Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 3

Book 1. Chapter 3

The Mahabharata In Sanskrit


Book 1

Chapter 3

1

[सूत]

जनमेजयः पारिक्षितः सह भरातृभिः कुरुक्षेत्रे दीर्घसत्त्रम उपास्ते

तस्य भरातरस तरयः शरुतसेनॊग्रसेनॊ भीमसेन इति

2

तेषु तत सत्रम उपासीनेषु तत्र शवाभ्यागच्छत सारमेयः

सजनमेजयस्य भरातृभिर अभिहतॊ रॊरूयमाणॊ मातुः समीपम उपागच्छत

3

तं माता रॊरूयमाणम उवाच

किं रॊदिषि

केनास्य अभिहत इति

4

स एवम उक्तॊ मातरं परत्युवाच

जनमेजयस्य भरातृभिर अभिहतॊ ऽसमीति

5

तं माता परत्युवाच

वयक्तं तवया तत्रापराद्धं येनास्य अभिहत इति

6

स तां पुनर उवाच

नापराध्यामि किं चित

नावेक्षे हवींषि नावलिह इति

7

तच छरुत्वा तस्य माता सरमा पुत्रशॊकार्ता तत सत्रम उपागच्छद यत्र सजनमेजयः सह भरातृभिर दीर्घसत्रम उपास्ते

8

स तया करुद्धया तत्रॊक्तः

अयं मे पुत्रॊ न किं चिद अपराध्यति

किमर्थम अभिहत इति

यस्माच चायम अभिहतॊ ऽनपकारी तस्माद अदृष्टं तवां भयम आगमिष्यतीति

9

सजनमेजय एवम उक्तॊ देव शुन्या सरमया दृढं संभ्रान्तॊ विषण्णश चासीत

10

स तस्मिन सत्रे समाप्ते हास्तिनपुरं परत्येत्य पुरॊहितम अनुरूपम अन्विच्छमानः परं यत्नम अकरॊद यॊ मे पापकृत्यां शमयेद इति

11

स कदा चिन मृगयां यातः पारिक्षितॊ जनमेजयः कस्मिंश चित सवविषयॊद्देशे आश्रमम अपश्यत

12

तत्र कश चिद ऋषिर आसां चक्रे शरुतश्रवा नाम

तस्याभिमतः पुत्र आस्ते सॊमश्रवा नाम

13

तस्य तं पुत्रम अभिगम्य जनमेजयः पारिक्षितः पौरॊहित्याय वव्रे

14

स नमस्कृत्य तम ऋषिम उवाच

भगवन्न अयं तव पुत्रॊ मम पुरॊहितॊ ऽसत्व इति

15

स एवम उक्तः परत्युवाच

भॊ जनमेजय पुत्रॊ ऽयं मम सर्प्यां जातः

महातपस्वी सवाध्यायसंपन्नॊ मत तपॊ वीर्यसंभृतॊ मच छुक्रं पीतवत्यास तस्याः कुक्षौ संवृद्धः

समर्थॊ ऽयं भवतः सर्वाः पापकृत्याः शमयितुम अन्तरेण महादेव कृत्याम

अस्य तव एकम उपांशु वरतम

यद एनं कश चिद बराह्मणः कं चिद अर्थम अभियाचेत तं तस्मै दद्याद अयम

यद्य एतद उत्सहसे ततॊ नयस्वैनम इति

16

तेनैवम उत्कॊ जनमेजयस तं परत्युवाच

भगवंस तथा भविष्यतीति

17

स तं पुरॊहितम उपादायॊपावृत्तॊ भरातॄन उवाच

मयायं वृत उपाध्यायः

यद अयं बरूयात तत कार्यम अविचारयद्भिर इति

18

तेनैवम उक्ता भरातरस तस्य तथा चक्रुः

स तथा भरातॄन संदिश्य तक्षशिलां परत्यभिप्रतस्थे

तं च देशं वशे सथापयाम आस

19

एतस्मिन्न अन्तरे कश चिद ऋषिर धौम्यॊ नामायॊदः

20

स एकं शिष्यम आरुणिं पाञ्चाल्यं परेषयाम आस

गच्छ केदारखण्डं बधानेति

21

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस तत्र गत्वा तत केदारखण्डं बद्धुं नाशक्नॊत

22

स कलिश्यमानॊ ऽपश्यद उपायम

भवत्व एवं करिष्यामीति

23

स तत्र संविवेश केदारखण्डे

शयाने तस्मिंस तद उदकं तस्थौ

24

ततः कदा चिद उपाध्याय आयॊदॊ धौम्यः शिष्यान अपृच्छत

कव आरुणिः पाञ्चाल्यॊ गत इति

25

ते परत्यूचुः

भगवतैव परेषितॊ गच्छ केदारखण्डं बधानेति

26

स एवम उक्तस ताञ शिष्यान परत्युवाच

तस्मात सर्वे तत्र गच्छामॊ यत्र स इति

27

स तत्र गत्वा तस्याह्वानाय शब्दं चकार

भॊ आरुणे पाञ्चाल्य कवासि

वत्सैहीति

28

स तच छरुत्वा आरुणिर उपाध्याय वाक्यं तस्मात केदारखण्डात सहसॊत्थाय तम उपाध्यायम उपतस्थे

परॊवाच चैनम

अयम अस्म्य अत्र केदारखण्डे निःसरमाणम उदकम अवारणीयं संरॊद्धुं संविष्टॊ भगवच छब्दं शरुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम उपस्थितः

तद अभिवादये भगवन्तम

आज्ञापयतु भवान

किं करवाणीति

29

तम उपाध्यायॊ ऽबरवीत

यस्माद भवान केदारखण्डम अवदार्यॊत्थितस तस्माद भवान उद्दालक एव नाम्ना भविष्यतीति

30

स उपाध्यायेनानुगृहीतः

यस्मात तवया मद्वचॊ ऽनुष्ठितं तस्माच छरेयॊ ऽवाप्स्यसीति

सर्वे च ते वेदाः परतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति

31

स एवम उक्त उपाध्यायेनेष्टं देशं जगाम

32

अथापरः शिष्यस तस्यैवायॊदस्य दौम्यस्यॊपमन्युर नाम

33

तम उपाध्यायः परेषयाम आस

वत्सॊपमन्यॊ गा रक्षस्वेति

34

स उपाध्याय वचनाद अरक्षद गाः

स चाहनि गा रक्षित्वा दिवसक्षये ऽभयागम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे

35

तम उपाध्यायः पीवानम अपश्यत

उवाच चैनम

वत्सॊपमन्यॊ केन वृत्तिं कल्पयसि

पीवान असि दृढम इति

36

स उपाध्यायं परत्युवाच

भैक्षेण वृत्तिं कल्पयामीति

37

तम उपाध्यायः परत्युवाच

ममानिवेद्य भैक्षं नॊपयॊक्तव्यम इति

38

स तथेत्य उक्त्वा पुनर अरक्षद गाः

रक्षित्वा चागम्य तथैवॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे

39

तम उपाध्यायस तथापि पीवानम एव दृष्ट्वॊवाच

वत्सॊपमन्यॊ सर्वम अशेषतस ते भैक्षं गृह्णामि

केनेदानीं वृत्तिं कल्पयसीति

40

स एवम उक्त उपाध्यायेन परत्युवाच

भगवते निवेद्य पूर्वम अपरं चरामि

तेन वृत्तिं कल्पयामीति

41

तम उपाध्यायः परत्युवाच

नैषा नयाय्या गुरुवृत्तिः

अन्येषाम अपि वृत्त्युपरॊधं करॊष्य एवं वर्तमानः

लुब्धॊ ऽसीति

42

स तथेत्य उक्त्वा गा अरक्षत

रक्षित्वा च पुनर उपाध्याय गृहम आगम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे

43

तम उपाध्यायस तथापि पीवानम एव दृष्ट्वा पुनर उवाच

अहं ते सर्वं भैक्षं गृह्णामि न चान्यच चरसि

पीवान असि

केन वृत्तिं कल्पयसीति

44

स उपाध्यायं परत्युवाच

भॊ एतासां गवां पयसा वृत्तिं कल्पयामीति

45

तम उपाध्यायः परत्युवाच

नैतन नयाय्यं पय उपयॊक्तुं भवतॊ मयाननुज्ञातम इति

46

स तथेति परतिज्ञाय गा रक्षित्वा पुनर उपाध्याय गृहान एत्य पुरॊर अग्रतः सथित्वा नमश चक्रे

47

तम उपाध्यायः पीवानम एवापश्यत

उवाच चैनम

भैक्षं नाश्नासि न चान्यच चरसि

पयॊ न पिबसि

पीवान असि

केन वृत्तिं कल्पयसीति

48

स एवम उक्त उपाध्यायं परत्युवाच

भॊः फेनं पिबामि यम इमे वत्सा मातॄणां सतनं पिबन्त उद्गिरन्तीति

49

तम उपाध्यायः परत्युवाच

एते तवद अनुकम्पया गुणवन्तॊ वत्साः परभूततरं फेनम उद्गिरन्ति

तद एवम अपि वत्सानां वृत्त्युपरॊधं करॊष्य एवं वर्तमानः

फेनम अपि भवान न पातुम अर्हतीति

50

स तथेति परतिज्ञाय निराहारस ता गा अरक्षत

तथा परतिषिद्धॊ भैक्षं नाश्नाति न चान्यच चरति

पयॊ न पिबति

फेनं नॊपयुङ्क्ते

51

स कदा चिद अरण्ये कषुधार्तॊ ऽरकपत्राण्य अभक्षयत

52

स तैर अर्कपत्रैर भक्षितैः कषार कटूष्ण विपाकिभिश चक्षुष्य उपहतॊ ऽनधॊ ऽभवत

सॊ ऽनधॊ ऽपि चङ्क्रम्यमाणः कूपे ऽपतत

53

अथ तस्मिन्न अनागच्छत्य उपाध्यायः शिष्यान अवॊचत

मयॊपमन्युः सर्वतः परतिषिद्धः

स नियतं कुपितः

ततॊ नागच्छति चिरगतश चेति

54

स एवम उक्त्वा गत्वारण्यम उपमन्यॊर आह्वानं चक्रे

भॊ उपमन्यॊ कवासि

वत्सैहीति

55

स तदाह्वानम उपाध्यायाच छरुत्वा परत्युवाचॊच्चैः

अयम अस्मि भॊ उपाध्याय कूपे पतित इति

56

तम उपाध्यायः परत्युवाच

कथम असि कूपे पतित इति

57

स तं परत्युवाच

अर्कपत्राणि भक्षयित्वान्धी भूतॊ ऽसमि

अतः कूपे पतित इति

58

तम उपाध्यायः परत्युवाच

अश्विनौ सतुहि

तौ तवां चक्षुष्मन्तं करिष्यतॊ देव भिषजाव इति

59

स एवम उक्त उपाध्यायेन सतॊतुं परचक्रमे देवाव अश्विनौ वाग्भिर ऋग्भिः

60

परपूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव अनन्तौ

दिव्यौ सुपर्णौ विरजौ विमानाव; अधिक्षियन्तौ भुवनानि विश्वा

61

हिरण्मयौ शकुनी साम्परायौ; नासत्य दस्रौ सुनसौ वैजयन्तौ

शुक्रं वयन्तौ तरसा सुवेमाव; अभि वययन्ताव असितं विवस्वत

62

गरस्तां सुपर्णस्य बलेन वर्तिकाम; अमुञ्चताम अश्विनौ सौभगाय

तावत सुवृत्ताव अनमन्त मायया; सत्तमा गा अरुणा उदावहन

63

षष्टिश च गावस तरिशताश च धेनव; एकं वत्सं सुवते तं दुहन्ति

नाना गॊष्ठा विहिता एकदॊहनास; ताव अश्विनौ दुहतॊ घर्मम उक्थ्यम

64

एकां नाभिं सप्तशता अराः शरिताः; परधिष्व अन्या विंशतिर अर्पिता अराः

अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी

65

एकं चक्रं वर्तते दवादशारं; परधि षण णाभिम एकाक्षम अमृतस्य धारणम

यस्मिन देवा अधि विश्वे विषक्तास; ताव अश्विनौ मुञ्चतॊ मा विषीदतम

66

अश्विनाव इन्द्रम अमृतं वृत्तभूयौ; तिरॊधत्ताम अश्विनौ दासपत्नी

भित्त्वा गिरिम अश्विनौ गाम उदाचरन्तौ; तद वृष्टम अह्ना परथिता वलस्य

67

युवां दिशॊ जनयथॊ दशाग्रे; समानं मूर्ध्नि रथया वियन्ति

तासां यातम ऋषयॊ ऽनुप्रयान्ति; देवा मनुष्याः कषितिम आचरन्ति

68

युवां वर्णान विकुरुथॊ विश्वरूपांस; ते ऽधिक्षियन्ति भुवनानि विश्वा

ते भानवॊ ऽपय अनुसृताश चरन्ति; देवा मनुष्याः कषितिम आचरन्ति

69

तौ नासत्याव अश्विनाव आमहे वां; सरजं च यां बिभृथः पुष्करस्य

तौ नासत्याव अमृतावृतावृधाव; ऋते देवास तत परपदेन सूते

70

मुखेन गर्भं लभतां युवानौ; गतासुर एतत परपदेन सूते

सद्यॊ जातॊ मातरम अत्ति गर्भस ताव; अश्विनौ मुञ्चथॊ जीवसे गाः

71

एवं तेनाभिष्टुताव अश्विनाव आजग्मतुः

आहतुश चैनम

परीतौ सवः

एष ते ऽपूपः

अशानैनम इति

72

स एवम उतः परत्युवाच

नानृतम ऊचतुर भवन्तौ

न तव अहम एतम अपूपम उपयॊक्तुम उत्सहे अनिवेद्य गुरव इति

73

ततस तम अश्विनाव ऊचतुः

आवाभ्यां पुरस्ताद भवत उपाध्यायेनैवम एवाभिष्टुताभ्याम अपूपः परीताभ्यां दत्तः

उपयुक्तश च स तेनानिवेद्य गुरवे

तवम अपि तथैव कुरुष्व यथा कृतम उपाध्यायेनेति

74

स एवम उक्तः पुनर एव परत्युवाचैतौ

परत्यनुनये भवन्ताव अश्विनौ

नॊत्सहे ऽहम अनिवेद्यॊपाध्यायायॊपयॊक्तुम इति

75

तम अश्विनाव आहतुः

परीतौ सवस तवानया गुरुवृत्त्या

उपाध्यायस्य ते कार्ष्णायसा दन्ताः

भवतॊ हिरण्मया भविष्यन्ति

चक्षुष्मांश च भविष्यसि

शरेयश चावाप्स्यसीति

76

स एवम उक्तॊ ऽशविभ्यां लब्धचक्षुर उपाध्याय सकाशम आगम्यॊपाध्यायम अभिवाद्याचचक्षे

स चास्य परीतिमान अभूत

77

आह चैनम

यथाश्विनाव आहतुस तथा तवं शरेयॊ ऽवाप्स्यसीति

सर्वे च ते वेदाः परतिभास्यन्तीति

78

एषा तस्यापि परीक्षॊपमन्यॊः

79

अथापरः शिष्यस तस्यैवायॊदस्य धौम्यस्य वेदॊ नाम

80

तम उपाध्यायः संदिदेश

वत्स वेद इहास्यताम

भवता मद्गृहे कं चित कालं शुश्रूषमाणेन भवितव्यम

शरेयस ते भविष्यतीति

81

स तथेत्य उक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरॊ ऽवसत

गौर इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतॊष्णक्षुत तृष्णा दुःखसहः सर्वत्राप्रतिकूलः

82

तस्य महता कालेन गुरुः परितॊषं जगाम

तत्परितॊषाच च शरेयः सर्वज्ञतां चावाप

एषा तस्यापि परीक्षा वेदस्य

83

स उपाध्यायेनानुज्ञातः समावृत्तस तस्माद गुरु कुलवासाद गृहाश्रमं परत्यपद्यत

तस्यापि सवगृहे वसतस तरयः शिष्या बभूवुः

84

स शिष्यान न किं चिद उवाच

कर्म वा करियतां गुरुशुश्रूषा वेति

दुःखाभिज्ञॊ हि गुरु कुलवासस्य शिष्यान परिक्लेशेन यॊजयितुं नेयेष

85

अथ कस्य चित कालस्य वेदं बराह्मणं जनमेजयः पौष्यश च कषत्रियाव उपेत्यॊपाध्यायं वरयां चक्रतुः

86

स कदा चिद याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियॊजयाम आस

भॊ उत्तङ्क यत किं चिद अस्मद गृहे परिहीयते यद इच्छाम्य अहम अपरिहीणं भवता करियमाणम इति

87

स एवं परतिसमादिश्यॊत्तङ्कं वेदः परवासं जगाम

88

अथॊत्तङ्कॊ गुरुशुश्रूषुर गुरु नियॊगम अनुतिष्ठमानस तत्र गुरु कुले वसति सम

89

स वसंस तत्रॊपाध्याय सत्रीभिः सहिताभिर आहूयॊक्तः

उपाध्यायिनी ते ऋतुमती

उपाध्यायश च परॊषितः

अस्या यथायम ऋतुर वन्ध्यॊ न भवति तथा करियताम

एतद विषीदतीति

90

स एवम उक्तस ताः सत्रियः परत्युवाच

न मया सत्रीणां वचनाद इदम अकार्यं कार्यम

न हय अहम उपाध्यायेन संदिष्टः

अकार्यम अपि तवया कार्यम इति

91

तस्य पुनर उपाध्यायः कालान्तरेण गृहान उपजगाम तस्मात परवासात

स तद्वृत्तं तस्याशेषम उपलभ्य परीतिमान अभूत

92

उवाच चैनम

वत्सॊत्तङ्क किं ते परियं करवाणीति

धर्मतॊ हि शुश्रूषितॊ ऽसमि भवता

तेन परीतिः परस्परेण नौ संवृद्धा

तद अनुजाने भवन्तम

सर्वाम एव सिद्धिं पराप्स्यसि

गम्यताम इति

93

स एवम उक्तः परत्युवाच

किं ते परियं करवाणीति

एवं हय आहुः

94

यश चाधर्मेण विब्रूयाद यश चाधर्मेण पृच्छति

95

तयॊर अन्यतरः परैति विद्वेषं चाधिगच्छति

सॊ ऽहम अनुज्ञातॊ भवता इच्छामीष्टं ते गुर्वर्थम उपहर्तुम इति

96

तेनैवम उक्त उपाध्यायः परत्युवाच

वत्सॊत्तङ्क उष्यतां तावद इति

97

स कदा चित तम उपाध्यायम आहॊत्तङ्कः

आज्ञापयतु भवान

किं ते परियम उपहरामि गुर्वर्थम इति

98

तम उपाध्यायः परत्युवाच

वत्सॊत्तङ्क बहुशॊ मां चॊदयसि गुर्वर्थम उपहरेयम इति

तद गच्छ

एनां परविश्यॊपाध्यायनीं पृच्छ किम उपहरामीति

एषा यद बरवीति तद उपहरस्वेति

99

स एवम उक्तॊपाध्यायेनॊपाध्यायिनीम अपृच्छत

भवत्य उपाध्यायेनास्म्य अनुज्ञातॊ गृहं गन्तुम

तद इच्छामीष्टं ते गुर्वर्थम उपहृत्यानृणॊ गन्तुम

तद आज्ञापयतु भवती

किम उपहरामि गुर्वर्थम इति

100

सैवम उक्तॊपाध्यायिन्य उत्तङ्कं परत्युवाच

गच्छ पौष्यं राजानम

भिक्षस्व तस्य कषत्रियया पिनद्धे कुण्डले

ते आनयस्व

इतश चतुर्थे ऽहनि पुण्यकं भविता

ताभ्याम आबद्धाभ्यां बराह्मणान परिवेष्टुम इच्छामि

शॊभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न अहनि संपादयस्व

शरेयॊ हि ते सयात कषणं कुर्वत इति

101

स एवम उक्त उपाध्यायिन्या परातिष्ठतॊत्तङ्कः

स पथि गच्छन्न अपश्यद ऋषभम अतिप्रमाणं तम अधिरूढं च पुरुषम अतिप्रमाणम एव

102

स पुरुष उत्तङ्कम अभ्यभाषत

उत्तङ्कैतत पुरीषम अस्य ऋषभस्य भक्षस्वेति

103

स एवम उक्तॊ नैच्छति

104

तम आह पुरुषॊ भूयः

भक्षयस्वॊत्तङ्क

मा विचारय

उपाध्यायेनापि ते भक्षितं पूर्वम इति

105

स एवम उक्तॊ बाढम इत्य उक्त्वा तदा तद ऋषभस्य पुरीषं मूत्रं च भक्षयित्वॊत्तङ्कः परतस्थे यत्र स कषत्रियः पौष्यः

106

तम उपेत्यापश्यद उत्तङ्क आसीनम

स तम उपेत्याशीर्भिर अभिनन्द्यॊवाच

अर्थी भवन्तम उपगतॊ ऽसमीति

107

स एनम अभिवाद्यॊवाच

भगवन पौष्यः खल्व अहम

किं करवाणीति

108

तम उवाचॊत्तङ्कः

गुर्वर्थे कुण्डलाभ्याम अर्थ्य आगतॊ ऽसमीति ये ते कषत्रियया पिनद्धे कुण्डले ते भवान दातुम अर्हतीति

109

तं पौष्यः परत्युवाच

परविश्यान्तःपुरं कषत्रिया याच्यताम इति

110

स तेनैवम उक्तः परविश्यान्तःपुरं कषत्रियां नापश्यत

111

स पौष्यं पुनर उवाच

न युक्तं भवता वयम अनृतेनॊपचरितुम

न हि ते कषत्रियान्तःपुरे संनिहिता

नैनां पश्यामीति

112

स एवम उक्तः पौष्यस तं परत्युवाच

संप्रति भवान उच्छिष्टः

समर तावत

न हि सा कषत्रिया उच्छिष्टेनाशुचिना वा शक्या दरष्टुम

पतिव्रतात्वाद एषा नाशुचेर दर्शनम उपैतीति

113

अथैवम उक्त उत्तङ्कः समृत्वॊवाच

अस्ति खलु मयॊच्छिष्टेनॊपस्पृष्टं शीघ्रं गच्छता चेति

114

तं पौष्यः परत्युवाच

एतत तद एवं हि

न गच्छतॊपस्पृष्टं भवति न सथितेनेति

115

अथॊत्तङ्कस तथेत्य उक्त्वा पराङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनॊ ऽशब्दाभिर हृदयंगमाभिर अद्भिर उपस्पृश्य तरिः पीत्वा दविः परमृज्य खान्य अद्भिर उपस्पृश्यान्तःपुरं परविश्य तां कषत्रियाम अपश्यत

116

सा च दृष्ट्वैवॊत्तङ्कम अभ्युत्थायाभिवाद्यॊवाच

सवागतं ते भगवन

आज्ञापय किं करवाणीति

117

स ताम उवाच

एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम अर्हसीति

118

सा परीता तेन तस्य सद्भावेन पात्रम अयम अनतिक्रमणीयश चेति मत्वा ते कुण्डले अवमुच्यास्मै परायच्छत

119

आह चैनम

एते कुण्डले तक्षकॊ नागराजः परार्थयति

अप्रमत्तॊ नेतुम अर्हसीति

120

स एवम उक्तस तां कषत्रियां परत्युवाच

भवति सुनिर्वृत्ता भव

न मां शक्तस तक्षकॊ नागराजॊ धर्षयितुम इति

121

स एवम उक्त्वा तां कषत्रियाम आमन्त्र्य पौष्य सकाशम आगच्छत

122

स तं दृष्ट्वॊवाच

भॊः पौष्य परीतॊ ऽसमीति

123

तं पौष्यः परत्युवाच

भगवंश चिरस्य पात्रम आसाद्यते

भवांश च गुणवान अतिथिः

तत करिये शराद्धम

कषणः करियताम इति

124

तम उत्तङ्कः परत्युवाच

कृतक्षण एवास्मि

शीघ्रम इच्छामि यथॊपपन्नम अन्नम उपहृतं भवतेति

125

स तथेत्य उक्त्वा यथॊपपन्नेनान्नेनैनं भॊजयाम आस

126

अथॊत्तङ्कः शीतम अन्नं सकेशं दृष्ट्वाशुच्य एतद इति मत्वा पौष्यम उवाच

यस्मान मे अशुच्य अन्नं ददासि तस्मद अन्धॊ भविष्यसीति

127

तं पौष्यः परत्युवाच

यस्मात तवम अप्य अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति

128

सॊ ऽथ पौष्यस तस्याशुचि भावम अन्नस्यागमयाम आस

129

अथ तदन्नं मुक्तकेश्या सत्रियॊपहृतं सकेशम अशुचि मत्वॊत्तङ्कं परसादयाम आस

भगवन्न अज्ञानाद एतद अन्नं सकेशम उपहृतं शीतं च

तत कषामये भवन्तम

न भवेयम अन्ध इति

130

तम उत्तङ्कः परत्युवाच

न मृषा बरवीमि

भूत्वा तवम अन्धॊ नचिराद अनन्धॊ भविष्यसीति

ममापि शापॊ न भवेद भवता दत्त इति

131

तं पौष्यः परत्युवाच

नाहं शक्तः शापं परत्यादातुम

न हि मे मन्युर अद्याप्य उपशमं गच्छति

किं चैतद भवता न जञायते यथा

132

नावनीतं हृदयं बराह्मणस्य; वाचि कषुरॊ निहितस तीक्ष्णधारः

विपरीतम एतद उभयं कषत्रियस्य; वान नावनीती हृदयं तीक्ष्णधारम

133

इति

तद एवंगते न शक्तॊ ऽहं तीक्ष्णहृदयत्वात तं शापम अन्यथा कर्तुम

गम्यताम इति

134

तम उत्तङ्कः परत्युवाच

भवताहम अन्नस्याशुचि भावम आगमय्य परत्यनुनीतः

पराक च ते ऽभिहितम

यस्माद अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति

दुष्टे चान्ने नैष मम शापॊ भविष्यतीति

135

साधयामस तावद इत्य उक्त्वा परातिष्ठतॊत्तङ्कस ते कुण्डले गृहीत्वा

136

सॊ ऽपश्यत पथि नग्नं शरमणम आगच्छन्तं मुहुर मुहुर दृश्यमानम अदृश्यमानं च

अथॊत्तङ्कस ते कुण्डले भूमौ निक्षिप्यॊदकार्थं परचक्रमे

137

एतस्मिन्न अन्तरे स शरमणस तवरमाण उपसृत्य ते कुण्डले गृहीत्वा पराद्रवत

तम उत्तङ्कॊ ऽभिसृत्य जग्राह

स तद रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश

138

परविश्य च नागलॊकं सवभवनम अगच्छत

तम उत्तङ्कॊ ऽनवाविवेश तेनैव बिलेन

परविश्य च नागान अस्तुवद एभिः शलॊकैः

139

य ऐरावत राजानः सर्पाः समितिशॊभनाः

वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः

140

सुरूपाश च विरूपाश च तथा कल्माषकुण्डलाः

आदित्यवन नाकपृष्ठे रेजुर ऐरावतॊद्भवाः

141

बहूनि नागवर्त्मानि गङ्गायास तीर उत्तरे

इच्छेत कॊ ऽरकांशु सेनायां चर्तुम ऐरावतं विना

142

शतान्य अशीतिर अष्टौ च सहस्राणि च विंशतिः

सर्पाणां परग्रहा यान्ति धृतराष्ट्रॊ यद एजति

143

ये चैनम उपसर्पन्ति ये च दूरं परं गताः

अहम ऐरावत जयेष्ठभ्रातृभ्यॊ ऽकरवं नमः

144

यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत सदा

तं काद्रवेयम अस्तौषं कुण्डलार्थाय तक्षकम

145

तक्षकश चाश्वसेनश च नित्यं सहचराव उभौ

कुरुक्षेत्रे निवसतां नदीम इक्षुमतीम अनु

146

जघन्यजस तक्षकस्य शरुतसेनेति यः शरुतः

अवसद्यॊ महद दयुम्नि परार्थयन नागमुख्यताम

करवाणि सदा चाहं नमस तस्मै महात्मने

147

एवं सतुवन्न अपि नागान यदा ते कुण्डले नालभद अथापश्यत सत्रियौ तन्त्रे अधिरॊप्य पटं वयन्त्यौ

148

तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः

चक्रं चापश्यत षड्भिः कुमारैः परिवर्त्यमानम

पुरुषं चापश्यद दर्शनीयम

149

स तान सर्वास तुष्टावैभिर मन्त्रवादश्लॊकैः

150

तरीण्य अर्पितान्य अत्र शतानि मध्ये; षष्टिश च नित्यं चरति धरुवे ऽसमिन

चक्रे चतुर्विंशतिपर्व यॊगे षड; यत कुमाराः परिवर्तयन्ति

151

तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस तन्तून सततं वर्तयन्त्यौ

कृष्णान सितांश चैव विवर्तयन्त्यौ; भूतान्य अजस्रं भुवनानि चैव

152

वज्रस्य भर्ता भुवनस्य गॊप्ता; वृत्रस्य हन्ता नमुचेर निहन्ता

कृष्णे वसानॊ वसने महात्मा; सत्यानृते यॊ विविनक्ति लॊके

153

यॊ वाजिनं गर्भम अपां पुराणं; वैश्वानरं वाहनम अभ्युपेतः

नमः सदास्मै जगद ईश्वराय; लॊकत्रयेशाय पुरंदराय

154

ततः स एनं पुरुषः पराह

परीतॊ ऽसमि ते ऽहम अनेन सतॊत्रेण

किं ते परियं करवाणीति

155

स तम उवाच

नागा मे वशम ईयुर इति

156

स एनं पुरुषः पुनर उवाच

एतम अश्वम अपाने धमस्वेति

157

स तम अश्वम अपाने ऽधमत

अथाश्वाद धम्यमानात सर्वस्रॊतॊभ्यः सधूमा अर्चिषॊ ऽगनेर निष्पेतुः

158

ताभिर नागलॊकॊ धूपितः

159

अथ ससंभ्रमस तक्षकॊ ऽगनितेजॊ भयविषण्णस ते कुण्डले गृहीत्वा सहसा सवभवनान निष्क्रम्यॊत्तङ्कम उवाच

एते कुण्डले परतिगृह्णातु भवान इति

160

स ते परतिजग्राहॊत्तङ्कः

कुण्डले परतिगृह्याचिन्तयत

अद्य तत पुण्यकम उपाध्यायिन्याः

दूरं चाहम अभ्यागतः

कथं नु खलु संभावयेयम इति

161

तत एनं चिन्तयानम एव स पुरुष उवाच

उत्तङ्क एनम अश्वम अधिरॊह

एष तवां कषणाद एवॊपाध्याय कुलं परापयिष्यतीति

162

स तथेत्य उक्त्वा तम अश्वम अधिरुह्य परत्याजगामॊपाध्याय कुलम

उपाध्यायिनी च सनाता केशान आवपयन्त्य उपविष्टॊत्तङ्कॊ नागच्छतीति शापायास्य मनॊ दधे

163

अथॊत्तङ्कः परविश्यॊपाध्यायिनीम अभ्यवादयत

ते चास्यै कुण्डले परायच्छत

164

सा चैनं परत्युवाच

उत्तङ्क देशे काले ऽभयागतः

सवागतं ते वत्स

मनाग असि मया न शप्तः

शरेयस तवॊपस्थितम

सिद्धम आप्नुहीति

165

अथॊत्तङ्क उपाध्यायम अभ्यवादयत

तम उपाध्यायः परत्युवाच

वत्सॊत्तङ्क सवागतं ते

किं चिरं कृतम इति

166

तम उत्तङ्क उपाध्यायं परत्युवाच

भॊस तक्षकेण नागराजेन विघ्नः कृतॊ ऽसमिन कर्मणि

तेनास्मि नागलॊकं नीतः

167

तत्र च मया दृष्टे सत्रियौ तन्त्रे ऽधिरॊप्य पटं वयन्त्यौ

तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः

किं तत

168

तत्र च मया चक्रं दृष्टं दवादशारम

षट चैनं कुमाराः परिवर्तयन्ति

तद अपि किम

169

पुरुषश चापि मया दृष्टः

स पुनः कः

170

अश्वश चातिप्रमाण युक्तः

स चापि कः

171

पथि गच्छता मयर्षभॊ दृष्टः

तं च पुरुषॊ ऽधिरूढः

तेनास्मि सॊपचारम उक्तः

उत्तङ्कास्यर्षभस्य पुरीषं भक्षय

उपाध्यायेनापि ते भक्षितम इति

ततस तद वचनान मया तद ऋषभस्य पुरीषम उपयुक्तम

तद इच्छामि भवतॊपदिष्टं किं तद इति

172

तेनैवम उक्त उपाध्यायः परत्युवाच

ये ते सत्रियौ धाता विधाता च

ये च ते कृष्णाः सिताश च तन्तवस ते रात्र्यहनी

173

यद अपि तच चक्रं दवादशारं षट कुमाराः परिवर्तयन्ति ते ऋतवः षट संवत्सरश चक्रम

यः पुरुषः स पर्जन्यः

यॊ ऽशवः सॊ ऽगनिः

174

य ऋषभस तवया पथि गच्छता दृष्टः स ऐरावतॊ नागराजः

यश चैनम अधिरूढः सेन्द्रः

यद अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद अमृतम

175

तेन खल्व असि न वयापन्नस तस्मिन नागभवने

स चापि मम सखा इन्द्रः

176

तद अनुग्रहात कुण्डले गृहीत्वा पुनर अभ्यागतॊ ऽसि

तत सौम्य गम्यताम

अनुजाने भवन्तम

शरेयॊ ऽवाप्स्यसीति

177

स उपाध्यायेनानुज्ञात उत्तङ्कः करुद्धस तक्षकस्य परतिचिकीर्षमाणॊ हास्तिनपुरं परतस्थे

178

स हास्तिनपुरं पराप्य नचिराद दविजसत्तमः

समागच्छत राजानम उत्तङ्कॊ जनमेजयम

179

पुरा तक्षशिलातस तं निवृत्तम अपराजितम

सम्यग विजयिनं दृष्ट्वा समन्तान मन्त्रिभिर वृतम

180

तस्मै जयाशिषः पूर्वं यथान्यायं परयुज्य सः

उवाचैनं वचः काले शब्दसंपन्नया गिरा

181

अन्यस्मिन करणीये तवं कार्ये पार्थिव सत्तम

बाल्याद इवान्यद एव तवं कुरुषे नृपसत्तम

182

एवम उक्तस तु विप्रेण स राजा परत्युवाच ह

जनमेजयः परसन्नात्मा सम्यक संपूज्य तं मुनिम

183

आसां परजानां परिपालनेन; सवं कषत्रधर्मं परिपालयामि

परब्रूहि वा किं करियतां दविजेन्द्र; शुश्रूषुर अस्म्य अद्य वचस तवदीयम

184

स एवम उक्तस तु नृपॊत्तमेन; दविजॊत्तमः पुण्यकृतां वरिष्ठः

उवाच राजानम अदीनसत्त्वं; सवम एव कार्यं नृपतेश च यत तत

185

तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता

तस्मै परतिकुरुष्व तवं पन्नगाय दुरात्मने

186

कार्यकालं च मन्ये ऽहं विधिदृष्टस्य कर्मणः

तद गच्छापचितिं राजन पितुस तस्य महात्मनः

187

तेन हय अनपराधी स दष्टॊ दुष्टान्तर आत्मना

पञ्चत्वम अगमद राजा वर्जाहत इव दरुमः

188

बलदर्प समुत्सिक्तस तक्षकः पन्नगाधमः

अकार्यं कृतवान पापॊ यॊ ऽदशत पितरं तव

189

राजर्षिर वंशगॊप्तारम अमर परतिमं नृपम

जघान काश्यपं चैव नयवर्तयत पापकृत

190

दग्धुम अर्हसि तं पापं जवलिते हव्यवाहने

सर्वसत्रे महाराज तवयि तद धि विधीयते

191

एवं पितुश चापचितिं गतवांस तवं भविष्यसि

मम परियं च सुमहत कृतं राजन भविष्यति

192

कर्मणः पृथिवीपाल मम येन दुरात्मना

विघ्नः कृतॊ महाराज गुर्वर्थं चरतॊ ऽनघ

193

एतच छरुत्वा तु नृपतिस तक्षकस्य चुकॊप ह

उत्तङ्क वाक्यहविषा दीप्तॊ ऽगनिर हविषा यथा

194

अपृच्छच च तदा राजा मन्त्रिणः सवान सुदुःखितः

उत्तङ्कस्यैव सांनिध्ये पितुः सवर्गगतिं परति

195

तदैव हि स राजेन्द्रॊ दुःखशॊकाप्लुतॊ ऽभवत

यदैव पितरं वृत्तम उत्तङ्काद अशृणॊत तदा

1

[sūta]

janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasattram upāste

tasya bhrātaras trayaḥ śrutasenograseno bhīmasena iti

2

teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ

sajanamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat

3

taṃ mātā rorūyamāṇam uvāca

kiṃ rodiṣi

kenāsy abhihata iti

4

sa evam ukto mātaraṃ pratyuvāca

janamejayasya bhrātṛbhir abhihato 'smīti

5

taṃ mātā pratyuvāca

vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti

6

sa tāṃ punar uvāca

nāparādhyāmi kiṃ cit

nāvekṣe havīṃṣi nāvaliha iti

7

tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sajanamejayaḥ saha bhrātṛbhir dīrghasatram upāste

8

sa tayā kruddhayā tatroktaḥ

ayaṃ me putro na kiṃ cid aparādhyati

kimartham abhihata iti

yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti

9

sajanamejaya evam ukto deva śunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt

10

sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti

11

sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat

12

tatra kaś cid ṛṣir āsāṃ cakre śrutaśravā nāma

tasyābhimataḥ putra āste somaśravā nāma

13

tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre

14

sa namaskṛtya tam ṛṣim uvāca

bhagavann ayaṃ tava putro mama purohito 'stv iti

15

sa evam uktaḥ pratyuvāca

bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ

mahātapasvī svādhyāyasaṃpanno mat tapo vīryasaṃbhṛto mac chukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ

samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādeva kṛtyām

asya tv ekam upāṃśu vratam

yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam

yady etad utsahase tato nayasvainam iti

16

tenaivam utko janamejayas taṃ pratyuvāca

bhagavaṃs tathā bhaviṣyatīti

17

sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca

mayāyaṃ vṛta upādhyāyaḥ

yad ayaṃ brūyāt tat kāryam avicārayadbhir iti

18

tenaivam uktā bhrātaras tasya tathā cakruḥ

sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe

taṃ ca deśaṃ vaśe sthāpayām āsa

19

etasminn antare kaś cid ṛṣir dhaumyo nāmāyoda

20

sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa

gaccha kedārakhaṇḍaṃ badhāneti

21

sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot

22

sa kliśyamāno 'paśyad upāyam

bhavatv evaṃ kariṣyāmīti

23

sa tatra saṃviveśa kedārakhaṇḍe

śayāne tasmiṃs tad udakaṃ tasthau

24

tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat

kva āruṇiḥ pāñcālyo gata iti

25

te pratyūcuḥ

bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti

26

sa evam uktas tāñ śiṣyān pratyuvāca

tasmāt sarve tatra gacchāmo yatra sa iti

27

sa tatra gatvā tasyāhvānāya śabdaṃ cakāra

bho āruṇe pāñcālya kvāsi

vatsaihīti

28

sa tac chrutvā āruṇir upādhyāya vākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe

provāca cainam

ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavac chabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhagavantam upasthitaḥ

tad abhivādaye bhagavantam

ājñāpayatu bhavān

kiṃ karavāṇīti

29

tam upādhyāyo 'bravīt

yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti

30

sa upādhyāyenānugṛhītaḥ

yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti

sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti

31

sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma

32

athāparaḥ śiṣyas tasyaivāyodasya daumyasyopamanyur nāma

33

tam upādhyāyaḥ preṣayām āsa

vatsopamanyo gā rakṣasveti

34

sa upādhyāya vacanād arakṣad gāḥ

sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaś cakre

35

tam upādhyāyaḥ pīvānam apaśyat

uvāca cainam

vatsopamanyo kena vṛttiṃ kalpayasi

pīvān asi dṛḍham iti

36

sa upādhyāyaṃ pratyuvāca

bhaikṣeṇa vṛttiṃ kalpayāmīti

37

tam upādhyāyaḥ pratyuvāca

mamānivedya bhaikṣaṃ nopayoktavyam iti

38

sa tathety uktvā punar arakṣad gāḥ

rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaś cakre

39

tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca

vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi

kenedānīṃ vṛttiṃ kalpayasīti

40

sa evam ukta upādhyāyena pratyuvāca

bhagavate nivedya pūrvam aparaṃ carāmi

tena vṛttiṃ kalpayāmīti

41

tam upādhyāyaḥ pratyuvāca

naiṣā nyāyyā guruvṛttiḥ

anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ

lubdho 'sīti

42

sa tathety uktvā gā arakṣat

rakṣitvā ca punar upādhyāya gṛham āgamyopādhyāyasyāgrataḥ sthitvā namaś cakre

43

tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca

ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi

pīvān asi

kena vṛttiṃ kalpayasīti

44

sa upādhyāyaṃ pratyuvāca

bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti

45

tam upādhyāyaḥ pratyuvāca

naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti

46

sa tatheti pratijñāya gā rakṣitvā punar upādhyāya gṛhān etya puror agrataḥ sthitvā namaś cakre

47

tam upādhyāyaḥ pīvānam evāpaśyat

uvāca cainam

bhaikṣaṃ nāśnāsi na cānyac carasi

payo na pibasi

pīvān asi

kena vṛttiṃ kalpayasīti

48

sa evam ukta upādhyāyaṃ pratyuvāca

bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti

49

tam upādhyāyaḥ pratyuvāca

ete tvad anukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti

tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ

phenam api bhavān na pātum arhatīti

50

sa tatheti pratijñāya nirāhāras tā gā arakṣat

tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyac carati

payo na pibati

phenaṃ nopayuṅkte

51

sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat

52

sa tair arkapatrair bhakṣitaiḥ kṣāra kaṭūṣa vipākibhiś cakṣuṣy upahato 'ndho 'bhavat

so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat

53

atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat

mayopamanyuḥ sarvataḥ pratiṣiddhaḥ

sa niyataṃ kupitaḥ

tato nāgacchati ciragataś ceti

54

sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre

bho upamanyo kvāsi

vatsaihīti

55

sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ

ayam asmi bho upādhyāya kūpe patita iti

56

tam upādhyāyaḥ pratyuvāca

katham asi kūpe patita iti

57

sa taṃ pratyuvāca

arkapatrāṇi bhakṣayitvāndhī bhūto 'smi

ataḥ kūpe patita iti

58

tam upādhyāyaḥ pratyuvāca

aśvinau stuhi

tau tvāṃ cakṣuṣmantaṃ kariṣyato deva bhiṣajāv iti

59

sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhi

60

prapūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau

divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā

61

hiraṇmayau śakunī sāmparāyau; nāsatya dasrau sunasau vaijayantau

śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat

62

grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya

tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan

63

aṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti

nānā goṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam

64

ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ

anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī

65

ekaṃ cakraṃ vartate dvādaśāraṃ; pradhi ṣaṇ ṇābhim ekākṣam amṛtasya dhāraṇam

yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam

66

aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī

bhittvā girim aśvinau gām udācarantau; tad vṛṣṭam ahnā prathitā valasya

67

yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti

tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti

68

yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā

te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti

69

tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya

tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte

70

mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte

sadyo jāto mātaram atti garbhas tāv; aśvinau muñcatho jīvase gāḥ

71

evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ

āhatuś cainam

prītau svaḥ

eṣa te 'pūpaḥ

aśānainam iti

72

sa evam utaḥ pratyuvāca

nānṛtam ūcatur bhavantau

na tv aham etam apūpam upayoktum utsahe anivedya gurava iti

73

tatas tam aśvināv ūcatuḥ

āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ

upayuktaś ca sa tenānivedya gurave

tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti

74

sa evam uktaḥ punar eva pratyuvācaitau

pratyanunaye bhavantāv aśvinau

notsahe 'ham anivedyopādhyāyāyopayoktum iti

75

tam aśvināv āhatuḥ

prītau svas tavānayā guruvṛttyā

upādhyāyasya te kārṣṇāyasā dantāḥ

bhavato hiraṇmayā bhaviṣyanti

cakṣuṣmāṃś ca bhaviṣyasi

śreyaś cāvāpsyasīti

76

sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāya sakāśam āgamyopādhyāyam abhivādyācacakṣe

sa cāsya prītimān abhūt

77

ha cainam

yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti

sarve ca te vedāḥ pratibhāsyantīti

78

eṣā tasyāpi parīkṣopamanyo

79

athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma

80

tam upādhyāyaḥ saṃdideśa

vatsa veda ihāsyatām

bhavatā madgṛhe kaṃ cit kālaṃ śuśrūṣamāṇena bhavitavyam

śreyas te bhaviṣyatīti

81

sa tathety uktvā guru kule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat

gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣut tṛṣṇā duḥkhasahaḥ sarvatrāpratikūla

82

tasya mahatā kālena guruḥ paritoṣaṃ jagāma

tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa

eṣā tasyāpi parīkṣā vedasya

83

sa upādhyāyenānujñātaḥ samāvṛttas tasmād guru kulavāsād gṛhāśramaṃ pratyapadyata

tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvu

84

sa śiṣyān na kiṃ cid uvāca

karma vā kriyatāṃ guruśuśrūṣā veti

duḥkhābhijño hi guru kulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa

85

atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratu

86

sa kadā cid yājya kāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa

bho uttaṅka yat kiṃ cid asmad gṛhe parihīyate yad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti

87

sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma

88

athottaṅko guruśuśrūṣur guru niyogam anutiṣṭhamānas tatra guru kule vasati sma

89

sa vasaṃs tatropādhyāya strībhiḥ sahitābhir āhūyoktaḥ

upādhyāyinī te ṛtumatī

upādhyāyaś ca proṣitaḥ

asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām

etad viṣīdatīti

90

sa evam uktas tāḥ striyaḥ pratyuvāca

na mayā strīṇāṃ vacanād idam akāryaṃ kāryam

na hy aham upādhyāyena saṃdiṣṭaḥ

akāryam api tvayā kāryam iti

91

tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt

sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt

92

uvāca cainam

vatsottaṅka kiṃ te priyaṃ karavāṇīti

dharmato hi śuśrūṣito 'smi bhavatā

tena prītiḥ paraspareṇa nau saṃvṛddhā

tad anujāne bhavantam

sarvām eva siddhiṃ prāpsyasi

gamyatām iti

93

sa evam uktaḥ pratyuvāca

kiṃ te priyaṃ karavāṇīti

evaṃ hy āhu

94

yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati

95

tayor anyataraḥ praiti vidveṣaṃ cādhigacchati

so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti

96

tenaivam ukta upādhyāyaḥ pratyuvāca

vatsottaṅka uṣyatāṃ tāvad iti

97

sa kadā cit tam upādhyāyam āhottaṅkaḥ

ājñāpayatu bhavān

kiṃ te priyam upaharāmi gurvartham iti

98

tam upādhyāyaḥ pratyuvāca

vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti

tad gaccha

enāṃ praviśyopādhyāyanīṃ pṛccha kim upaharāmīti

eṣā yad bravīti tad upaharasveti

99

sa evam uktopādhyāyenopādhyāyinīm apṛcchat

bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum

tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum

tad ājñāpayatu bhavatī

kim upaharāmi gurvartham iti

100

saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca

gaccha pauṣyaṃ rājānam

bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale

te ānayasva

itaś caturthe 'hani puṇyakaṃ bhavitā

tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi

śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva

śreyo hi te syāt kṣaṇaṃ kurvata iti

101

sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ

sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva

102

sa puruṣa uttaṅkam abhyabhāṣata

uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣasveti

103

sa evam ukto naicchati

104

tam āha puruṣo bhūyaḥ

bhakṣayasvottaṅka

mā vicāraya

upādhyāyenāpi te bhakṣitaṃ pūrvam iti

105

sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣya

106

tam upetyāpaśyad uttaṅka āsīnam

sa tam upetyāśīrbhir abhinandyovāca

arthī bhavantam upagato 'smīti

107

sa enam abhivādyovāca

bhagavan pauṣyaḥ khalv aham

kiṃ karavāṇīti

108

tam uvācottaṅkaḥ

gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti

109

taṃ pauṣyaḥ pratyuvāca

praviśyāntaḥpuraṃ kṣatriyā yācyatām iti

110

sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat

111

sa pauṣyaṃ punar uvāca

na yuktaṃ bhavatā vayam anṛtenopacaritum

na hi te kṣatriyāntaḥpure saṃnihitā

naināṃ paśyāmīti

112

sa evam uktaḥ pauṣyas taṃ pratyuvāca

saṃprati bhavān ucchiṣṭaḥ

smara tāvat

na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum

pativratātvād eṣā nāśucer darśanam upaitīti

113

athaivam ukta uttaṅkaḥ smṛtvovāca

asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti

114

taṃ pauṣyaḥ pratyuvāca

etat tad evaṃ hi

na gacchatopaspṛṣṭaṃ bhavati na sthiteneti

115

athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālita pāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ pramṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat

116

sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca

svāgataṃ te bhagavan

ājñāpaya kiṃ karavāṇīti

117

sa tām uvāca

ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti

118

sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat

119

ha cainam

ete kuṇḍale takṣako nāgarājaḥ prārthayati

apramatto netum arhasīti

120

sa evam uktas tāṃ kṣatriyāṃ pratyuvāca

bhavati sunirvṛttā bhava

na māṃ śaktas takṣako nāgarājo dharṣayitum iti

121

sa evam uktvā tāṃ kṣatriyām āmantrya pauṣya sakāśam āgacchat

122

sa taṃ dṛṣṭvovāca

bhoḥ pauṣya prīto 'smīti

123

taṃ pauṣyaḥ pratyuvāca

bhagavaṃś cirasya pātram āsādyate

bhavāṃś ca guṇavān atithiḥ

tat kariye śrāddham

kṣaṇaḥ kriyatām iti

124

tam uttaṅkaḥ pratyuvāca

kṛtakṣaṇa evāsmi

śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti

125

sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa

126

athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvāśucy etad iti matvā pauṣyam uvāca

yasmān me aśucy annaṃ dadāsi tasmad andho bhaviṣyasīti

127

taṃ pauṣyaḥ pratyuvāca

yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti

128

so 'tha pauṣyas tasyāśuci bhāvam annasyāgamayām āsa

129

atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa

bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca

tat kṣāmaye bhavantam

na bhaveyam andha iti

130

tam uttaṅkaḥ pratyuvāca

na mṛṣā bravīmi

bhūtvā tvam andho nacirād anandho bhaviṣyasīti

mamāpi śāpo na bhaved bhavatā datta iti

131

taṃ pauṣyaḥ pratyuvāca

nāhaṃ śaktaḥ śāpaṃ pratyādātum

na hi me manyur adyāpy upaśamaṃ gacchati

kiṃ caitad bhavatā na jñāyate yathā

132

nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ

viparītam etad ubhayaṃ kṣatriyasya; vān nāvanītī hṛdayaṃ tīkṣṇadhāram

133

iti

tad evaṃgate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum

gamyatām iti

134

tam uttaṅkaḥ pratyuvāca

bhavatāham annasyāśuci bhāvam āgamayya pratyanunītaḥ

prāk ca te 'bhihitam

yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti

duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti

135

sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā

136

so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca

athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame

137

etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat

tam uttaṅko 'bhisṛtya jagrāha

sa tad rūpaṃ vihāya takṣaka rūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa

138

praviśya ca nāgalokaṃ svabhavanam agacchat

tam uttaṅko 'nvāviveśa tenaiva bilena

praviśya ca nāgān astuvad ebhiḥ ślokai

139

ya airāvata rājānaḥ sarpāḥ samitiśobhanāḥ

varṣanta iva jīmūtāḥ savidyutpavaneritāḥ

140

surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ

dityavan nākapṛṣṭhe rejur airāvatodbhavāḥ

141

bahūni nāgavartmāni gaṅgāyās tīra uttare

icchet ko 'rkāṃśu senāyāṃ cartum airāvataṃ vinā

142

atāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ

sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati

143

ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ

aham airāvata jyeṣṭhabhrātṛbhyo 'karavaṃ nama

144

yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā

taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam

145

takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau

kurukṣetre nivasatāṃ nadīm ikṣumatīm anu

146

jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ

avasadyo mahad dyumni prārthayan nāgamukhyatām

karavāṇi sadā cāhaṃ namas tasmai mahātmane

147

evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau

148

tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ

cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam

puruṣaṃ cāpaśyad darśanīyam

149

sa tān sarvās tuṣṭāvaibhir mantravādaślokai

150

trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin

cakre caturviṃśatiparva yoge ṣaḍ; yat kumārāḥ parivartayanti

151

tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau

kṛṣṇn sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva

152

vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā

kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke

153

yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ

namaḥ sadāsmai jagad īśvarāya; lokatrayeśāya puraṃdarāya

154

tataḥ sa enaṃ puruṣaḥ prāha

prīto 'smi te 'ham anena stotreṇa

kiṃ te priyaṃ karavāṇīti

155

sa tam uvāca

nāgā me vaśam īyur iti

156

sa enaṃ puruṣaḥ punar uvāca

etam aśvam apāne dhamasveti

157

sa tam aśvam apāne 'dhamat

athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetu

158

tābhir nāgaloko dhūpita

159

atha sasaṃbhramas takṣako 'gnitejo bhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca

ete kuṇḍale pratigṛhṇātu bhavān iti

160

sa te pratijagrāhottaṅkaḥ

kuṇḍale pratigṛhyācintayat

adya tat puṇyakam upādhyāyinyāḥ

dūraṃ cāham abhyāgataḥ

kathaṃ nu khalu saṃbhāvayeyam iti

161

tata enaṃ cintayānam eva sa puruṣa uvāca

uttaṅka enam aśvam adhiroha

eṣa tvāṃ kṣaṇād evopādhyāya kulaṃ prāpayiṣyatīti

162

sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāya kulam

upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe

163

athottaṅkaḥ praviśyopādhyāyinīm abhyavādayat

te cāsyai kuṇḍale prāyacchat

164

sā cainaṃ pratyuvāca

uttaṅka deśe kāle 'bhyāgataḥ

svāgataṃ te vatsa

manāg asi mayā na śaptaḥ

śreyas tavopasthitam

siddham āpnuhīti

165

athottaṅka upādhyāyam abhyavādayat

tam upādhyāyaḥ pratyuvāca

vatsottaṅka svāgataṃ te

kiṃ ciraṃ kṛtam iti

166

tam uttaṅka upādhyāyaṃ pratyuvāca

bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi

tenāsmi nāgalokaṃ nīta

167

tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau

tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ

kiṃ tat

168

tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram

ṣaṭ cainaṃ kumārāḥ parivartayanti

tad api kim

169

puruṣaś cāpi mayā dṛṣṭaḥ

sa punaḥ ka

170

aśvaś cātipramāṇa yuktaḥ

sa cāpi ka

171

pathi gacchatā mayarṣabho dṛṣṭaḥ

taṃ ca puruṣo 'dhirūḍhaḥ

tenāsmi sopacāram uktaḥ

uttaṅkāsyarṣabhasya purīṣaṃ bhakṣaya

upādhyāyenāpi te bhakṣitam iti

tatas tad vacanān mayā tad ṛṣabhasya purīṣam upayuktam

tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti

172

tenaivam ukta upādhyāyaḥ pratyuvāca

ye te striyau dhātā vidhātā ca

ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī

173

yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram

yaḥ puruṣaḥ sa parjanyaḥ

yo 'śvaḥ so 'gni

174

ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ

yaś cainam adhirūḍhaḥ sendraḥ

yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam

175

tena khalv asi na vyāpannas tasmin nāgabhavane

sa cāpi mama sakhā indra

176

tad anugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si

tat saumya gamyatām

anujāne bhavantam

śreyo 'vāpsyasīti

177

sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe

178

sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ

samāgacchata rājānam uttaṅko janamejayam

179

purā takṣaśilātas taṃ nivṛttam aparājitam

samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam

180

tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ

uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā

181

anyasmin karaṇīye tvaṃ kārye pārthiva sattama

bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama

182

evam uktas tu vipreṇa sa rājā pratyuvāca ha

janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim

183

sāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi

prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam

184

sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ

uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat

185

takṣakeṇa narendrendra yena te hiṃsitaḥ pitā

tasmai pratikuruṣva tvaṃ pannagāya durātmane

186

kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ

tad gacchāpacitiṃ rājan pitus tasya mahātmana

187

tena hy anaparādhī sa daṣṭo duṣṭāntar ātmanā

pañcatvam agamad rājā varjāhata iva druma

188

baladarpa samutsiktas takṣakaḥ pannagādhamaḥ

akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava

189

rājarṣir vaṃśagoptāram amara pratimaṃ nṛpam

jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt

190

dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane

sarvasatre mahārāja tvayi tad dhi vidhīyate

191

evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi

mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati

192

karmaṇaḥ pṛthivīpāla mama yena durātmanā

vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha

193

etac chrutvā tu nṛpatis takṣakasya cukopa ha

uttaṅka vākyahaviṣā dīpto 'gnir haviṣā yathā

194

apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ

uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati

195

tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat

yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā
man's word god's word| the last word of chapter 8
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 3