Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 14

Book 13. Chapter 14

The Mahabharata In Sanskrit


Book 13

Chapter 14

1

[य]

पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे

बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः

2

[भ]

सुरासुरगुरॊ देव विष्णॊ तवं वक्तुम अर्हसि

शिवाय विश्वरूपाय यन मां पृच्छद युधिष्ठिरः

3

नाम्नां सहस्रं देवस्य तण्डिना बरह्मयॊनिना

निवेदितं बरह्मलॊके बरह्मणॊ यत पुराभवत

4

दवैपायनप्रभृतयस तथैवेमे तपॊधनाः

ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस तव

5

धरुवाय नन्दिने हॊत्रे गॊप्त्रे विश्वसृजे ऽगनये

महाभाग्यं विभॊ बरूहि मुण्डिने ऽथ कपर्दिने

6

[वासुदेव]

न गतिः कर्मणां शक्या वेत्तुम ईशस्य तत्त्वतः

7

हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः

न विदुर यस्य निधनम आधिं वा सूक्ष्मदर्शिनः

स कथं नरमात्रेण शक्यॊ जञातुं सतां गतिः

8

तस्याहम असुरघ्नस्य कांश चिद भगवतॊ गुणान

भवतां कीर्तयिष्यामि वरतेशाय यथातथम

9

[व]

एवम उक्त्वा तु भगवान गुणांस तस्य महात्मनः

उपस्पृश्य शुचिर भूवा कथयाम आस धीमतः

10

[व]

शुश्रूषध्वं बराह्मणेन्द्रास तवं च तात युधिष्ठिर

तवं चापगेय नामानि निशामय जगत्पतेः

11

यद अवाप्तं च मे पूर्वं साम्ब हेतॊः सुदुष्करम

यथा च भगवान दृष्टॊ मया पूर्वं समाधिना

12

शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता

अतीते दवादशे वर्षे जाम्बवत्य अब्रवीद धि माम

13

परद्युम्न चारुदेष्णादीन रुक्मिण्या वीक्ष्य पुत्रकान

पुत्रार्थिनी माम उपेत्य वाक्यम आह युधिष्ठिर

14

शूरं बलवतां शरेष्ठं कान्त रूपम अलक्मषम

आत्मतुल्यं मम सुतं परयच्छाच्युत माचिरम

15

न हि ते ऽपराप्यम अस्तीह तरिषु लॊकेषु किं चन

लॊकान सृजेस तवम अपरान इच्छन यदुकुलॊद्वह

16

तवया दवादश वर्षाणि वायुभूतेन शुष्यता

आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः

17

चारुदेष्णः सुचारुश च चारुवेषॊ यशॊधरः

चारु शवराश चारु यशाः परद्युम्नः शम्भुर एव च

18

यथा ते जनिताः पुत्रा रुक्मिण्याश चारु विक्रमाः

तथा ममापि तनयं परयच्छ बलशालिनम

19

इत्य एवं चॊदितॊ देव्या ताम अवॊचं सुमध्यमाम

अनुजानीहि मां राज्ञि करिष्ये वचनं तव

सा च माम अब्रवीद गच्छ विजयाय शिवाय च

20

बरह्मा शिवः काश्यपश च नद्यॊ देवा मनॊऽनुगाः

कषेत्रौषध्यॊ यज्ञवाहाच छन्दांस्य ऋषिगणा धरा

21

समुद्रा दक्षिणा सतॊभा ऋक्षाणि पितरॊ गरहाः

देवपत्न्यॊ देवकन्या देव मातर एव च

22

मन्वन्तराणि गावश च चन्द्रमाः सविता हरिः

सावित्री बरह्म विद्या च ऋतवॊ वत्सराः कषपाः

23

कषणा लवा मुहूर्ताश च निमेषा युगपर्ययाः

रक्षन्तु सर्वत्रगतं तवां यादव सुखावहम

अरिष्टं गच्छ पन्थानम अप्रमत्तॊ भवानघ

24

एवं कृतस्वस्त्ययनस तयाहं; ताम अभ्यनुज्ञाय कपीन्द्र पुत्रीम

पितुः समीपे नरसत्तमस्य; मातुश च राज्ञश च तथाहुकस्य

25

तम अर्थम आवेद्य यद अब्रवीन मां; विद्याधरेन्द्रस्य सुता भृशार्ता

तान अभ्यनुज्ञाय तदाति दुःखाद; गदं तथैवातिबलं च रामम

26

पराप्यानुनां गुरुजनाद अहं तार्क्ष्यम अचिन्तयम

सॊ ऽवहद धिमवन्तं मां पराप्य चैनं वयसर्जयम

27

तत्राहम अद्भुतान भावान अपश्यं गिरिसत्तमे

कषेत्रं च तपसां शरेष्ठं पश्याम्य आश्रमम उत्तमम

28

दिव्यं वैयाघ्रपद्यस्य उपमन्यॊर महात्मनः

पुजितं देवगन्धर्वैर बराह्म्या लक्ष्म्या समन्वितम

29

धव ककुभ कदम्बनारिकेलैः; कुर बककेतकजम्बुपाटलाभिः

वट वरुणक वत्स नाभबिल्वैः; सरलकपित्थ परियालसाल तालैः

30

बदरी कुन्दपुन्नागैर अशॊकाम्रातिमुक्तकैः

भल्लातकैर मधूकैश च चम्पकैः पनसैस तथा

31

वन्यैर बहुविधैर वृक्षैः फलपुष्पप्रदैर युतम

पुष्पगुल्म लताकीर्णं कदली षण्डशॊभितम

32

नानाशकुनिसंभॊज्यैः फलैर वृक्षैर अलं कृतम

यथास्थानविनिक्षिप्तैर भूषितं वनराजिभिः

33

रुरुवारणशार्दूल सिंहद्वीपिसमाकुलम

कुरङ्ग बर्हिणाकीर्णं मार्जारभुजगावृतम

पूगैश च मृगजातीनां महिषर्क्ष निषेवितम

34

नानापुष्परजॊ मिश्रॊ गजदानाधिवासितः

दिव्यस्त्री गीतबहुलॊ मारुतॊ ऽतर सुखॊ ववौ

35

धारा निनादैर विहगप्रणादैः; शुभैस तथा बृंहितैः कुञ्जराणाम

गीतैस तथा किं नराणाम उदारैः; शुभैः सवनैः सामगानां च वीर

36

अचिन्त्यं मनसाप्य अन्यैः सरॊभिः समलं कृतम

विशालैश चाग्निशरणैर भूषितं कुश संवृतम

37

विभूषितं पुण्यपवित्र तॊयया; सदा च जुष्पं नृप जह्नुकन्यया

महात्मभिर धर्मभृतां वरिष्ठैर; महर्षिभिर भूषितम अग्निकल्पैः

38

वाय्वाहारैर अम्बुपैर जप्यनित्यैः; संप्रक्षालैर यतिभिर धयाननित्यैः

धूमाशनैर ऊष्मपैः कषीरपैश च; विभूषितं बराह्मणेन्द्रैः समन्तात

39

गॊचारिणॊ ऽथाश्म कुट्टा दन्तॊलूखलिनस तथा

मरीचिपाः फेनपाश च तथैव मृगचारिणः

40

सुदुःखान नियमांस तांस तान वहतः सुतपॊऽनवितान

पश्यन उत्फुल्लनयनः परवेष्टुम उपचक्रमे

41

सुपूजितं देवगणैर महात्मभिः; शिवादिभिर भारत पुण्यकर्मभिः

रराज तच चाश्रममण्डलं सदा; दिवीव राजन रविमण्डलं यथा

42

करीडन्ति सर्पैर नकुला मृगैर वयाघ्राश च मित्रवत

परभावाद दीप्ततपसः संनिकर्ष गुणान्विताः

43

तत्राश्रमपदे शरेष्ठे सर्वभूतमनॊरमे

सेविते दविज शार्दूलैर वेदवेदाङ्गपारगैः

44

नाना नियमविख्यातैर ऋषिभिश च महात्मभिः

परविशन्न एव चापश्यं जटाचीरधरं परभुम

45

तेजसा तपसा चैव दीप्यमानं यथानलम

शिष्यमध्य गतं शान्तं युवानं बराह्मणर्षभम

शिरसा वन्दमानं माम उपमन्युर अभाषत

46

सवागतं पुण्डरीकाक्ष सफलानि तपांसि नः

यत पूज्यः पूजयसि नॊ दरष्टव्यॊ दरष्टुम इच्छसि

47

तम अहं पराञ्जलिर भूत्वा मृगपक्षिष्व अथाग्निषु

धर्मे च शिष्यवर्गे च समपृच्छम अनामयम

48

ततॊ मां भगवान आह साम्ना परमवल्गुना

लप्स्यसे तनयं कृष्ण आत्मतुल्यम असंशयम

49

तपः सुमहद आस्थाय तॊषयेशानम ईश्वरम

इह देवः स पत्नीकः समाक्रीडत्य अधिक्षज

50

इहैव देवता शरेष्ठं देवाः सर्षिगणा पुरा

तपसा बरह्मचर्येण सत्येन च दमेन च

तॊषयित्वा शुभान कामान पराप्नुवंस ते जनार्दन

51

तेजसां तपसां चैव निधिः स भगवान इह

शुभाशुभान्वितान भावान विसृजन संक्षिपन्न अपि

आस्ते देव्या सहाचिन्त्यॊ यं परार्थयसि शत्रुहन

52

हिरण्यकशिपुर यॊ ऽभूद दानवॊ मेरुकम्पनः

तेन सर्वामरैश्वर्यं शर्वात पराप्तं समार्बुदम

53

तस्यैव पुत्र परवरॊ मन्दरॊ नाम विश्रुतः

महादेववराच छक्रं वर्षार्बुदम अयॊधयत

54

विष्णॊश चक्रं च तद घॊरं वज्रम आखण्डलस्य च

शीर्णं पुराभवत तात गरहस्याङ्गेषु केशव

55

अर्द्यमानाश च विबुधा गरहेण सुबलीयसा

शिव दत्तवराञ जघ्नुर असुरेन्द्रान सुरा भृशम

56

तुष्टॊ विद्युत्प्रभस्यापि तरिलॊकेश्वरताम अदात

शतं वर्षसहस्राणां सर्वलॊकेश्वरॊ ऽभवत

ममैवानुचरॊ नित्यं भवितासीति चाब्रवीत

57

तथा पुत्रसहस्राणाम अयुतं च ददौ परभुः

कुश दवीपं च स ददौ राज्येन भगवान अजः

58

तथा शतमुखॊ नाम धात्रा सृष्टॊ महासुरः

येन वर्षशतं साग्रम आत्ममांसैर हुतॊ ऽनलः

तं पराह भगवांस तुष्टः किं करॊमीति शंकरः

59

तं वै शतमुखः पराह यॊगॊ भवतु मे ऽदभुतः

बलं च दैवतश्रेष्ठ शाश्वतं संम्प्रयच्छ मे

60

सवायम्भुवः करतुश चापि पुत्रार्थम अभवत पुरा

आविश्य यॊगेनात्मानं तरीणि वर्षशतान्य अपि

61

तस्य देवॊ ऽददत पुत्रान सहस्रं करतुसंमितान

यॊगेश्वरं देव गीतं वेत्थ कृष्ण न संशयः

62

वालखिल्या मघवता अवज्ञाताः पुरा किल

तैः करुद्धैर भगवान रुद्रस तपसा तॊषितॊ हय अभूत

63

तांश चापि दैवतश्रेष्ठः पराह परीतॊ जगत्पतिः

सुपर्णं सॊमहर्तारं तपसॊत्पादयिष्यथ

64

महादेवस्य रॊषाच च आपॊ नष्टाः पुराभवन

तांश च सप्त कपालेन देवैर अन्याः परवर्तिताः

65

अत्रेर भार्यापि भर्तारं संत्यज्य बरह्मवादिनी

नाहं तस्य मुनेर भूयॊ वशगा सयां कथं चन

इत्य उक्त्वा सा महादेवम अगच्छच छरणं किल

66

निर आहारा भयाद अत्रेस तरिणि वर्षशतान्य अपि

अशेत मुसलेष्व एव परसादार्थं भवस्य सा

67

ताम अब्रवीद धसन देवॊ भविता वै सुतस तव

वंशे तवैव नाम्ना तु खयातिं यास्यति चेप्सिताम

68

शाकल्यः संशितात्मा वै नववर्षशतान्य अपि

आराधयाम आस भवं मनॊ यज्ञेन केशव

69

तं चाह भगवांस तुष्टॊ गरन्थ कारॊ भविष्यसि

वत्साक्षया च ते कीर्तिस तरैलॊक्ये वै भविष्यति

अक्षयं च कुलं ते ऽसतु महर्षिभिर अलं कृतम

70

सावर्णिश चापि विख्यात ऋषिर आसीत कृते युगे

इह तेन तपस तप्तं षष्टिं वर्षशतान्य अथ

71

तम आह भगवान रुद्रः साक्षात तुष्टॊ ऽसमि ते ऽनघ

गरन्थ कृल लॊकविख्यातॊ भवितास्य अजरामरः

72

मयापि च यथादृष्टॊ देवदेवः पुरा विभुः

साक्षात पशुपतिस तात तच चापि शृणु माधव

73

यदर्थं च महादेवः परयतेन मया पुरा

आराधितॊ महातेजास तच चापि शृणु विस्तरम

74

यद अवाप्तं च मे पूर्वं देवदेवान महेश्वरात

तत सर्वम अखिलेनाद्य कथयिष्यामि ते ऽनघ

75

पुरा कृतयुगे तात ऋषिर आसीन महायशाः

वयाघ्रपाद इति खयातॊ वेदवेदाङ्गपारगः

तस्याहम अभवं पुत्रॊ धौम्यश चापि ममानुजः

76

कस्य चित तव अथ कालस्य धौम्येन सहमाधव

आगच्छम आश्रमं करीडन मुनीनां भावितात्मनाम

77

तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी

लक्षितं च मया कषीरं सवादुतॊ हय अमृतॊपमम

78

ततः पिष्टं समालॊड्य तॊयेन सहमाधव

आवयॊः कषीरम इत्य एव पानार्थम उपनीयते

79

अथ गव्यं पयस तात कदा चित पराशितं मया

ततः पिष्ट रसं तात न मे परीतिम उदावहत

80

ततॊ ऽहम अब्रुवं बाल्याज जननीम आत्मनस तदा

कषीरौदन समायुक्तं भॊजनं च परयच्छ मे

81

ततॊ माम अब्रवीन माता दुःखशॊकसमन्विता

पुत्रस्नेहात परिष्वज्य मूर्ध्नि चाघ्राय माधव

82

कुतः कषीरॊदनं वत्स मुनीनां भावितात्मनाम

वने निवसतां नित्यं कन्दमूलफलाशिनाम

83

अप्रसाद्य विरूपाक्षं वरदं सथाणुम अव्ययम

कुतः कषीरॊदनं वत्स सुखानि वसनानि च

84

तं परपद्य सदा वत्स सर्वभावेन शंकरम

तत्प्रसादाच च कामेभ्यः फलं पराप्स्यसि पुत्रक

85

जनन्यास तद वचः शरुत्वा तदा परभृति शत्रुहन

मम भक्तिर महादेवे नैष्ठिकी समपद्यत

86

ततॊ ऽहं तप आस्थाय तॊषयाम आस शंकरम

दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः

87

एकं वर्षशतं चैव फलाहारस तदाभवम

दवितीयं शीर्णपर्णाशी तृतीयं चाम्बुभॊजनः

शतानि सप्त चैवाहं वायुभक्षस तदाभवम

88

ततः परीतॊ महादेवः सर्वलॊकेश्वरः परभुः

शक्र रूपं स कृत्वा तु सर्वैर देवगणैर वृतः

सहस्राक्षस तदा भूत्वा वर्ज पाणिर महायशाः

89

सुधावदातं रक्ताक्षं सतब्धकर्णं मदॊत्कटम

आवेष्टित करं रौद्रं चतुर्दंष्ट्रं महागजम

90

समास्थितश च भगवान दीप्यमानः सवतेजसा

आजगाम किरीटी तु हारकेयूरभूषितः

91

पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि

सेव्यमानॊ ऽपसरॊभिश च दिव्यगन्धर्वनादितः

92

ततॊ माम आह देवेन्द्रः परीतस ते ऽहं दविजॊत्तम

वरं वृणीष्व मत्तस तव यत ते मनसि वर्तते

93

शक्रस्य तु वचः शरुत्वा नाहं परीतमनाभवम

अब्रुवं च तदा कृष्ण देवराजम इदं वचः

94

नाहं तवत्तॊ वरं काङ्क्षे नान्यस्माद अपि दैवतात

महादेवाद ऋते सौम्य सत्यम एतद बरवीमि ते

95

पशुपतिवचनाद भवामि सद्यः; कृमिर अथ वा तरुर अप्य अनेकशाखः

अपशु पतिवरप्रसादजा मे; तरिभुवन राज्यविभूतिर अप्य अनिष्टा

96

अपि कीटः पतंगॊ वा भवेयं शंकराज्ञया

न तु शक्र तवया दत्तं तरैलॊक्यम अपि कामये

97

यावच छशाङ्क शकलामल बद्धमौलिर; न परीयते पशुपतिर भगवान ममेशः

तावज जरामरणजन्म शताभिघातैर; दुःखानि देहविहितानि समुद्वहामि

98

दिवसकर शशाङ्कवह्नि दीप्तं; तरिभुवन सारम अपारम आद्यम एकम

अजरम अमरम अप्रसाद्य रुद्रं; जगति पुमान इह कॊ लभेत शान्तिम

99

[षक्र]

कः पुनस तव हेतुर वै ईशे कारणकारणे

येन देवाद ऋते ऽनयस्मात परसादं नाभिकाङ्क्षसि

100

[उप]

हेतुभिर वा किम अन्यैस ते ईशः कारणकारणम

न शुश्रुम यद अन्यस्य लिङ्गम अभ्यर्च्यते सुरैः

101

कस्यान्यस्य सुरैः सर्वैर लिङ्गं मुक्त्वा महेश्वरम

अर्च्यते ऽरचित पूर्वं वा बरूहि यद्य अस्ति ते शरुतिः

102

यस्य बरह्मा च विष्णुश च तवं चापि सह दैवतैः

अर्चयध्वं सदा लिङ्गं तस्माच छरेष्ठ तमॊ हि सः

103

तस्माद वरम अहं काङ्क्षे निधनं वापि कौशिक

गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन

104

कामम एष वरॊ मे ऽसतु शापॊ वापि महेश्वरात

न चान्यां देवतां काङ्क्षे सर्वकामफलान्य अपि

105

एवम उक्त्वा तु देवेन्द्रं दुःखाद आकुलितेन्द्रियः

न परसीदति मे रुद्रः किम एतद इति चिन्तयन

अथापश्यं कषणेनैव तम एवैरावतं पुनः

106

हंसकुन्देन्दु सदृशं मृणालकुमुदप्रभम

वृषरूपधरं साक्षात कषीरॊदम इव सागरम

107

कृष्ण पुच्छं महाकायं मधुपिङ्गल लॊचनम

जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम

108

रक्ताक्षं सुमहानासं सुकर्णं सुकटी तटम

सुपार्श्वं विपुर सकन्धं सुरूपं चारुदर्शनम

109

ककुदं तस्य चाभाति सकन्धम आपूर्य विष्ठितम

तुषारगिरिकूटाभं सिताभ्रशिखरॊपमम

110

तम आस्थितश च भगवान देवदेवः सहॊमया

अशॊभत महादेवः पौर्णमास्याम इवॊडुराट

111

तस्य तेजॊ भवॊ वह्निः स मेघः सतनयित्नुमान

सहस्रम इव सूर्याणां सर्वम आवृत्य तिष्ठति

112

ईश्वरः सुमहातेजाः संवर्तक इवानलः

युगान्ते सर्वभूतानि दिधक्षुर इव चॊद्यतः

113

तेजसा तु तदा वयाप्ते दुर्निरीक्ष्ये समन्ततः

पुनर उद्विग्नहृदयः किम एतद इति चिन्तयम

114

मुहूर्तम इव तत तेजॊ वयाप्य सर्वा दिशॊ दिश

परशान्तं च कषणेनैव देवदेवस्य मायया

115

अथापश्यं सथितं सथाणुं भगवन्तं महेश्वरम

सौरभेय गतं सौम्यं विधूमम इव पावकम

सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम

116

नीलकन्हं महात्मानम असक्तं तेजसां निधिम

अष्टादश भुजं सथाणुं सर्वाभरणभूषितम

117

शुक्लाम्बर धरं देवं शुक्लमाल्यानुलेपनम

शुक्लध्वजम अनाधृष्यं शुक्लयज्ञॊपवीतिनम

118

गायद्भिर नृत्यमानैश च उत्पतद्भिर इतस ततः

वृत्तं पारिषदैर दिव्यैर आत्मतुल्यपराक्रमैः

119

बालेन्दु मुकुटं पाण्डुं शरच चन्द्रम इवॊदितम

तरिभिर नेत्रैः कृतॊद्द्यॊतं तरिभिः सूर्यैर इवॊदितैः

120

अशॊभत च देवस्य माला गात्रे सितप्रभे

जातरूपमयैः पद्मैर गरथिता रत्नभूषिता

121

मूर्तिमन्ति तथास्त्राणि सर्वतेजॊमयानि च

मया दृष्टानि गॊविन्द भवस्यामित तेजसः

122

इन्द्रायुधसहस्राभं धनुस तस्य महात्मनः

पिनाकम इति विख्यातं स च वै पन्नगॊ महान

123

सप्त शीर्षॊ महाकायस तीक्ष्णदंष्ट्रॊ विषॊल्बणः

जया वेष्टितमहाग्रीवः सथितः पुरुषविग्रहः

124

शरश च सूर्यसंकाशः कालानलसमद्युतिः

यत तद अस्त्रं महाघॊरं दिव्यं पाशुपतं महत

125

अद्वितीयम अनिर्देश्यं सर्वभूतभयावहम

स सफुलिङ्गं महाकायं विसृजन्तम इवानलम

126

एकपादं महादंष्ट्रं सहस्रशिरसॊदरम

सहस्रभुज जिह्वाक्षम उद्गिरन्तम इवानलम

127

बराह्मान नारायणाद ऐन्द्राद आग्नेयाद अपि वारुणात

यद विशिष्टं महाबाहॊ सर्वशस्त्रविघातनम

128

येन तत तरिपुरं दग्ध्वा कषणाद भस्मीकृतं पुरा

शरेणैकेन गॊविन्द महादेवेन लीलया

129

निर्ददाह जगत कृत्स्नं तरैलॊक्यं स चराचरम

महेश्वर भुजॊत्सृष्टं निमेषार्धान न संशयः

130

नावध्यॊ यस्य लॊके ऽसमिन बरह्म विष्णुसुरेष्व अपि

तद अहं दृष्टवांस तात आश्चर्याद भूतम उत्तमम

131

गुह्यम अस्त्रं परं चापि तत्तुल्याधिकम एव वा

यत तच छूलम इति खयातं सर्वलॊकेषु शूलिनः

132

दारयेद यन महीं कृत्स्नां शॊषयेद वा महॊदधिम

संहरेद वा जगत कृत्स्नं विसृष्टं शूलपाणिना

133

यौवनाश्वॊ हतॊ येन मांधाता सबलः पुरा

चक्रवर्ती महातेजास तरिलॊकविजयी नृपः

134

महाबलॊ महावीर्यः शक्रतुल्यपराक्रमः

करस्थेनैव गॊविन्द लवणस्येह रक्षसः

135

तच छूलम अतितीक्ष्णाग्रं सुभीमं लॊमहर्षणम

तरिशिखां भरुकुटीं कृत्वा तर्जमानम इव सथितम

136

विधूमं सार्चिसं कृष्णं कालसूर्यम इवॊदितम

सर्पहस्तम अनिर्देश्यं पाशहस्तम इवान्तकम

दृष्टवान अस्मि गॊविन्द तद अस्त्रं रुद्र संनिधौ

137

परशुस तीक्ष्णधारश च दत्तॊ रामस्य यः पुरा

महादेवेन तुष्टेन कषत्रियाणां कषयं करः

कार्तवीर्यॊ हतॊ येन चक्रवर्ती महामृधे

138

तरिः सप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता

जामदग्न्येन गॊविन्द रामेणाक्लिष्टकर्मणा

139

दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्र वेष्टितः

अभवच छूलिनॊ ऽभयाशे दीप्तवह्नि शिखॊपमः

140

असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः

परधान्यतॊ मयैतानि कीर्तितानि तवानघ

141

सव्यदेशे तु देवस्य बरह्मा लॊकपितामहः

दिव्यं विमानम आस्थाय हंसयुक्तं मनॊजवम

142

वामपार्श्व गतश चैव तथा नारायणः सथितः

वैनतेयं समास्थाय शङ्खचक्रगदाधरः

143

सकन्दॊ मयूरम आस्थाय सथितॊ देव्याः समीपतः

शक्तिं कन्हे समाधाय दवितीय इव पावकः

144

पुरस्ताच चैव देवस्य नन्दिं पश्याम्य अवस्थितम

शूलं विष्टभ्य तिष्ठन्तं दवितीयम इव शंकरम

145

सवायम्भुवाद्या मनवॊ भृग्वाद्या ऋषयस तथा

शक्राद्या देवताश चैव सर्व एव समभ्ययुः

146

ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः

अस्तुवन विविधैः सतॊत्रैर महादेवं सुरास तदा

147

बरह्मा भवं तदा सतुन्वन रथन्तरम उदीरयन

जयेष्ठसाम्ना च देवेशं जगौ नारायणस तदा

गृणञ शक्रः परं बरह्म शतरुद्रीयम उत्तमम

148

बरह्मा नारायणश चैव देवराजश च कौशिकः

अशॊभन्त महात्मानस तरयस तरय इवाग्नयः

149

तेषां मध्यगतॊ देवॊ रराज भगवाञ शिवः

शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान

ततॊ ऽहम अस्तुवं देवं सतवेनानेन सुव्रतम

150

नमॊ देवाधिदेवाय महादेवाय वै नमः

शक्राय शक्र रूपाय शक्र वेषधराय च

151

नमस ते वर्ज हस्ताय पिङ्गलायारुणाय च

पिनाक पाणये नित्यं खड्गशूलधराय च

152

नमस ते कृष्ण वासाय कृष्ण कुञ्चितमूर्धजे

कृष्णाजिनॊत्तरीयाय कृष्णाष्टम इतराय च

153

शुक्लवर्णाय शुक्लाय शुक्लाम्बर धराय च

शुक्लभस्मावलिप्ताय शुक्लकर्म रताय च

154

तवं बरह्मा सर्वदेवानां रुद्राणां नीललॊहितः

आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे

155

ऋषभस तवं पवित्राणां यॊगिनां निष्कलः शिवः

आश्रमाणां गृहस्थस तवम ईश्वराणां महेश्वरः

कुबेरः सर्वयक्षाणां करतूनां विष्णुर उच्यसे

156

पर्वतानां महामेरुर नक्षत्राणां च चन्द्रमाः

वसिष्ठस तवम ऋषीणां च गरहाणां सूर्य उच्यसे

157

आरण्यानां पशूनां च सिंहस तवं परमेश्वरः

गराह्याणां गॊवृषश चासि भगवाँल लॊकपूजितः

158

आदित्यानां भवान विष्णुर वसूनां चैव पावकः

पक्षिणां वैनतेयश च अनन्तॊ भुजगेषु च

159

सामवेदश च वेदानां यजुषां शतरुद्रियम

सनत्कुमारॊ यॊगीनां सांख्यानां कपिलॊ हय असि

160

शक्रॊ ऽसि मरुतां देव पितॄणां धर्मराड असि

बरह्मलॊकश च लॊकानां गतीनां मॊक्ष उच्यसे

161

कषीरॊदः सागराणां च शैलानां हिमवान गिरिः

वर्णानां बराह्मणश चासि विप्राणां दीक्षितॊ दविजः

आदिस तवम असि लॊकानां संहर्ता काल एव च

162

यच चान्यद अपि लॊकेषु सत्त्वं तेजॊ ऽधिकं समृतम

तत सर्वं भगवान एव इति मे निश्चिता मतिः

163

नमस ते भगवन देव नमस ते भक्त वत्सल

यॊगेश्वर नमस ते ऽसतु नमस ते विश्वसंभव

164

परसीद मम भक्तस्य दीनस्य कृपणस्य च

अनैश्वर्येण युक्तस्य गतिर भव सनातन

165

यं चापराधं कृतवान अज्ञानात परमेश्वर

मद्भक्त इति देवेश तत सर्वं कषन्तुम अर्हसि

166

मॊहितश चास्मि देवेश तुभ्यं रूपविपर्ययात

तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर

167

एवं सतुत्वाहम ईशानं पाद्यम अर्घ्यं च भक्तितः

कृताञ्जलिपुटॊ भूत्वा सर्वं तस्मै नयवेदयम

168

ततः शीलाम्बुसंयुक्ता दिव्यगन्धसमन्विता

पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि

169

दुन्दुभिश च ततॊ दिव्यस ताडितॊ देवकिंकरैः

ववौ च मारुतः पुण्यः शुचि गन्धः सुखावहः

170

ततः परीतॊ महादेवः सपत्नीकॊ वृषध्वजः

अब्रवीत तरिदशांस तत्र हर्षयन्न इव मां तदा

171

पश्यध्वं तरिदशाः सर्वे उपमन्यॊर महात्मनः

मयि भक्तिं परां दिव्याम एकभावाद अवस्थिताम

172

एवम उक्तास ततः कृष्ण सुरास ते शूलपाणिना

ऊचुः पराञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम

173

भगवन देवदेवेश लॊकनाथ जगत्पते

लभतां सर्वकामेभ्यः फलं तवत्तॊ दविजॊत्तमः

174

एवम उक्तस ततः शर्वः सुरैर बरह्मादिभिस तथा

आह मां भगवान ईशः परहसन्न इव शंकरः

175

वत्सॊपमन्यॊ परीतॊ ऽसमि पश्य मां मुनिपुंगव

दृढभक्तॊ ऽसि विप्रर्षे मया जिज्ञासितॊ हय असि

176

अनया चैव भक्त्या ते अत्यर्थं परीतिमान अहम

तस्मात सर्वान ददाम्य अद्य कामांस तव यथेप्शितान

177

एवम उक्तस्य चैवाथ महादेवेन मे विभॊ

हर्षाद अश्रूण्य अवर्तन्त लॊम हर्षश च जायते

178

अब्रुवं च तदा देवं हर्षगद्गदया गिरा

जानुभ्याम अवनिं गत्वा परणम्य च पुनः पुनः

179

अद्य जातॊ हय अहं देव अद्य मे सफलं तपः

यन मे साक्षान महादेवः परसन्नस तिष्ठते ऽगरतः

180

यं न पश्यन्ति चाराध्य देवा हय अमितविक्रमम

तम अहं दृष्टवान देवं कॊ ऽनयॊ धन्यतरॊ मया

181

एवं धयायन्ति विद्वांसः परं तत्त्वं सनातनम

षड्विंशकम इति खयातं यत परात परम अक्षरम

182

स एष भगवान देवः सर्वतत्त्वादिर अव्ययः

सर्वतत्त्वविधानज्ञः परधानपुरुषेश्वरः

183

यॊ ऽसृजद दक्षिणाद अङ्गाद बरह्माणं लॊकसंभवम

वामपार्श्वात तथा विष्णुं लॊकरक्षार्थम ईश्वरः

युगान्ते चैव संप्राप्ते रुद्रम अङ्गात सृजत परभुः

184

स रुद्रः संहरन कृत्स्नं जगत सथावरजङ्गमम

कालॊ भूत्वा महातेजाः संवर्तक इवानलः

185

एष देवॊ महादेवॊ जगत सृष्ट्वा चराचरम

कल्पान्ते चैव सर्वेषां समृतिम आक्षिप्य तिष्ठति

186

सर्वगः सर्वभूतात्मा सर्वभूतभवॊद्भवः

आस्ते सर्वगतॊ नित्यम अदृश्यः सर्वदैवतैः

187

यदि देयॊ वरॊ मह्यं यदि तुष्टश च मे परभुः

भक्तिर भवतु मे नित्यं शाश्वती तवयि शंकर

188

अतीतानागतं चैव वर्तमानं च यद विभॊ

जानीयाम इति मे बुद्धिस तवत्प्रसादात सुरॊत्तम

189

कषीरौदनं च भुञ्जीयाम अक्षयं सह बान्धवैः

आश्रमे च सदा मह्यं सामिन्ध्यं परमस तु ते

190

एवम उक्तः स मां पराह भगवाँल लॊकपूजितः

महेश्वरॊ महातेजाश चराचरगुरुः परभुः

191

अजरश चामरश चैव भव दुःखविवर्जितः

शीलवान गुणसंपन्नः सर्वज्ञः परियदर्शनः

192

अक्षयं यौवनं ते ऽसतु तेजश चैवानलॊपमम

कषीरॊदः सागरश चैव यत्र यत्रेच्छसे मुने

193

तत्र ते भविता कामं सांनिध्यं पयसॊ निधेः

कषीरॊदनं च भुङ्क्ष्व तवम अमृतेन समन्वितम

194

बन्धुभिः सहितः कल्पं ततॊ माम उपयास्यसि

सांनिध्यम आश्रमे नित्यं करिष्यामि दविजॊत्तम

195

तिष्ठ वत्स यथा कामनॊत्कण्ठां कर्तुम अर्हसि

समृतः समृतश च ते विप्र सदा दास्यामि दर्शनम

196

एवम उक्त्वा स भगवान सूर्यकॊटि समप्रभः

ममेशानॊ वरं दत्त्वा तत्रैवान्तरधीयत

197

एवं दृष्टॊ मया कृष्ण देवदेवः समाधिना

तद अवाप्तं च मे सर्वं यद उक्तं तेन धीमता

198

परत्यक्षं चैव ते कृष्ण पश्य सिद्धान वयवस्थितान

ऋषीन विद्याधरान यक्षान गन्धर्वाप्सरसस तथा

199

पश्य वृक्षान मनॊरम्यान सदा पुष्पफलान्वितान

सर्वर्तुकुसुमैर युक्तान सनिग्धपत्रान सुशाखिनः

सर्वम एतन महाबाहॊ दिव्यभावसमन्वितम

1

[y]

pitāmaheśāya vibho nāmāny ācakṣva śambhave

babhrave viśvamāyāya mahābhāgyaṃ ca tattvata

2

[bh]

surāsuraguro deva viṣṇo tvaṃ vaktum arhasi

śivāya viśvarūpāya yan māṃ pṛcchad yudhiṣṭhira

3

nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā

niveditaṃ brahmaloke brahmaṇo yat purābhavat

4

dvaipāyanaprabhṛtayas tathaiveme tapodhanāḥ

ayaḥ suvratā dāntāḥ śṛvantu gadatas tava

5

dhruvāya nandine hotre goptre viśvasṛje 'gnaye

mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine

6

[vāsudeva]

na gatiḥ karmaṇāṃ akyā vettum īśasya tattvata

7

hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ

na vidur yasya nidhanam ādhiṃ vā sūkṣmadarśinaḥ

sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gati

8

tasyāham asuraghnasya kāṃś cid bhagavato guṇān

bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham

9

[v]

evam uktvā tu bhagavān guṇāṃs tasya mahātmanaḥ

upaspṛśya śucir bhūvā kathayām āsa dhīmata

10

[v]

śuśrūṣadhvaṃ brāhmaṇendrās tvaṃ ca tāta yudhiṣṭhira

tvaṃ cāpageya nāmāni niśāmaya jagatpate

11

yad avāptaṃ ca me pūrvaṃ sāmba hetoḥ suduṣkaram

yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā

12

ambare nihate pūrvaṃ raukmiṇeyena dhīmatā

atīte dvādaśe varṣe jāmbavaty abravīd dhi mām

13

pradyumna cārudeṣṇādīn rukmiṇyā vīkṣya putrakān

putrārthinī mām upetya vākyam āha yudhiṣṭhira

14

ś
raṃ balavatāṃ śreṣṭhaṃ kānta rūpam alakmaṣam

ātmatulyaṃ mama sutaṃ prayacchācyuta māciram

15

na hi te 'prāpyam astīha triṣu lokeṣu kiṃ cana

lokān sṛjes tvam aparān icchan yadukulodvaha

16

tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā

ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ

17

cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ

cāru śvarāś cāru yaśāḥ pradyumnaḥ śambhur eva ca

18

yathā te janitāḥ putrā rukmiṇyāś cāru vikramāḥ

tathā mamāpi tanayaṃ prayaccha balaśālinam

19

ity evaṃ codito devyā tām avocaṃ sumadhyamām

anujānīhi māṃ rājñi kariṣye vacanaṃ tava

sā ca mām abravīd gaccha vijayāya śivāya ca

20

brahmā śivaḥ kāśyapaś ca nadyo devā mano'nugāḥ

kṣetrauṣadhyo yajñavāhāc chandāṃsy ṛṣigaṇā dharā

21

samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ

devapatnyo devakanyā deva mātara eva ca

22

manvantarāṇi gāvaś ca candramāḥ savitā hariḥ

sāvitrī brahma vidyā ca ṛtavo vatsarāḥ kṣapāḥ

23

kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ

rakṣantu sarvatragataṃ tvāṃ yādava sukhāvaham

ariṣṭaṃ gaccha panthānam apramatto bhavānagha

24

evaṃ kṛtasvastyayanas tayāhaṃ; tām abhyanujñāya kapīndra putrīm

pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya

25

tam artham āvedya yad abravīn māṃ; vidyādharendrasya sutā bhṛśārtā

tān abhyanujñāya tadāti duḥkhād; gadaṃ tathaivātibalaṃ ca rāmam

26

prāpyānunāṃ gurujanād ahaṃ tārkṣyam acintayam

so 'vahad dhimavantaṃ māṃ prāpya cainaṃ vyasarjayam

27

tatrāham adbhutān bhāvān apaśyaṃ girisattame

kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmy āśramam uttamam

28

divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ

pujitaṃ devagandharvair brāhmyā lakṣmyā samanvitam

29

dhava kakubha kadambanārikelaiḥ; kura bakaketakajambupāṭalābhiḥ

vaṭa varuṇaka vatsa nābhabilvaiḥ; saralakapittha priyālasāla tālai

30

badarī kundapunnāgair aśokāmrātimuktakaiḥ

bhallātakair madhūkaiś ca campakaiḥ panasais tathā

31

vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam

puṣpagulma latākīrṇaṃ kadalī ṣaṇḍaśobhitam

32

nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃ kṛtam

yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhi

33

ruruvāraṇaśārdūla siṃhadvīpisamākulam

kuraṅga barhiṇākīrṇaṃ mārjārabhujagāvṛtam

pūgaiś ca mṛgajātīnāṃ mahiṣarkṣa niṣevitam

34

nānāpuṣparajo miśro gajadānādhivāsitaḥ

divyastrī gītabahulo māruto 'tra sukho vavau

35

dhārā ninādair vihagapraṇādaiḥ; śubhais tathā bṛṃhitaiḥ kuñjarāṇām

gītais tathā kiṃ narāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṃ ca vīra

36

acintyaṃ manasāpy anyaiḥ sarobhiḥ samalaṃ kṛtam

viśālaiś cāgniśaraṇair bhūṣitaṃ kuśa saṃvṛtam

37

vibhūṣitaṃ puṇyapavitra toyayā; sadā ca juṣpaṃ nṛpa jahnukanyayā

mahātmabhir dharmabhṛtāṃ variṣṭhair; maharṣibhir bhūṣitam agnikalpai

38

vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibhir dhyānanityaiḥ

dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṃ brāhmaṇendraiḥ samantāt

39

gocāriṇo 'thāśma kuṭṭā dantolūkhalinas tathā

marīcipāḥ phenapāś ca tathaiva mṛgacāriṇa

40

suduḥkhān niyamāṃs tāṃs tān vahataḥ sutapo'nvitān

paśyan utphullanayanaḥ praveṣṭum upacakrame

41

supūjitaṃ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ

rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yathā

42

krīḍanti sarpair nakulā mṛgair vyāghrāś ca mitravat

prabhāvād dīptatapasaḥ saṃnikarṣa guṇānvitāḥ

43

tatrāśramapade śreṣṭhe sarvabhūtamanorame

sevite dvija śārdūlair vedavedāṅgapāragai

44

nānā niyamavikhyātair ṛṣibhiś ca mahātmabhiḥ

praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum

45

tejasā tapasā caiva dīpyamānaṃ yathānalam

śiṣyamadhya gataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham

śirasā vandamānaṃ mām upamanyur abhāṣata

46

svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ

yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi

47

tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣv athāgniṣu

dharme ca śiṣyavarge ca samapṛccham anāmayam

48

tato māṃ bhagavān āha sāmnā paramavalgunā

lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam

49

tapaḥ sumahad āsthāya toṣayeśānam īśvaram

iha devaḥ sa patnīkaḥ samākrīḍaty adhikṣaja

50

ihaiva devatā śreṣṭhaṃ devāḥ sarṣigaṇā purā

tapasā brahmacaryeṇa satyena ca damena ca

toṣayitvā śubhān kāmān prāpnuvaṃs te janārdana

51

tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha

śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api

āste devyā sahācintyo yaṃ prārthayasi śatruhan

52

hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ

tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam

53

tasyaiva putra pravaro mandaro nāma viśrutaḥ

mahādevavarāc chakraṃ varṣārbudam ayodhayat

54

viṣṇoś cakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca

śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava

55

ardyamānāś ca vibudhā graheṇa subalīyasā

śiva dattavarāñ jaghnur asurendrān surā bhṛśam

56

tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt

śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat

mamaivānucaro nityaṃ bhavitāsīti cābravīt

57

tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ

kuśa dvīpaṃ ca sa dadau rājyena bhagavān aja

58

tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ

yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ

taṃ prāha bhagavāṃs tuṣṭaḥ kiṃ karomīti śaṃkara

59

taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ

balaṃ ca daivataśreṣṭha śāśvataṃ saṃmprayaccha me

60

svāyambhuvaḥ kratuś cāpi putrārtham abhavat purā

āviśya yogenātmānaṃ trīṇi varṣaśatāny api

61

tasya devo 'dadat putrān sahasraṃ kratusaṃmitān

yogeśvaraṃ deva gītaṃ vettha kṛṣṇa na saṃśaya

62

vālakhilyā maghavatā avajñātāḥ purā kila

taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt

63

tāṃś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ

suparṇaṃ somahartāraṃ tapasotpādayiṣyatha

64

mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan

tāṃś ca sapta kapālena devair anyāḥ pravartitāḥ

65

atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī

nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃ cana

ity uktvā sā mahādevam agacchac charaṇaṃ kila

66

nir āhārā bhayād atres triṇi varṣaśatāny api

aśeta musaleṣv eva prasādārthaṃ bhavasya sā

67

tām abravīd dhasan devo bhavitā vai sutas tava

vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām

68

ś
kalyaḥ saṃśitātmā vai navavarṣaśatāny api

ārādhayām āsa bhavaṃ mano yajñena keśava

69

taṃ cāha bhagavāṃs tuṣṭo grantha kāro bhaviṣyasi

vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati

akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃ kṛtam

70

sāvarṇiś cāpi vikhyāta ṛṣir āsīt kṛte yuge

iha tena tapas taptaṃ ṣaṣṭiṃ varṣaśatāny atha

71

tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha

grantha kṛl lokavikhyāto bhavitāsy ajarāmara

72

mayāpi ca yathādṛṣṭo devadevaḥ purā vibhuḥ

sākṣāt paśupatis tāta tac cāpi śṛṇu mādhava

73

yadarthaṃ ca mahādevaḥ prayatena mayā purā

ārādhito mahātejās tac cāpi śṛṇu vistaram

74

yad avāptaṃ ca me pūrvaṃ devadevān maheśvarāt

tat sarvam akhilenādya kathayiṣyāmi te 'nagha

75

purā kṛtayuge tāta ṛṣir āsīn mahāyaśāḥ

vyāghrapāda iti khyāto vedavedāṅgapāragaḥ

tasyāham abhavaṃ putro dhaumyaś cāpi mamānuja

76

kasya cit tv atha kālasya dhaumyena sahamādhava

āgaccham āśramaṃ krīḍan munīnāṃ bhāvitātmanām

77

tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī

lakṣitaṃ ca mayā kṣīraṃ svāduto hy amṛtopamam

78

tataḥ piṣṭaṃ samāloḍya toyena sahamādhava

āvayoḥ kṣīram ity eva pānārtham upanīyate

79

atha gavyaṃ payas tāta kadā cit prāśitaṃ mayā

tataḥ piṣṭa rasaṃ tāta na me prītim udāvahat

80

tato 'ham abruvaṃ bālyāj jananīm ātmanas tadā

kṣīraudana samāyuktaṃ bhojanaṃ ca prayaccha me

81

tato mām abravīn mātā duḥkhaśokasamanvitā

putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava

82

kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām

vane nivasatāṃ nityaṃ kandamūlaphalāśinām

83

aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam

kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca

84

taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram

tatprasādāc ca kāmebhyaḥ phalaṃ prāpsyasi putraka

85

jananyās tad vacaḥ śrutvā tadā prabhṛti śatruhan

mama bhaktir mahādeve naiṣṭhikī samapadyata

86

tato 'haṃ tapa āsthāya toṣayām āsa śaṃkaram

divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhita

87

ekaṃ varṣaśataṃ caiva phalāhāras tadābhavam

dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ

śatāni sapta caivāhaṃ vāyubhakṣas tadābhavam

88

tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ

śakra rūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ

sahasrākṣas tadā bhūtvā varja pāṇir mahāyaśāḥ

89

sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam

āveṣṭita karaṃ raudraṃ caturdaṃṣṭraṃ mahāgajam

90

samāsthitaś ca bhagavān dīpyamānaḥ svatejasā

ājagāma kirīṭī tu hārakeyūrabhūṣita

91

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani

sevyamāno 'psarobhiś ca divyagandharvanādita

92

tato mām āha devendraḥ prītas te 'haṃ dvijottama

varaṃ vṛṇīva mattas tva yat te manasi vartate

93

akrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam

abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vaca

94

nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt

mahādevād ṛte saumya satyam etad bravīmi te

95

paśupativacanād bhavāmi sadyaḥ; kṛmir atha vā tarur apy anekaśākhaḥ

apaśu pativaraprasādajā me; tribhuvana rājyavibhūtir apy aniṣṭā

96

api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā

na tu śakra tvayā dattaṃ trailokyam api kāmaye

97

yāvac chaśāṅka śakalāmala baddhamaulir; na prīyate paśupatir bhagavān mameśaḥ

tāvaj jarāmaraṇajanma śatābhighātair; duḥkhāni dehavihitāni samudvahāmi

98

divasakara śaśāṅkavahni dīptaṃ; tribhuvana sāram apāram ādyam ekam

ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labheta śāntim

99

[
akra]

kaḥ punas tava hetur vai īśe kāraṇakāraṇe

yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi

100

[upa]

hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam

na śuśruma yad anyasya liṅgam abhyarcyate surai

101

kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram

arcyate 'rcita pūrvaṃ vā brūhi yady asti te śruti

102

yasya brahmā ca viṣṇuś ca tvaṃ cāpi saha daivataiḥ

arcayadhvaṃ sadā liṅgaṃ tasmāc chreṣṭha tamo hi sa

103

tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika

gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana

104

kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt

na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalāny api

105

evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ

na prasīdati me rudraḥ kim etad iti cintayan

athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ puna

106

haṃsakundendu sadṛśaṃ mṛṇālakumudaprabham

vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram

107

kṛṣṇa pucchaṃ mahākāyaṃ madhupiṅgala locanam

jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam

108

raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭī taṭam

supārśvaṃ vipura skandhaṃ surūpaṃ cārudarśanam

109

kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam

tuṣāragirikūṭābhaṃ sitābhraśikharopamam

110

tam āsthitaś ca bhagavān devadevaḥ sahomayā

aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ

111

tasya tejo bhavo vahniḥ sa meghaḥ stanayitnumān

sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati

112

ī
varaḥ sumahātejāḥ saṃvartaka ivānalaḥ

yugānte sarvabhūtāni didhakṣur iva codyata

113

tejasā tu tadā vyāpte durnirīkṣye samantataḥ

punar udvignahṛdayaḥ kim etad iti cintayam

114

muhūrtam iva tat tejo vyāpya sarvā diśo diśa

praśāntaṃ ca kṣaṇenaiva devadevasya māyayā

115

athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram

saurabheya gataṃ saumyaṃ vidhūmam iva pāvakam

sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram

116

nīlakanhaṃ mahātmānam asaktaṃ tejasāṃ nidhim

aṣṭādaśa bhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam

117

uklāmbara dharaṃ devaṃ śuklamālyānulepanam

śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam

118

gāyadbhir nṛtyamānaiś ca utpatadbhir itas tataḥ

vṛttaṃ pāriṣadair divyair ātmatulyaparākramai

119

bālendu mukuṭaṃ pāṇḍuṃ śarac candram ivoditam

tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditai

120

aśobhata ca devasya mālā gātre sitaprabhe

jātarūpamayaiḥ padmair grathitā ratnabhūṣitā

121

mūrtimanti tathāstrāṇi sarvatejomayāni ca

mayā dṛṣṭni govinda bhavasyāmita tejasa

122

indrāyudhasahasrābhaṃ dhanus tasya mahātmanaḥ

pinākam iti vikhyātaṃ sa ca vai pannago mahān

123

sapta śīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ

jyā veṣṭitamahāgrīvaḥ sthitaḥ puruṣavigraha

124

araś ca sūryasaṃkāśaḥ kālānalasamadyutiḥ

yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat

125

advitīyam anirdeśyaṃ sarvabhūtabhayāvaham

sa sphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam

126

ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram

sahasrabhuja jihvākṣam udgirantam ivānalam

127

brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt

yad viśiṣṭaṃ mahābāho sarvaśastravighātanam

128

yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā

śareṇaikena govinda mahādevena līlayā

129

nirdadāha jagat kṛtsnaṃ trailokyaṃ sa carācaram

maheśvara bhujotsṛṣṭaṃ nimeṣārdhān na saṃśaya

130

nāvadhyo yasya loke 'smin brahma viṣṇusureṣv api

tad ahaṃ dṛṣṭavāṃs tāta āścaryād bhūtam uttamam

131

guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā

yat tac chūlam iti khyātaṃ sarvalokeṣu śūlina

132

dārayed yan mahīṃ kṛtsnāṃ śoṣayed vā mahodadhim

saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā

133

yauvanāśvo hato yena māṃdhātā sabalaḥ purā

cakravartī mahātejās trilokavijayī nṛpa

134

mahābalo mahāvīryaḥ śakratulyaparākramaḥ

karasthenaiva govinda lavaṇasyeha rakṣasa

135

tac chūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam

triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam

136

vidhūmaṃ sārcisaṃ kṛṣṇaṃ kālasūryam ivoditam

sarpahastam anirdeśyaṃ pāśahastam ivāntakam

dṛṣṭavān asmi govinda tad astraṃ rudra saṃnidhau

137

paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā

mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃ karaḥ

kārtavīryo hato yena cakravartī mahāmṛdhe

138

triḥ saptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā

jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā

139

dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgra veṣṭitaḥ

abhavac chūlino 'bhyāśe dīptavahni śikhopama

140

asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ

pradhānyato mayaitāni kīrtitāni tavānagha

141

savyadeśe tu devasya brahmā lokapitāmahaḥ

divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam

142

vāmapārśva gataś caiva tathā nārāyaṇaḥ sthitaḥ

vainateyaṃ samāsthāya śaṅkhacakragadādhara

143

skando mayūram āsthāya sthito devyāḥ samīpataḥ

śaktiṃ kanhe samādhāya dvitīya iva pāvaka

144

purastāc caiva devasya nandiṃ paśyāmy avasthitam

śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram

145

svāyambhuvādyā manavo bhṛgvādyā ṛṣayas tathā

śakrādyā devatāś caiva sarva eva samabhyayu

146

te 'bhivādya mahātmānaṃ parivārya samantataḥ

astuvan vividhaiḥ stotrair mahādevaṃ surās tadā

147

brahmā bhavaṃ tadā stunvan rathantaram udīrayan

jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇas tadā

gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam

148

brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ

aśobhanta mahātmānas trayas traya ivāgnaya

149

teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ

śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān

tato 'ham astuvaṃ devaṃ stavenānena suvratam

150

namo devādhidevāya mahādevāya vai namaḥ

śakrāya śakra rūpāya śakra veṣadharāya ca

151

namas te varja hastāya piṅgalāyāruṇāya ca

pināka pāṇaye nityaṃ khaḍgaśūladharāya ca

152

namas te kṛṣṇa vāsāya kṛṣṇa kuñcitamūrdhaje

kṛṣṇjinottarīyāya kṛṣṇāṣam itarāya ca

153

uklavarṇāya śuklāya śuklāmbara dharāya ca

śuklabhasmāvaliptāya śuklakarma ratāya ca

154

tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ

ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase

155

abhas tvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śiva

ā
ramāṇāṃ gṛhasthas tvam īśvarāṇāṃ maheśvaraḥ

kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase

156

parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ

vasiṣṭhas tvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase

157

raṇyānāṃ paśūnāṃ ca siṃhas tvaṃ parameśvaraḥ

grāhyāṇāṃ govṛṣaś cāsi bhagavāṁl lokapūjita

158

dityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ

pakṣiṇāṃ vainateyaś ca ananto bhujageṣu ca

159

sāmavedaś ca vedānāṃ yajuṣāṃ atarudriyam

sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hy asi

160

akro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi

brahmalokaś ca lokānāṃ gatīnāṃ mokṣa ucyase

161

kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ

varṇānāṃ brāhmaṇaś cāsi viprāṇāṃ dīkṣito dvijaḥ

ādis tvam asi lokānāṃ saṃhartā kāla eva ca

162

yac cānyad api lokeṣu sattvaṃ tejo 'dhikaṃ smṛtam

tat sarvaṃ bhagavān eva iti me niścitā mati

163

namas te bhagavan deva namas te bhakta vatsala

yogeśvara namas te 'stu namas te viśvasaṃbhava

164

prasīda mama bhaktasya dīnasya kṛpaṇasya ca

anaiśvaryeṇa yuktasya gatir bhava sanātana

165

yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara

madbhakta iti deveśa tat sarvaṃ kṣantum arhasi

166

mohitaś cāsmi deveśa tubhyaṃ rūpaviparyayāt

tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara

167

evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ

kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam

168

tataḥ śīlāmbusaṃyuktā divyagandhasamanvitā

puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani

169

dundubhiś ca tato divyas tāḍito devakiṃkaraiḥ

vavau ca mārutaḥ puṇyaḥ śuci gandhaḥ sukhāvaha

170

tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ

abravīt tridaśāṃs tatra harṣayann iva māṃ tadā

171

paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ

mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām

172

evam uktās tataḥ kṛṣṇa surās te śūlapāṇinā

ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam

173

bhagavan devadeveśa lokanātha jagatpate

labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottama

174

evam uktas tataḥ śarvaḥ surair brahmādibhis tathā

āha māṃ bhagavān īśaḥ prahasann iva śaṃkara

175

vatsopamanyo prīto 'smi paśya māṃ munipuṃgava

dṛḍhabhakto 'si viprarṣe mayā jijñāsito hy asi

176

anayā caiva bhaktyā te atyarthaṃ prītimān aham

tasmāt sarvān dadāmy adya kāmāṃs tava yathepśitān

177

evam uktasya caivātha mahādevena me vibho

harṣād aśrūṇy avartanta loma harṣaś ca jāyate

178

abruvaṃ ca tadā devaṃ harṣagadgadayā girā

jānubhyām avaniṃ gatvā praṇamya ca punaḥ puna

179

adya jāto hy ahaṃ deva adya me saphalaṃ tapaḥ

yan me sākṣān mahādevaḥ prasannas tiṣṭhate 'grata

180

yaṃ na paśyanti cārādhya devā hy amitavikramam

tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā

181

evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam

ṣaḍviṃśakam iti khyātaṃ yat parāt param akṣaram

182

sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ

sarvatattvavidhānajñaḥ pradhānapuruṣeśvara

183

yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam

vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ

yugānte caiva saṃprāpte rudram aṅgāt sṛjat prabhu

184

sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam

kālo bhūtvā mahātejāḥ saṃvartaka ivānala

185

eṣa devo mahādevo jagat sṛṣṭvā carācaram

kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati

186

sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ

āste sarvagato nityam adṛśyaḥ sarvadaivatai

187

yadi deyo varo mahyaṃ yadi tuṣṭaś ca me prabhuḥ

bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara

188

atītānāgataṃ caiva vartamānaṃ ca yad vibho

jānīyām iti me buddhis tvatprasādāt surottama

189

kṣīraudanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavai

ā
rame ca sadā mahyaṃ sāmindhyaṃ paramas tu te

190

evam uktaḥ sa māṃ prāha bhagavāṁl lokapūjitaḥ

maheśvaro mahātejāś carācaraguruḥ prabhu

191

ajaraś cāmaraś caiva bhava duḥkhavivarjita

ś
lavān guṇasaṃpannaḥ sarvajñaḥ priyadarśana

192

akṣayaṃ yauvanaṃ te 'stu tejaś caivānalopamam

kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune

193

tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ

kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam

194

bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi

sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama

195

tiṣṭha vatsa yathā kāmanotkaṇṭhāṃ kartum arhasi

smṛtaḥ smṛtaś ca te vipra sadā dāsyāmi darśanam

196

evam uktvā sa bhagavān sūryakoṭi samaprabhaḥ

mameśāno varaṃ dattvā tatraivāntaradhīyata

197

evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā

tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā

198

pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān

ṛṣ
n vidyādharān yakṣān gandharvāpsarasas tathā

199

paśya vṛkṣān manoramyān sadā puṣpaphalānvitān

sarvartukusumair yuktān snigdhapatrān suśākhinaḥ

sarvam etan mahābāho divyabhāvasamanvitam
inners to saint| inners to saint
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 14