Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 8

Book 10. Chapter 8

The Mahabharata In Sanskrit


Book 10

Chapter 8

1

[धृ]

तथा परयाते शिबिरं दरॊणपुत्रे महारथे

कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम

2

कच चिन न वारितौ कषुद्रै रक्षिभिर नॊपलक्षितौ

असह्यम इति वा मत्वा न निवृत्तौ महारथौ

3

कच चित परमथ्य शिबिरं हत्वा सॊमक पाण्डवान

दुर्यॊधनस्य पदवीं गतौ परमिकां रणे

4

पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ

कच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय

5

[स]

तस्मिन परयाते शिबिरं दरॊणपुत्रे महात्मनि

कृपश च कृतवर्मा च शिबिर दवार्य अतिष्ठताम

6

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ

परहृष्टः शनकै राजन्न इदं वचनम अब्रवीत

7

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने

किं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः

8

अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत

यथा न कश चिद अपि मे जीवन मुच्येत मानवः

9

इत्य उक्त्वा पराविशद दरौणिः पार्थानां शिबिरं महत

अद्वारेणाभ्यवस्कन्द्य विहाय भयम आत्मनः

10

स परविश्य महाबाहुर उद्देशज्ञश च तस्य ह

धृष्टद्युम्नस्य निलयं शनकैर अभ्युपागमत

11

ते तु कृत्वा महत कर्म शरान्ताश च बलवद रणे

परसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः

12

अथ परविश्य तद वेश्म धृष्टद्युम्नस्य भारत

पाञ्चाल्यं शयने दरौणिर अपश्यत सुप्तम अन्तिकात

13

कषौमावदाते महति सपर्ध्यास्तरण संवृते

माल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते

14

तं शयानं महात्मानं विस्रब्धम अकुतॊभयम

पराबॊधयत पादेन शयनस्थं महीपते

15

स बुद्ध्वा चरणस्पर्शम उत्थाय रणदुर्मदः

अभ्यजानद अमेयात्मा दरॊणपुत्रं महारथम

16

तम उत्पतन्तं शयनाद अश्वत्थामा महाबलः

केशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके

17

सबलात तेन निष्पिष्टः साध्वसेन च भारत

निद्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तदा

18

तम आक्रम्य तदा राजन कण्ठे चॊरसि चॊभयॊः

नदन्तं विस्फुरन्तं च पशुमारम अमारयत

19

तुदन नखैस तु स दरौणिं नातिव्यक्तम उदाहरत

आचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृथाः

तवत्कृते सुकृताँल लॊकान गच्छेयं दविपदां वर

20

तस्याव्यक्तां तु तां वाचं संश्रुत्य दरौणिर अब्रवीत

आचार्य घातिनां लॊका न सन्ति कुलपांसन

तस्माच छस्त्रेण निधनं न तवम अर्हसि दुर्मते

21

एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव दविपम

मर्मस्व अभ्यवधीत करुद्धः पादाष्ठीलैः सुदारुणैः

22

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि

अबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः

23

ते दृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम

भूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात

24

तं तु तेन भयुपायेन गमयित्वा यमक्षयम

अध्यतिष्ठत स तेजस्वी रथं पराप्य सुदर्शनम

25

स तस्य भवनाद राजन निष्क्रम्यानादयन दिशः

रथेन शिबिरं परायाज जिघांसुर दविषतॊ बली

26

अपक्रान्ते ततस तस्मिन दरॊणपुत्रे महारथे

सह तै रक्षिभिः सर्वैः परणेदुर यॊषितस तदा

27

राजानं निहतं दृष्ट्वा भृशं शॊकपरायणाः

वयाक्रॊशन कषत्रियाः सर्वे धृष्टद्युम्नस्य भारत

28

तासां तु तेन शब्देन समीपे कषत्रियर्षभाः

कषिप्रं च समनह्यन्त किम एतद इति चाब्रुवन

29

सत्रियस तु राजन वित्रस्ता भरद्वाजं निरीक्ष्य तम

अब्रुवन दीनकण्ठेन कषिप्रम आद्रवतेति वै

30

राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम

हत्वा पाञ्चालराजं यॊ रथम आरुह्य तिष्ठति

31

ततस ते यॊधमुख्यास तं सहसा पर्यवारयन

स तान आपततः सर्वान रुद्रास्त्रेण वयपॊथयत

32

धृष्टद्युम्नं च हत्वा स तांश चैवास्य पदानुगान

अपश्यच छयने सुप्तम उत्तमौजसम अन्तिके

33

तम अप्य आक्रम्य पादेन कण्ठे चॊरसि चौजसा

तथैव मारयाम आस विनर्दन्तम अरिंदमम

34

युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम

गदाम उद्यम्य वेगेन हृदि दरौणिम अताडयत

35

तम अभिद्रुत्य जग्राह कषितौ चैनम अपातयत

विस्फुरन्तं च पशुवत तथैवैनम अमारयत

36

तथा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाद्रवत

संसुप्तान एव राजेन्द्र तत्र तत्र महारथान

सफुरतॊ वेपमानांश च शमितेव पशून मखे

37

ततॊ निस्त्रिंशम आदाय जघानान्यान पृथग्जनान

भागशॊ विचरन मार्गान असियुद्धविशारदः

38

तथैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान

शरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊथयत

39

यॊधान अश्वान दविपांश चैव पराच्छिनत स वरासिना

रुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः

40

विस्फुरद्भिश च तैर दरैणिर निस्त्रिंशस्यॊद्यमेन च

आक्षेपेण तथैवासेस तरिधा रक्तॊक्षितॊ ऽभवत

41

तस्य लॊहितसिक्तस्य दीप्तखड्गस्य युध्यतः

अमानुष इवाकारॊ बभौ परमभीषणः

42

ये तव अजाग्रत कौरव्य ते ऽपि शब्देन मॊहिताः

निरीक्ष्यमाणा अन्यॊन्यं दरौणिं दृष्ट्वा परविव्यथुः

43

तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः

राक्षसं मन्यमानास तं नयनानि नयमीलयन

44

स घॊररूपॊ वयचरत कालवच छिबिरे ततः

अपश्यद दरौपदीपुत्रान अवशिष्टांश च सॊमकान

45

तेन शब्देन वित्रस्ता धनुर हस्ता महारथाः

धृष्टद्युम्नं हतं शरुत्वा दरौपदेया विपां पते

अवाकिरञ शरव्रातैर भारद्वाजम अभीतवत

46

ततस तेन निनादेन संप्रबुद्धाः परभद्रकाः

शिली मिखैः शिखण्डी च दरॊणपुत्रं समार्दयन

47

भरद्वाजस तु तान दृष्ट्वा शरवर्षाणि वर्षतः

ननाद बलवान नादं जिघांसुस तान सुदुर्जयान

48

ततः परमसंक्रुद्धः पितुर वधम अनुस्मरन

अवरुह्य रथॊपस्थात तवरमाणॊ ऽभिदुद्रुवे

49

सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे

खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम

दरौपदेयान अभिद्रुत्य खड्गेन वयचरद बली

50

ततः स नरशार्दूलः परतिबिन्ध्यं तम आहवे

कुक्षि देशे ऽवधीद राजन स हतॊ नयपतद भुवि

51

परासेन विद्ध्वा दरौणिं तु सुत सॊमः परतापवान

पुनश चासिं समुद्यम्य दरॊणपुत्रम उपाद्रवत

52

सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः

पुनर अभ्यहनत पार्श्वे स भिन्नहृदयॊ ऽपतत

53

नाकुलिस तु शतानीकॊ रथचक्रेण वीर्यवान

दॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत

54

अताडयच छतानीकं मुक्तचक्रं दविजस तु सः

स विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः

55

शरुतकर्मा तु परिघं गृहीत्वा समताडयत

अभिद्रुत्य ततॊ दरौणिं सव्ये सफलके भृशम

56

स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना

स हतॊ नयपतद भूमौ विमूढॊ विकृताननः

57

तेन शब्देन वीरस तु शरुतकीर्तिर महाधनुः

अश्वत्थामानम आसाद्य शरवर्षैर अवाकिरत

58

तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः

सकुण्डलं शिरः कायाद भराजमानम अपाहरत

59

ततॊ भीष्म निहन्ता तं सह सर्वैः परभद्रकैः

अहनत सर्वतॊ वीरं नानाप्रहरणैर बली

शिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्दयत

60

स तु करॊधसमाविष्टॊ दरॊणपुत्रॊ महाबलः

शिखण्डिनं समासाद्य दविधा चिच्छेद सॊ ऽसिना

61

शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः

परभद्रक गडान सर्वान अभिदुद्राव वेगवान

यच च शिष्टं विराटस्य बलं तच च समाद्रवत

62

दरुपदस्य च पुत्राणां पौत्राणां सुहृदाम अपि

चकार कदनं घॊरं दृष्ट्वा दृष्ट्वा महाबलः

63

अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च

नयकृन्तद असिना दरौणिर असि मार्गविशारदः

64

कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम

रक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम

65

ददृशुः कालरात्रिं ते समयमानाम अवस्थिताम

नराश्वकुञ्जरान पाशैर बद्ध्वा घॊरैः परतस्थुषीम

हरन्तीं विविधान परेतान पाशबद्धान विमूर्धजान

66

सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष

ददृशुर यॊधमुख्यास ते घनन्तं दरौणिं च नित्यदा

67

यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः

ततः परभृति तां कृत्याम अपश्यन दरौणिम एव च

68

तांस तु दैवहतान पूर्वं पश्चाद दरौणिर नयपातयत

तरासयन सर्वभूतानि विनदन भैरवान रवान

69

तद अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम

इदं तद इत्य अमन्यन्त दैवेनॊपनिपीडिताः

70

ततस तेन निनादेन परत्यबुध्यन्त धन्विनः

शिबिरे पाण्डवेयानां शतशॊ ऽथ सहस्रशः

71

सॊ ऽचछिनत कस्य चित पादौ जघनं चैव कस्य चित

कांश चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः

72

अत्युग्र परतिपिष्टैश च नदद्भिश च भृशातुरैः

गजाश्वमथितैश चान्यैर मही कीर्णाभवत परभॊ

73

करॊशतां किम इदं कॊ ऽयं किं शब्दः किं नु किं कृतम

एवं तेषां तदा दरौणिर अन्तकः समपद्यत

74

अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान

पराहिणॊन मृत्युलॊकाय दरौणिः परहरतां वरः

75

ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः

निद्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे

76

ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः

विनदन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम

77

ततॊ रथं पुनर दरौणिर आस्थितॊ भीमनिस्वनम

धनुष्पाणिः शरैर अन्यान परेषयद वै यमक्षयम

78

पुनर उत्पततः कांश चिद दूराद अपि नरॊत्तमान

शूरान संपततश चान्यान कालरात्र्यै नयवेदयत

79

तथैव सयन्दनाग्रेण परमथन स विधावति

शरवर्षैश च विविधैर अवर्षच छात्रवांस ततः

80

पुनश च सुविचित्रेण शतचन्द्रेण चर्मणा

तेन चाकाशवर्णेन तदाचरत सॊ ऽसिना

81

तथा स शिबिरं तेषां दरौणिर आहवदुर्मदः

वयक्षॊभयत राजेन्द्र महाह्रदम इव दविपः

82

उत्पेतुस तेन शब्देन यॊधा राजन विचेतसः

निद्रार्ताश च भयार्ताश च वयधावन्त ततस ततः

83

विस्वरं चुक्रुशुश चान्ये बह्वबद्धं तथावदन

न च सम परतिपद्यन्ते शस्त्राणि वसनानि च

84

विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम

उत्पतन्तः परे भीताः के चित तत्र तथाभ्रमन

पुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः

85

बन्धनानि च राजेन्द्र संछिद्य तुरगा दविपाः

समं पर्यपतंश चान्ये कुर्वन्तॊ महद आकुलम

86

तत्र के चिन नरा भीता वयलीयन्त महीतले

तथैव तान निपतितान अपिंषन गजवाजिनः

87

तस्मिंस तथा वर्तमाने रक्षांसि पुरुषर्षभ

तृप्तानि वयनदन्न उच्चैर मुदा भरतसत्तम

88

स शब्दः परेरितॊ राजन भूतसंघैर मुदा युतैः

अपूरयद दिशः सर्वा दिवं चापि महास्वनः

89

तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः

मुक्ताः पर्यपतन राजन मृद्नन्तः शिबिरे जनम

90

तैस तत्र परिधावद्भिश चरणॊदीरितं रजः

अकरॊच छिबिरे तेषां रजन्यां दविगुणं तमः

91

तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः

नाजानन पितरः पुत्रान भरातॄन भरातर एव च

92

गजा गजान अतिक्रम्य निर्मनुष्या हया हयान

अताडयंस तथाभञ्जंस तथामृद्नंश च भारत

93

ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम

नयपातयन्त च परान पातयित्वा तथापिषन

94

विचेतसः सनिद्राश च तमसा चावृता नराः

जघ्नुः सवान एव तत्राथ कालेनाभिप्रचॊदिताः

95

तयक्त्वा दवाराणि च दवाःस्थास तथा गुल्मांश च गौल्मिकाः

पराद्रवन्त यथाशक्ति कांदिशीका विचेतसः

96

विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तदा विभॊ

करॊशन्तस तात पुत्रेति दैवॊपहतचेतसः

97

पलायतां दिशस तेषां सवान अप्य उत्सृज्य बान्धवान

गॊत्र नामभिर अन्यॊन्यम आक्रन्दन्त ततॊ जनाः

98

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे

तान बुद्ध्वा रणमत्तॊ ऽसौ दरॊणपुत्रॊ वयपॊथयत

99

तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः

शिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः

100

तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः

कृतवर्मा कृपश चैव दवारदेशे निजघ्नतुः

101

विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन

वेपमानान कषितौ भीतान नैव कांश चिद अमुञ्चताम

102

नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराद बहिः

कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः

103

भूयश चैव चिकीर्षन्तौ दरॊणपुत्रस्य तौ परियम

तरिषु देशेषु ददतुः शिबिरस्य हुताशनम

104

ततः परकाशे शिबिरे खड्गेन पितृनन्दनः

अश्वत्थामा महाराज वयचरत कृतहस्तवत

105

कांश चिद आपततॊ वीरान अपरांश च परधावतः

वययॊजयत खड्गेन पराणैर दविज वरॊ नरान

106

कांश चिद यॊधान स खड्गेन मध्ये संछिद्य वीर्यवान

अपातयद दरॊणसुतः संरब्धस तिलकाण्डवत

107

विनदद्भिर भृशायास तैर नराश्वद्विरदॊत्तमैः

पतितैर अभवत कीर्णा मेदिनी भरतर्षभ

108

मानुषाणां सहस्रेषु हतेषु पतितेषु च

उदतिष्ठन कबन्धानि बहून्य उत्थाय चापतन

109

सायुधान साङ्गदान बाहून निचकर्त शिरांसि च

हस्तिहस्तॊपमान ऊरून हस्तान पादांश च भारत

110

पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तथापरान

समासाद्याकरॊद दरौणिः कांश चिच चापि पराङ्मुखान

111

मध्यकायान नरान अन्यांश चिछेदान्यांश च कर्णतः

अंसदेशे निहत्यान्यान काये परावेशयच छिरः

112

एवं विचरतस तस्य निघ्नतः सुबहून नरान

तमसा रजनी घॊरा बभौ दारुणदर्शना

113

किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः

बहुना च गजाश्वेन भूर अभूद भीमदर्शना

114

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे

करुद्धेन दरॊणपुत्रेण संछिन्नाः परापतन भुवि

115

मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः

के चिद ऊचुर न तत करुद्धैर धार्तराष्ट्रैः कृतं रणे

116

यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः

असांनिध्याद धि पार्थानाम इदं नः कदनं कृतम

117

न देवासुरगन्धर्वैर न यक्षैर न च राक्षसैः

शक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्दनः

118

बरह्मण्यः सत्यवाग दान्तः सर्वभूतानुकम्पकः

न च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम

धावन्तं मुक्तकेशं वा हन्ति पार्थॊ धनंजयः

119

तद इदं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः

इति लालप्यमानाः सम शेरते बहवॊ जनाः

120

सतनतां च मनुष्याणाम अपरेषां च कूजताम

ततॊ मुहूर्तात पराशाम्यत स शब्दस तुमुलॊ महान

121

शॊणितव्यतिषिक्तायां वसुधायां च भूमिप

तद रजस तुमुलं घॊरं कषणेनान्तर अधीयत

122

संवेष्टमानान उद्विग्नान निरुत्साहान सहस्रशः

नयपातयन नरान करुद्धः पशून पशुपतिर यथा

123

अन्यॊन्यं संपरिष्वज्य शयानान दरवतॊ ऽपरान

संलीनान युध्यमानांश च सर्वान दरौणिर अपॊथयत

124

दह्यमाना हुताशेन वध्यमानाश च तेन ते

परस्परं तदा यॊधा अनयन यमसादनम

125

तस्या रजन्यास तव अर्धेन पाण्डवानां महद बलम

गमयाम आस राजेन्द्र दरौणिर यम निवेशनम

126

निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी

आसीन नरगजाश्वानां रौद्री कषयकरी भृशम

127

तत्रादृश्यन्त रक्षांसि पिशाचाश च पृथग्विधाः

खादन्तॊ नरमांसानि पिबन्तः शॊणितानि च

128

करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः

जटिला दीर्घसक्थाश च पञ्च पादा महॊदराः

129

पश्चाद अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः

घटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः

130

सपुत्रदाराः सुक्रूरा दुर्दर्शन सुनिर्घृणाः

विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम

131

पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे

इदं वरम इदं मेध्यम इदं सवाद्व इति चाब्रुवन

132

मेदॊ मज्जास्थि रक्तानां वसानां च भृशासिताः

परमांसानि खादन्तः करव्यादा मांसजीविनः

133

वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः

नाना वक्त्रास तथा रौद्राः करव्यादाः पिशिताशिनः

134

अयुतानि च तत्रासन परयुतान्य अर्बुदानि च

रक्षसां घॊररूपाणां महतां करूरकर्मणाम

135

मुदितानां वितृप्तानां तस्मिन महति वैशसे

समेतानि बहून्य आसन भूतानि च जनाधिप

136

परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः

नृशॊणितावसिक्तस्य दरौणेर आसीद असि तसरुः

पाणिना सह संश्लिष्ट एकीभूत इव परभॊ

137

स निःशेषान अरीन कृत्वा विरराज जनक्षये

युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः

138

यथाप्रतिज्ञं तत कर्मकृत्वा दरौणायनिः परभॊ

दुर्गमां पदवीं कृत्वा पितुर आसीद गतज्वरः

139

यथैव संसुप्त जने शिबिरे पराविशन निशि

तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः

140

निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान

आचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ

141

ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तदा

पाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः

परीत्या चॊच्चैर उदक्रॊशंस तथैवास्फॊटयंस तलान

142

एवंविधा हि सा रात्रिः सॊमकानां जनक्षये

परसुप्तानां परमत्तानाम आसीत सुभृशदारुणा

143

असंशयं हि कालस्य पर्यायॊ दुरतिक्रमः

तादृशा निहता यत्र कृत्वास्माकं जनक्षयम

144

[धृ]

पराग एव सुमहत कर्म दरौणिर एतन महारथः

नाकरॊद ईदृशं कस्मान मत पुत्र विजये धृतः

145

अथ कस्माद धते कषत्रे कर्मेदं कृतवान असौ

दरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि

146

[स]

तेषां नूनं भयान नासौ कृतवान कुरुनन्दन

असांनिध्याद धि पार्थानां केशवस्य च धीमतः

147

सात्यकेश चापि कर्मेदं दरॊणपुत्रेण साधितम

न हि तेषां समक्षं तान हन्याद अपि मरुत्पतिः

148

एतद ईदृशकं वृत्तं राजन सुप्त जने विभॊ

ततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम

दिष्ट्या दिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारथाः

149

पर्यष्वजत ततॊ दरौणिस ताभ्यां च परतिनन्दितः

इदं हर्षाच च सुमहद आददे वाक्यम उत्तमम

150

पाञ्चाला निहताः सर्वे दरौपदेयाश च सर्वशः

सॊमका मत्स्यशेषाश च सर्वे विनिहता मया

151

इदानीं कृतकृत्याः सम यामतत्रैव माचिरम

यदि जीवति नॊ राजा तस्मै शंसामहे परियम

1

[dhṛ]

tathā prayāte śibiraṃ droṇaputre mahārathe

kac cit kṛpaś ca bhojaś ca bhayārtau na nyavartatām

2

kac cin na vāritau kṣudrai rakṣibhir nopalakṣitau

asahyam iti vā matvā na nivṛttau mahārathau

3

kac cit pramathya śibiraṃ hatvā somaka pāṇḍavān

duryodhanasya padavīṃ gatau paramikāṃ raṇe

4

pāñcālair vā vinihatau kac cin nāsvapatāṃ kṣitau

kac cit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya

5

[s]

tasmin prayāte śibiraṃ droṇaputre mahātmani

kṛpaś ca kṛtavarmā ca śibira dvāry atiṣṭhatām

6

aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau

prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt

7

yattau bhavantau paryāptau sarvakṣatrasya nāśane

kiṃ punar yodhaśeṣasya prasuptasya viśeṣata

8

ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat

yathā na kaś cid api me jīvan mucyeta mānava

9

ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat

advāreṇābhyavaskandya vihāya bhayam ātmana

10

sa praviśya mahābāhur uddeśajñaś ca tasya ha

dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat

11

te tu kṛtvā mahat karma śrāntāś ca balavad raṇe

prasuptā vai suviśvastāḥ svasainyaparivāritāḥ

12

atha praviśya tad veśma dhṛṣṭadyumnasya bhārata

pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt

13

kṣaumāvadāte mahati spardhyāstaraṇa saṃvṛte

mālyapravara saṃyukte dhūpaiś cūrṇaiś ca vāsite

14

taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam

prābodhayata pādena śayanasthaṃ mahīpate

15

sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ

abhyajānad ameyātmā droṇaputraṃ mahāratham

16

tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ

keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahī take

17

sabalāt tena niṣpiṣṭaḥ sādhvasena ca bhārata

nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā

18

tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ

nadantaṃ visphurantaṃ ca paśumāram amārayat

19

tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat

ācārya putra śastreṇa jahi mā māṃ ciraṃ kṛthāḥ

tvatkṛte sukṛtāṁl lokān gaccheyaṃ dvipadāṃ vara

20

tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt

ācārya ghātināṃ lokā na santi kulapāṃsana

tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate

21

evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam

marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇai

22

tasya vīrasya śabdena māryamāṇasya veśmani

abudhyanta mahārāja striyo ye cāsya rakṣiṇa

23

te dṛṣṭvā varṣmavantaṃ tam atimānuṣa vikramam

bhūtam eva vyavasyanto na sma pravyāharan bhayāt

24

taṃ tu tena bhyupāyena gamayitvā yamakṣayam

adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam

25

sa tasya bhavanād rājan niṣkramyānādayan diśaḥ

rathena śibiraṃ prāyāj jighāṃsur dviṣato balī

26

apakrānte tatas tasmin droṇaputre mahārathe

saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā

27

rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ

vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata

28

tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ

kṣipraṃ ca samanahyanta kim etad iti cābruvan

29

striyas tu rājan vitrastā bharadvājaṃ nirīkṣya tam

abruvan dīnakaṇṭhena kṣipram ādravateti vai

30

rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam

hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati

31

tatas te yodhamukhyās taṃ sahasā paryavārayan

sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat

32

dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān

apaśyac chayane suptam uttamaujasam antike

33

tam apy ākramya pādena kaṇṭhe corasi caujasā

tathaiva mārayām āsa vinardantam ariṃdamam

34

yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam

gadām udyamya vegena hṛdi drauṇim atāḍayat

35

tam abhidrutya jagrāha kṣitau cainam apātayat

visphurantaṃ ca paśuvat tathaivainam amārayat

36

tathā sa vīro hatvā taṃ tato 'nyān samupādravat

saṃsuptān eva rājendra tatra tatra mahārathān

sphurato vepamānāṃś ca śamiteva paśūn makhe

37

tato nistriṃśam ādāya jaghānānyān pṛthagjanān

bhāgaśo vicaran mārgān asiyuddhaviśārada

38

tathaiva gulme saṃprekṣya śayānān madhyagaulmikān

śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat

39

yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā

rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntaka

40

visphuradbhiś ca tair draiṇir nistriṃśasyodyamena ca

ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat

41

tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ

amānuṣa ivākāro babhau paramabhīṣaṇa

42

ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ

nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathu

43

tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ

rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan

44

sa ghorarūpo vyacarat kālavac chibire tataḥ

apaśyad draupadīputrān avaśiṣṭāṃś ca somakān

45

tena śabdena vitrastā dhanur hastā mahārathāḥ

dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā vipāṃ pate

avākirañ śaravrātair bhāradvājam abhītavat

46

tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ

ilī mikhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan

47

bharadvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ

nanāda balavān nādaṃ jighāṃsus tān sudurjayān

48

tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran

avaruhya rathopasthāt tvaramāṇo 'bhidudruve

49

sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge

khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam

draupadeyān abhidrutya khaḍgena vyacarad balī

50

tataḥ sa naraśārdūlaḥ pratibindhyaṃ tam āhave

kukṣi deśe 'vadhīd rājan sa hato nyapatad bhuvi

51

prāsena viddhvā drauṇiṃ tu suta somaḥ pratāpavān

punaś cāsiṃ samudyamya droṇaputram upādravat

52

suta somasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ

punar abhyahanat pārśve sa bhinnahṛdayo 'patat

53

nākulis tu śatānīko rathacakreṇa vīryavān

dorbhyām utkṣipya vegena vakṣasy enam atāḍayat

54

atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ

sa vihvalo yayau bhūmiṃ tato 'syāpāharac chira

55

rutakarmā tu parighaṃ gṛhītvā samatāḍayat

abhidrutya tato drauṇiṃ savye saphalake bhṛśam

56

sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā

sa hato nyapatad bhūmau vimūḍho vikṛtānana

57

tena śabdena vīras tu śrutakīrtir mahādhanuḥ

aśvatthāmānam āsādya śaravarṣair avākirat

58

tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ

sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat

59

tato bhīṣma nihantā taṃ saha sarvaiḥ prabhadrakaiḥ

ahanat sarvato vīraṃ nānāpraharaṇair balī

śilīmukhena cāpy enaṃ bhruvor madhye samārdayat

60

sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ

śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā

61

ikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ

prabhadraka gaḍān sarvān abhidudrāva vegavān

yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat

62

drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api

cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābala

63

anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca

nyakṛntad asinā drauṇir asi mārgaviśārada

64

kālīṃ raktāsyanayanāṃ raktamālyānulepanām

raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm

65

dadṛśuḥ kālarātriṃ te smayamānām avasthitām

narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm

harantīṃ vividhān pretān pāśabaddhān vimūrdhajān

66

svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa

dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā

67

yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ

tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca

68

tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat

trāsayan sarvabhūtāni vinadan bhairavān ravān

69

tad anusmṛtya te vīrā darśanaṃ paurvakālikam

idaṃ tad ity amanyanta daivenopanipīḍitāḥ

70

tatas tena ninādena pratyabudhyanta dhanvinaḥ

śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśa

71

so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit

kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntaka

72

atyugra pratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ

gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho

73

krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam

evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata

74

apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān

prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ vara

75

tatas tac chastra vitrastā utpatanto bhayāturāḥ

nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire

76

rustambhagṛhītāś ca kaśmalābhihataujasaḥ

vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam

77

tato rathaṃ punar drauṇir āsthito bhīmanisvanam

dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam

78

punar utpatataḥ kāṃś cid dūrād api narottamān

śūrān saṃpatataś cānyān kālarātryai nyavedayat

79

tathaiva syandanāgreṇa pramathan sa vidhāvati

śaravarṣaiś ca vividhair avarṣac chātravāṃs tata

80

punaś ca suvicitreṇa śatacandreṇa carmaṇā

tena cākāśavarṇena tadācarata so 'sinā

81

tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ

vyakṣobhayata rājendra mahāhradam iva dvipa

82

utpetus tena śabdena yodhā rājan vicetasaḥ

nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tata

83

visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan

na ca sma pratipadyante śastrāṇi vasanāni ca

84

vimuktakeśāś cāpy anye nābhyajānan parasparam

utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman

purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvu

85

bandhanāni ca rājendra saṃchidya turagā dvipāḥ

samaṃ paryapataṃś cānye kurvanto mahad ākulam

86

tatra ke cin narā bhītā vyalīyanta mahītale

tathaiva tān nipatitān apiṃṣan gajavājina

87

tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha

tṛptāni vyanadann uccair mudā bharatasattama

88

sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ

apūrayad diśaḥ sarvā divaṃ cāpi mahāsvana

89

teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ

muktāḥ paryapatan rājan mṛdnantaḥ śibire janam

90

tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ

akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tama

91

tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ

nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca

92

gajā gajān atikramya nirmanuṣyā hayā hayān

atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata

93

te bhagnāḥ prapatantaś ca nighnantaś ca parasparam

nyapātayanta ca parān pātayitvā tathāpiṣan

94

vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ

jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ

95

tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ

prādravanta yathāśakti kāṃdiśīkā vicetasa

96

vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho

krośantas tāta putreti daivopahatacetasa

97

palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān

gotra nāmabhir anyonyam ākrandanta tato janāḥ

98

hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare

tān buddhvā raṇamatto 'sau droṇaputro vyapothayat

99

tatrāpare vadhyamānā muhur muhur acetasaḥ

śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ

100

tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ

kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatu

101

viśastra yantrakavacān muktakeśān kṛtāñjalīn

vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām

102

nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ

kṛpasya ca mahārāja hārdikyasya ca durmate

103

bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam

triṣu deśeṣu dadatuḥ śibirasya hutāśanam

104

tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ

aśvatthāmā mahārāja vyacarat kṛtahastavat

105

kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ

vyayojayata khaḍgena prāṇair dvija varo narān

106

kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān

apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat

107

vinadadbhir bhṛśāyās tair narāśvadviradottamaiḥ

patitair abhavat kīrṇā medinī bharatarṣabha

108

mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca

udatiṣṭhan kabandhāni bahūny utthāya cāpatan

109

sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca

hastihastopamān ūrūn hastān pādāṃś ca bhārata

110

pṛṣṭhac chinnāñ śiraś chinnān pārśvac chinnāṃs tathāparān

samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān

111

madhyakāyān narān anyāṃś cichedānyāṃś ca karṇataḥ

aṃsadeśe nihatyānyān kāye prāveśayac chira

112

evaṃ vicaratas tasya nighnataḥ subahūn narān

tamasā rajanī ghorā babhau dāruṇadarśanā

113

kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ

bahunā ca gajāśvena bhūr abhūd bhīmadarśanā

114

yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe

kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi

115

mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ

ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe

116

yatkṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ

asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam

117

na devāsuragandharvair na yakṣair na ca rākṣasaiḥ

śakyo vijetuṃ kaunteyo goptā yasya janārdana

118

brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ

na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim

dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjaya

119

tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ

iti lālapyamānāḥ sma śerate bahavo janāḥ

120

stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām

tato muhūrtāt prāśāmyat sa śabdas tumulo mahān

121

oṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa

tad rajas tumulaṃ ghoraṃ kṣaṇenāntar adhīyata

122

saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ

nyapātayan narān kruddhaḥ paśūn paśupatir yathā

123

anyonyaṃ saṃpariṣvajya śayānān dravato 'parān

saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat

124

dahyamānā hutāśena vadhyamānāś ca tena te

parasparaṃ tadā yodhā anayan yamasādanam

125

tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam

gamayām āsa rājendra drauṇir yama niveśanam

126

niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī

āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam

127

tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ

khādanto naramāṃsāni pibantaḥ śoṇitāni ca

128

karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ

jaṭilā dīrghasakthāś ca pañca pādā mahodarāḥ

129

paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ

ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ

130

saputradārāḥ sukrūrā durdarśana sunirghṛṇāḥ

vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām

131

pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare

idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan

132

medo majjāsthi raktānāṃ vasānāṃ ca bhṛśāsitāḥ

paramāṃsāni khādantaḥ kravyādā māṃsajīvina

133

vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ

nānā vaktrās tathā raudrāḥ kravyādāḥ piśitāśina

134

ayutāni ca tatrāsan prayutāny arbudāni ca

rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām

135

muditānāṃ vitṛptānāṃ tasmin mahati vaiśase

sametāni bahūny āsan bhūtāni ca janādhipa

136

pratyūṣakāle śibirāt pratigantum iyeṣa saḥ

nṛśoṇitāvasiktasya drauṇer āsīd asi tsaruḥ

pāṇinā saha saṃśliṣṭa ekībhūta iva prabho

137

sa niḥśeṣān arīn kṛtvā virarāja janakṣaye

yugānte sarvabhūtāni bhasmakṛtveva pāvaka

138

yathāpratijñaṃ tat karmakṛtvā drauṇāyaniḥ prabho

durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvara

139

yathaiva saṃsupta jane śibire prāviśan niśi

tathaiva hatvā niḥśabde niścakrāma nararṣabha

140

niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān

ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho

141

tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā

pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ

prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān

142

evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye

prasuptānāṃ pramattānām āsīt subhṛśadāruṇā

143

asaṃśayaṃ hi kālasya paryāyo duratikramaḥ

tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam

144

[dhṛ]

prāg eva sumahat karma drauṇir etan mahārathaḥ

nākarod īdṛśaṃ kasmān mat putra vijaye dhṛta

145

atha kasmād dhate kṣatre karmedaṃ kṛtavān asau

droṇaputro maheṣvāsas tan me śaṃsitum arhasi

146

[s]

teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana

asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmata

147

sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam

na hi teṣāṃ samakṣaṃ tān hanyād api marutpati

148

etad īdṛśakaṃ vṛttaṃ rājan supta jane vibho

tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam

diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ

149

paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ

idaṃ harṣāc ca sumahad ādade vākyam uttamam

150

pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ

somakā matsyaśeṣāś ca sarve vinihatā mayā

151

idānīṃ kṛtakṛtyāḥ sma yāmatatraiva māciram

yadi jīvati no rājā tasmai śaṃsāmahe priyam
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 8