Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 29

Book 12. Chapter 29

The Mahabharata In Sanskrit


Book 12

Chapter 29

1

[वैषम्पायन]

अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे

गुडाकेशॊ हृषीकेशम अभ्यभाषत पाण्डवः

2

जञातिशॊकाभिसंतप्तॊ धर्मराजः परंतपः

एष शॊकार्णवे मग्नस तम आश्वासय माधव

3

सर्वे सम ते संशयिताः पुनर एव जनार्दन

अस्य शॊकं महाबाहॊ परणाशयितुम अर्हसि

4

एवम उक्तस तु गॊविन्दॊ विजयेन महात्मना

पर्यवर्तत राजानं पुण्डरीकेक्षणॊ ऽचयुतः

5

अनतिक्रमणीयॊ हि धर्मराजस्य केशवः

बाल्यात परभृति गॊविन्दः परीत्या चाभ्यधिकॊ ऽरजुनात

6

संप्रगृह्य महाबाहुर भुजं चन्दनभूषितम

शैलस्तम्भॊपमं शौरिर उवाचाभिविनॊदयन

7

शुशुभे वदनं तस्य सुदंष्ट्रं चारुलॊचनम

वयाकॊशम इव विस्पष्टं पद्मं सूर्यविबॊधितम

8

मा कृथाः पुरुषव्याघ्र शॊकं तवं गात्रशॊषणम

न हि ते सुलभा भूयॊ ये हतास्मिन रणाजिरे

9

सवप्नलब्धा यथा लाभा वि तथाः परतिबॊधने

एवं ते कषत्रिया राजन ये वयतीता महारणे

10

सर्वे हय अभिमुखाः शूरा विगता रणशॊभिनः

नैषां कश चित पृष्ठतॊ वा पलायन वापि पातितः

11

सर्वे तयक्त्वात्मनः पराणान युद्ध्वा वीरा महाहवे

शस्त्रपूता दिवं पराप्ता न ताञ शॊचितुम अर्हसि

12

अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम

सृञ्जयं पुत्रशॊकार्तं यथायं पराह नारदः

13

सुखदुःखैर अहं तवं च परजाः सर्वाश च सृञ्जय

अविमुक्तं चरिष्यामस तत्र का परिदेवना

14

महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु

गच्छावधानं नृपते ततॊ दुःखं परहास्यसि

15

मृतान महानुभावांस तवं शरुत्वैव तु महीपतीन

शरुत्वापनय संतापं शृणु विस्तरशश च मे

16

आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि

यस्य सेन्द्राः स वरुणा बृहस्पतिपुरॊगमाः

देवा विश्वसृजॊ राज्ञॊ यज्ञम ईयुर महात्मनः

17

यः सपर्धाम अनयच छक्रं देवराजं शतक्रतुम

शक्र परियैषी यं विद्वान परत्याचष्ट बृहस्पतिः

संवर्तॊ याजयाम आस यं पीडार्थं बृहस्पतेः

18

यस्मिन परशासति सतां नृपतौ नृपसत्तम

अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी

19

आविक्षितस्य वै सत्रे विश्वे देवाः सभा सदः

मरुतः परिवेष्टारः साध्याश चासन महात्मनः

20

मरुद्गणा मरुत्तस्य यत सॊमम अपिबन्त ते

देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः

21

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

22

सुहॊत्रं चेद वैतिथिनं मृतं सृञ्जय शुश्रुम

यस्मै हिरण्यं ववृषे मगह्वान परिवत्सरम

23

सत्यनामा वसुमती यं पराप्यासीज जनाधिप

हिरण्यम अवहन नद्यस तस्मिञ जनपदेश्वरे

24

कूर्मान कर्कटकान नक्रान मकराञ शिंशुकान अपि

नदीष्व अपातयद राजन मघवा लॊकपूजितः

25

हैरण्यान पतितान दृष्ट्वा मत्स्यान मकरकच्छपान

सहस्रशॊ ऽथ शतशस ततॊ ऽसमयत वैतिथिः

26

तद धिरण्यम अपर्यन्तम आवृत्तं कुरुजाङ्गले

ईजानॊ वितते यज्ञे बराह्मणेभ्यः समाहितः

27

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

अदक्षिणम अयज्वानं शवैत्य संशाम्य मा शुचः

28

अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय

यः सहस्रं सहस्राणां शवेतान अश्वान अवासृजत

29

सहस्रं च सहस्राणां कन्या हेमविभूषिताः

ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत

30

शतं शतसहस्राणां वृषाणां हेममालिनाम

गवां सहस्रानुचरं दक्षिणाम अत्यकालयत

31

अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ

अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः

32

यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः

देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः

33

न जातॊ जनिता चान्यः पुमान यस तत परदास्यति

यद अङ्गः परददौ वित्तं सॊमसंस्थासु सप्तसु

34

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

35

शिबिम औशीनरं चैव मृतं शुश्रुम सृञ्जय

य इमां पृथिवीं कृत्स्नां चर्मवत समवेष्टयत

36

महता रथघॊषेण पृथिवीम अनुनादयन

एकछत्रां महीं चक्रे जैत्रेणैक रथेन यः

37

यावद अद्य गवाश्वं सयाद आरण्यैः पशुभिः सह

तावतीः परददौ गाः स शिबिर औशीनरॊ ऽधवरे

38

नॊद्यन्तारं धुरं तस्य कं चिन मेने परजापतिः

न भूतं न भविष्यन्तं सर्वराजसु भारत

अन्यत्रौशीनराच छैब्याद राजर्षेर इन्द्र विक्रमात

39

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

अदक्षिणम अयज्वानं तं वै संशाम्य मा शुचः

40

भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम

शाकुन्तलिं महेष्वासं भूरि दरविण तेजसम

41

यॊ बद्ध्वा तरिंशतॊ हय अश्वान देवैभ्यॊ यमुनाम अनु

सरस्वतीं विंशतिं च गङ्गाम अनु चतुर्दश

42

अश्वमेध सहस्रेण राजसूय शतेन च

इष्टवान स महातेजा दौःषन्तिर भरतः पुरा

43

भरतस्य महत कर्म सर्वराजसु पार्थिवाः

खं मर्त्या इव बाहुभ्यां नानुगन्तुम अशक्नुवन

44

परं सहस्राद यॊ बद्ध्वा हयान वेदीं विचित्य च

सहस्रं यत्र पद्मानां कण्वाय भरतॊ ददौ

45

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

46

रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय

यॊ ऽनवकम्पत वै नित्यं परजाः पुत्रान इवौरसान

47

विधवा यस्य विषये नानाथाः काश चनाभवन

सर्वस्यासीत पितृसमॊ रामॊ राज्यं यदान्वशात

48

कालवर्षाश च पर्जन्याः सस्यानि रसवन्ति च

नित्यं सुभिक्षम एवासीद रामे राज्यं परशासति

49

पराणिनॊ नाप्सु मज्जन्ति नानर्थे पावकॊ ऽदहत

न वयालजं भयं चासीद रामे राज्यं परशासति

50

आसन वर्षसहस्राणि तथा पुत्रसहस्रिकाः

अरॊगाः सर्वसिद्धार्थाः परजा रामे परशासति

51

नान्यॊन्येन विवादॊ ऽभूत सत्रीणाम अपि कुतॊ नृणाम

धर्मनित्याः परजाश चासन रामे राज्यं परशासति

52

नित्यपुष्पफलाश चैव पादपा निरुपद्रवाः

सर्वा दरॊण दुघा गावॊ रामे राज्यं परशासति

53

स चतुर्दश वर्षाणि वने परॊष्य महातपाः

दशाश्वमेधाञ जारूथ्यान आजहार निरर्गलान

54

शयामॊ युवा लॊहिताक्षॊ मत्तवारणविक्रमः

दशवर्षसहस्राणि रामॊ राज्यम अकारयत

55

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

56

भगीरथं च राजानं मृतं शुश्रुम सृञ्जय

यस्येद्न्रॊ वितते यज्ञे सॊमं पीत्वा मदॊत्कटः

57

असुराणां सहस्राणि बहूनि सुरसत्तमः

अजयद बाहुवीर्येण भगवान पाकशासनः

58

यः सहस्रं सहस्राणां कन्या हेमविभूषिताः

ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत

59

सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः

रथे रथे शतं नागाः पद्मिनॊ हेममालिनः

60

सहस्रम अश्वा एकैकं हस्तिनं पृष्ठतॊ ऽनवयुः

गवां सहस्रम अश्वे ऽशवे सहस्रं गव्य अजाविकम

61

उपह्वरे निवसतॊ यस्याङ्के निषसाद ह

गङ्गा भागीरथी तस्माद उर्वशी हय अभवत पुरा

62

भूरिदक्षिणम इक्ष्वाकुं यजमानं भगीरथम

तरिलॊकपथ गा गङ्गा दुहितृत्वम उपेयिषी

63

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

64

दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय

यस्य कर्माणि भूरीणि कथयन्ति दविजातयः

65

इमां वै वसु संपन्नां वसुधां वसुधाधिपः

ददौ तस्मिन महायज्ञे बराह्मणैभ्यः समाहितः

66

तस्येह यजमानस्य यज्ञे यज्ञे पुरॊहितः

सहस्रं वारणान हैमान दक्षिणाम अत्यकालयत

67

यस्य यज्ञे महान आसीद यूपः शरीमान हिरण्मयः

तं देवाः कर्म कुर्वाणाः शक्र जयेष्ठा उपाश्रयन

68

चषालॊ यस्य सौवर्णस तस्मिन यूपे हिरण्मये

ननृतुर देवगन्धर्वाः षट सहस्राणि सप्तधा

69

अवादयत तत्र वीणां मध्ये विश्वावसुः सवयम

सर्वभूतान्य अमन्यन्त मम वादयतीत्य अयम

70

एतद राज्ञॊ दिलीपस्य राजानॊ नानुचक्रिरे

यत सत्रियॊ हेमसंपन्नाः पथि मत्ताः सम शेरते

71

राजानम उग्रधन्वानं दिलीपं सत्यवादिनम

ये ऽपश्यन सुमहात्मानं ते ऽपि सवर्गजितॊ नराः

72

तरयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने

सवाध्यायघॊषॊ जयाघॊषॊ दीयताम इति चैव हि

73

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

74

मांधातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय

यं देवा मरुतॊ गर्भं पितुः पार्श्वाद अपाहरन

75

संवृद्धॊ युवनाश्वस्य जठरे यॊ महात्मनः

पृषद आज्यॊद्भवः शरीमांस तरिलॊकविजयी नृपः

76

यं दृष्ट्वा पितुर उत्सङ्गे शयानं देवरूपिणम

अन्यॊन्यम अब्रुवन देवाः कम अयं धास्यतीति वै

77

माम एव धास्यतीत्य एवम इन्द्रॊ अभ्यवपद्यत

मांधातेति ततस तस्य नाम चक्रे शतक्रतुः

78

ततस तु पयसॊ धारां पुष्टि हेतॊर महात्मनः

तस्यास्ये यौवनाश्वस्य पाणिर इन्द्रस्य चास्रवत

79

तं पिबन पाणिम इन्द्रस्य समाम अह्ना वयवर्धत

स आसीद दवादश समॊ दवादशाहेन पार्थिव

80

तम इयं पृथिवी सर्वा एकाह्ना समपद्यत

धर्मात्मानं महात्मानं शूरम इन्द्रसमं युधि

81

य आङ्गारं हि नृपतिं मरुत्तम असितं गयम

अङ्गं बृहद्रथं चैव मांधाता समरे ऽजयत

82

यौवनाश्वॊ यदाङ्गारं समरे समयॊधयत

विस्फारैर धनुषॊ देवा दयौर अभेदीति मेनिरे

83

यतः सूर्य उदेति सम यत्र च परतितिष्ठति

सर्वं तद यौवनाश्वस्य मांधातुः कषेत्रम उच्यते

84

अश्वमेध शतेनेष्ट्वा राजसूय शतेन च

अददाद रॊहितान मत्स्यान बराह्मणैभ्यॊ महीपतिः

85

हैरण्यान यॊजनॊत्सेधान आयतान दशयॊजनम

अतिरिक्तान दविजातिभ्यॊ वयभजन्न इतरे जनाः

86

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

87

ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय

य इमां पृथिवीं सर्वां विजित्य सह सागराम

88

शम्या पातेनाभ्यतीयाद वेदीभिश चित्रयन नृप

ईजानः करतुभिः पुण्यैः पर्यगच्छद वसुंधराम

89

इष्ट्वा करतुसहस्रेण वाजिमेधशतेन च

तर्पयाम आस देवेन्द्रं तरिभिः काञ्चनपर्वतैः

90

वयूढे देवासुरे युद्धे हत्वा दैतेय दानवान

वयभजत पृथिवीं कृत्स्नां ययातिर नहुषात्मजः

91

अन्तेषु पुत्रान निक्षिप्य यदुद्रुह्यु पुरॊगमान

पूरुं राज्ये ऽभिषिच्य सवे सदारः परस्थितॊ वनम

92

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

93

अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय

यं परजा वव्रिरे पुण्यं गॊप्तारं नृपसत्तम

94

यः सहस्रं सहस्राणां राज्ञाम अयुत याजिनाम

ईजानॊ वितते यज्ञे बराह्मणैभ्यः समाहितः

95

नैतत पूर्वे जनाश चक्रुर न करिष्यन्ति चापरे

इत्य अम्बरीषं नाभागम अन्वमॊदन्त दक्षिणाः

96

शतं राजसहस्राणि शतं राजशतानि च

सर्वे ऽशवमेधैर ईजानास ते ऽभययुर दक्षिणायनम

97

स चेन ममार सृञ्जय चतुर्भद्र तरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

98

शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय

यस्य भार्या सहस्राणां शतम आसीन महात्मनः

99

सहस्रं तु सहस्राणां यस्यासञ शाश बिन्दवः

हिरण्यकवचाः सर्वे सर्वे चॊत्तमधन्विनः

100

शतं कन्या राजपुत्रम एकैकं पृष्ठतॊ ऽनवयुः

कन्यां कन्यां शतं नागा नागं नागं शतं रथाः

101

रथं रथं शतं चाश्वा देशजा हेममालिनः

अश्वम अश्वं शतं गावॊ गां गां तद्वद अजाविकम

102

एतद धनम अपर्यन्तम अश्वमेधे महामखे

शशबिन्दुर महाराज बराह्मणैभ्यः समादिशत

103

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

104

गयम आमूर्तरयसं मृतं शुश्रुम सृञ्जय

यः स वर्षशतं राजा हुतशिष्टाशनॊ ऽभवत

105

यस्मै वह्निर वरान परादात ततॊ वव्रे वरान गयः

ददतॊ मे ऽकषया चास्तु धर्मे शरद्धा च वर्धताम

106

मनॊ मे रमतां सत्ये तवत्प्रसादाद धुताशन

लेभे च कामांस तान सर्वान पावकाद इति नः शरुतम

107

दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः

अयजत स महातेजाः सहस्रं परिवत्सरान

108

शतं गवां सहस्राणि शतम अश्वशतानि च

उत्थायॊत्थाय वै परादात सहस्रं परिवत्सरान

109

तर्पयाम आस सॊमेन देवान वित्तैर दविजान अपि

पितॄन सवधाभिः कामैश च सत्रियः सवाः पुरुषर्षभ

110

सौवर्णां पृथिवीं कृत्वा दशव्यामां दविर आयताम

दक्षिमाम अददद राजा वाजिमेधमहामखे

111

यावत्यः सिकता राजन गङ्गायाः पुरुषर्षभ

तावतीर एव गाः परादाद आमूर्तरयसॊ गयः

112

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

113

रन्ति देवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय

सम्यग आराध्य यः शक्रं वरं लेभे महायशाः

114

अन्नं च नॊ बहु भवेद अतिथींश च लभेमहि

शरद्धा च नॊ मा वयगमन मा च याचिष्म कं चन

115

उपातिष्ठन्त पशवः सवयं तं संशितव्रतम

गराम्यारण्या महात्मानं रन्ति देवं यशस्विनम

116

महानदी चर्म राशेर उत्क्लेदात सुस्रुवे यतः

ततश चर्मण्वतीत्य एवं विख्याता सा महानदी

117

बराह्मणैभ्यॊ ददौ निष्कान सदसि परतते नृपः

तुभ्यं तुभ्यं निष्कम इति यत्राक्रॊशन्ति वै दविजाः

सहस्रं तुभ्यम इत्य उक्त्वा बराह्मणान सम परपद्यते

118

अन्वाहार्यॊपकरणं दरव्यॊपकरणं च यत

घटाः सथाल्यः कटाहाश च पात्र्यश च पिठरा अपि

न तत किं चिद असौवर्णं रन्ति देवस्य धीमतः

119

साङ्कृते रन्ति देवस्य यां रात्रिम अवसद गृहे

आलभ्यन्त शतं गावः सहस्राणि च विंशतिः

120

तत्र सम सूदाः करॊशन्ति सुमृष्टमणिकुण्डलाः

सूपभूयिष्ठम अश्नीध्वं नाद्य मांसं यथा पुरा

121

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

122

सगरं च महात्मानं मृतं शुश्रुम सृञ्जय

ऐक्ष्वाकं पुरुषव्याघ्रम अति मानुषविक्रमम

123

षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतॊ ऽनवयुः

नक्षत्रराजं वर्षान्ते वयभ्रे जयॊतिर गणा इव

124

एकछत्रा मही यस्य परणता हय अभवत पुरा

यॊ ऽशवमेध सहस्रेण तर्पयाम आस देवताः

125

यः परादात काञ्चनस्तम्भं परासादं सर्वकाञ्चनम

पूर्णं पद्मदलाक्षीणां सत्रीणां शयनसंकुलम

126

दविजातिभ्यॊ ऽनुरूपैभ्यः कामान उच्चावचांस तथा

यस्यादेशेन तद वित्तं वयभजन्त दविजातयः

127

खानयाम आस यः कॊपात पृथिवीं सागराङ्किताम

यस्य नाम्ना समुद्रश च सागरत्वम उपागतः

128

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

129

राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय

यम अभ्यषिञ्चन संभूय महारण्ये महर्षयः

130

परथयिष्यति वै लॊकान पृथुर इत्य एव शब्दितः

कषताच च नस तरायतीति स तस्मात कषत्रियः समृतः

131

पृथुं वैन्यं परजा दृष्ट्वा रक्ताः समेति यद अब्रुवन

ततॊ राजेति नामास्य अनुरागाद अजायत

132

अकृष्टपच्या पृथिवी पुटके पुटके मधु

सर्वा दरॊण दुघा गावॊ वैन्यस्यासन परशासतः

133

अरॊगाः सर्वसिद्धार्था मनुष्या अकुतॊभयाः

यथाभिकामम अवसन कषेत्रेषु च गृहेषु च

134

आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः

सरितश चानुदीर्यन्त धवजसङ्गश च नाभवत

135

हैरण्यांस तरिनलॊत्सेधान पर्वतान एकविंशतिम

बराह्मणैभ्यॊ ददौ राजा यॊ ऽशवमेधे महामखे

136

स चेन ममार सृञ्जय चतुर्भद्रतरस तवया

पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः

137

किं वै तूष्णीं धयायसि सृञ्जय तवं; न मे राजन वाचम इमां शृणॊषि

न चेन मॊघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षॊर इव सम्यग उक्तम

138

[सृन्जय]

शृणॊमि ते नारद वाचम एतां; विचित्रार्थां सरजम इव पुण्यगन्धाम

राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शॊकनिर्णाशनार्थम

139

न ते मॊघं विप्रलप्तं महर्षे; दृष्ट्वैव तवां नारदाहं वि शॊकः

शुश्रूषे ते वचनं बरह्मवादिन; न ते तृप्याम्य अमृतस्येव पानात

140

अमॊघदर्शिन मम चेत परसादं; सुताघ दग्धस्य विभॊ परकुर्याः

मृतस्य संजीवनम अद्य मे सयात; तव परसादात सुत संगमश च

141

[नारद]

यस ते पुत्रॊ दयितॊ ऽयं वियातः; सवर्णष्ठीवी यम अदात पर्वतस ते

पुनस ते तं पुत्रम अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च

1

[vaiṣampāyana]

avyāharati kaunteye dharmaputre yudhiṣṭhire

guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍava

2

jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ

eṣa śokārṇave magnas tam āśvāsaya mādhava

3

sarve sma te saṃśayitāḥ punar eva janārdana

asya śokaṃ mahābāho praṇāśayitum arhasi

4

evam uktas tu govindo vijayena mahātmanā

paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyuta

5

anatikramaṇīyo hi dharmarājasya keśavaḥ

bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt

6

saṃpragṛhya mahābāhur bhujaṃ candanabhūṣitam

śailastambhopamaṃ śaurir uvācābhivinodayan

7

uśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam

vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam

8

mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam

na hi te sulabhā bhūyo ye hatāsmin raṇājire

9

svapnalabdhā yathā lābhā vi tathāḥ pratibodhane

evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe

10

sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ

naiṣāṃ kaś cit pṛṣṭhato vā palāyan vāpi pātita

11

sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave

śastrapūtā divaṃ prāptā na tāñ śocitum arhasi

12

atraivodāharantīmam itihāsaṃ purātanam

sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nārada

13

sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāś ca sṛñjaya

avimuktaṃ cariṣyāmas tatra kā paridevanā

14

mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛu

gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi

15

mṛtān mahānubhāvāṃs tvaṃ śrutvaiva tu mahīpatīn

śrutvāpanaya saṃtāpaṃ śṛu vistaraśaś ca me

16

vikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi

yasya sendrāḥ sa varuṇā bṛhaspatipurogamāḥ

devā viśvasṛjo rājño yajñam īyur mahātmana

17

yaḥ spardhām anayac chakraṃ devarājaṃ śatakratum

śakra priyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ

saṃvarto yājayām āsa yaṃ pīḍārthaṃ bṛhaspate

18

yasmin praśāsati satāṃ nṛpatau nṛpasattama

akṛṣṭapacyā pṛthivī vibabhau caityamālinī

19

vikṣitasya vai satre viśve devāḥ sabhā sadaḥ

marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmana

20

marudgaṇā maruttasya yat somam apibanta te

devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ

21

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

22

suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma

yasmai hiraṇyaṃ vavṛṣe magahvān parivatsaram

23

satyanāmā vasumatī yaṃ prāpyāsīj janādhipa

hiraṇyam avahan nadyas tasmiñ janapadeśvare

24

kūrmān karkaṭakān nakrān makarāñ śiṃśukān api

nadīṣv apātayad rājan maghavā lokapūjita

25

hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān

sahasraśo 'tha śataśas tato 'smayata vaitithi

26

tad dhiraṇyam aparyantam āvṛttaṃ kurujāṅgale

ījāno vitate yajñe brāhmaṇebhyaḥ samāhita

27

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śuca

28

aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya

yaḥ sahasraṃ sahasrāṇāṃ vetān aśvān avāsṛjat

29

sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ

jāno vitate yajñe dakṣiṇām atyakālayat

30

ataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām

gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat

31

aṅgasya yajamānasya tadā viṣṇupade girau

amādyad indraḥ somena dakṣiṇābhir dvijātaya

32

yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ

devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ

33

na jāto janitā cānyaḥ pumān yas tat pradāsyati

yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu

34

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

35

ibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya

ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat

36

mahatā rathaghoṣeṇa pṛthivīm anunādayan

ekachatrāṃ mahīṃ cakre jaitreṇaika rathena ya

37

yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha

tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare

38

nodyantāraṃ dhuraṃ tasya kaṃ cin mene prajāpatiḥ

na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata

anyatrauśīnarāc chaibyād rājarṣer indra vikramāt

39

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śuca

40

bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma

śākuntaliṃ maheṣvāsaṃ bhūri draviṇa tejasam

41

yo baddhvā triṃśato hy aśvān devaibhyo yamunām anu

sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa

42

aśvamedha sahasreṇa rājasūya śatena ca

iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā

43

bharatasya mahat karma sarvarājasu pārthivāḥ

khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan

44

paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca

sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau

45

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

46

rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya

yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān

47

vidhavā yasya viṣaye nānāthāḥ kāś canābhavan

sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt

48

kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca

nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati

49

prāṇino nāpsu majjanti nānarthe pāvako 'dahat

na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati

50

san varṣasahasrāṇi tathā putrasahasrikāḥ

arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati

51

nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām

dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati

52

nityapuṣpaphalāś caiva pādapā nirupadravāḥ

sarvā droṇa dughā gāvo rāme rājyaṃ praśāsati

53

sa caturdaśa varṣāṇi vane proṣya mahātapāḥ

daśāśvamedhāñ jārūthyān ājahāra nirargalān

54

yāmo yuvā lohitākṣo mattavāraṇavikramaḥ

daśavarṣasahasrāṇi rāmo rājyam akārayat

55

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

56

bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya

yasyednro vitate yajñe somaṃ pītvā madotkaṭa

57

asurāṇāṃ sahasrāṇi bahūni surasattamaḥ

ajayad bāhuvīryeṇa bhagavān pākaśāsana

58

yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ

jāno vitate yajñe dakṣiṇām atyakālayat

59

sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ

rathe rathe śataṃ nāgāḥ padmino hemamālina

60

sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ

gavāṃ sahasram aśve 'śve sahasraṃ gavy ajāvikam

61

upahvare nivasato yasyāṅke niṣasāda ha

gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā

62

bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham

trilokapatha gā gaṅgā duhitṛtvam upeyiṣī

63

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

64

dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya

yasya karmāṇi bhūrīṇi kathayanti dvijātaya

65

imāṃ vai vasu saṃpannāṃ vasudhāṃ vasudhādhipaḥ

dadau tasmin mahāyajñe brāhmaṇaibhyaḥ samāhita

66

tasyeha yajamānasya yajñe yajñe purohitaḥ

sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat

67

yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ

taṃ devāḥ karma kurvāṇāḥ akra jyeṣṭhā upāśrayan

68

caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye

nanṛtur devagandharvāḥ ṣaṭ sahasrāṇi saptadhā

69

avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam

sarvabhūtāny amanyanta mama vādayatīty ayam

70

etad rājño dilīpasya rājāno nānucakrire

yat striyo hemasaṃpannāḥ pathi mattāḥ sma śerate

71

rājānam ugradhanvānaṃ dilīpaṃ satyavādinam

ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ

72

trayaḥ śabdā na jīryante dilīpasya niveśane

svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi

73

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

74

māṃdhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya

yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan

75

saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ

pṛṣad ājyodbhavaḥ śrīmāṃs trilokavijayī nṛpa

76

yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam

anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai

77

mām eva dhāsyatīty evam indro abhyavapadyata

māṃdhāteti tatas tasya nāma cakre śatakratu

78

tatas tu payaso dhārāṃ puṣṭi hetor mahātmanaḥ

tasyāsye yauvanāśvasya pāṇir indrasya cāsravat

79

taṃ piban pāṇim indrasya samām ahnā vyavardhata

sa āsīd dvādaśa samo dvādaśāhena pārthiva

80

tam iyaṃ pṛthivī sarvā ekāhnā samapadyata

dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi

81

ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam

aṅgaṃ bṛhadrathaṃ caiva māṃdhātā samare 'jayat

82

yauvanāśvo yadāṅgāraṃ samare samayodhayat

visphārair dhanuṣo devā dyaur abhedīti menire

83

yataḥ sūrya udeti sma yatra ca pratitiṣṭhati

sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate

84

aśvamedha śateneṣṭvā rājasūya śatena ca

adadād rohitān matsyān brāhmaṇaibhyo mahīpati

85

hairaṇyān yojanotsedhān āyatān daśayojanam

atiriktān dvijātibhyo vyabhajann itare janāḥ

86

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

87

yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya

ya imāṃ pṛthivīṃ sarvāṃ vijitya saha sāgarām

88

amyā pātenābhyatīyād vedībhiś citrayan nṛpa

ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām

89

iṣṭvā kratusahasreṇa vājimedhaśatena ca

tarpayām āsa devendraṃ tribhiḥ kāñcanaparvatai

90

vyūḍhe devāsure yuddhe hatvā daiteya dānavān

vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmaja

91

anteṣu putrān nikṣipya yadudruhyu purogamān

pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam

92

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

93

ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya

yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama

94

yaḥ sahasraṃ sahasrāṇāṃ rājñām ayuta yājinām

ījāno vitate yajñe brāhmaṇaibhyaḥ samāhita

95

naitat pūrve janāś cakrur na kariṣyanti cāpare

ity ambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ

96

ataṃ rājasahasrāṇi śataṃ rājaśatāni ca

sarve 'śvamedhair ījānās te 'bhyayur dakṣiṇāyanam

97

sa cen mamāra sṛñjaya caturbhadra taras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

98

aśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya

yasya bhāryā sahasrāṇāṃ atam āsīn mahātmana

99

sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśa bindavaḥ

hiraṇyakavacāḥ sarve sarve cottamadhanvina

100

ataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ

kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ

101

rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ

aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam

102

etad dhanam aparyantam aśvamedhe mahāmakhe

śaśabindur mahārāja brāhmaṇaibhyaḥ samādiśat

103

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

104

gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya

yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat

105

yasmai vahnir varān prādāt tato vavre varān gayaḥ

dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām

106

mano me ramatāṃ satye tvatprasādād dhutāśana

lebhe ca kāmāṃs tān sarvān pāvakād iti naḥ śrutam

107

darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ

ayajat sa mahātejāḥ sahasraṃ parivatsarān

108

ataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca

utthāyotthāya vai prādāt sahasraṃ parivatsarān

109

tarpayām āsa somena devān vittair dvijān api

pitṝn svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha

110

sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvir āyatām

dakṣimām adadad rājā vājimedhamahāmakhe

111

yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha

tāvatīr eva gāḥ prādād āmūrtarayaso gaya

112

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

113

ranti devaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya

samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ

114

annaṃ ca no bahu bhaved atithīṃś ca labhemahi

śraddhā ca no mā vyagaman mā ca yāciṣma kaṃ cana

115

upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam

grāmyāraṇyā mahātmānaṃ ranti devaṃ yaśasvinam

116

mahānadī carma rāśer utkledāt susruve yataḥ

tataś carmaṇvatīty evaṃ vikhyātā sā mahānadī

117

brāhmaṇaibhyo dadau niṣkān sadasi pratate nṛpaḥ

tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ

sahasraṃ tubhyam ity uktvā brāhmaṇān sma prapadyate

118

anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat

ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api

na tat kiṃ cid asauvarṇaṃ ranti devasya dhīmata

119

sāṅkṛte ranti devasya yāṃ rātrim avasad gṛhe

ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśati

120

tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ

sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā

121

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

122

sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya

aikṣvākaṃ puruṣavyāghram ati mānuṣavikramam

123

aṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ

nakṣatrarājaṃ varṣānte vyabhre jyotir gaṇā iva

124

ekachatrā mahī yasya praṇatā hy abhavat purā

yo 'śvamedha sahasreṇa tarpayām āsa devatāḥ

125

yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam

pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ ayanasaṃkulam

126

dvijātibhyo 'nurūpaibhyaḥ kāmān uccāvacāṃs tathā

yasyādeśena tad vittaṃ vyabhajanta dvijātaya

127

khānayām āsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām

yasya nāmnā samudraś ca sāgaratvam upāgata

128

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

129

rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya

yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣaya

130

prathayiṣyati vai lokān pṛthur ity eva śabditaḥ

kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smṛta

131

pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan

tato rājeti nāmāsya anurāgād ajāyata

132

akṛṣṭapacyā pṛthivī puṭake puṭake madhu

sarvā droṇa dughā gāvo vainyasyāsan praśāsata

133

arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ

yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca

134

paḥ saṃstambhire yasya samudrasya yiyāsataḥ

saritaś cānudīryanta dhvajasaṅgaś ca nābhavat

135

hairaṇyāṃs trinalotsedhān parvatān ekaviṃśatim

brāhmaṇaibhyo dadau rājā yo 'śvamedhe mahāmakhe

136

sa cen mamāra sṛñjaya caturbhadrataras tvayā

putrāt puṇyataraś caiva mā putram anutapyathāḥ

137

kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ; na me rājan vācam imāṃ śṛoṣi

na cen moghaṃ vipralaptaṃ mayedaṃ; pathyaṃ mumūrṣor iva samyag uktam

138

[sṛnjaya]

śṛ
omi te nārada vācam etāṃ; vicitrārthāṃ srajam iva puṇyagandhām

rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ; kīrtyā yuktāṃ śokanirṇāśanārtham

139

na te moghaṃ vipralaptaṃ maharṣe; dṛṣṭvaiva tvāṃ nāradāhaṃ vi śokaḥ

śuśrūṣe te vacanaṃ brahmavādin; na te tṛpyāmy amṛtasyeva pānāt

140

amoghadarśin mama cet prasādaṃ; sutāgha dagdhasya vibho prakuryāḥ

mṛtasya saṃjīvanam adya me syāt; tava prasādāt suta saṃgamaś ca

141

[nārada]

yas te putro dayito 'yaṃ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te

punas te taṃ putram ahaṃ dadāmi; hiraṇyanābhaṃ varṣasahasriṇaṃ ca
hanti parva of mahabharata| hanti parva of mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 29