Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 61

Book 1. Chapter 61

The Mahabharata In Sanskrit


Book 1

Chapter 61

1

[ज]

देवानां दानवानां च यक्षाणाम अथ रक्षसाम

अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम

2

शरॊतुम इच्छामि तत्त्वेन मानुषेषु महात्मनाम

जन्म कर्म च भूतानाम एतेषाम अनुपूर्वशः

3

[व]

मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः

परथमं दानवांश चैव तांस ते वक्ष्यामि सर्वशः

4

विप्रचित्तिर इति खयातॊ य आसीद दानवर्षभः

जरासंध इति खयातः स आसीन मनुजर्षभः

5

दितेः पुत्रस तु यॊ राजन हिरण्यकशिपुः समृतः

स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः

6

संह्राद इति विख्यातः परह्रादस्यानुजस तु यः

स शल्य इति विख्यातॊ जज्ञे बाह्लील पुंगवः

7

अनुह्रादस तु तेजस्वी यॊ ऽभूत खयातॊ जघन्यजः

धृष्टकेतुर इति खयातः स आसीन मनुजेश्वरः

8

यस तु राजञ शिबिर नाम दैतेयः परिकीर्तितः

दरुम इत्य अभिविख्यातः स आसीद भुवि पार्थिवः

9

बाष्कलॊ नाम यस तेषाम आसीद असुरसत्तमः

भगदत्त इति खयातः स आसीन मनुजेश्वरः

10

अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान

तथा गगनमूर्धा च वेगवांश चात्र पञ्चमः

11

पञ्चैते जज्ञिरे राजन वीर्यवन्तॊ महासुराः

केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः

12

केतुमान इति विख्यातॊ यस ततॊ ऽनयः परतापवान

अमितौजा इति खयातः पृथिव्यां सॊ ऽभवन्न नृपः

13

सवर्भानुर इति विख्यातः शरीमान यस तु महासुरः

उग्रसेन इति खयात उग्र कर्मा नराधिपः

14

यस तव अश्व इति विख्यातः शरीमान आसीन महासुरः

अशॊकॊ नाम राजासीन महावीर्यपराक्रमः

15

तस्माद अवरजॊ यस तु राजन्न अश्वपतिः समृतः

दैतेयः सॊ ऽभवद राजा हार्दिक्यॊ मनुजर्षभः

16

वृषपर्वेति विख्यातः शरीमान यस तु महासुरः

दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊ ऽभवन नृपः

17

अजकस तव अनुजॊ राजन य आसीद वृषपर्वणः

स मल्ल इति विख्यातः पृथिव्याम अभवन नृपः

18

अश्वग्रीव इति खयातः सत्त्ववान यॊ महासुरः

रॊचमान इति खयातः पृथिव्यां सॊ ऽभवन नृपः

19

सूक्ष्मस तु मतिमान राजन कीर्तिमान यः परकीर्तितः

बृहन्त इति विख्यातः कषिताव आसीत स पार्थिवः

20

तुहुण्ड इति विख्यातॊ य आसीद असुरॊत्तमः

सेना बिन्दुर इति खयातः स बभूव नराधिपः

21

इसृपा नाम यस तेषाम असुराणां बलाधिकः

पापजिन नाम राजासीद भुवि विख्यातविक्रमः

22

एकचक्र इति खयात आसीद यस तु महासुरः

परतिविन्ध्य इति खयातॊ बभूव परथितः कषितौ

23

विरूपाक्षस तु दैतेयश चित्रयॊधी महासुरः

चित्रवर्मेति विख्यातः कषिताव आसीत स पार्थिवः

24

हरस तव अरिहरॊ वीर आसीद यॊ दानवॊत्तमः

सुवास्तुर इति विख्यातः स जज्ञे मनुजर्षभः

25

अहरस तु महातेजाः शत्रुपक्ष कषयं करः

बाह्लीकॊ नाम राजा स बभूव परथितः कषितौ

26

निचन्द्रश चन्द्र वक्त्रश च य आसीद असुरॊत्तमः

मुञ्ज केश इति खयातः शरीमान आसीत स पार्थिवः

27

निकुम्भस तव अजितः संख्ये महामतिर अजायत

भूमौ भूमिपतिः शरेष्ठॊ देवाधिप इति समृतः

28

शरभॊ नाम यस तेषां दैतेयानां महासुरः

पौरवॊ नाम राजर्षिः स बभूव नरेष्व इह

29

दवितीयः शलभस तेषाम असुराणां बभूव यः

परह्रादॊ नाम बाह्लीकः स बभूव नराधिपः

30

चन्द्रस तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः

ऋषिकॊ नाम राजर्षिर बभूव नृपसत्तमः

31

मृतपा इति विख्यातॊ य आसीद असुरॊत्तमः

पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम

32

गविष्ठस तु महातेजा यः परख्यातॊ महासुरः

दरुमसेन इति खयातः पृथिव्यां सॊ ऽभवन नृपः

33

मयूर इति विख्यातः शरीमान यस तु महासुरः

स विश्व इति विख्यातॊ बभूव पृथिवीपतिः

34

सुपर्ण इति विख्याततस्माद अवरजस तु यः

कालकीर्तिर इति खयातः पृथिव्यां सॊ ऽभवन नृपः

35

चन्द्र हन्तेति यस तेषां कीर्तितः परवरॊ ऽसुरः

शुनकॊ नाम राजर्षिः स बभूव नराधिपः

36

विनाशनस तु चन्द्रस्य य आख्यातॊ महासुरः

जानकिर नाम राजर्षिः स बभूव नराधिपः

37

दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः

काशिराज इति खयातः पृथिव्यां पृथिवीपतिः

38

गरहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम

कराथ इत्य अभिविख्यातः सॊ ऽभवन मनुजाधिपः

39

अनायुषस तु पुत्राणां चतुर्णां परवरॊ ऽसुरः

विक्षरॊ नाम तेजस्वी वसु मित्रॊ ऽभवन नृपः

40

दवितीयॊ विक्षराद्यस तु नराधिप महासुरः

पांसुराष्ट्राधिप इति विश्रुतः सॊ ऽभवन नृपः

41

बलवीर इति खयातॊ यस तव आसीद असुरॊत्तमः

पौण्ड्र मत्स्यक इत्य एव स बभूव नराधिपः

42

वृत्र इत्य अभिविख्यातॊ यस तु राजन महासुरः

मणिमान नाम राजर्षिः स बभूव नराधिपः

43

करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः

दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ

44

करॊधवर्धन इत्य एव यस तव अन्यः परिकीर्तितः

दण्डधार इति खयातः सॊ ऽभवन मनुजेश्वरः

45

कालकायास तु ये पुत्रास तेषाम अष्टौ नराधिपाः

जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः

46

मगधेषु जयत्सेनः शरीमान आसीत स पार्थिवः

अष्टानां परवरस तेषां कालेयानां महासुरः

47

दवितीयस तु ततस तेषां शरीमान हरिहयॊपमः

अपराजित इत्य एव स बभूव नराधिपः

48

तृतीयस तु महाराज महाबाहुर महासुरः

निषादाधिपतिर जज्ञे भुवि भीमपराक्रमः

49

तेषाम अन्यतमॊ यस तु चतुर्थः परिकीर्तितः

शरेणिमान इति विख्यातः कषितौ राजर्षिसत्तमः

50

पञ्चमस तु बभूवैषां परवरॊ यॊ महासुरः

महौजा इति विख्यातॊ बभूवेह परंतपः

51

षष्ठस तु मतिमान यॊ वै तेषाम आसीन महासुरः

अभीरुर इति विख्यातः कषितौ राजर्षिसत्तमः

52

समुद्रसेनश च नृपस तेषाम एवाभवद गुणान

विश्रुतः सागरान्तायां कषितौ धर्मार्थतत्त्ववित

53

बृहन्न नामाष्टमस तेषां कालेयानां परंतपः

बभूव राजन धर्मात्मा सर्वभूतहिते रतः

54

गणः करॊधवशॊ नाम यस ते राजन परकीर्तितः

ततः संजज्ञिरे वीराः कषिताव इह नराधिपाः

55

नन्दिकः कर्णवेष्टश च सिद्धार्थाः कीटकस तथा

सुवीरश च सुबाहुश च महावीरॊ ऽथ बाह्लिकः

56

करॊधॊ विचित्यः सुरसः शरीमान नीलश च भूमिपः

वीर धामा च कौरव्य भूमिपालश च नामतः

57

दन्तवक्त्रश च नामासीद दुर्जयश चैव नामतः

रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः

58

आषाढॊ वायुवेगश च भूमितेजास तथैव च

एकलव्यः सुमित्रश च वाटधानॊ ऽथ गॊमुखः

59

कारूषकाश च राजानः कषेमधूर्तिस तथैव च

शरुतायुर उद्धवश चैव बृहत्सेनस तथैव च

60

कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः

मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः

61

गणात करॊधवशाद एवं राजपूगॊ ऽभवत कषितौ

जातः पुरा महाराज महाकीर्तिर महाबलः

62

यस तव आसीद देवकॊ नाम देवराजसमद्युतिः

स गन्धर्वपतिर मुख्यः कषितौ जज्ञे नराधिपः

63

बृहस्पतेर बृहत कीर्तेर देवर्षेर विद्धि भारत

अंशाद दरॊणं समुत्पन्नं भारद्वाजम अयॊनिजम

64

धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः

बृहत कीर्तिर महातेजाः संजज्ञे मनुजेष्व इह

65

धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः

वरिष्ठम इन्द्रकर्माणं दरॊणं सवकुलवर्धनम

66

महादेवान्तकाभ्यां च कामात करॊधाच च भारत

एकत्वम उपपन्नानां जज्ञे शूरः परंतपः

67

अश्वत्थामा महावीर्यः शत्रुपक्ष कषयं करः

वीरः कमलपत्राक्षः कषिताव आसीन नराधिप

68

जज्ञिरे वसवस तव अष्टौ गङ्गायां शंतनॊः सुताः

वसिष्ठस्य च शापेन नियॊगाद वासवस्य च

69

तेषाम अवरजॊ भीष्मः कुरूणाम अभयंकरः

मतिमान वेदविद वाग्मी शत्रुपक्ष कषयं करः

70

जामदग्न्येन रामेण यः स सर्वविदां वरः

अयुध्यत महातेजा भार्गवेण महात्मना

71

यस तु राजन कृपॊ नाम बरह्मर्षिर अभवत कषितौ

रुद्राणां तं गणाद विद्धि संभूतम अतिपौरुषम

72

शकुनिर नाम यस तव आसीद राजा लॊके महारथः

दवापरं विद्धि तं राजन संभूतम अरिमर्दनम

73

सात्यकिः सत्यसंधस तु यॊ ऽसौ वृष्णिकुलॊद्वहः

पक्षात स जज्ञे मरुतां देवानाम अरिमर्दनः

74

दरुपदश चापि राजर्षिस तत एवाभवद गणात

मानुषे नृप लॊके ऽसमिन सर्वशस्त्रभृतां वरः

75

ततश च कृतवर्माणं विद्धि राजञ जनाधिपम

जातम अप्रतिकर्माणं कषत्रियर्षभ सत्तमम

76

मरुतां तु गणाद विद्धि संजातम अरिमर्दनम

विराटं नाम राजर्षिं परराष्ट्र परतापनम

77

अरिष्टायास तु यः पुत्रॊ हंस इत्य अभिविश्रुतः

स गन्धर्वपतिर जज्ञे कुरुवंशविवर्धनः

78

धृतराष्ट्र इति खयातः कृष्णद्वैपायनाद अपि

दीर्घबाहुर महातेजाः परज्ञा चक्षुर नराधिपः

मातुर दॊषाद ऋषेः कॊपाद अन्ध एव वयजायत

79

अत्रेस तु सुमहाभागं पुत्रं पुत्रवतां वरम

विदुरं विद्धि लॊके ऽसमिञ जातं बुद्धिमतां वरम

80

कलेर अंशात तु संजज्ञे भुवि दुर्यॊधनॊ नृपः

दुर्बुद्धिर दुर्मतिश चैव कुरूणाम अयशः करः

81

जगतॊ यः स सर्वस्य विद्विष्टः कलिपूरुषः

यः सर्वां घातयाम आस पृथिवीं पुरुषाधमः

येन वैरं समुद्दीप्तं भूतान्त करणं महत

82

पौलस्त्या भरातरः सर्वे जज्ञिरे मनुजेष्व इह

शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम

83

दुर्मुखॊ दुःसहश चैव ये चान्ये नानुशब्दिताः

दुर्यॊधन सहायास ते पौलस्त्या भरतर्षभ

84

धर्मस्यांशं तु राजानं विद्धि राजन युधिष्ठिरम

भीमसेनं तु वातस्य देवराजस्य चार्जुनम

85

अश्विनॊस तु तथैवांशौ रूपेणाप्रतिमौ भुवि

नकुलः सहदेवश च सर्वलॊकमनॊहरौ

86

यः सुवर्चेति विख्यातः सॊमपुत्रः परतापवान

अभिमन्युर बृहत कीर्तिर अर्जुनस्य सुतॊ ऽभवत

87

अग्नेर अंशं तु विद्धि तवं धृष्टद्युम्नं महारथम

शिखण्डिनम अथॊ राजन सत्रीपुंसं विद्धि राक्षसम

88

दरौपदेयाश च ये पञ्च बभूवुर भरतर्षभ

विश्वे देवगणान राजंस तान विद्धि भरतर्षभ

89

आमुक्तकवचः कर्णॊ यस तु जज्ञे महारथः

दिवाकरस्य तं विद्धि देवस्यांशम अनुत्तमम

90

यस तु नारायणॊ नाम देवदेवः सनातनः

तस्यांशॊ मानुषेष्व आसीद वासुदेवः परतापवान

91

शेषस्यांशस तु नागस्य बलदेवॊ महाबलः

सनत्कुमारं परद्युम्नं विद्धि राजन महौजसम

92

एवम अन्ये मनुष्येन्द्र बहवॊ ऽंशा दिवौकसाम

जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः

93

गणस तव अप्सरसां यॊ वै मया राजन परकीर्तितः

तस्य भागः कषितौ जज्ञे नियॊगाद वासवस्य च

94

तानि षॊडश देवीनां सहस्राणि नराधिप

बभूवुर मानुषे लॊके नारायण परिग्रहः

95

शरियस तु भागः संजज्ञे रत्यर्थं पृथिवीतले

दरुपदस्य कुले कन्या वेदिमध्याद अनिन्दिता

96

नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी

पद्मायताक्षी सुश्रॊणी असितायत मूर्धजा

97

सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा

पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः

98

सिद्दिर धृतिश च ये देव्यौ पञ्चानां मातरौ तु ते

कुन्ती माद्री च जज्ञाते मतिस तु सुबलात्मजा

99

इति देवासुराणां ते गन्धर्वाप्सरसां तथा

अंशावतरणं राजन रक्षसानां च कीर्तितम

100

ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः

महात्मानॊ यदूनां च ये जाता विपुले कुले

101

धन्यं यशस्यं पुत्रीयम आयुष्यं विजयावहम

इदम अंशावतरणं शरॊतव्यम अनसूयता

102

अंशावतरणं शरुत्वा देवगन्धर्वरक्षसाम

परभवाप्ययवित पराज्ञॊ न कृच्छ्रेष्व अवसीदति

1

[j]

devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām

anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham

2

rotum icchāmi tattvena mānuṣeṣu mahātmanām

janma karma ca bhūtānām eteṣām anupūrvaśa

3

[v]

mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ

prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśa

4

vipracittir iti khyāto ya āsīd dānavarṣabhaḥ

jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabha

5

diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ

sa jajñe mānuṣe loke śiśupālo nararṣabha

6

saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ

sa śalya iti vikhyāto jajñe bāhlīla puṃgava

7

anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ

dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvara

8

yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ

druma ity abhivikhyātaḥ sa āsīd bhuvi pārthiva

9

bāṣkalo nāma yas teṣām āsīd asurasattamaḥ

bhagadatta iti khyātaḥ sa āsīn manujeśvara

10

ayaḥ śirā aśvaśirā ayaḥ śaṅkuś ca vīryavān

tathā gaganamūrdhā ca vegavāṃś cātra pañcama

11

pañcaite jajñire rājan vīryavanto mahāsurāḥ

kekayeṣu mahātmānaḥ pārthivarṣabha sattamāḥ

12

ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān

amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpa

13

svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ

ugrasena iti khyāta ugra karmā narādhipa

14

yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ

aśoko nāma rājāsīn mahāvīryaparākrama

15

tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ

daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabha

16

vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ

dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpa

17

ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ

sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpa

18

aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ

rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpa

19

sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ

bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthiva

20

tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ

senā bindur iti khyātaḥ sa babhūva narādhipa

21

isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ

pāpajin nāma rājāsīd bhuvi vikhyātavikrama

22

ekacakra iti khyāta āsīd yas tu mahāsuraḥ

prativindhya iti khyāto babhūva prathitaḥ kṣitau

23

virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ

citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthiva

24

haras tv ariharo vīra āsīd yo dānavottamaḥ

suvāstur iti vikhyātaḥ sa jajñe manujarṣabha

25

aharas tu mahātejāḥ śatrupakṣa kṣayaṃ karaḥ

bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau

26

nicandraś candra vaktraś ca ya āsīd asurottamaḥ

muñja keśa iti khyātaḥ śrīmān āsīt sa pārthiva

27

nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata

bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛta

28

arabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ

pauravo nāma rājarṣiḥ sa babhūva nareṣv iha

29

dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ

prahrādo nāma bāhlīkaḥ sa babhūva narādhipa

30

candras tu ditijaśreṣṭho loke tārādhipopama

iko nāma rājarṣir babhūva nṛpasattama

31

mṛtapā iti vikhyāto ya āsīd asurottamaḥ

paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama

32

gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ

drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpa

33

mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ

sa viśva iti vikhyāto babhūva pṛthivīpati

34

suparṇa iti vikhyātatasmād avarajas tu yaḥ

kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpa

35

candra hanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ

śunako nāma rājarṣiḥ sa babhūva narādhipa

36

vināśanas tu candrasya ya ākhyāto mahāsuraḥ

jānakir nāma rājarṣiḥ sa babhūva narādhipa

37

dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ

kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpati

38

grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam

krātha ity abhivikhyātaḥ so 'bhavan manujādhipa

39

anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ

vikṣaro nāma tejasvī vasu mitro 'bhavan nṛpa

40

dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ

pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpa

41

balavīra iti khyāto yas tv āsīd asurottamaḥ

pauṇḍra matsyaka ity eva sa babhūva narādhipa

42

vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ

maṇimān nāma rājarṣiḥ sa babhūva narādhipa

43

krodhahanteti yas tasya babhūvāvarajo 'suraḥ

daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau

44

krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ

daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvara

45

kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ

jajñire rājaśārdūla śārdūlasamavikramāḥ

46

magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ

aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsura

47

dvitīyas tu tatas teṣāṃ rīmān harihayopamaḥ

aparājita ity eva sa babhūva narādhipa

48

tṛtīyas tu mahārāja mahābāhur mahāsuraḥ

niṣādādhipatir jajñe bhuvi bhīmaparākrama

49

teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ

śreṇimān iti vikhyātaḥ kṣitau rājarṣisattama

50

pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ

mahaujā iti vikhyāto babhūveha paraṃtapa

51

aṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ

abhīrur iti vikhyātaḥ kṣitau rājarṣisattama

52

samudrasenaś ca nṛpas teṣām evābhavad guṇān

viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit

53

bṛhann nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ

babhūva rājan dharmātmā sarvabhūtahite rata

54

gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ

tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ

55

nandikaḥ karṇaveṣṭaś ca siddhārthāḥ kīṭakas tathā

suvīraś ca subāhuś ca mahāvīro 'tha bāhlika

56

krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ

vīra dhāmā ca kauravya bhūmipālaś ca nāmata

57

dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ

rukmī ca nṛpaśārdūlo rājā ca janamejaya

58

āṣā
ho vāyuvegaś ca bhūmitejās tathaiva ca

ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukha

59

kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca

śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca

60

kṣemogra tīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ

matimāṃś ca manuṣyendra īśvaraś ceti viśruta

61

gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau

jātaḥ purā mahārāja mahākīrtir mahābala

62

yas tv āsīd devako nāma devarājasamadyutiḥ

sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipa

63

bṛhaspater bṛhat kīrter devarṣer viddhi bhārata

aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam

64

dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ

bṛhat kīrtir mahātejāḥ saṃjajñe manujeṣv iha

65

dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ

variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam

66

mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata

ekatvam upapannānāṃ jajñe śūraḥ paraṃtapa

67

aśvatthāmā mahāvīryaḥ śatrupakṣa kṣayaṃ karaḥ

vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa

68

jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ

vasiṣṭhasya ca śāpena niyogād vāsavasya ca

69

teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ

matimān vedavid vāgmī śatrupakṣa kṣayaṃ kara

70

jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ

ayudhyata mahātejā bhārgaveṇa mahātmanā

71

yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau

rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam

72

akunir nāma yas tv āsīd rājā loke mahārathaḥ

dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam

73

sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ

pakṣāt sa jajñe marutāṃ devānām arimardana

74

drupadaś cāpi rājarṣis tata evābhavad gaṇāt

mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ vara

75

tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam

jātam apratikarmāṇaṃ kṣatriyarṣabha sattamam

76

marutāṃ tu gaṇād viddhi saṃjātam arimardanam

virāṭaṃ nāma rājarṣiṃ pararāṣṭra pratāpanam

77

ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ

sa gandharvapatir jajñe kuruvaṃśavivardhana

78

dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api

dīrghabāhur mahātejāḥ prajñā cakṣur narādhipaḥ

mātur doṣād ṛṣeḥ kopād andha eva vyajāyata

79

atres tu sumahābhāgaṃ putraṃ putravatāṃ varam

viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam

80

kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ

durbuddhir durmatiś caiva kurūṇām ayaśaḥ kara

81

jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ

yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ

yena vairaṃ samuddīptaṃ bhūtānta karaṇaṃ mahat

82

paulastyā bhrātaraḥ sarve jajñire manujeṣv iha

śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām

83

durmukho duḥsahaś caiva ye cānye nānuśabditāḥ

duryodhana sahāyās te paulastyā bharatarṣabha

84

dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram

bhīmasenaṃ tu vātasya devarājasya cārjunam

85

aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi

nakulaḥ sahadevaś ca sarvalokamanoharau

86

yaḥ suvarceti vikhyātaḥ somaputraḥ pratāpavān

abhimanyur bṛhat kīrtir arjunasya suto 'bhavat

87

agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham

śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam

88

draupadeyāś ca ye pañca babhūvur bharatarṣabha

viśve devagaṇān rājaṃs tān viddhi bharatarṣabha

89

muktakavacaḥ karṇo yas tu jajñe mahārathaḥ

divākarasya taṃ viddhi devasyāṃśam anuttamam

90

yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ

tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān

91

eṣasyāṃśas tu nāgasya baladevo mahābalaḥ

sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam

92

evam anye manuṣyendra bahavo 'ṃśā divaukasām

jajñire vasudevasya kule kulavivardhanāḥ

93

gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ

tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca

94

tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa

babhūvur mānuṣe loke nārāyaṇa parigraha

95

riyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale

drupadasya kule kanyā vedimadhyād aninditā

96

nātihrasvā na mahatī nīlotpalasugandhinī

padmāyatākṣī suśroṇī asitāyata mūrdhajā

97

sarvalakṣaṇasaṃpannā vaiḍūrya maṇisaṃnibhā

pañcānāṃ puruṣendrāṇāṃ cittapramathinī raha

98

siddir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te

kuntī mādrī ca jajñāte matis tu subalātmajā

99

iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā

aṃśāvataraṇaṃ rājan rakṣasānāṃ ca kīrtitam

100

ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ

mahātmāno yadūnāṃ ca ye jātā vipule kule

101

dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham

idam aṃśāvataraṇaṃ śrotavyam anasūyatā

102

aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām

prabhavāpyayavit prājño na kṛcchreṣv avasīdati
mahabharata sanskrit text| mahabharata sanskrit text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 61