Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 59

Book 12. Chapter 59

The Mahabharata In Sanskrit


Book 12

Chapter 59

1

ततः काल्यं समुत्थाय कृतपौर्वाह्णिक करियाः

ययुस ते नगराकारै रथैः पाण्डव यादवाः

2

परपद्य च कुरुक्षेत्रं भीष्मम आसाद्य चानघम

सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम

3

वयासादीन अभिवाद्यर्षीन सर्वैस तैश चाभिनन्दिताः

निषेदुर अभितॊ भीष्मं परिवार्य समन्ततः

4

ततॊ राजा महातेजा धर्मराजॊ युधिष्ठिरः

अब्रवीत पराञ्जलिर भीष्मं परतिपूज्याभिवाद्य च

5

य एष राजा राजेति शब्दश चरति भारत

कथम एष समुत्पन्नस तन मे बरूहि पिता मह

6

तुल्यपाणिशिरॊग्रीवस तुल्यबुद्धीन्द्रियात्मकः

तुल्यदुःखसुखात्मा च तुल्यपृष्ठ भुजॊदरः

7

तुल्यशुक्रास्थि मज्जश च तुल्यमांसासृग एव च

निःश्वासॊच्छाव तुल्यश च तुल्यप्राणशरीरवान

8

समानजन्म मरणः समः सर्वगुणैर नृणाम

विशिष्ट बुद्धीञ शूरांश च कथम एकॊ ऽधितिष्ठति

9

कथम एकॊ महीं कृत्स्नां वीर शूरार्य संकुलाम

रक्षत्य अपि च लॊकॊ ऽसय परसादम अभिवाञ्छति

10

एकस्य च परसादेन कृत्स्नॊ लॊकः परसीदति

वयाकुलेनाकुलः सर्वॊ भवतीति विनिश्चयः

11

एतद इच्छाम्य अहं सर्वं तत्त्वेन भरतर्षभ

शरॊतुं तन मे यथा वत तवं परब्रूहि वदतां वर

12

नैतत कारणम अल्पं हि भविष्यति विषां पते

यद एकस्मिञ जगत सर्वं देव वद याति संनतिम

13

[भीस्म]

नियतस तवं नरश्रेष्ठ शृणु सर्वम अशेषतः

यथा राज्यसमुत्पन्नम आदौ कृतयुगे ऽभवत

14

नैव राज्यं न राजासीन न दण्डॊ न च दाण्डिकः

धर्मेणैव परजाः सर्वा रक्षन्ति च परस्परम

15

पालयानास तथान्यॊन्यं नरा धर्मेण भारत

खेदं परमम आजग्मुस ततस तान मॊह आविशत

16

ते मॊहवशम आपन्ना मानवा मनुजर्षभ

परतिपत्तिविमॊहाच च धर्मस तेषाम अनीनशत

17

नष्टायां परतिपत्तौ तु मॊहवश्या नरास तदा

लॊभस्य वशम आपन्नाः सर्वे भारतसत्तम

18

अप्राप्तस्याभिमर्शं तु कुर्वन्तॊ मनुजास ततः

कामॊ नामापरस तत्र समपद्यत वै परभॊ

19

तांस तु कामवशं पराप्तान रागॊ नाम समस्पृशत

रक्ताश च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर

20

अगम्यागमनं चैव वाच्यावाच्यं तथैव च

भक्ष्याभक्ष्यं च राजेन्द्र दॊषादॊषं च नात्यजन

21

विप्लुते नरलॊके ऽसमिंस ततॊ बरह्म ननाश ह

नाशाच च बरह्मणॊ राजन धर्मॊ नाशम अथागमत

22

नष्टे बरह्मणि धर्मे च देवास तरासम अथागमन

ते तरस्ता नरशार्दूल बरह्माणं शरणं ययुः

23

परपद्य भगवन्तं ते देवा लॊकपिता महम

ऊचुः पराञ्जलयः सर्वे दुःखशॊकभयार्दिताः

24

भगवन नरलॊकस्थं नष्टं बरह्म सनातनम

लॊभमॊहादिभिर भावैस ततॊ नॊ भयम आविशत

25

बरह्मणश च परणाशेन धर्मॊ ऽपय अनशद ईश्वर

ततः सम समतां याता मर्त्यैस तरिभुवनेश्वर

26

अधॊ हि वर्षम अस्माकं मर्त्यास तूर्ध्व परवर्षिणः

करिया वयुपरमात तेषां ततॊ ऽगच्छाम संशयम

27

अत्र निःश्रेयसं यन नस तद धयायस्व पिता मह

तवत परभावसमुत्थॊ ऽसौ परभावॊ नॊ विनश्यति

28

तान उवाच सुरान सर्वान सवयं भूर भगवांस ततः

शरेयॊ ऽहं चिन्तयिष्यामि वयेतु वॊ भीः सुरर्षभाः

29

ततॊ ऽधयायसहस्राणां शतं चक्रे सवबुद्धिजम

यत्र धर्मस तथैवार्थः कामश चैवानुवर्णितः

30

तरिवर्ग इति विख्यातॊ गण एष सवयं भुवा

चतुर्थॊ मॊक्ष इत्य एव पृथग अर्थः पृथग गणः

31

मॊक्षस्यापि तरिवर्गॊ ऽनयः परॊक्तः सत्त्वं रजस्तमः

सथानं वृद्धिः कषयश चैव तरिवर्गश चैव दण्डजः

32

आत्मा देशश च कालश चाप्य उपायाः कृत्यम एव च

सहायाः कारणं चैव षड वर्गॊ नीतिजः समृतः

33

तरयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ

दण्डनीतिश च विपुला विद्यास तत्र निदर्शिताः

34

अमात्यरक्षा परणिधी राजपुत्रस्य रक्षणम

चारश च विविधॊपायः परणिधिश च पृथग्विधः

35

साम चॊपप्रदानं च भेदॊ दण्डश च पाण्डव

उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता

36

मन्त्रश च वर्णितः कृत्स्नस तथा भेदार्थ एव च

विभ्रंशश चैव मन्त्रस्य सिद्ध्यसिद्ध्यॊश च यत फलम

37

संधिश च विविधाभिख्यॊ हीनॊ मध्यस तथॊत्तमः

भयसत्कार वित्ताख्यः कार्त्स्न्येन परिवर्णितः

38

यात्रा कालाश च चत्वारस तरिवर्गस्य च विस्तरः

विजयॊ धर्मयुक्तश च तथार्थ विजयश च ह

39

आसुरश चैव विजयस तथा कार्त्स्न्येन वर्णितः

लक्षणं पञ्चवर्गस्य तरिविधं चात्र वर्णितम

40

परकाशश चाप्रकाशश च दण्डॊ ऽथ परिशब्दितः

परकाशॊ ऽषट विधस तत्र गुह्यस तु बहुविस्तरः

41

रथा नागा हयाश चैव पादाताश चैव पाण्डव

विष्टिर नावश चराश चैव देशिकाः पथि चाष्टकम

42

अङ्गान्य एतानि कौरव्य परकाशानि बलस्य तु

जङ्गमाजङ्गमाश चॊक्ताश चूर्णयॊगा विषादयः

43

सपर्शे चाभ्यवहार्ये चाप्य उपांशुर विविधः समृतः

अरिमित्रम उदासीन इत्य एते ऽपय अनुवर्णिताः

44

कृत्स्ना मार्गगुणाश चैव तथा भूमिगुणाश च ह

आत्मरक्षणम आश्वासः सपशानां चान्ववेक्षणम

45

कल्पना विविधाश चापि नृनागरथवाजिनाम

वयूहाश च विविधाभिख्या विचित्रं युद्धकौशलम

46

उत्पाताश च निपाताश च सुयुद्धं सुपलायनम

शस्त्राणां पायन जञानं तथैव भरतर्षभ

47

बलव्यसनम उक्तं च तथैव बलहर्षणम

पीडनास्कन्द कालश च भयकालश च पाण्डव

48

तथा खात विधानं च यॊगसंचार एव च

चौराटव्य अबलैश चॊग्रैः परराष्ट्रस्य पीडनम

49

अग्निदैर गरदैश चैव परतिरूपक चारकैः

शरेणि मुख्यॊपजापेन वीरुधश छेदनेन च

50

दूषणेन च नागानाम आशङ्का जननेन च

आरॊधनेन भक्तस्य पथश चॊपार्जनेन च

51

सप्ताङ्गस्य च राज्यस्य हरास वृद्धिसमञ्जसम

दूत सामर्थ्य यॊगश च राष्ट्रस्य च विवर्धनम

52

अरिमध्य सथ मित्राणां सम्यक चॊक्तं परपञ्चनम

अवमर्दः परतीघातस तथैव च बलीयसाम

53

वयवहारः सुसूक्ष्मश च तथा कण्टक शॊधनम

शमॊ वयायामयॊगश च यॊगॊ दरव्यस्य संचयः

54

अभृतानां च भरणं भृतानां चान्ववेक्षणम

अर्थकाले परदानं च वयसनेष्व अप्रसङ्गिता

55

तथा राजगुणाश चैव सेनापतिगुणाश च ये

कारणस्य च कर्तुश च गुणदॊषास तथैव च

56

दुष्टेङ्गितं च विविधं वृत्तिश चैवानुजीविनाम

शङ्कितत्वं च सर्वस्य परमादस्य च वर्जनम

57

अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम

परदानं च विवृद्धस्य पात्रेभ्यॊ विधिवत तथा

58

विसर्गॊ ऽरथस्य धर्मार्थम अर्थार्थं कामहेतुना

चतुर्थॊ वयसनाघाते तथैवात्रानुवर्णितः

59

करॊधजानि तथॊग्राणि कामजानि तथैव च

दशॊक्तानि कुरुश्रेष्ठ वयसनान्य अत्र चैव ह

60

मृगयाक्षास तथा पानं सत्रियश च भरतर्षभ

कामजान्य आहुर आचार्याः परॊक्तानीह सवयं भुवा

61

वाक पारुष्यं तथॊग्रत्वं दण्डपारुष्यम एव च

आत्मनॊ निग्रहस तयागॊ ऽथार्थ दूषणम एव च

62

यन्त्राणि विविधान्य एव करियास तेषां च वर्णिताः

अवमर्दः परतीघातः केतनानां च भञ्जनम

63

चैत्यद्रुमाणाम आमर्दॊ रॊधः कर्मान्त नाशनम

अपस्करॊ ऽथ गमनं तथॊपास्या च वर्णिता

64

पणवानकशङ्खानां भेरीणां च युधां वर

उपार्जनं च दरव्याणां परमर्म च तानि षट

65

लब्धस्य च परशमनं सतां चैव हि पूजनम

विद्वद्भिर एकीभावश च परातर हॊमविधिज्ञता

66

मङ्गलालम्भनं चैव शरीरस्य परतिक्रिया

आहारयॊजनं चैव नित्यम आस्तिक्यम एव च

67

एकेन च यथॊत्थेयं सत्यत्वं मधुरा गिरः

उत्सवानां समाजानां करियाः केतन जास तथा

68

परत्यक्षा च परॊक्षा च सर्वाधिकरणेषु च

वृत्तिर भरतशार्दूल नित्यं चैवान्ववेक्षणम

69

अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम

अनुजीवि सवजातिभ्यॊ गुणेषु परिरक्षणम

70

रक्षणं चैव पौराणां सवराष्ट्रस्य विवर्धनम

मण्डलस्था च या चिन्ता राजन दवादश राजिका

71

दवा सप्तति मतिश चैव परॊक्ता या च सवयं भुवा

देशजातिकुलानां च धर्माः समनुवर्णिताः

72

धर्मश चार्थश च कामश च मॊक्षश चात्रानुवर्णितः

उपायश चार्थलिप्सा च विविधा भूरिदक्षिणाः

73

मूलकर्म करिया चात्र मायायॊगश च वर्णितः

दूषणं सरॊतसाम अत्र वर्णितं च सथिराम्भसाम

74

यैर यैर उपायैर लॊकश च न चलेद आर्य वर्त्मनः

तत सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम

75

एतत कृत्वा शुभं शास्त्रं ततः स भगवान परभुः

देवान उवाच संहृष्टः सर्वाञ शक्रपुरॊगमान

76

उपकाराय लॊकस्य तरिवर्गस्थापनाय च

नव नीतं सरस्वत्या बुद्धिर एषा परभाविता

77

दण्डेन सहिता हय एषा लॊकरक्षण कारिका

निग्रहानुग्रह रता लॊकान अनु चरिष्यति

78

दण्डेन नीयते चेयं दण्डं नयति चाप्य उत

दण्डनीतिर इति परॊक्ता तरीँल लॊकान अनुवर्तते

79

षाड्गुण्य गुणसारैषा सथास्यत्य अग्रे महात्मसु

महत्त्वात तस्य दण्डस्य नीतिर विस्पष्ट लक्षणा

80

नयचारश च विपुलॊ येन सर्वम इदं ततम

आगमश च पुराणानां महर्षीणां च संभवः

81

तीर्थवंशश च वंशश च नक्षत्राणां युधिष्ठिर

सकलं चातुराश्रम्यं चातुर्हॊत्रं तथैव च

82

चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम

इतिहासॊपवेदाश च नयायः कृत्स्नश च वर्णितः

83

तपॊ जञानम अहिंसा च सत्यासत्ये नयः परः

वृद्धॊपसेवा दानं च शौचम उत्थानम एव च

84

सर्वभूतानुकम्पा च सर्वम अत्रॊपवर्णितम

भुवि वाचॊ गतं यच च तच च सर्वं समर्पितम

85

तस्मिन पैतामहे शास्त्रे पाण्डवैतद असंशयम

धर्मार्थकाममॊक्षश च सकला हय अत्र शब्दिताः

86

ततस तां भगवान नीतिं पूर्वं जग्राह शंकरः

बहुरूपॊ विशालाक्षः शिवः सथाणुर उमापतिः

87

युगानाम आयुषॊ हरासं विज्ञाय भगवाञ शिवः

संचिक्षेप ततः शास्त्रं महार्थं बरह्मणा कृतम

88

वैशालाक्षम इति परॊक्तं तद इन्द्रः परत्यपद्यत

दश धयाय सहस्राणि सुब्रह्मण्यॊ महातपाः

89

भगवान अपि तच छास्त्रं संचिक्षेप पुरंदरः

सहस्रैः पञ्चभिस तात यद उक्तं बाहुदन्तकम

90

अध्यायानां सहस्रैस तु तरिभिर एव बृहस्पतिः

संचिक्षेपेश्वरॊ बुद्ध्या बार्हस्पत्यं तद उच्यते

91

अध्यायानां सहस्रेण काव्यः संक्षेपम अब्रवीत

तच छास्त्रम अमितप्रज्ञॊ यॊगाचार्यॊ महातपाः

92

एवं लॊकानुरॊधेन शास्त्रम एतन महर्षिभिः

संक्षिप्तम आयुर विज्ञाय मर्त्यानां हरासि पाण्डव

93

अथ देवाः समागम्य विष्णुम ऊचुः परजापतिम

एकॊ यॊ ऽरहति मर्त्येभ्यः शरैष्ठ्यं तं वै समादिश

94

ततः संचिन्त्य भगवान देवॊ नारायणः परभुः

तैजसं वै विरजसं सॊ ऽसृजन मानसं सुतम

95

विराजास तु महाभाग विभुत्वं भुवि नैच्छत

नयासायैवाभवद बुद्धिः परणीता तस्य पाण्डव

96

कीर्तिमांस तस्य पुत्रॊ ऽभूत सॊ ऽपि पञ्चातिगॊ ऽभवत

कर्दमस तस्य च सुतः सॊ ऽपय अतप्यन महत तपः

97

परजापतेः कर्दमस्य अनङ्गॊ नाम वै सुतः

परजानां रक्षिता साधुर दण्डनीति विशारदः

98

अनङ्ग पुत्रॊ ऽति बलॊ नीतिमान अधिगम्य वै

अभिपेदे मही राज्यम अथेन्द्रिय वशॊ ऽभवत

99

मृत्यॊस तु दुहिता राजन सुनीथा नाम मानसी

परख्याता तरिषु लॊकेषु या सा वेनम अजीजनत

100

तं परजासु विधर्माणं रागद्वेषवशानुगम

मन्त्रपूतैः कुशैर जघ्नुर ऋषयॊ बरह्मवादिनः

101

ममन्थुर दक्षिणं चॊरुम ऋषयस तस्य मन्त्रतः

ततॊ ऽसय विकृतॊ जज्ञे हरस्वाङ्गः पुरुषॊ भुवि

102

दग्धस्थाणुप्रतीकाशॊ रक्ताक्षः कृष्ण मूर्ध जः

निषीदेत्य एवम ऊचुस तम ऋषयॊ बरह्मवादिनः

103

तस्मान निषादाः संभूताः करूराः शैलवनाश्रयाः

ये चान्ये विन्ध्यनिलया मलेच्छाः शतसहस्रशः

104

भूयॊ ऽसय दक्षिणं पाणिं ममन्थुस ते महर्षयः

ततः पुरुष उत्पन्नॊ रूपेणेन्द्र इवापरः

105

कवची बद्धनिस्त्रिंशः स शरः स शरासनः

वेदवेदाङ्गविच चैव धनुर्वेदे च पारगः

106

तं दण्डनीतिः सकला शरिता राजन नरॊत्तमम

ततः स पराञ्जलिर वैन्यॊ महर्षींस तान उवाच ह

107

सुसूक्ष्मा मे समुत्पन्ना बुद्धिर धर्मार्थदर्शिनी

अनया किं मया कार्यं तन मे तत्त्वेन शंसत

108

यन मां भवन्तॊ वक्ष्यन्ति कार्यम अर्थसमन्वितम

तद अहं वै करिष्यामि नात्र कार्या विचारणा

109

तम ऊचुर अथ देवास ते ते चैव परमर्षयः

नियतॊ यत्र धर्मॊ वै तम अशङ्कः समाचर

110

परियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु

कामक्रॊधौ च लॊभं च मानं चॊत्सृज्य दूरतः

111

यश च धर्मात परविचलेल लॊके कश चन मानवः

निग्राह्यस ते स बाहुभ्यां शश्वद धर्मम अवेक्षतः

112

परतिज्ञां चाधिरॊहस्व मनसा कर्मणा गिरा

पालयिष्याम्य अहं भौमं बरह्म इत्य एव चासकृत

113

यश चात्र धर्मनीत्य उक्तॊ दण्डनीति वयपाश्रयः

तम अशङ्कः करिष्यामि सववशॊ न कदा चन

114

अदण्ड्या मे दविजाश चेति परतिजानीष्व चाभिभॊ

लॊकं च संकरात कृत्स्नात तरातास्मीति परंतप

115

वैन्यस ततस तान उवाच देवान ऋषिपुरॊगमान

बराह्मणा मे सहायाश चेद एवम अस्तु सुरर्षभाः

116

एवम अस्त्व इति वैन्यस तु तैर उक्तॊ बरह्मवादिभिः

पुरॊधाश चाभवत तस्य शुक्रॊ बरह्म मयॊ निधिः

117

मन्त्रिणॊ वालखिल्यास तु सारस्वत्यॊ गणॊ हय अभूत

महर्षिर भगवान गर्गस तस्य सांवत्सरॊ ऽभवत

118

आत्मनाष्टम इत्य एव शरुतिर एषा परा नृषु

उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ

119

समतां वसुधायाश च स सम्यग उपपादयत

वैषम्यं हि परं भूमेर आसीद इति ह नः शरुतम

120

स विष्णुना च देवेन शक्रेण विबुधैः सह

ऋषिभिश च परजापाल्ये बरह्मणा चाभिषेचितः

121

तं साक्षात पृथिवी भेजे रत्नान्य आदाय पाण्डव

सागरः सरितां भर्ता हिमवांश चाचलॊत्तमः

122

शक्रश च धनम अक्षय्यं परादात तस्य युधिष्ठिर

रुक्मं चापि महामेरुः सवयं कनकपर्वतः

123

यक्षराक्षस भर्ता च भगवान नरवाहनः

धर्मे चार्थे च कामे च समर्थं परददौ धनम

124

हया रथाश च नागाश च कॊटिशः पुरुषास तथा

परादुर्बभूवुर वैन्यस्य चिन्तनाद एव पाण्डव

न जरा न च दुर्भिक्षं नाधनॊ वयाधयस तथा

125

सरीसृपेभ्यः सतेनेभ्यॊ न चान्यॊन्यात कदा चन

भयम उत्पद्यते तत्र तस्य राज्ञॊ ऽभिरक्षणात

126

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च

यक्षराक्षस नागैश चापीप्षितं यस्य यस्य यत

127

तेन धर्मॊत्तरश चायं कृतॊ लॊकॊ महात्मना

रञ्जिताश च परजाः सर्वास तेन राजेति शब्द्यते

128

बराह्मणानां कषतत्राणात ततः कषत्रिय उच्यते

परथिता धनतश चेयं पृथिवी साधुभिः समृता

129

सथापनं चाकरॊद विष्णुः सवयम एव सतातनः

नातिवर्तिष्यते कश चिद राजंस तवाम इति पार्थिव

130

तपसा भगवान विष्णुर आविवेश च भूमिपम

देव वन नरदेवानां नमते यज जगन नृप

131

दण्डनीत्या च सततं रक्षितं तं नरेश्वर

नाधर्षयत ततः कश चिच चारनित्याच च दर्शनात

132

आत्मना करणैश चैव समस्येह महीक्षितः

कॊ हेतुर यद वशे तिष्ठेल लॊकॊ दैवाद ऋते गुणात

133

विष्णॊर ललाटात कमलं सौवर्णम अभवत तदा

शरीः संभूता यतॊ देवी पत्नी धर्मस्य धीमतः

134

शरियः सकाशाद अर्थश च जातॊ धर्मेण पाण्डव

अथ धर्मस तथैवार्थः शरीश च राज्ये परतिष्ठिता

135

सुकृतस्य कषयाच चैव सवर्लॊकाद एत्य मेदिनीम

पार्थिवॊ जायते तात दण्डनीति वशानुगः

136

महत्त्वेन च संयुक्तॊ वैष्णवेन नरॊ भुवि

बुद्ध्या भवति संयुक्तॊ माहात्म्यं चाधिगच्छति

137

सथापनाम अथ देवानां न कश चिद अतिवर्तते

तिष्ठत्य एकस्य च वशे तं चेद अनुविधीयते

138

शुभं हि कर्म राजेन्द्र शुभत्वायॊपकल्पते

तुल्यस्यैकस्य यस्यायं लॊकॊ वचसि तिष्ठति

139

यॊ हय अस्य मुखम अद्राक्षीत सॊम्य सॊ ऽसय वशानुगः

सुभगं चार्थवन्तं च रूपवन्तं च पश्यति

140

ततॊ जगति राजेन्द्र सततं शब्दितं बुधैः

देवाश च नरदेवाश च तुल्या इति विशां पते

141

एतत ते सर्वम आख्यातं महत्त्वं परति राजसु

कार्त्स्न्येन भरतश्रेष्ठ किम अन्यद इह वर्तताम

1

tataḥ kālyaṃ samutthāya kṛtapaurvāhṇika kriyāḥ

yayus te nagarākārai rathaiḥ pāṇḍava yādavāḥ

2

prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham

sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam

3

vyāsādīn abhivādyarṣīn sarvais taiś cābhinanditāḥ

niṣedur abhito bhīṣmaṃ parivārya samantata

4

tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ

abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca

5

ya eṣa rājā rājeti śabdaś carati bhārata

katham eṣa samutpannas tan me brūhi pitā maha

6

tulyapāṇiśirogrīvas tulyabuddhīndriyātmakaḥ

tulyaduḥkhasukhātmā ca tulyapṛṣṭha bhujodara

7

tulyaśukrāsthi majjaś ca tulyamāṃsāsṛg eva ca

niḥśvāsocchāva tulyaś ca tulyaprāṇaśarīravān

8

samānajanma maraṇaḥ samaḥ sarvaguṇair nṛṇām

viśiṣṭa buddhīñ śūrāṃś ca katham eko 'dhitiṣṭhati

9

katham eko mahīṃ kṛtsnāṃ vīra śūrārya saṃkulām

rakṣaty api ca loko 'sya prasādam abhivāñchati

10

ekasya ca prasādena kṛtsno lokaḥ prasīdati

vyākulenākulaḥ sarvo bhavatīti viniścaya

11

etad icchāmy ahaṃ sarvaṃ tattvena bharatarṣabha

śrotuṃ tan me yathā vat tvaṃ prabrūhi vadatāṃ vara

12

naitat kāraṇam alpaṃ hi bhaviṣyati viṣāṃ pate

yad ekasmiñ jagat sarvaṃ deva vad yāti saṃnatim

13

[bhīsma]

niyatas tvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ

yathā rājyasamutpannam ādau kṛtayuge 'bhavat

14

naiva rājyaṃ na rājāsīn na daṇḍo na ca dāṇḍikaḥ

dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam

15

pālayānās tathānyonyaṃ narā dharmeṇa bhārata

khedaṃ paramam ājagmus tatas tān moha āviśat

16

te mohavaśam āpannā mānavā manujarṣabha

pratipattivimohāc ca dharmas teṣām anīnaśat

17

naṣṭāyāṃ pratipattau tu mohavaśyā narās tadā

lobhasya vaśam āpannāḥ sarve bhāratasattama

18

aprāptasyābhimarśaṃ tu kurvanto manujās tataḥ

kāmo nāmāparas tatra samapadyata vai prabho

19

tāṃs tu kāmavaśaṃ prāptān rāgo nāma samaspṛśat

raktāś ca nābhyajānanta kāryākāryaṃ yudhiṣṭhira

20

agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca

bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan

21

viplute naraloke 'smiṃs tato brahma nanāśa ha

nāśāc ca brahmaṇo rājan dharmo nāśam athāgamat

22

naṣṭe brahmaṇi dharme ca devās trāsam athāgaman

te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayu

23

prapadya bhagavantaṃ te devā lokapitā maham

ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ

24

bhagavan naralokasthaṃ naṣṭaṃ brahma sanātanam

lobhamohādibhir bhāvais tato no bhayam āviśat

25

brahmaṇaś ca praṇāśena dharmo 'py anaśad īśvara

tataḥ sma samatāṃ yātā martyais tribhuvaneśvara

26

adho hi varṣam asmākaṃ martyās tūrdhva pravarṣiṇaḥ

kriyā vyuparamāt teṣāṃ tato 'gacchāma saṃśayam

27

atra niḥśreyasaṃ yan nas tad dhyāyasva pitā maha

tvat prabhāvasamuttho 'sau prabhāvo no vinaśyati

28

tān uvāca surān sarvān svayaṃ bhūr bhagavāṃs tataḥ

śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ

29

tato 'dhyāyasahasrāṇāṃ ataṃ cakre svabuddhijam

yatra dharmas tathaivārthaḥ kāmaś caivānuvarṇita

30

trivarga iti vikhyāto gaṇa eṣa svayaṃ bhuvā

caturtho mokṣa ity eva pṛthag arthaḥ pṛthag gaṇa

31

mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ

sthānaṃ vṛddhiḥ kṣayaś caiva trivargaś caiva daṇḍaja

32

tmā deśaś ca kālaś cāpy upāyāḥ kṛtyam eva ca

sahāyāḥ kāraṇaṃ caiva ṣaḍ vargo nītijaḥ smṛta

33

trayī cānvīkṣikī caiva vārtā ca bharatarṣabha

daṇḍanītiś ca vipulā vidyās tatra nidarśitāḥ

34

amātyarakṣā praṇidhī rājaputrasya rakṣaṇam

cāraś ca vividhopāyaḥ praṇidhiś ca pṛthagvidha

35

sāma copapradānaṃ ca bhedo daṇḍaś ca pāṇḍava

upekṣā pañcamī cātra kārtsnyena samudāhṛtā

36

mantraś ca varṇitaḥ kṛtsnas tathā bhedārtha eva ca

vibhraṃśaś caiva mantrasya siddhyasiddhyoś ca yat phalam

37

saṃdhiś ca vividhābhikhyo hīno madhyas tathottamaḥ

bhayasatkāra vittākhyaḥ kārtsnyena parivarṇita

38

yātrā kālāś ca catvāras trivargasya ca vistaraḥ

vijayo dharmayuktaś ca tathārtha vijayaś ca ha

39

suraś caiva vijayas tathā kārtsnyena varṇitaḥ

lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam

40

prakāśaś cāprakāśaś ca daṇḍo 'tha pariśabditaḥ

prakāśo 'ṣṭa vidhas tatra guhyas tu bahuvistara

41

rathā nāgā hayāś caiva pādātāś caiva pāṇḍava

viṣṭir nāvaś carāś caiva deśikāḥ pathi cāṣṭakam

42

aṅgāny etāni kauravya prakāśāni balasya tu

jaṅgamājaṅgamāś coktāś cūrṇayogā viṣādaya

43

sparśe cābhyavahārye cāpy upāṃśur vividhaḥ smṛtaḥ

arimitram udāsīna ity ete 'py anuvarṇitāḥ

44

kṛtsnā mārgaguṇāś caiva tathā bhūmiguṇāś ca ha

ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam

45

kalpanā vividhāś cāpi nṛnāgarathavājinām

vyūhāś ca vividhābhikhyā vicitraṃ yuddhakauśalam

46

utpātāś ca nipātāś ca suyuddhaṃ supalāyanam

śastrāṇāṃ pāyana jñānaṃ tathaiva bharatarṣabha

47

balavyasanam uktaṃ ca tathaiva balaharṣaṇam

pīḍanāskanda kālaś ca bhayakālaś ca pāṇḍava

48

tathā khāta vidhānaṃ ca yogasaṃcāra eva ca

caurāṭavy abalaiś cograiḥ pararāṣṭrasya pīḍanam

49

agnidair garadaiś caiva pratirūpaka cārakaiḥ

śreṇi mukhyopajāpena vīrudhaś chedanena ca

50

dūṣaṇena ca nāgānām āśaṅkā jananena ca

ārodhanena bhaktasya pathaś copārjanena ca

51

saptāṅgasya ca rājyasya hrāsa vṛddhisamañjasam

dūta sāmarthya yogaś ca rāṣṭrasya ca vivardhanam

52

arimadhya stha mitrāṇāṃ samyak coktaṃ prapañcanam

avamardaḥ pratīghātas tathaiva ca balīyasām

53

vyavahāraḥ susūkṣmaś ca tathā kaṇṭaka śodhanam

śamo vyāyāmayogaś ca yogo dravyasya saṃcaya

54

abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam

arthakāle pradānaṃ ca vyasaneṣv aprasaṅgitā

55

tathā rājaguṇāś caiva senāpatiguṇāś ca ye

kāraṇasya ca kartuś ca guṇadoṣās tathaiva ca

56

duṣṭeṅgitaṃ ca vividhaṃ vṛttiś caivānujīvinām

śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam

57

alabdhalipsā labdhasya tathaiva ca vivardhanam

pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā

58

visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā

caturtho vyasanāghāte tathaivātrānuvarṇita

59

krodhajāni tathogrāṇi kāmajāni tathaiva ca

daśoktāni kuruśreṣṭha vyasanāny atra caiva ha

60

mṛgayākṣās tathā pānaṃ striyaś ca bharatarṣabha

kāmajāny āhur ācāryāḥ proktānīha svayaṃ bhuvā

61

vāk pāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca

ātmano nigrahas tyāgo 'thārtha dūṣaṇam eva ca

62

yantrāṇi vividhāny eva kriyās teṣāṃ ca varṇitāḥ

avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam

63

caityadrumāṇām āmardo rodhaḥ karmānta nāśanam

apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā

64

paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara

upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣa

65

labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam

vidvadbhir ekībhāvaś ca prātar homavidhijñatā

66

maṅgalālambhanaṃ caiva śarīrasya pratikriyā

āhārayojanaṃ caiva nityam āstikyam eva ca

67

ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ

utsavānāṃ samājānāṃ kriyāḥ ketana jās tathā

68

pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca

vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam

69

adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam

anujīvi svajātibhyo guṇeṣu parirakṣaṇam

70

rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam

maṇḍalasthā ca yā cintā rājan dvādaśa rājikā

71

dvā saptati matiś caiva proktā yā ca svayaṃ bhuvā

deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ

72

dharmaś cārthaś ca kāmaś ca mokṣaś cātrānuvarṇitaḥ

upāyaś cārthalipsā ca vividhā bhūridakṣiṇāḥ

73

mūlakarma kriyā cātra māyāyogaś ca varṇitaḥ

dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām

74

yair yair upāyair lokaś ca na caled ārya vartmanaḥ

tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam

75

etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ

devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān

76

upakārāya lokasya trivargasthāpanāya ca

nava nītaṃ sarasvatyā buddhir eṣā prabhāvitā

77

daṇḍena sahitā hy eṣā lokarakṣaṇa kārikā

nigrahānugraha ratā lokān anu cariṣyati

78

daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpy uta

daṇḍanītir iti proktā trīṁl lokān anuvartate

79

ṣā
guṇya guṇasāraiṣā sthāsyaty agre mahātmasu

mahattvāt tasya daṇḍasya nītir vispaṣṭa lakṣaṇā

80

nayacāraś ca vipulo yena sarvam idaṃ tatam

āgamaś ca purāṇānāṃ maharṣīṇāṃ ca saṃbhava

81

tīrthavaṃśaś ca vaṃśaś ca nakṣatrāṇāṃ yudhiṣṭhira

sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca

82

cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam

itihāsopavedāś ca nyāyaḥ kṛtsnaś ca varṇita

83

tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ

vṛddhopasevā dānaṃ ca śaucam utthānam eva ca

84

sarvabhūtānukampā ca sarvam atropavarṇitam

bhuvi vāco gataṃ yac ca tac ca sarvaṃ samarpitam

85

tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam

dharmārthakāmamokṣaś ca sakalā hy atra śabditāḥ

86

tatas tāṃ bhagavān nītiṃ pūrvaṃ jagrāha śaṃkaraḥ

bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpati

87

yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ

saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam

88

vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata

daśa dhyāya sahasrāṇi subrahmaṇyo mahātapāḥ

89

bhagavān api tac chāstraṃ saṃcikṣepa puraṃdaraḥ

sahasraiḥ pañcabhis tāta yad uktaṃ bāhudantakam

90

adhyāyānāṃ sahasrais tu tribhir eva bṛhaspatiḥ

saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate

91

adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt

tac chāstram amitaprajño yogācāryo mahātapāḥ

92

evaṃ lokānurodhena śāstram etan maharṣibhiḥ

saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava

93

atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim

eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa

94

tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ

taijasaṃ vai virajasaṃ so 'sṛjan mānasaṃ sutam

95

virājās tu mahābhāga vibhutvaṃ bhuvi naicchata

nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava

96

kīrtimāṃs tasya putro 'bhūt so 'pi pañcātigo 'bhavat

kardamas tasya ca sutaḥ so 'py atapyan mahat tapa

97

prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ

prajānāṃ rakṣitā sādhur daṇḍanīti viśārada

98

anaṅga putro 'ti balo nītimān adhigamya vai

abhipede mahī rājyam athendriya vaśo 'bhavat

99

mṛtyos tu duhitā rājan sunīthā nāma mānasī

prakhyātā triṣu lokeṣu yā sā venam ajījanat

100

taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam

mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādina

101

mamanthur dakṣiṇaṃ corum ṛṣayas tasya mantrataḥ

tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi

102

dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇa mūrdha jaḥ

niṣīdety evam ūcus tam ṛṣayo brahmavādina

103

tasmān niṣādāḥ saṃbhūtāḥ krūrāḥ śailavanāśrayāḥ

ye cānye vindhyanilayā mlecchāḥ śatasahasraśa

104

bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthus te maharṣayaḥ

tataḥ puruṣa utpanno rūpeṇendra ivāpara

105

kavacī baddhanistriṃśaḥ sa śaraḥ sa śarāsanaḥ

vedavedāṅgavic caiva dhanurvede ca pāraga

106

taṃ daṇḍanītiḥ sakalā śritā rājan narottamam

tataḥ sa prāñjalir vainyo maharṣīṃs tān uvāca ha

107

susūkṣmā me samutpannā buddhir dharmārthadarśinī

anayā kiṃ mayā kāryaṃ tan me tattvena śaṃsata

108

yan māṃ bhavanto vakṣyanti kāryam arthasamanvitam

tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā

109

tam ūcur atha devās te te caiva paramarṣayaḥ

niyato yatra dharmo vai tam aśaṅkaḥ samācara

110

priyāpriye parityajya samaḥ sarveṣu jantuṣu

kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrata

111

yaś ca dharmāt pravicalel loke kaś cana mānavaḥ

nigrāhyas te sa bāhubhyāṃ śaśvad dharmam avekṣata

112

pratijñāṃ cādhirohasva manasā karmaṇā girā

pālayiṣyāmy ahaṃ bhaumaṃ brahma ity eva cāsakṛt

113

yaś cātra dharmanīty ukto daṇḍanīti vyapāśrayaḥ

tam aśaṅkaḥ kariṣyāmi svavaśo na kadā cana

114

adaṇḍyā me dvijāś ceti pratijānīṣva cābhibho

lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa

115

vainyas tatas tān uvāca devān ṛṣipurogamān

brāhmaṇā me sahāyāś ced evam astu surarṣabhāḥ

116

evam astv iti vainyas tu tair ukto brahmavādibhiḥ

purodhāś cābhavat tasya śukro brahma mayo nidhi

117

mantriṇo vālakhilyās tu sārasvatyo gaṇo hy abhūt

maharṣir bhagavān gargas tasya sāṃvatsaro 'bhavat

118

tmanāṣṭama ity eva śrutir eṣā parā nṛṣu

utpannau bandinau cāsya tatpūrvau sūtamāgadhau

119

samatāṃ vasudhāyāś ca sa samyag upapādayat

vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam

120

sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha

ibhiś ca prajāpālye brahmaṇā cābhiṣecita

121

taṃ sākṣāt pṛthivī bheje ratnāny ādāya pāṇḍava

sāgaraḥ saritāṃ bhartā himavāṃś cācalottama

122

akraś ca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira

rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvata

123

yakṣarākṣasa bhartā ca bhagavān naravāhanaḥ

dharme cārthe ca kāme ca samarthaṃ pradadau dhanam

124

hayā rathāś ca nāgāś ca koṭiśaḥ puruṣās tathā

prādurbabhūvur vainyasya cintanād eva pāṇḍava

na jarā na ca durbhikṣaṃ nādhano vyādhayas tathā

125

sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadā cana

bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt

126

teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca

yakṣarākṣasa nāgaiś cāpīpṣitaṃ yasya yasya yat

127

tena dharmottaraś cāyaṃ kṛto loko mahātmanā

rañjitāś ca prajāḥ sarvās tena rājeti śabdyate

128

brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate

prathitā dhanataś ceyaṃ pṛthivī sādhubhiḥ smṛtā

129

sthāpanaṃ cākarod viṣṇuḥ svayam eva satātanaḥ

nātivartiṣyate kaś cid rājaṃs tvām iti pārthiva

130

tapasā bhagavān viṣṇur āviveśa ca bhūmipam

deva van naradevānāṃ namate yaj jagan nṛpa

131

daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara

nādharṣayat tataḥ kaś cic cāranityāc ca darśanāt

132

tmanā karaṇaiś caiva samasyeha mahīkṣitaḥ

ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt

133

viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā

śrīḥ saṃbhūtā yato devī patnī dharmasya dhīmata

134

riyaḥ sakāśād arthaś ca jāto dharmeṇa pāṇḍava

atha dharmas tathaivārthaḥ śrīś ca rājye pratiṣṭhitā

135

sukṛtasya kṣayāc caiva svarlokād etya medinīm

pārthivo jāyate tāta daṇḍanīti vaśānuga

136

mahattvena ca saṃyukto vaiṣṇavena naro bhuvi

buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati

137

sthāpanām atha devānāṃ na kaś cid ativartate

tiṣṭhaty ekasya ca vaśe taṃ ced anuvidhīyate

138

ubhaṃ hi karma rājendra śubhatvāyopakalpate

tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati

139

yo hy asya mukham adrākṣīt somya so 'sya vaśānugaḥ

subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati

140

tato jagati rājendra satataṃ śabditaṃ budhaiḥ

devāś ca naradevāś ca tulyā iti viśāṃ pate

141

etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu

kārtsnyena bharataśreṣṭha kim anyad iha vartatām
outheastern native americans foo| religions of native american
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 59