Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 271

Book 12. Chapter 271

The Mahabharata In Sanskrit


Book 12

Chapter 271

1

[उषनस]

नमस तस्मै भगवते देवाय परभविष्णवे

यस्य पृथ्वी तलं तात साकाशं बाहुगॊचरम

2

मूर्धा यस्य तव अनन्तं च सथानं दानव सत्तम

तस्याहं ते परवक्ष्यामि विष्णॊर माहात्म्यम उत्तमम

3

[भी]

तयॊः संवदतॊर एवम आजगाम महामुनिः

सनत्कुमारॊ धर्मात्मा संशय छेदनाय वै

4

स पूजितॊ ऽसुरेन्द्रेण मुनिनॊशनसा तथा

निषसादासने राजन महार्हे मुनिपुंगवः

5

तम आसीनं महाप्राज्ञम उशना वाक्यम अब्रवीत

बरूह्य अस्मै दानवेन्द्राय विन्सॊर माहात्म्यम उत्तमम

6

सनत्कुमारस तु ततः शरुत्वा पराह वचॊ ऽरथवत

विष्णॊर माहात्म्य संयुक्तं दानवेन्द्राय धीमते

7

शृणु सर्वम इदं दैत्य विन्सॊर माहात्म्यम उत्तमम

विष्णौ जगत सथितं सर्वम इति विद्धि परंतप

8

सृजत्य एष महाबाहॊ भूतग्रामं चराचरम

एष चाक्षिपते काले काले विसृजते पुनः

अस्मिन गच्छन्ति विलयम अस्माच च परभवन्त्य उत

9

नैष दानवता शक्यस तपसा नैव चेज्यया

संप्राप्तुम इन्द्रियाणां तु संयमेनैव शक्यते

10

बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि सथितः

निर्मली कुरुते बुद्ध्या सॊ ऽमुत्रानन्त्यम अश्नुते

11

यथा हिरण्यकर्ता वै रूप्यम अग्नौ विशॊधयेत

बहुशॊ ऽतिप्रयत्नेन महतात्म कृतेन ह

12

तद्वज जातिशतैर जीवः शुध्यते ऽलपेन कर्मणा

यत्नेन महता चैवाप्य एकजातौ विशुध्यते

13

लीलयाल्पं यथा गात्रात परमृज्याद आत्मनॊ रजः

बहु यत्नेन महता दॊषनिर्हरनं तथा

14

यथा चाल्पेन माल्येन वासितं तिलसर्षपम

न मुञ्चति सवकं गन्धं तद्वत सूक्ष्मस्य दर्शनम

15

तद एव बहुभिर माल्यैर वास्यमानं पुनः पुनः

विमुञ्चति सवकं गन्धं माल्यगन्धे ऽवतिष्ठति

16

एवं जातिशतैर युक्तॊ गुणैर एव परसङ्गिषु

बुद्ध्या निवर्तते दॊषॊ यत्नेनाभ्यासजेन वै

17

कर्मणा सवेन रक्तानि विरक्तानि च दानव

यथा कर्मविशेषांश च पराप्नुवन्ति तथा शृणु

18

यथा च संप्रवर्तन्ते यस्मिंस तिष्ठन्ति वा विभॊ

तत ते ऽनुपूर्व्या वयाख्यास्ये तद इहैकमनाः शृणु

19

अनादि निधनं शरीमान हरिर नारायणः परभुः

स वै सृजति भूतानि सथावराणि चराणि च

20

एष सर्वेषु भूतेषु कषरश चाक्षर एव च

एकादश विकारात्मा जगत पिबति रश्मिभिः

21

पादौ तस्य महीं विद्धि मूर्धानं दिवम एव च

बाहवस तु दिशॊ दैत्य शरॊत्रम आकाशम एव च

22

तस्य तेजॊमयः सूर्यॊ मनश चन्द्रमसि सथितम

बुद्धिर जञानगता नित्यं रसस तवाप्सु परवर्तते

23

भरुवॊर अनन्तरास तस्य गरहा दानव सत्तम

नक्षत्रचक्रं नेत्राभ्यां पादयॊर भूश च दानव

24

रजस तमश च सत्त्वं च विद्धि नारायणात्मकम

सॊ ऽऽशरमाणां मुखं तात कर्मणस तत फलं विदुः

25

अकर्मणः फलं चैव स एव परम अव्ययः

छन्दांसि तस्य रॊमाणि अक्षरं च सरस्वती

26

बह्व आश्रयॊ बहु मुखॊ धर्मॊ हृदि समाश्रितः

स बरह्म परमॊ धर्मस तपश च सद असच च सः

27

शरुतिशास्त्रग्रहॊपेतः षॊडशर्त्विक्क्रतुश च सः

पितामहश च विष्णुश च सॊ ऽशविनौ स पुरंदरः

28

मित्रश च वरुणश चैव यमॊ ऽथ धनदस तथा

ते पृथग दर्शनास तस्य संविदन्ति तथैकताम

एकस्य विद्धि देवस्य सर्वं जगद इदं वशे

29

नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्य अयम

जन्तुः पश्यति जञानेन ततः सत्त्वं परकाशते

30

संहार विक्षेपसहस्रकॊतीस; तिष्ठन्ति जीवाः परचरन्ति चान्ये

परजा विसर्गस्य च पारिमाण्यं; वापी सहस्राणि बहूनि दैत्य

31

वाप्यः पुनर यॊजनविस्तृतास ताः; करॊशं च गम्भीरतयावगाधाः

आयामतः पञ्चशताश च सर्वाः; परत्येकशॊ यॊजनतः परवृत्थाः

32

वाप्या जलं कषिप्यति वालकॊत्या; तव अह्ना सकृच चाप्य अथ न दवितीयम

तासां कषये विद्धि कृतं विसर्गं; संहारम एकं च तथा परजानाम

33

सॊ जीव वर्गाः परमं परमाणं; कृष्णॊ धूम्रॊ नीलम अथास्य मध्यम

रक्तं पुनः सह्यतरं सुखं तु; हारिद्र वर्णं सुसुखं च शुक्लम

34

परं तु शुक्लं विमलं विशॊकं; गतक्लमं सिध्यति दानवेन्द्र

गत्वा तु यॊनिप्रभवानि दैत्य; सहस्रशः सिद्धिम उपैति जीवः

35

गतिं च यां दर्शनम आह देवॊ; गत्वा शुभं दर्शनम एव चाह

गतिः पुनर वर्णकृता परजानां; वर्णस तथा कालकृतॊ ऽसुरेन्द्र

36

शतं सहस्राणि चतुर्दशेह; परा गतिर जीव गुणस्य दैत्य

आरॊहणं तत कृतम एव विद्धि; सथानं तथा निःसरणं च तेषाम

37

कृष्णस्य वर्णस्य गतिर निकृष्टा; स मज्जते नरके पच्यमानः

सथानं तथा दुर्गतिभिस तु तस्य; परजा विसर्गान सुबहून वदन्ति

38

शतं सहस्राणि ततश चरित्वा; पराप्नॊति वर्णं हरितं तु पश्चात

स चैव तस्मिन निवसत्य अनीशॊ; युगक्षये तमसा संवृतात्मा

39

स वै यदा सत्त्वगुणेन युक्तस; तमॊ वयपॊहन घतते सवबुद्ध्या

स लॊहितं वर्णम उपैति नीलॊ; मनुष्यलॊके परिवर्तते च

40

स तत्र संहार विसर्गम एव; सवकर्मजैर बन्धनैः कलिश्यमानः

ततः स हारिद्रम उपैति वर्णं; संहार विक्षेपशते वयतीते

41

हारिद्र वर्णस तु परजा विसर्गान; सहस्रशस तिष्ठति संचरन वै

अविप्रमुक्तॊ निरये च दैत्य; ततः सहस्राणि दशापरानि

42

गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव

विमुक्तम एनं निरयाच च विद्धि; सर्वेषु चान्येषु च संभवेषु

43

स देवलॊके विहरत्य अभीक्ष्णं; ततश चयुतॊ मानुषताम उपैति

संहार विक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्न अमृतत्वम एति

44

सॊ ऽसमाद अथ भरश्यति कालयॊगात; कृष्णे तले तिष्ठति सर्वकस्ते

यथा तव अयं सिध्यति जीवलॊकस; तत ते ऽभिधास्याम्य असुरप्रवीर

45

दैवानि स वयूह शतानि सप्त; रक्तॊ हरिद्रॊ ऽथ तथैव शुक्लः

संश्रित्य संधावति शुक्लम एतम; अस्तापरान अर्च्यतमान स लॊकान

46

अष्टौ च षष्टिं च शतानि यानि; मनॊ विरुद्धानि महाद्युतीनाम

शुक्लस्य वर्णस्य परा गतिर या; तरीण्य एव रुद्धानि महानुभाव

47

संहार विक्षेपम अनिष्टम एकं; चत्वारि चान्यानि वसत्य अनीशः

सस्थस्य वर्णस्य परा गतिर या; सिद्धा विशिष्टस्य गतक्लमस्य

48

सप्तॊत्तरं तेषु वसत्य अनीशः; संहार विक्षेपशतं सशेषम

तस्माद उपावृत्य मनुष्यलॊके; ततॊ महान मानुषताम उपैति

49

तस्माद उपावृत्य ततः करमेण; सॊ ऽगरे सम संतिष्ठति भूतसर्गम

स सप्तकृत्वश च परैति लॊकान; संहार विक्षेपकृतप्रवासः

50

सप्तैव संहारम उपप्लवानि; संभाव्य संतिष्ठति सिद्धलॊके

ततॊ ऽवययं सथानम अनन्तम एति; देवस्य विष्णॊर अथ बरह्मणश च

शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णॊः परमस्य चैव

51

संहार काले परिदग्ध काया; बरह्माणम आयान्ति सदा परजा हि

चेष्टात्मनॊ देवगणाश च सर्वे; ये बरह्मलॊकाद अमराः सम ते ऽपि

52

परजा विसर्गं तु सशेषकालं; सथानानि सवान्य एव सरन्ति जीवाः

निःशेषाणां तत पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः

53

ये तु चयुताः सिद्धलॊकात करमेण; तेषां गतिं यान्ति तथानुपूर्व्या

जीवाः परे तद बलवेषरूपा; विधिं सवकं यान्ति विपर्ययेन

54

स यावद एवास्ति सशेषभुक्ते; परजाश च देवौ च तथैव शुक्ले

तावत तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रिय रूपम एतत

55

शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन

ततॊ ऽवययं सथानुम उपैति बरह्म; दुष्प्रापम अभ्येति स शाश्वतं वै

इत्य एतद आख्यातम अहीनसत्त्व; नारायणस्येह बलं मया ते

56

[वृत्र]

एवंगते मे न विषादॊ ऽसति कश चित; सम्यक च पश्यामि वचस तवैतत

शरुत्वा च ते वाचम अदीनसत्त्व; विकल्मषॊ ऽसम्य अद्य तथा विपाप्मा

57

परवृत्तम एतद भगवन महर्षे; महाद्युतेश चक्रम अनन्व वीर्यम

विष्णॊर अनन्तस्य सनातनं तत; सथानं सर्गा यत्र सर्वे परवृत्ताः

स वै महात्मा पुरुषॊत्तमॊ वै; तस्मिञ जगत सर्वम इदं परतिष्ठितम

58

[भी]

एवम उक्त्वा स कौन्तेय वृत्रः परानान अवासृजत

यॊजयित्वा तथात्मानं परं सथानम अवाप्तवान

59

[य]

अयं स भगवान देवः पितामह जनार्दनः

सनत्कुमारॊ वृत्राय यत तद आख्यातवान पुरा

60

[भी]

मूलस्थायी स भगवान सवेनानन्तेन तेजसा

तत्स्थः सृजति तान भावान नानारूपान महातपः

61

तुरीयार्धेन तस्येमं विद्धि केशवम अच्युतम

तुरीयार्धेन लॊकांस तरीन भावयत्य एष बुद्धिमान

62

अर्वाक सथितस तु यः सथायी कल्पान्ते परिवर्तते

स शेते भगवान अप्सु यॊ ऽसाव अतिबलः परभुः

तान विधाता परसन्नात्मा लॊकांश चरति शाश्वतान

63

सर्वाण्य अशून्यानि करॊत्य अनन्तः; सनत्कुमारः संचरते च लॊकान

स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत सर्वम इदं विचित्रम

64

[य]

वृत्रेण परमार्थज्ञ दृष्टा मन्ये ऽऽतमनॊ गतिः

शुभा तस्मात स सुखितॊ न शॊचति पितामह

65

शुक्लः शुक्लाभिजातीयः साध्यॊ नावर्तते ऽनघ

तिर्यग्गतेश च निर्मुक्तॊ निरयाच च पितामह

66

हारिद्र वर्णे रक्ते वा वर्तमानस तु पार्थिव

तिर्यग एवानुपश्येत कर्मभिस तामसैर वृतः

67

वयं तु भृशम आपन्ना रक्ताः कस्त मुखे ऽसुखे

कां गतिं परतिपत्स्यामॊ नीलां कृष्णाधमाम अथ

68

[भी]

शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः

विहृत्य देवलॊकेषु पुनर मानुष्यम एष्यथ

69

परजा विसर्गं च सुखेन काले; परत्येत्य देवेषु सुखानि भुक्त्वा

सुखेन संयास्यथ सिद्धसंख्यां; मा वॊ भयं भूद विमलाः सथ सर्वे

1

[uṣanas]

namas tasmai bhagavate devāya prabhaviṣṇave

yasya pṛthvī talaṃ tāta sākāśaṃ bāhugocaram

2

mūrdhā yasya tv anantaṃ ca sthānaṃ dānava sattama

tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam

3

[bhī]

tayoḥ saṃvadator evam ājagāma mahāmuniḥ

sanatkumāro dharmātmā saṃśaya chedanāya vai

4

sa pūjito 'surendreṇa muninośanasā tathā

niṣasādāsane rājan mahārhe munipuṃgava

5

tam āsīnaṃ mahāprājñam uśanā vākyam abravīt

brūhy asmai dānavendrāya vinsor māhātmyam uttamam

6

sanatkumāras tu tataḥ śrutvā prāha vaco 'rthavat

viṣṇor māhātmya saṃyuktaṃ dānavendrāya dhīmate

7

śṛ
u sarvam idaṃ daitya vinsor māhātmyam uttamam

viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa

8

sṛjaty eṣa mahābāho bhūtagrāmaṃ carācaram

eṣa cākṣipate kāle kāle visṛjate punaḥ

asmin gacchanti vilayam asmāc ca prabhavanty uta

9

naiṣa dānavatā śakyas tapasā naiva cejyayā

saṃprāptum indriyāṇāṃ tu saṃyamenaiva śakyate

10

bāhye cābhyantare caiva karmaṇā manasi sthitaḥ

nirmalī kurute buddhyā so 'mutrānantyam aśnute

11

yathā hiraṇyakartā vai rūpyam agnau viśodhayet

bahuśo 'tiprayatnena mahatātma kṛtena ha

12

tadvaj jātiśatair jīvaḥ śudhyate 'lpena karmaṇā

yatnena mahatā caivāpy ekajātau viśudhyate

13

līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ

bahu yatnena mahatā doṣanirharanaṃ tathā

14

yathā cālpena mālyena vāsitaṃ tilasarṣapam

na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam

15

tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ

vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati

16

evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu

buddhyā nivartate doṣo yatnenābhyāsajena vai

17

karmaṇā svena raktāni viraktāni ca dānava

yathā karmaviśeṣāṃś ca prāpnuvanti tathā śṛu

18

yathā ca saṃpravartante yasmiṃs tiṣṭhanti vā vibho

tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛu

19

anādi nidhanaṃ śrīmān harir nārāyaṇaḥ prabhuḥ

sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca

20

eṣa sarveṣu bhūteṣu kṣaraś cākṣara eva ca

ekādaśa vikārātmā jagat pibati raśmibhi

21

pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca

bāhavas tu diśo daitya śrotram ākāśam eva ca

22

tasya tejomayaḥ sūryo manaś candramasi sthitam

buddhir jñānagatā nityaṃ rasas tvāpsu pravartate

23

bhruvor anantarās tasya grahā dānava sattama

nakṣatracakraṃ netrābhyāṃ pādayor bhūś ca dānava

24

rajas tamaś ca sattvaṃ ca viddhi nārāyaṇātmakam

so 'śramāṇāṃ mukhaṃ tāta karmaṇas tat phalaṃ vidu

25

akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ

chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī

26

bahv āśrayo bahu mukho dharmo hṛdi samāśritaḥ

sa brahma paramo dharmas tapaś ca sad asac ca sa

27

rutiśāstragrahopetaḥ ṣoḍaśartvikkratuś ca saḥ

pitāmahaś ca viṣṇuś ca so 'śvinau sa puraṃdara

28

mitraś ca varuṇaś caiva yamo 'tha dhanadas tathā

te pṛthag darśanās tasya saṃvidanti tathaikatām

ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe

29

nānā bhūtasya daityendra tasyaikatvaṃ vadaty ayam

jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate

30

saṃhāra vikṣepasahasrakotīs; tiṣṭhanti jīvāḥ pracaranti cānye

prajā visargasya ca pārimāṇyaṃ; vāpī sahasrāṇi bahūni daitya

31

vāpyaḥ punar yojanavistṛtās tāḥ; krośaṃ ca gambhīratayāvagādhāḥ

yāmataḥ pañcaśatāś ca sarvāḥ; pratyekaśo yojanataḥ pravṛtthāḥ

32

vāpyā jalaṃ kṣipyati vālakotyā; tv ahnā sakṛc cāpy atha na dvitīyam

tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ; saṃhāram ekaṃ ca tathā prajānām

33

so jīva vargāḥ paramaṃ pramāṇaṃ; kṛṣṇo dhūmro nīlam athāsya madhyam

raktaṃ punaḥ sahyataraṃ sukhaṃ tu; hāridra varṇaṃ susukhaṃ ca śuklam

34

paraṃ tu śuklaṃ vimalaṃ viśokaṃ; gataklamaṃ sidhyati dānavendra

gatvā tu yoniprabhavāni daitya; sahasraśaḥ siddhim upaiti jīva

35

gatiṃ ca yāṃ darśanam āha devo; gatvā śubhaṃ darśanam eva cāha

gatiḥ punar varṇakṛtā prajānāṃ; varṇas tathā kālakṛto 'surendra

36

ataṃ sahasrāṇi caturdaśeha; parā gatir jīva guṇasya daitya

ārohaṇaṃ tat kṛtam eva viddhi; sthānaṃ tathā niḥsaraṇaṃ ca teṣām

37

kṛṣṇasya varṇasya gatir nikṛṣṭā; sa majjate narake pacyamānaḥ

sthānaṃ tathā durgatibhis tu tasya; prajā visargān subahūn vadanti

38

ataṃ sahasrāṇi tataś caritvā; prāpnoti varṇaṃ haritaṃ tu paścāt

sa caiva tasmin nivasaty anīśo; yugakṣaye tamasā saṃvṛtātmā

39

sa vai yadā sattvaguṇena yuktas; tamo vyapohan ghatate svabuddhyā

sa lohitaṃ varṇam upaiti nīlo; manuṣyaloke parivartate ca

40

sa tatra saṃhāra visargam eva; svakarmajair bandhanaiḥ kliśyamānaḥ

tataḥ sa hāridram upaiti varṇaṃ; saṃhāra vikṣepaśate vyatīte

41

hāridra varṇas tu prajā visargān; sahasraśas tiṣṭhati saṃcaran vai

avipramukto niraye ca daitya; tataḥ sahasrāṇi daśāparāni

42

gatīḥ sahasrāṇi ca pañca tasya; catvāri saṃvartakṛtāni caiva

vimuktam enaṃ nirayāc ca viddhi; sarveṣu cānyeṣu ca saṃbhaveṣu

43

sa devaloke viharaty abhīkṣṇaṃ; tataś cyuto mānuṣatām upaiti

saṃhāra vikṣepaśatāni cāṣṭau; martyeṣu tiṣṭhann amṛtatvam eti

44

so 'smād atha bhraśyati kālayogāt; kṛṣṇe tale tiṣṭhati sarvakaste

yathā tv ayaṃ sidhyati jīvalokas; tat te 'bhidhāsyāmy asurapravīra

45

daivāni sa vyūha śatāni sapta; rakto haridro 'tha tathaiva śuklaḥ

saṃśritya saṃdhāvati śuklam etam; astāparān arcyatamān sa lokān

46

aṣṭau ca ṣaṣṭiṃ ca śatāni yāni; mano viruddhāni mahādyutīnām

śuklasya varṇasya parā gatir yā; trīṇy eva ruddhāni mahānubhāva

47

saṃhāra vikṣepam aniṣṭam ekaṃ; catvāri cānyāni vasaty anīśaḥ

sasthasya varṇasya parā gatir yā; siddhā viśiṣṭasya gataklamasya

48

saptottaraṃ teṣu vasaty anīśaḥ; saṃhāra vikṣepaśataṃ saśeṣam

tasmād upāvṛtya manuṣyaloke; tato mahān mānuṣatām upaiti

49

tasmād upāvṛtya tataḥ krameṇa; so 'gre sma saṃtiṣṭhati bhūtasargam

sa saptakṛtvaś ca paraiti lokān; saṃhāra vikṣepakṛtapravāsa

50

saptaiva saṃhāram upaplavāni; saṃbhāvya saṃtiṣṭhati siddhaloke

tato 'vyayaṃ sthānam anantam eti; devasya viṣṇor atha brahmaṇaś ca

śeṣasya caivātha narasya caiva; devasya viṣṇoḥ paramasya caiva

51

saṃhāra kāle paridagdha kāyā; brahmāṇam āyānti sadā prajā hi

ceṣṭātmano devagaṇāś ca sarve; ye brahmalokād amarāḥ sma te 'pi

52

prajā visargaṃ tu saśeṣakālaṃ; sthānāni svāny eva saranti jīvāḥ

niḥśeṣāṇāṃ tat padaṃ yānti cānte; sarvāpadā ye sadṛśā manuṣyāḥ

53

ye tu cyutāḥ siddhalokāt krameṇa; teṣāṃ gatiṃ yānti tathānupūrvyā

jīvāḥ pare tad balaveṣarūpā; vidhiṃ svakaṃ yānti viparyayena

54

sa yāvad evāsti saśeṣabhukte; prajāś ca devau ca tathaiva śukle

tāvat tadā teṣu viśuddhabhāvaḥ; saṃyamya pañcendriya rūpam etat

55

uddhāṃ gatiṃ tāṃ paramāṃ paraiti; śuddhena nityaṃ manasā vicinvan

tato 'vyayaṃ sthānum upaiti brahma; duṣprāpam abhyeti sa śāśvataṃ vai

ity etad ākhyātam ahīnasattva; nārāyaṇasyeha balaṃ mayā te

56

[vṛtra]

evaṃgate me na viṣādo 'sti kaś cit; samyak ca paśyāmi vacas tavaitat

śrutvā ca te vācam adīnasattva; vikalmaṣo 'smy adya tathā vipāpmā

57

pravṛttam etad bhagavan maharṣe; mahādyuteś cakram ananva vīryam

viṣṇor anantasya sanātanaṃ tat; sthānaṃ sargā yatra sarve pravṛttāḥ

sa vai mahātmā puruṣottamo vai; tasmiñ jagat sarvam idaṃ pratiṣṭhitam

58

[bhī]

evam uktvā sa kaunteya vṛtraḥ prānān avāsṛjat

yojayitvā tathātmānaṃ paraṃ sthānam avāptavān

59

[y]

ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ

sanatkumāro vṛtrāya yat tad ākhyātavān purā

60

[bhī]

mūlasthāyī sa bhagavān svenānantena tejasā

tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapa

61

turīyārdhena tasyemaṃ viddhi keśavam acyutam

turīyārdhena lokāṃs trīn bhāvayaty eṣa buddhimān

62

arvāk sthitas tu yaḥ sthāyī kalpānte parivartate

sa śete bhagavān apsu yo 'sāv atibalaḥ prabhuḥ

tān vidhātā prasannātmā lokāṃś carati śāśvatān

63

sarvāṇy aśūnyāni karoty anantaḥ; sanatkumāraḥ saṃcarate ca lokān

sa cāniruddhaḥ sṛjate mahātmā; tatsthaṃ jagat sarvam idaṃ vicitram

64

[y]

vṛtreṇa paramārthajña dṛṣṭā manye 'tmano gatiḥ

śubhā tasmāt sa sukhito na śocati pitāmaha

65

uklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha

tiryaggateś ca nirmukto nirayāc ca pitāmaha

66

hāridra varṇe rakte vā vartamānas tu pārthiva

tiryag evānupaśyeta karmabhis tāmasair vṛta

67

vayaṃ tu bhṛśam āpannā raktāḥ kasta mukhe 'sukhe

kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇdhamām atha

68

[bhī]

śuddhābhijanasaṃpannāḥ pāṇḍavāḥ saṃśitavratāḥ

vihṛtya devalokeṣu punar mānuṣyam eṣyatha

69

prajā visargaṃ ca sukhena kāle; pratyetya deveṣu sukhāni bhuktvā

sukhena saṃyāsyatha siddhasaṃkhyāṃ; mā vo bhayaṃ bhūd vimalāḥ stha sarve
ura of the quran| quran sura 65 4
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 271