सर्वनागानां गरुडस्य च संभवः

कषीरॊदमथनं चैव जन्मॊच्छैः शरवसस तथा

74

यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च

कथेयम अभिनिर्वृत्ता भारतानां महात्मनाम

75

विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि

अन्येषां चैव विप्राणाम ऋषेर दवैपायनस्य च

76

अंशावतरणं चात्र देवानां परिकीर्तितम

दैत्यानां दानवानां च यक्षाणां च महौजसाम

77

नागानाम अथ सर्पाणां गन्धर्वाणां पतत्रिणाम

अन्येषां चैव भूतानां विविधानां समुद्भवः

78

वसूनां पुनर उत्पत्तिर भागीरथ्यां महात्मनाम

शंतनॊर वेश्मनि पुनस तेषां चारॊहणं दिवि

79

तेजॊ ऽंशानां च संघाताद भीष्मस्याप्य अत्र संभवः

राज्यान निवर्तनं चैव बरह्मचर्य वरते सथितिः

80

परतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च

हते चित्राङ्गदे चैव रक्षा भरातुर यवीयसः

81

विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम

धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा

82

कृष्णद्वैपायनाच चैव परसूतिर वरदानजा

धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः

83

वारणावत यात्रा च मन्त्रॊ दुर्यॊधनस्य च

विदुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया

84

पाण्डवानां वने घॊरे हिडिम्बायाश च दर्शनम

घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता

85

अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि

बकस्य निधनं चैव नागराणां च विस्मयः

86

अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तदा

भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ

87

तापत्यम अथ वासिष्ठम और्वं चाख्यानम उत्तमम

पञ्चेन्द्राणाम उपाख्यानम अत्रैवाद्भुतम उच्यते

88

पञ्चानाम एकपत्नीत्वे विमर्शॊ दरुपदस्य च

दरौपद्या देव विहितॊ विवाहश चाप्य अमानुषः

89

विदुरस्य च संप्राप्तिर दर्शनं केशवस्य च

खाण्डव परस्थवासश च तथा राज्यार्ध शासनम

90

नारदस्याज्ञया चैव दरौपद्याः समयक्रिया

सुन्दॊपसुन्दयॊस तत्र उपाख्यानं परकीर्तितम

91

पार्थस्य वनवासश च उलूप्या पथि संगमः

पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च

92

दवारकायां सुभद्रा च कामयानेन कामिनी

वासुदेवस्यानुमते पराप्ता चैव किरीटिना

93

हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने

संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च दाहनम

94

अभिमन्यॊः सुभद्रायां जन्म चॊत्तमतेजसः

मयस्य मॊक्षॊ जवलनाद भुजंगस्य च मॊक्षणम

महर्षेर मन्दपालस्य शार्ङ्ग्यं तनयसंभवः

95

इत्य एतद आधि पर्वॊक्तं परथमं बहुविस्तरम

अध्यायानां शते दवे तु संखाते परमर्षिणा

अष्टादशैव चाध्याया वयासेनॊत्तम तेजसा

96

सप्त शलॊकसहस्राणि तथा नव शतानि च

शलॊकाश च चतुराशीतिर दृष्टॊ गरन्थॊ महात्मना

97

दवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते

सभा करिया पाण्डवानां किंकराणां च दर्शनम

98

लॊकपाल सभाख्यानं नारदाद देव दर्शनात

राजसूयस्य चारम्भॊ जरासंध वधस तथा

99

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मॊक्षणम

राजसूये ऽरघ संवादे शिशुपाल वधस तथा

100

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च

दुर्यॊधनस्यावहासॊ भीमेन च सभा तले

101

यत्रास्य मन्युर उद्भूतॊ येन दयूतम अकारयत

यत्र धर्मसुतं दयूते शकुनिः कितवॊ ऽजयत

102

यत्र दयूतार्णवे मग्नान दरौपदी नौर इवार्णवात

तारयाम आस तांस तीर्णाञ जञात्वा दुर्यॊधनॊ नृपः

पुनर एव ततॊ दयूते समाह्वयत पाण्डवान

103

एतत सर्वं सभा पर्व समाख्यातं महात्मना

अध्यायाः सप्ततिर जञेयास तथा दवौ चात्र संख्यया

104

शलॊकानां दवे सहस्रे तु पञ्च शलॊकशतानि च

शलॊकाश चैकादश जञेयाः पर्वण्य अस्मिन परकीर्तिताः

105

अतः परं तृतीयं तु जञेयम आरण्यकं महत

पौरानुगमनं चैव धर्मपुत्रस्य धीमतः

106

वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः

यत्र सौभवधाख्यानं किर्मीरवध एव च

अस्त्रहेतॊर विवासश च पार्थस्यामित तेजसः

107

महादेवेन युद्धं च किरात वपुषा सह

दर्शनं लॊकपालानां सवर्गारॊहणम एव च

108

दर्शनं बृहदश्वस्य महर्षेर भावितात्मनः

युधिष्ठिरस्य चार्तस्य वयसने परिदेवनम

109

नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम

दमयन्त्याः सथितिर यत्र नलस्य वयसनागमे

110

वनवास गतानां च पाण्डवानां महात्मनाम

सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै

111

तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम

जटासुरस्य तत्रैव वधः समुपवर्ण्यते

112

नियुक्तॊ भीमसेनश च दरौपद्या गन्धमादने

यत्र मन्दारपुष्पार्थं नलिनीं ताम अधर्षयत

113

यत्रास्य सुमहद युद्धम अभवत सह राक्षसैः

यक्षैश चापि महावीर्यैर मणिमत परमुखैस तथा

114

आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम

लॊपामुद्राभिगमनम अपत्यार्थम ऋषेर अपि

115

ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम

इन्द्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम

116

ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः

जामदग्न्यस्य रामस्य चरितं भूरि तेजसः

117

कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते

सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः

118

शर्याति यज्ञे नासत्यौ कृतवान सॊमपीथिनौ

ताभ्यां च यत्र स मुनिर यौवनं परतिपादितः

119

जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः

पुत्रार्थम अयजद राजा लेभे पुत्रशतं च सः

120

अष्टावक्रीयम अत्रैव विवादे यत्र बन्दिनम

विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः

121

अवाप्य दिव्यान्य अस्त्राणि गुर्वर्थे सव्यसाचिना

निवातकवचैर युद्धं हिरण्यपुरवासिभिः

122

समागमश च पार्थस्य भरातृभिर गन्धमादने

घॊषयात्रा च गन्धर्वैर यत्र युद्धं किरीटिनः

123

पुनरागमनं चैव तेषां दवैतवनं सरः

जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात

124

यत्रैनम अन्वयाद भीमॊ वायुवेगसमॊ जवे

मार्कण्डेय समस्यायाम उपाख्यानानि भागशः

125

संदर्शनं च कृष्णस्य संवादश चैव सत्यया

वरीहि दरौणिकम आख्यानम ऐन्द्रद्युम्नं तथैव च

126

सावित्र्य औद्दालकीयं च वैन्यॊपाख्यानम एव च

रामायणम उपाख्यानम अत्रैव बहुविस्तरम

127

कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंदरात

आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम

जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम

128

एतद आरण्यकं पर्व तृतीयं परिकीर्तितम

अत्राध्याय शते दवे तु संख्याते परमर्षिणा

एकॊन सप्ततिश चैव तथाध्यायाः परकीर्तिताः

129

एकादश सहस्राणि शलॊकानां षट्शतानि च

चतुःषष्टिस तथा शलॊकाः पर्वैतत परिकीर्तितम

130

अतः परं निबॊधेदं वैराटं पर्व विस्तरम

विराटनगरं गत्वा शमशाने विपुलां शमीम

दृष्ट्वा संनिदधुस तत्र पाण्डवा आयुधान्य उत

131

यत्र परविश्य नगरं छद्मभिर नयवसन्त ते

दुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊदरात

132

गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि

गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः

133

विराटेनॊत्तरा दत्ता सनुषा यत्र किरीटिनः

अभिमन्युं समुद्दिश्य सौभद्रम अरिघातिनम

134

चतुर्थम एतद विपुलं वैराटं पर्व वर्णितम

अत्रापि परिसंख्यातम अध्यायानां महात्मना

135

सप्तषष्टिरथॊ पूर्णा शलॊकाग्रम अपि मे शृणु

शलॊकानां दवे सहस्रे तु शलॊकाः पञ्चाशद एव तु

पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा

136

उद्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम

उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया

दुर्यॊधनॊ ऽरजुनश चैव वासुदेवम उपस्थितौ

137

साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति

इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः

138

अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ

अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य अहम

139

वव्रे दुर्यॊधनः सैन्यं मन्दात्मा यत्र दुर्मतिः

अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः

140

संजयं परेषयाम आस शमार्थं पाण्डवान परति

यत्र दूतं महाराजॊ धृतराष्ट्रः परतापवान

141

शरुत्वा च पाण्डवान यत्र वासुदेव पुरॊगमान

परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया

142

विदुरॊ यत्र वाक्यानि विचित्राणि हितानि च

शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम

143

तथा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम

मनस्तापान्वितॊ राजा शरावितः शॊकलालसः

144

परभाते राजसमितौ संजयॊ यत्र चाभिभॊः

ऐकात्म्यं वासुदेवस्य परॊक्तवान अर्जुनस्य च

145

यत्र कृष्णॊ दयापन्नः संधिम इच्छन महायशाः

सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम

146

परत्याख्यानं च कृष्णस्य राज्ञा दुर्यॊधनेन वै

शमार्थं याचमानस्य पक्षयॊर उभयॊर हितम

147

कर्णदुर्यॊधनादीनां दुष्टं विज्ञाय मन्त्रितम

यॊगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम

148

रथम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः

उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः

149

ततश चाप्य अभिनिर्यात्रा रथाश्वनरदन्तिनाम

नगराद धास्तिन पुराद बलसंख्यानम एव च

150

यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति

शवॊ भाविनि महायुद्धे दूत्येन करूर वादिना

रथातिरथ संख्यानम अम्बॊपाख्यानम एव च

151

एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते

उद्यॊगपर्व निर्दिष्टं संधिविग्रहसंश्रितम

152

अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम

शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च

153

शलॊकाश च नवतिः परॊक्तास तथैवाष्टौ महात्मना

वयासेनॊदार मतिना पर्वण्य अस्मिंस तपॊधनाः

154

अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व परचक्षते

जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह

155

यत्र युद्धम अभूद घॊरं दशाहान्य अतिदारुणम

यत्र यौधिष्ठिरं सैन्यं विषादम अगमत परम

156

कश्मलं यत्र पार्थस्य वासुदेवॊ महामतिः

मॊहजं नाशयाम आस हेतुभिर मॊक्षदर्शनैः

157

शिखण्डिनं पुरस्कृत्य यत्र पार्थॊ महाधनुः

विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत

158

षष्ठम एतन महापर्व भारते परिकीर्तितम

अध्यायानां शतं परॊक्तं सप्त दश तथापरे

159

पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च

शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः

वयासेन वेदविदुषा संख्याता भीष्म पर्वणि

160

दरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते

यत्र संशप्तकाः पार्थम अपनिन्यू रणाजिरात

161

भगदत्तॊ महाराजॊ यत्र शक्रसमॊ युधि

सुप्रतीकेन नागेन सह शस्तः किरीटिना

162

यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारथाः

जयद्रथमुखा बालं शूरम अप्राप्तयौवनम

163

हते ऽभिमन्यौ करुद्धेन यत्र पार्थेन संयुगे

अक्षौहिणीः सप्त हत्वा हतॊ राजा जयद्रथः

संशप्तकावशेषं च कृतं निःशेषम आहवे

164

अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान

सौमदत्तिर विराटश च दरुपदश च महारथः

घटॊत्कचादयश चान्ये निहता दरॊण पर्वणि

165

अश्वत्थामापि चात्रैव दरॊणे युधि निपातिते

अस्त्रं परादुश्चकारॊग्रं नारायणम अमर्षितः

166

सप्तमं भारते पर्व महद एतद उदाहृतम

अत्र ते पृथिवीपालाः परायशॊ निधनं गताः

दरॊण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः

167

अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तथा

अष्टौ शलॊकसहस्राणि तथा नव शतानि च

168

शलॊका नव तथैवात्र संख्यातास तत्त्वदर्शिना

पाराशर्येण मुनिना संचिन्त्य दरॊण पर्वणि

169

अतः परं कर्ण पर्व परॊच्यते परमाद्भुतम

सारथ्ये विनियॊगश च मद्रराजस्य धीमतः

आख्यातं यत्र पौराणं तरिपुरस्य निपातनम

170

परयाणे परुषश चात्र संवादः कर्ण शल्ययॊः

हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम

171

अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः

दवैरथे यत्र पार्थेन हतः कर्णॊ महारथः

172

अष्टमं पर्व निर्दिष्टम एतद भारत चिन्तकैः

एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि

चत्वार्य एव सहस्राणि नव शलॊकशतानि च

173

अतः परं विचित्रार्थं शक्य पर्व परकीर्तितम

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरॊ ऽभवत

174

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः

विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते

175

शल्यस्य निधनं चात्र धर्मराजान महारथात

गदायुद्धं तु तुमुलम अत्रैव परिकीर्तितम

सरस्वत्याश च तीर्थानां पुण्यता परिकीर्तिता

176

नवमं पर्व निर्दिष्टम एतद अद्भुतम अर्थवत

एकॊन षष्टिर अध्यायास तत्र संख्या विशारदैः

177

संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते

तरीणि शलॊकसहस्राणि दवे शते विंशतिस तथा

मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम

178

अतः परं परवक्ष्यामि सौप्तिकं पर्व दारुणम

भग्नॊरुं यत्र राजानं दुर्यॊधनम अमर्षणम

179

वयपयातेषु पार्थेषु तरयस ते ऽभयाययू रथाः

कृतवर्मा कृपॊ दरौणिः सायाह्ने रुधिरॊक्षिताः

180

परतिजज्ञे दृढक्रॊधॊ दरौणिर यत्र महारथः

अहत्वा सर्वपाञ्चालान धृष्टद्युम्नपुरॊगमान

पाण्डवांश च सहामात्यान न विमॊक्ष्यामि दंशनम

181

परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः

पाञ्चालान सपरीवाराञ जघ्नुर दरौणिपुरॊगमाः

182

यत्रामुच्यन्त पार्थास ते पञ्च कृष्ण बलाश्रयात

सात्यकिश च महेष्वासः शेषाश च निधनं गताः

183

दरौपदी पुत्रशॊकार्ता पितृभ्रातृवधार्दिता

कृतानशन संकल्पा यत्र भर्तॄन उपाविशत

184

दरौपदी वचनाद यत्र भीमॊ भीमपराक्रमः

अन्वधावत संक्रुद्धॊ भरद्वाजं गुरॊः सुतम

185

भीमसेन भयाद यत्र दैवेनाभिप्रचॊदितः

अपाण्डवायेति रुषा दरौणिर अस्त्रम अवासृजत

186

मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तद वचः

यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः

187

दरौणिद्वैपायनादीनां शापाश चान्यॊन्य कारिताः

तॊयकर्मणि सर्वेषां राज्ञाम उदकदानिके

188

गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः

सुतस्यैतद इह परॊक्तं दशमं पर्व सौप्तिकम

189

अष्टादशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना

शलॊकाग्रम अत्र कथितं शतान्य अष्टौ तथैव च

190

शलॊकाश च सप्ततिः परॊक्ता यथावद अभिसंख्यया

सौप्तिकैषीक संबन्धे पर्वण्य अमितबुद्धिना

191

अत ऊर्ध्वम इदं पराहुः सत्री पर्व करुणॊदयम

विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः

करॊधावेशः परसादश च गान्धारी धृतराष्ट्रयॊः

192

यत्र तान कषत्रियाञ शूरान दिष्टान्तान अनिवर्तिनः

पुत्रान भरातॄन पितॄंश चैव ददृशुर निहतान रणे

193

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः

राज्ञां तानि शरीराणि दाहयाम आस शास्त्रतः

194

एतद एकादशं परॊक्तं पर्वातिकरुणं महत

सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उदाहृताः

195

शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते

संखया भारताख्यानं कर्त्रा हय अत्र महात्मना

परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम

196

अतः परं शान्ति पर्व दवादशं बुद्धिवर्धनम

यत्र निर्वेदम आपन्नॊ धर्मराजॊ युधिष्ठिरः

घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान

197

शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः

राजभिर वेदितव्या ये सम्यङ नयबुभुत्सुभिः

198

आपद धर्माश च तत्रैव कालहेतु परदर्शकाः

यान बुद्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात

मॊक्षधर्माश च कथिता विचित्रा बहुविस्तराः

199

दवादशं पर्व निर्दिष्टम एतत पराज्ञजनप्रियम

पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम

तरिंशच चैव तथाध्याया नव चैव तपॊधनाः

200

शलॊकानां तु सहस्राणि कीर्तितानि चतुर्दश

पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया

201

अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम

यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम

भीष्माद भागीरथी पुत्रात कुरुराजॊ युधिष्ठिरः

202

वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्थीयॊ निदर्शितः

विविधानां च दानानां फलयॊगाः पृथग्विधाः

203

तथा पात्रविशेषाश च दानानां च परॊ विधिः

आचार विधियॊगश च सत्यस्य च परा गतिः

204

एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम

भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता

205

एतत तरयॊदशं पर्व धर्मनिश्चय कारकम

अध्यायानां शतं चात्र षट चत्वारिंशद एव च

शलॊकानां तु सहस्राणि षट सप्तैव शतानि च

206

तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्दशम

तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम

207

सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः

दग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः

208

चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः

तत्र तत्र च युद्धानि राजपुत्रैर अमर्षणैः

209

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः

संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः

अश्वमेधे महायज्ञे नकुलाख्यानम एव च

210

इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाद्भुतम

अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्दिताः

211

तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च

विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना

212

तत आश्रमवासाक्यं पर्व पञ्चदशं समृतम

यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः

धृतराष्ट्राश्रमपदं विदुरश च जगाम ह

213

यं दृष्ट्वा परस्थितं साध्वी पृथाप्य अनुययौ तदा

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता

214

यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्थिवान

लॊकान्तर गतान वीरान अपश्यत पुनरागतान

215

ऋषेः परसादात कृष्णस्य दृष्ट्वाश्चर्यम अनुत्तमम

तयक्त्वा शॊकं सदारश च सिद्धिं परमिकां गतः

216

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः

संजयश च महामात्रॊ विद्वान गावल्गणिर वशी

217

ददर्श नारदं यत्र धर्मराजॊ युधिष्ठिरः

नारदाच चैव शुश्राव वृष्णीनां कदनं महत

218

एतद आश्रमवासाख्यं पूर्वॊक्तं सुमहाद्भुतम

दविचत्वारिंशद अध्यायाः पर्वैतद अभिसंख्यया

219

सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च

षड एव च तथा शलॊकाः संख्यातास तत्त्वदर्शिना

220

अतः परं निबॊधेदं मौसलं पर्व दारुणम

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि

बरह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः

221

आपाने पानगलिता दैवेनाभिप्रचॊदिताः

एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम

222

यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ

नातिचक्रमतुः कालं पराप्तं सर्वहरं समम

223

यत्रार्जुनॊ दवारवतीम एत्य वृष्णिविनाकृताम

दृष्ट्वा विषादम अगमत परां चार्तिं नरर्षभः

224

स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम आत्मनः

ददर्श यदुवीराणाम आपने वैशसं महत

225

शरीरं वासुदेवस्य रामस्य च महात्मनः

संस्कारं लम्भयाम आस वृष्णीनां च परधानतः

226

स वृद्धबालम आदाय दवारवत्यास ततॊ जनम

ददर्शापदि कष्टायां गाण्डीवस्य पराभवम

227

सर्वेषां चैव दिव्यानाम अस्त्राणाम अप्रसन्नताम

नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम

228

दृष्ट्वा निवेदम आपन्नॊ वयास वाक्यप्रचॊदितः

धर्मराजं समासाद्य संन्यासं समरॊचयत

229

इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम

अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम

230

महाप्रस्थानिकं तस्माद ऊर्ध्वं सप्त दशं समृतम

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः

दरौपद्या सहिता देव्या सिद्धिं परमिकां गताः

231

अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तथा

विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना

232

सवर्गपर्व ततॊ जञेयं दिव्यं यत तद अमानुषम

अध्यायाः पञ्च संख्याता पर्वैतद अभिसंख्यया

शलॊकानां दवे शते चैव परसंख्याते तपॊधनाः

233

अष्टादशैवम एतानि पर्वाण्य उक्तान्य अशेषतः

खिलेषु हरिवंशश च भविष्यच च परकीर्तितम

234

एतद अखिलम आख्यातं भारतं पर्व संग्रहात

अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया

तन महद दारुणं युद्धम अहान्य अष्टादशाभवत

235

यॊ विद्याच चतुरॊ वेदान साङ्गॊपनिषदान दविजः

न चाख्यानम इदं विद्यान नैव स सयाद विचक्षणः

236

शरुत्वा तव इदम उपाख्यानं शराव्यम अन्यन न रॊचते

पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव

237

इतिहासॊत्तमाद अस्माज जायन्ते कवि बुद्धयः

पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः

238

अस्याख्यानस्य विषये पुराणं वर्तते दविजाः

अन्तरिक्षस्य विषये परजा इव चतुर्विधाः

239

करिया गुणानां सर्वेषाम इदम आख्यानम आश्रयः

इन्द्रियाणां समस्तानां चित्रा इव मनः करियाः

240

अनाश्रित्यैतद आख्यानं कथा भुवि न विद्यते

आहारम अनपाश्रित्य शरीरस्येव धारणम

241

इदं सर्वैः कवि वरैर आख्यानम उपजीव्यते

उदयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः

242

दवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च

यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन

243

आख्यानं तद इदम अनुत्तमं महार्थं; विन्यस्तं महद इह पर्व संग्रहेण

शरुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा पलवेन

1

[rsayag]

samantapañcakam iti yad uktaṃ sūtanandana

etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam

2

[s]

śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ

samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ

3

tretā dvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ

asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣa codita

4

sa sarvaṃ kṣatram utsādya svavīryeṇānala dyutiḥ

samantapañcake pañca cakāra rudhirahradān

5

sa teṣu rudhirāmbhaḥsu hradeṣu krodhamūrcchitaḥ

pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam

6

atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham

taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha

7

teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām

samantapañcakam iti puṇyaṃ tatparikīrtitam

8

yena liṅgena yo deśo yuktaḥ samupalakṣyate

tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇa

9

antare caiva saṃprāpte kalidvāparayor abhūt

samantapañcake yuddhaṃ kurupāṇḍavasenayo

10

tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite

aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā

11

evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ

puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtita

12

tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ

yathā deśaḥ sa vikhyātas triṣu lokeṣu viśruta

13

[rsayag]

akṣauhiṇya iti proktaṃ yat tvayā sūtanandana

etad icchāmahe śrotuṃ sarvam eva yathātatham

14

akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām

yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava

15

[s]

eko ratho jagaś caiko narāḥ pañca padātayaḥ

trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate

16

pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ

trīṇi senāmukhāny eko gulma ity abhidhīyate

17

trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ

smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇai

18

camūs tu pṛtanās tisras tisraś camvas tv anīkinī

anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ

19

akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ

saṃkhyā gaṇita tattvajñaiḥ sahasrāṇy ekaviṃśati

20

atāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ

gajānāṃ tu parīmāṇam etad evātra nirdiśet

21

jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava

narāṇām api pañcāśac chatāni trīṇi cānaghāḥ

22

pañca ṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca

daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā

23

etām akṣauhiṇīṃ prāhuḥ saṃkhyā tattvavido janāḥ

yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ

24

etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ

akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ

25

sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ

kauravān kāraṇaṃ kṛtvā kālenādbhuta karmaṇā

26

ahāni yuyudhe bhīṣmo daśaiva paramāstravit

ahāni pañca droṇas tu rarakṣa kuru vāhinīm

27

ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ

śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param

28

tasyaiva tu dinasyānte hārdikya drauṇigautamāḥ

prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam

29

yat tu śaunaka satre tu bhāratākhyāna vistaram

ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param

30

vicitrārthapadākhyānam anekasamayānvitam

abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhi

31

tmeva veditavyeṣu priyeṣv iva ca jīvitam

itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam

32

itihāsottame hy asminn arpitā buddhir uttamā

kharavyañjanayoḥ kṛtsnā lokavedāśrayeva vāk

33

asya prajñābhipannasya vicitrapadaparvaṇaḥ

bhāratasyetihāsasya śrūyatāṃ parva saṃgraha

34

parvānukramaṇī pūrvaṃ dvitīyaṃ parva saṃgrahaḥ

pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam

35

tataḥ saṃbhava parvoktam adbhutaṃ devanirmitam

dāho jatu gṛhasyātra haiḍimbaṃ parva cocyate

36

tato bakavadhaḥ parva parva caitrarathaṃ tataḥ

tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate

37

kṣatradharmeṇa nirmitya tato vaivāhikaṃ smṛtam

vidurāgamanaṃ parva rājyalambhas tathaiva ca

38

arjunasya vanevāsaḥ subhadrāharaṇaṃ tataḥ

subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam

39

tataḥ khāṇḍava dāhākhyaṃ tatraiva maya darśanam

sabhā parva tataḥ proktaṃ mantraparva tataḥ param

40

jarāsaṃdha vadhaḥ parva parva dig vijayas tathā

parva dig vijayād ūrdhvaṃ rājasūyikam ucyate

41

tataś cārghābhiharaṇaṃ śiśupāla vadhas tataḥ

dyūtaparva tataḥ proktam anudyūtam ataḥ param

42

tata āraṇyakaṃ parva kirmīravadha eva ca

īśvarārjunayor yuddhaṃ parva kairāta saṃjñitam

43

indralokābhigamanaṃ parva jñeyam ataḥ param

tīrthayātrā tataḥ parva kururājasya dhīmata

44

jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param

tathaivājagaraṃ parva vijñeyaṃ tadanantaram

45

mārkaṇḍeya samasyā ca parvoktaṃ tadanantaram

saṃvādaś ca tataḥ parva draupadī satyabhāmayo

46

ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ

vrīhi drauṇikam ākhyānaṃ tato 'nantaram ucyate

47

draupadī haraṇaṃ parva saindhavena vanāt tataḥ

kuṇḍalāharaṇaṃ parva tataḥ param ihocyate

48

raṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram

kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tata

49

abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam

udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam

50

tataḥ saṃjaya yānākhyaṃ parva jñeyam ataḥ param

prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā

51

parva sānatsujātaṃ ca guhyam adhyātmadarśanam

yānasaṃdhis tataḥ parva bhagavad yānam eva ca

52

jñeyaṃ vivāda parvātra karṇasyāpi mahātmanaḥ

niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayo

53

rathātiratha saṃkhyā ca parvoktaṃ tadanantaram

ulūka dūtāgamanaṃ parvāmarṣa vivardhanam

54

ambopākhyānam api ca parva jñeyam ataḥ param

bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam

55

jambū khaṇḍa vinirmāṇaṃ parvoktaṃ tadanantaram

bhūmiparva tato jñeyaṃ dvīpavistara kīrtanam

56

parvoktaṃ bhagavad gītā parva bhīsma vadhas tataḥ

droṇābhiṣekaḥ parvoktaṃ saṃśaptaka vadhas tata

57

abhimanyuvadhaḥ parva pratijñā parva cocyate

jayadrathavadhaḥ parva ghaṭotkaca vadhas tata

58

tato droṇa vadhaḥ parva vijñeyaṃ lomaharṣaṇam

mokṣo nārāyaṇāstrasya parvānantaram ucyate

59

karṇa parva tato jñeyaṃ śalya parva tataḥ param

hrada praveśanaṃ parva gadāyuddham ataḥ param

60

sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam

ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate

61

aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam

jalapradānikaṃ parva strī parva ca tataḥ param

62

rāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam

ābhiṣecanikaṃ parva dharmarājasya dhīmata

63

cārvāka nigrahaḥ parva rakṣaso brahmarūpiṇaḥ

pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram

64

ś
nti parva tato yatra rājadharmānukīrtanam

āpad dharmaś ca parvoktaṃ mokṣadharmas tataḥ param

65

tataḥ parva parijñeyam ānuśāsanikaṃ param

svargārohaṇikaṃ parva tato bhīṣmasya dhīmata

66

tata āśvamedhikaṃ parva sarvapāpapraṇāśanam

anugītā tataḥ parva jñeyam adhyātmavācakam

67

parva cāśramavāsākhyaṃ putradarśanam eva ca

nāradāgamanaṃ parva tataḥ param ihocyate

68

mausalaṃ parva ca tato ghoraṃ samanuvarṇyate

mahāprasthānikaṃ parva svargārohaṇikaṃ tata

69

hari vaṃśas tataḥ parva purāṇaṃ khila saṃjñitam

bhaviṣyat parva cāpy uktaṃ khileṣv evādbhutaṃ mahat

70

etat parva śataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā

yathāvat sūtaputreṇa lomaharṣaṇinā puna

71

kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu

samāso bhāratasyāyaṃ tatroktaḥ parva saṃgraha

72

pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam

paulome bhṛguvaṃśasya vistāraḥ parikīrtita

73

stīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ

kṣīrodamathanaṃ caiva janmocchaiḥ śravasas tathā

74

yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca

katheyam abhinirvṛttā bhāratānāṃ mahātmanām

75

vividhāḥ saṃbhavā rājñām uktāḥ saṃbhava parvaṇi

anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca

76

aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam

daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām

77

nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām

anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhava

78

vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām

śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi

79

tejo 'ṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ

rājyān nivartanaṃ caiva brahmacarya vrate sthiti

80

pratijñā pālanaṃ caiva rakṣā citrāṅgadasya ca

hate citrāṅgade caiva rakṣā bhrātur yavīyasa

81

vicitravīryasya tathā rājye saṃpratipādanam

dharmasya nṛṣu saṃbhūtir aṇī māṇḍavya śāpajā

82

kṛṣṇadvaipāyanāc caiva prasūtir varadānajā

dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhava

83

vāraṇāvata yātrā ca mantro duryodhanasya ca

vidurasya ca vākyena suruṅgopakrama kriyā

84

pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam

ghaṭotkacasya cotpattir atraiva parikīrtitā

85

ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇa veśmani

bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismaya

86

aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā

bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau

87

tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam

pañcendrāṇām upākhyānam atraivādbhutam ucyate

88

pañcānām ekapatnītve vimarśo drupadasya ca

draupadyā deva vihito vivāhaś cāpy amānuṣa

89

vidurasya ca saṃprāptir darśanaṃ keśavasya ca

khāṇḍava prasthavāsaś ca tathā rājyārdha śāsanam

90

nāradasyājñayā caiva draupadyāḥ samayakriyā

sundopasundayos tatra upākhyānaṃ prakīrtitam

91

pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ

puṇyatīrthānusaṃyānaṃ babhru vāhana janma ca

92

dvārakāyāṃ subhadrā ca kāmayānena kāminī

vāsudevasyānumate prāptā caiva kirīṭinā

93

haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane

saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam

94

abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ

mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam

maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhava

95

ity etad ādhi parvoktaṃ prathamaṃ bahuvistaram

adhyāyānāṃ śate dve tu saṃkhāte paramarṣiṇā

aṣṭādaśaiva cādhyāyā vyāsenottama tejasā

96

sapta ślokasahasrāṇi tathā nava śatāni ca

ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā

97

dvitīyaṃ tu sabhā parva bahu vṛttāntam ucyate

sabhā kriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam

98

lokapāla sabhākhyānaṃ nāradād deva darśanāt

rājasūyasya cārambho jarāsaṃdha vadhas tathā

99

girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam

rājasūye 'rgha saṃvāde śiśupāla vadhas tathā

100

yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca

duryodhanasyāvahāso bhīmena ca sabhā tale

101

yatrāsya manyur udbhūto yena dyūtam akārayat

yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat

102

yatra dyūtārṇave magnān draupadī naur ivārṇavāt

tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ

punar eva tato dyūte samāhvayata pāṇḍavān

103

etat sarvaṃ sabhā parva samākhyātaṃ mahātmanā

adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā

104

lokānāṃ dve sahasre tu pañca ślokaśatāni ca

ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ

105

ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat

paurānugamanaṃ caiva dharmaputrasya dhīmata

106

vṛṣṇnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ

yatra saubhavadhākhyānaṃ kirmīravadha eva ca

astrahetor vivāsaś ca pārthasyāmita tejasa

107

mahādevena yuddhaṃ ca kirāta vapuṣā saha

darśanaṃ lokapālānāṃ svargārohaṇam eva ca

108

darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ

yudhiṣṭhirasya cārtasya vyasane paridevanam

109

nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam

damayantyāḥ sthitir yatra nalasya vyasanāgame

110

vanavāsa gatānāṃ ca pāṇḍavānāṃ mahātmanām

svarge pravṛttir ākhyātā lomaśenārjunasya vai

111

tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām

jaṭāsurasya tatraiva vadhaḥ samupavarṇyate

112

niyukto bhīmasenaś ca draupadyā gandhamādane

yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat

113

yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ

yakṣaiś cāpi mahāvīryair maṇimat pramukhais tathā

114

gastyam api cākhyānaṃ yatra vātāpi bhakṣaṇam

lopāmudrābhigamanam apatyārtham ṛṣer api

115

tataḥ śyenakapotīyam upākhyānam anantaram

indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam

116

ya śṛṅgasya caritaṃ kaumāra brahmacāriṇaḥ

jāmadagnyasya rāmasya caritaṃ bhūri tejasa

117

kārtavīrya vadho yatra haihayānāṃ ca varṇyate

saukanyam api cākhyānaṃ cyavano yatra bhārgava

118

aryāti yajñe nāsatyau kṛtavān somapīthinau

tābhyāṃ ca yatra sa munir yauvanaṃ pratipādita

119

jantūpākhyānam atraiva yatra putreṇa somakaḥ

putrārtham ayajad rājā lebhe putraśataṃ ca sa

120

aṣṭāvakrīyam atraiva vivāde yatra bandinam

vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣi

121

avāpya divyāny astrāṇi gurvarthe savyasācinā

nivātakavacair yuddhaṃ hiraṇyapuravāsibhi

122

samāgamaś ca pārthasya bhrātṛbhir gandhamādane

ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭina

123

punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ

jayadrathenāpahāro draupadyāś cāśramāntarāt

124

yatrainam anvayād bhīmo vāyuvegasamo jave

mārkaṇḍeya samasyāyām upākhyānāni bhāgaśa

125

saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā

vrīhi drauṇikam ākhyānam aindradyumnaṃ tathaiva ca

126

sāvitry auddālakīyaṃ ca vainyopākhyānam eva ca

rāmāyaṇam upākhyānam atraiva bahuvistaram

127

karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt

āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam

jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam

128

etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam

atrādhyāya śate dve tu saṃkhyāte paramarṣiṇā

ekona saptatiś caiva tathādhyāyāḥ prakīrtitāḥ

129

ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca

catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam

130

ataḥ paraṃ nibodhedaṃ vairāṭaṃ parva vistaram

virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm

dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta

131

yatra praviśya nagaraṃ chadmabhir nyavasanta te

durātmano vadho yatra kīcakasya vṛkodarāt

132

gograhe yatra pārthena nirjitāḥ kuravo yudhi

godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavai

133

virāṭenottarā dattā snuṣā yatra kirīṭinaḥ

abhimanyuṃ samuddiśya saubhadram arighātinam

134

caturtham etad vipulaṃ vairāṭaṃ parva varṇitam

atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā

135

saptaṣaṣṭiratho pūrṇā ślokāgram api me śṛṇu

ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu

parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā

136

udyogaparva vijñeyaṃ pañcamaṃ śṛvataḥ param

upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā

duryodhano 'rjunaś caiva vāsudevam upasthitau

137

sāhāyyam asmin samare bhavān nau kartum arhati

ity ukte vacane kṛṣṇo yatrovāca mahāmati

138

ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau

akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham

139

vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ

ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjaya

140

saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati

yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān

141

rutvā ca pāṇḍavān yatra vāsudeva purogamān

prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā

142

viduro yatra vākyāni vicitrāṇi hitāni ca

śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam

143

tathā sanatsujātena yatrādhyātmam anuttamam

manastāpānvito rājā śrāvitaḥ śokalālasa

144

prabhāte rājasamitau saṃjayo yatra cābhibhoḥ

aikātmyaṃ vāsudevasya proktavān arjunasya ca

145

yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ

svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam

146

pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai

śamārthaṃ yācamānasya pakṣayor ubhayor hitam

147

karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam

yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam

148

ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ

upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena sa

149

tataś cāpy abhiniryātrā rathāśvanaradantinām

nagarād dhāstina purād balasaṃkhyānam eva ca

150

yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati

śvo bhāvini mahāyuddhe dūtyena krūra vādinā

rathātiratha saṃkhyānam ambopākhyānam eva ca

151

etat subahu vṛttāntaṃ pañcamaṃ parva bhārate

udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam

152

adhyāyāḥ saṃkhyayā tv atra ṣaḍ aśīti śataṃ smṛtam

ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca

153

lokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā

vyāsenodāra matinā parvaṇy asmiṃs tapodhanāḥ

154

ata ūrdhvaṃ vicitrārthaṃ bhīṣma parva pracakṣate

jambū khaṇḍa vinirmāṇaṃ yatroktaṃ saṃjayena ha

155

yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam

yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param

156

kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ

mohajaṃ nāśayām āsa hetubhir mokṣadarśanai

157

ikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ

vinighnan niśitair bāṇai rathād bhīṣmam apātayat

158

aṣṭham etan mahāparva bhārate parikīrtitam

adhyāyānāṃ śataṃ proktaṃ sapta daśa tathāpare

159

pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca

ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ

vyāsena vedaviduṣā saṃkhyātā bhīṣma parvaṇi

160

droṇa parva tataś citraṃ bahu vṛttāntam ucyate

yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt

161

bhagadatto mahārājo yatra śakrasamo yudhi

supratīkena nāgena saha śastaḥ kirīṭinā

162

yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ

jayadrathamukhā bālaṃ śūram aprāptayauvanam

163

hate 'bhimanyau kruddhena yatra pārthena saṃyuge

akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ

saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave

164

alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān

saumadattir virāṭaś ca drupadaś ca mahārathaḥ

ghaṭotkacādayaś cānye nihatā droṇa parvaṇi

165

aśvatthāmāpi cātraiva droṇe yudhi nipātite

astraṃ prāduścakārograṃ nārāyaṇam amarṣita

166

saptamaṃ bhārate parva mahad etad udāhṛtam

atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ

droṇa parvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ

167

adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā

aṣṭau ślokasahasrāṇi tathā nava śatāni ca

168

lokā nava tathaivātra saṃkhyātās tattvadarśinā

pārāśaryeṇa muninā saṃcintya droṇa parvaṇi

169

ataḥ paraṃ karṇa parva procyate paramādbhutam

sārathye viniyogaś ca madrarājasya dhīmataḥ

ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam

170

prayāṇe paruṣaś cātra saṃvādaḥ karṇa śalyayoḥ

haṃsakākīyam ākhyānam atraivākṣepa saṃhitam

171

anyonyaṃ prati ca krodho yudhiṣṭhira kirīṭinoḥ

dvairathe yatra pārthena hataḥ karṇo mahāratha

172

aṣṭamaṃ parva nirdiṣṭam etad bhārata cintakaiḥ

ekona saptatiḥ proktā adhyāyāḥ karṇa parvaṇi

catvāry eva sahasrāṇi nava ślokaśatāni ca

173

ataḥ paraṃ vicitrārthaṃ śakya parva prakīrtitam

hatapravīre sainye tu netā madreśvaro 'bhavat

174

vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ

vināśaḥ kurumukhyānāṃ śalya parvaṇi kīrtyate

175

alyasya nidhanaṃ cātra dharmarājān mahārathāt

gadāyuddhaṃ tu tumulam atraiva parikīrtitam

sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā

176

navamaṃ parva nirdiṣṭam etad adbhutam arthavat

ekona ṣaṣṭir adhyāyās tatra saṃkhyā viśāradai

177

saṃkhyātā bahu vṛttāntāḥ ślokāgraṃ cātra śasyate

trīṇi ślokasahasrāṇi dve śate viṃśatis tathā

muninā saṃpraṇītāni kauravāṇāṃ yaśo bhṛtām

178

ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam

bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam

179

vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ

kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ

180

pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ

ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān

pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam

181

prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ

pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ

182

yatrāmucyanta pārthās te pañca kṛṣṇa balāśrayāt

sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ

183

draupadī putraśokārtā pitṛbhrātṛvadhārditā

kṛtānaśana saṃkalpā yatra bhartṝn upāviśat

184

draupadī vacanād yatra bhīmo bhīmaparākramaḥ

anvadhāvata saṃkruddho bharadvājaṃ guroḥ sutam

185

bhīmasena bhayād yatra daivenābhipracoditaḥ

apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat

186

maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ

yatrāstram astreṇa ca tac chamayām āsa phālguna

187

drauṇidvaipāyanādīnāṃ śāpāś cānyonya kāritāḥ

toyakarmaṇi sarveṣāṃ rājñām udakadānike

188

gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ

sutasyaitad iha proktaṃ daśamaṃ parva sauptikam

189

aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā

ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca

190

lokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā

sauptikaiṣīka saṃbandhe parvaṇy amitabuddhinā

191

ata ūrdhvam idaṃ prāhuḥ strī parva karuṇodayam

vilāpo vīra patnīnāṃ yatrātikaruṇaḥ smṛtaḥ

krodhāveśaḥ prasādaś ca gāndhārī dhṛtarāṣṭrayo

192

yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ

putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe

193

yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ

rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrata

194

etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat

sapta viṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ

195

lokāḥ saptaśataṃ cātra pañca saptatir ucyate

saṃkhayā bhāratākhyānaṃ kartrā hy atra mahātmanā

praṇītaṃ sajjana mano vaiklavyāśru pravartakam

196

ataḥ paraṃ śānti parva dvādaśaṃ buddhivardhanam

yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ

ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān

197

ś
nti parvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ

rājabhir veditavyā ye samyaṅ nayabubhutsubhi

198

pad dharmāś ca tatraiva kālahetu pradarśakāḥ

yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt

mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ

199

dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam

parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam

triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ

200

lokānāṃ tu sahasrāṇi kīrtitāni caturdaśa

pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā

201

ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam

yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam

bhīṣmād bhāgīrathī putrāt kururājo yudhiṣṭhira

202

vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ

vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ

203

tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ

ācāra vidhiyogaś ca satyasya ca parā gati

204

etat subahu vṛttāntam uttamaṃ cānuśāsanam

bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā

205

etat trayodaśaṃ parva dharmaniścaya kārakam

adhyāyānāṃ śataṃ cātra ṣaṭ catvāriṃśad eva ca

ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca

206

tata āśvamedhikaṃ nāma parva proktaṃ caturdaśam

tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam

207

suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ

dagdhasyāstrāgninā pūrvaṃ kṛṣṇt saṃjīvanaṃ puna

208

caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ

tatra tatra ca yuddhāni rājaputrair amarṣaṇai

209

citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ

saṃgrāme babhru vāhena saṃśayaṃ cātra darśitaḥ

aśvamedhe mahāyajñe nakulākhyānam eva ca

210

ity āśvamedhikaṃ parva proktam etan mahādbhutam

atrādhyāya śataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ

211

trīṇi ślokasahasrāṇi tāvanty eva śatāni ca

viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā

212

tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam

yatra rājyaṃ parityajya gāndhārī sahito nṛpaḥ

dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha

213

yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā

putrarājyaṃ parityajya guruśuśrūṣaṇe ratā

214

yatra rājā hatān putrān pautrān anyāṃś ca pārthivān

lokāntara gatān vīrān apaśyat punarāgatān

215

eḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam

tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gata

216

yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ

saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī

217

dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ

nāradāc caiva śuśrāva vṛṣṇnāṃ kadanaṃ mahat

218

etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam

dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā

219

sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca

ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā

220

ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam

yatra te puruṣavyāghrāḥ śastrasparśa sahā yudhi

brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasa

221

pāne pānagalitā daivenābhipracoditāḥ

erakā rūpibhir vajrair nijaghnur itaretaram

222

yatra sarvakṣayaṃ kṛtvā tāv ubhau rāma keśavau

nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam

223

yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām

dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabha

224

sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ

dadarśa yaduvīrāṇām āpane vaiśasaṃ mahat

225

arīraṃ vāsudevasya rāmasya ca mahātmanaḥ

saṃskāraṃ lambhayām āsa vṛṣṇnāṃ ca pradhānata

226

sa vṛddhabālam ādāya dvāravatyās tato janam

dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam

227

sarveṣāṃ caiva divyānām astrāṇām aprasannatām

nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām

228

dṛṣṭvā nivedam āpanno vyāsa vākyapracoditaḥ

dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat

229

ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam

adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam

230

mahāprasthānikaṃ tasmād ūrdhvaṃ sapta daśaṃ smṛtam

yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ

draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ

231

atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā

viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā

232

svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam

adhyāyāḥ pañca saṃkhyātā parvaitad abhisaṃkhyayā

ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ

233

aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ

khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam

234

etad akhilam ākhyātaṃ bhārataṃ parva saṃgrahāt

aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā

tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat

235

yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ

na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇa

236

rutvā tv idam upākhyānaṃ śrāvyam anyan na rocate

puṃḥ kokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva

237

itihāsottamād asmāj jāyante kavi buddhayaḥ

pañcabhya iva bhūtebhyo lokasaṃvidhayas traya

238

asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ

antarikṣasya viṣaye prajā iva caturvidhāḥ

239

kriyā guṇānāṃ sarveṣām idam ākhyānam āśrayaḥ

indriyāṇāṃ samastānāṃ citrā iva manaḥ kriyāḥ

240

anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate

āhāram anapāśritya śarīrasyeva dhāraṇam

241

idaṃ sarvaiḥ kavi varair ākhyānam upajīvyate

udayaprepsubhir bhṛtyair abhijāta iveśvara

242

dvaipāyanauṣṭha puṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca

yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkara jalair abhiṣecanena

243

khyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parva saṃgraheṇa

śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 2