Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 17

Book 13. Chapter 17

The Mahabharata In Sanskrit


Book 13

Chapter 17

1

[वासुदेव]

ततः स परयतॊ भूत्वा मम तात युधिष्ठिर

पराञ्जलिः पराह विप्रर्षिर नाम संहारम आदितः

2

[उ]

बरह्म परॊक्तैर ऋषिप्रॊक्तैर वेदवेदाङ्गसंभवैः

सर्वलॊकेषु विख्यातैः सथाणुं सतॊष्यामि नामभिः

3

महद्भिर विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः

ऋषिणा तण्डिना भक्त्या कृतैर देवकृतात्मना

4

यथॊक्तैर लॊकविख्यातैर मुनिभिस तत्त्वदर्शिभिः

परवरं परथमं सवर्ग्यं सर्वभूतहितं शुभम

शरुतैः सर्वत्र जगति बरह्मलॊकावतारितैः

5

यत तद रहस्यं परमं बरह्म परॊक्तं सनातनम

वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितॊ मम

6

परत्वेन भवं देवं भक्तस तवं परमेश्वरम

तेन ते शरावयिष्यामि यत तद बरह्म सनातनम

7

न शक्यं विस्तरात कृत्स्नं वक्तुं शर्वस्य केन चित

युक्तेनापि विभूतीनाम अपि वर्षशतैर अपि

8

यस्यादिर मध्यम अन्तश च सुरैर अपि न गम्यते

कस तस्य शक्नुयाद वक्तुं गुणान कार्त्स्न्येन माधव

9

किं तु देवस्य महतः संक्षिप्तार्थ पदाक्षरम

शक्तितश चरितं वक्ष्ये परसादात तस्य चैव हि

10

अप्राप्येह ततॊ ऽनुज्ञां न शक्यः सतॊतुम ईश्वरः

यदा तेनाभ्यनुज्ञातः सतुवत्य एव सदा भवम

11

अनादि निधनस्याहं सर्वयॊनेर महात्मनः

नाम्नां कं चित समुद्देशं वक्ष्ये हय अव्यक्तयॊनिनः

12

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः

शृणु नाम समुद्देशं यद उक्तं पद्मयॊनिना

13

दश नाम सहस्राणि यान्य आह परपितामहः

तानि निर्मथ्य मनसा दध्नॊ घृतम इवॊद्धृतम

14

गिरेः सारं यथा हेमपुष्पात सारं यथा मधु

घृतात सारं यथा मण्डस तथैतत सारम उद्धृतम

15

सर्वपाप्मापहम इदं चतुर्वेद समन्वितम

परयत्नेनाधिगन्तव्यं धार्यं च परयतात्मना

शान्तिकं पौष्टिकं चैव रक्षॊघ्नं पावनं महत

16

इदं भक्ताय दातव्यं शरद्दधानास्तिकाय च

नाश्रद्दधान रूपाय नास्तिकायाजितात्मने

17

यश चाभ्यसूयते देवं भूतात्मानं पिनाकिनम

स कृष्ण नरकं याति सह पूर्वैः सहानुगैः

18

इदं धयानम इदं यॊगम इदं धयेयम अनुत्तमम

इदं जप्यम इदं जञानं रहस्यम इदम उत्तमम

इदं जञात्वान्त काके ऽपि गच्छेद धि परमां गतिम

19

पवित्रं मङ्गलं पुण्यं कल्याणम इदम उत्तमम

निगदिष्ये महाबाहॊ सतवानाम उत्तमं सतवम

20

इदं बरह्मा पुरा कृत्वा सर्वलॊकपितामहः

सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत

21

तदा परभृति चैवायम ईश्वरस्य महात्मनः

सतवराजेति विख्यातॊ जगत्य अमरपूजितः

बरह्मलॊकाद अयं चैव सतवराजॊ ऽवतारितः

22

यस्मात तण्डिः पुरा पराह तेन तण्डि कृतॊ ऽभवत

सवर्गाच चैवात्र भूलॊकं तण्डिना हय अवतारितः

23

सर्वमङ्गल मङ्गल्यं सर्वपापप्रणाशनम

निगदिष्ये महाबाहॊ सतवानाम उत्तमं सतवम

24

बरह्मणाम अपि यद बरह्म पराणाम अपि यत परम

तेजसाम अपि यत तेजस तपसाम अपि यत तपः

25

शान्तीनाम अपि या शान्तिर दयुतीनाम अपि या दयुतिः

दान्तानाम अपि यॊ दान्तॊ धीमताम अपि या च धीः

26

देवानाम अपि यॊ देवॊ मुनीनाम अपि यॊ मुनिः

यज्ञानाम अपि यॊ यज्ञः शिवानाम अपि यः शिवः

27

रुद्राणाम अपि यॊ रुद्रः परभुः परभवताम अपि

यॊगिनाम अपि यॊ यॊगी कारणानां च कारणम

28

यतॊ लॊकाः संभवन्ति न भवन्ति यतः पुनः

सर्वभूतात्मभूतस्य हरस्यामित तेजसः

29

अष्टॊत्तर सहस्रं तु नाम्नां शर्वस्य मे शृणु

यच छरुत्वा मनुजश्रेष्ठ सर्वान कामान अवाप्स्यसि

30

सथिरः सथाणुः पभुर भानुः परवरॊ वरदॊ वरः

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः

31

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः

हरिश च हरिणाक्षश च सर्वभूतहरः परभुः

32

परवृत्तिश च निवृत्तिश च नियतः शाश्वतॊ धरुवः

शमशानचारी भगवान खचरॊ गॊचरॊ ऽरदनः

33

अभिवाद्यॊ महाकर्मा तपस्वी भूतभावनः

उन्मत्तवेश परच्छन्नः सर्वलॊकप्रजापतिः

34

महारूपॊ महाकायः सर्वरूपॊ महायशाः

महात्मा सर्वभूतश च विरूपॊ वामनॊ मनुः

35

लॊकपालॊ ऽनतर्हितात्मा परसादॊ हयगर्दभिः

पवित्रश च महांश चैव नियमॊ नियमाश्रयः

36

सर्वकर्मा सवयम्भूश च आदिर आदि करॊ निधिः

सहस्राक्षॊ विरूपाक्शः सॊमॊ नक्षत्रसाधकः

37

चन्द्रसूर्यगतिः केतुर गरहॊ गरहपतिर वरः

अद्रिर अद्र्यालयः कर्ता मृगबाणार्पणॊ ऽनघः

38

महातपा घॊरतपा अदीनॊ दीनसाधकः

संवत्सरकरॊ मन्त्रः परमाणं परमं तपः

39

यॊगी यॊज्यॊ महाबीजॊ महारेता महातपाः

सुवर्णरेताः सर्वज्ञः सुबीजॊ वृषवाहनः

40

दश बाहुस तव अनिमिषॊ नीलकण्ठ उमापतिः

विश्वरूपः सवयं शरेष्ठॊ बलवीरॊ बलॊ गणः

41

गणकर्ता गणपतिर दिग्वासाः काम्य एव च

पवित्रं परमं मन्त्रः सर्वभावकरॊ हरः

42

कमण्डलुधरॊ धन्वी बाणहस्तः कपालवान

अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान

43

सरुव हस्तः सुरूपश च तेजस तेजः करॊ निधिः

उष्णीषी च सुवक्त्रश च उदग्रॊ विनतस तथा

44

दीर्घश च हरि केशश च सुतीर्थः कृष्ण एव च

सृगालरूपः सर्वार्थॊ मण्डः कुण्डी कमण्डलुः

45

अजश च मृगरूपश च गन्धधारी कपर्द्य अपि

उर्ध्व रेता ऊर्ध्वलिङ्ग ऊर्ध्व शायी नभस्तलः

46

तरिजटश चीरवासाश च रुद्रः सेनापतिर विभुः

अहश चरॊ ऽथ नक्तं च तिग्ममन्युः सुवर्चसः

47

गजहा दैत्यहा लॊकॊ लॊकधाता गुणाकरः

सिंहशार्दूलरूपश च आर्द्र चर्माम्बरावृतः

48

कालयॊगी महानादः सर्ववासश चतुष्पथः

निशाचरः परेतचारी भूतचारी महेश्वरः

49

बहुभूतॊ बहुधनः सर्वाधारॊ ऽमितॊ गतिः

नृत्यप्रियॊ नित्यनर्तॊ नर्तकः सर्वलासकः

50

घॊरॊ महातपाः पाशॊ नित्यॊ गिरिचरॊ नभः

सहस्रहस्तॊ विजयॊ वयवसायॊ हय अनिन्दितः

51

अमर्षणॊ मर्षणात्मा यज्ञहा कामनाशनः

दक्षयज्ञापहारी च सुसहॊ मध्यमस तथा

52

तेजॊ ऽपहारी बलहा मुदितॊ ऽरथॊ जितॊ वरः

गम्भीरघॊषॊ गम्भीरॊ गम्भीरबलवाहनः

53

नयग्रॊधरूपॊ नयग्रॊधॊ वृक्षकर्ण सथितिर विभुः

तीक्ष्णतापश च हर्यश्वः सहायः कर्मकालवित

54

विष्णुप्रसादितॊ यज्ञः समुद्रॊ वडवामुखः

हुताशनसहायश च परशान्तात्मा हुताशनः

55

उग्रतेजा महातेजा जयॊ विजयकालवित

जयॊतिषाम अयनं सिद्धिः संधिर विग्रह एव च

56

शिखी दण्डी जटी जवाली मूर्तिजॊ मूर्धगॊ बली

वैणवी पणवी ताली कालः कालकटंकटः

57

नक्षत्रविग्रह विधिर गुणवृद्धिर लयॊ ऽगमः

परजापतिर दिशा बाहुर विभागः सर्वतॊ मुखः

58

विमॊचनः सुरगणॊ हिरण्यकवचॊद्भवः

मेढ्रजॊ बलचारी च महाचारी सतुतस तथा

59

सर्वतूर्य निनादी च सर्ववाद्य परिग्रहः

वयालरूपॊ बिलावासी हेममाली तरंगवित

60

तरिदशस तरिकालधृक कर्म सर्वबन्धविमॊचनः

बन्धनस तवासुरेन्द्राणां युधि शत्रुविनाशनः

61

सांख्यप्रसादॊ सुर्वासाः सर्वसाधु निषेवितः

परस्कन्दनॊ विभागश च अतुल्यॊ यज्ञभागवित

62

सर्वावासः सर्वचारी दुर्वासा वासवॊ ऽमरः

हेमॊ हेमकरॊ यज्ञः सर्वधारी धरॊत्तमः

63

लॊहिताक्षॊ महाक्षश च विजयाक्षॊ विशारदः

संग्रहॊ निग्रहः कर्ता सर्पचीरनिवासनः

64

मुख्यॊ ऽमुख्यश च देहश च देहर्द्धिः सर्वकामदः

सर्वकामप्रसादश च सुबलॊ बलरूपधृक

65

आकाशनिधि रूपश च निपाती उरगः खगः

रौद्ररूपॊ ऽंशुर आदित्यॊ वसु रश्मिः सुवर्चसी

66

वसु वेगॊ महावेगॊ मनॊ वेगॊ निशाचरः

सर्वावासी शरियावासी उपदेश करॊ हरः

67

मुनिर आत्मपतिर लॊके संभॊज्यश च सहस्रदः

पक्षी च पक्षिरूपी च अतिदीप्तॊ विशां पतिः

68

उन्मादॊ मदनाकारॊ अर्थार्थकर रॊमशः

वामदेवश च वामश च पराग्दक्षिण्यश च वामनः

69

सिद्धयॊगापहारी च सिद्धः सर्वार्थसाधकः

भिक्षुश च भिक्षुरूपश च विषाणी मृदुर अव्ययः

70

महासेनॊ विशाखश च षष्टिभागॊ गवां पतिः

वज्रहस्तश च विष्कम्भी चमू सतम्भन एव च

71

ऋतुर ऋतुकरः कालॊ मधुर मधुकरॊ ऽचलः

वानस्पत्यॊ वाजसेनॊ नित्यम आश्रमपूजितः

72

बरह्म चारी लॊकचारी सर्वचारी सुचारवित

ईशान ईश्वरः कालॊ निशा चारी पिनाक धृक

73

नन्दीश्वरश च नन्दी च नन्दनॊ नन्दिवर्धनः

भगस्याक्षि निहन्ता च कालॊ बरह्मविदां वरः

74

चतुर्मुखॊ महालिङ्गश चारु लिङ्गस तथैव च

लिङ्गाध्यक्षः सुराध्यक्षॊ लॊकाध्यक्षॊ युगावहः

75

बीजाध्यक्षॊ बीजकर्ता अध्यात्मानुगतॊ बलः

इतिहास करः कल्पॊ गौतमॊ ऽथ जलेश्वरः

76

दम्भॊ हय अदम्भॊ वैदम्भॊ वैश्यॊ वश्य करः कविः

लॊककर्ता पशुपतिर महाकर्ता महौषधिः

77

अक्षरं परमं बरह्मबलवाञ शक्र एव च

नीतिर हय अनीतिः शुद्धात्मा शुद्धॊ मान्यॊ मनॊगतिः

78

बहु परसादः सवपनॊ दर्पणॊ ऽथ तव अमित्रजित

वेदकारः सूत्रकारॊ विद्वान समरमर्दनः

79

महामेघनिवासी च महाघॊरॊ वशीकरः

अग्निज्वालॊ महाज्वालॊ अतिधूम्रॊ हुतॊ हविः

80

वृषणः शंकरॊ नित्यॊ वर्चस्वी धूमकेतनः

नीलस तथाङ्गलुब्धश च शॊभनॊ निरवग्रहः

81

सवस्तिदः सवस्ति भावश च भागी भागकरॊ लघुः

उत्सङ्गश च महाङ्गश च महागर्भः परॊ युवा

82

कृष्ण वर्णः सुवर्णश च इन्द्रियः सर्वदेहिनाम

महापादॊ महाहस्तॊ महाकायॊ महायशाः

83

महामूर्धा महामात्रॊ महानेत्रॊ दिग आलयः

महादन्तॊ महाकर्णॊ महामेढ्रॊ महाहनुः

84

महानासॊ महाकम्बुर महाग्रीवः शमशानधृक

महावक्षा महॊरस्कॊ अन्तरात्मा मृगालयः

85

लम्बनॊ लम्बितौष्ठश च महामायः पयॊ निधिः

महादन्तॊ महादंष्ट्रॊ महाजिह्वॊ महामुखः

86

महानखॊ महारॊमा महाकेशॊ महाजटः

असपत्नः परसादश च परत्ययॊ गिरिसाधनः

87

सनेहनॊ ऽसनेहनश चैव अजितश च महामुनिः

वृक्षाकारॊ वृक्षकेतुर अनलॊ वायुवाहनः

88

मण्डलीमेरुधामा च देवदानव दर्पहा

अथर्वशीर्षः सामास्य ऋक सहस्रामितेक्षणः

89

यजुः पादभुजॊ गुह्यः परकाशॊ जङ्गमस तथा

अमॊघार्थः परसादश च अभिगम्यः सुदर्शनः

90

उपहार परियः शर्वः कनकः काञ्चनः सथिरः

नाभिर नन्दिकरॊ भाव्यः पुष्करस्थ पतिः सथिरः

91

दवादशस तरासनश चाद्यॊ यज्ञॊ यज्ञसमाहितः

नक्तं कलिश च कालश च मकरः कालपूजितः

92

सगणॊ गणकारश च भूतभावन सारथिः

भस्म शायी भस्म गॊप्ता भस्मभूतस तरुर गणः

93

अगणश चैव लॊपश च महात्मा सर्वपूजितः

शङ्कुस तरिशङ्कुः संपन्नः शुचिर भूतनिषेवितः

94

आश्रमस्थः कपॊतस्थॊ विश्वकर्मा पतिर वरः

शाखॊ विशाखस ताम्रौष्ठॊ हय अम्बुजालः सुनिश्चयः

95

कपिलॊ ऽकपिलः शूर आयुश चैव परॊ ऽपरः

गन्धर्वॊ हय अदितिस तार्क्ष्यः सुविज्ञेयः सुसारथिः

96

परश्वधायुधॊ देव अर्थकारी सुबान्धवः

तुम्बवीणी महाकॊप ऊर्ध्वरेता जले शयः

97

उग्रॊ वंशकरॊ वंशॊ वंशनादॊ हय अनिन्दितः

सर्वाङ्गरूपॊ मायावी सुहृदॊ हय अनिलॊ ऽनलः

98

बन्धनॊ बन्धकर्ता च सुबन्धन विमॊचनः

स यज्ञारिः स कामारिर महादंष्ट्रॊ महायुधः

99

बाहुस तव अनिन्दितः शर्वः शंकरः शंकरॊ ऽधनः

अमरेशॊ महादेवॊ विश्वदेवः सुरारिहा

100

अहिर्बुध्नॊ निरृतिश च चेकितानॊ हरिस तथा

अजैकपाच च कापाली तरिशङ्कुर अजितः शिवः

101

धन्वन्तरिर धूमकेतुः सकन्दॊ वैश्रवणस तथा

धाता शक्रश च विष्णुश च मित्रस तवष्टा धरुवॊ धरः

102

परभावः सर्वगॊ वायुर अर्यमा सविता रविः

उदग्रश च विधाता च मान्धाता भूतभावनः

103

रतितीर्थश च वाग्मी च सर्वकामगुणावहः

पद्मगर्भॊ महागर्भश चन्द्र वक्त्रॊ मनॊरमः

104

बलवांश चॊपशान्तश च पुराणः पुण्यचञ्चुरी

कुरु कर्ता कालरूपी कुरु भूतॊ महेश्वरः

105

सर्वाशयॊ दर्भशायी सर्वेषां पराणिनां पतिः

देवदेव मुखॊ ऽसक्तः सद असत सर्वरत्नवित

106

कैलासशिखरावासी हिमवद गिरिसंश्रयः

कूलहारी कूलकर्ता बहु विद्यॊ बहु परदः

107

वणिजॊ वर्धनॊ वृक्षॊ नकुलश चन्दनश छदः

सारग्रीवॊ महाजत्रुर अलॊलश च महौषधः

108

सिद्धार्थकारी सिद्धार्थश चन्दॊ वयाकरणॊत्तरः

सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः

109

परभावात्मा जगत कालस तालॊ लॊकहितस तरुः

सारङ्गॊ नव चक्राङ्गः केतुमाली सभावनः

110

भूतालयॊ भूतपतिर अहॊरात्रम अनिन्दितः

वाहिता सर्वभूतानां निलयश च विभुर भवः

111

अमॊघः संयतॊ हय अश्वॊ भॊजनः पराणधारणः

धृतिमान मतिमान दक्षः सत्कृतश च युगाधिपः

112

गॊपालिर गॊपतिर गरामॊ गॊचर्म वसनॊ हरः

हिरण्यबाहुश च तथा गुहा पालः परवेशिनाम

113

परतिष्ठायी महाहर्षॊ जितकामॊ जितेन्द्रियः

गन्धारश च सुरालश च तपः कर्म रतिर धनुः

114

महागीतॊ महानृत्तॊ हय अप्सरॊगणसेवितः

महाकेतुर धनुर धातुर नैकसानु चरश चलः

115

आवेदनीय आवेशः सर्वगन्धसुखावहः

तॊरणस तारणॊ वायुः परिधावति चैकतः

116

संयॊगॊ वर्धनॊ वृद्धॊ महावृद्धॊ गणाधिपः

नित्य आत्मसहायश च देवासुरपतिः पतिः

117

युक्तश च युक्तबाहुश च दविविधश च सुपर्वणः

आषाढश च सुषाड्धश च धरुवॊ हरि हणॊ हरः

118

वपुर आवर्तमानेभ्यॊ वसु शरेष्ठॊ महापथः

शिरॊ हारी विमर्षश च सर्वलक्षणभूषितः

119

अक्षश च रथयॊगी च सर्वयॊगी महाबलः

समाम्नायॊ ऽसमाम्नायस तीर्थदेवॊ महारथ

120

निर्जीवॊ जीवनॊ मन्त्रः शुभाक्षॊ बहु कर्कशः

रत्नप्रभूतॊ रक्ताङ्गॊ महार्णव निपानवित

121

मूलॊ विशालॊ हय अमृतॊ वयक्ताव्यक्तस तपॊ निधिः

आरॊहणॊ निरॊहश च शल हारी महातपाः

122

सेना कल्पॊ महाकल्पॊ युगायुग करॊ हरिः

युगरूपॊ महारूपॊ पवनॊ गहनॊ नगः

123

नयायनिर्वापणः पादः पण्डितॊ हय अचलॊपमः

बहु मालॊ महामालः सुमालॊ बहु लॊचनः

124

विस्तारॊ लवणः कूपः कुसुमः सफलॊदयः

वृषभॊ वृषभाङ्काङ्गॊ मणिबिल्वॊ जटाधरः

125

इन्दुर विसर्वः सुमुखः सुरः सर्वायुधः सहः

निवेदनः सुधा जातः सुगन्धारॊ महाधनुः

126

गन्धमाली च भगवान उत्थानः सर्वकर्मणाम

मन्थानॊ बहुलॊ बाहुः सकलः सर्वलॊचनः

127

तरस ताली करस ताली ऊर्ध्वसंहननॊ वहः

छत्रं सुच्छत्रॊ विख्यातः सर्वलॊकाश्रयॊ महान

128

मुण्डॊ विरूपॊ विकृतॊ दण्डि मुण्डॊ विकुर्वणः

हर्यक्षः ककुभॊ वज्री दीप्तजिह्वः सहस्रपात

129

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयॊ गुरुः

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलॊककृत

130

पवित्रं तरिमधुर मन्त्रः कनिष्ठः कृष्णपिङ्गलः

बरह्मदण्डविनिर्माता शतघ्नीशतपाशधृक

131

पद्मगर्भॊ महागर्भॊ बरह्म गर्भॊ जलॊद्भवः

गभस्तिर बरह्म कृद बरह्मा बरह्मविद बराह्मणॊ गतिः

132

अनन्तरूपॊ नैकात्मा तिग्मतेजाः सवयम्भुवः

ऊर्ध्वगात्मा पशुपतिर वातरंहा मनॊजवः

133

चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणॊ नरः

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक

134

उमापतिर उमा कान्तॊ जाह्नवी धृग उमा धवः

वरॊ वराहॊ वरदॊ वरेशः सुमहास्वनः

135

महाप्रसादॊ दमनः शत्रुहा शवेतपिङ्गलः

परीतात्मा परयतात्मा च संयतात्मा परधानधृक

136

सर्वपार्श्व सुतस तार्क्ष्यॊ धर्मसाधारणॊ वरः

चराचरात्मा सूक्ष्मात्मा सुवृषॊ गॊवृषेश्वरः

137

साध्यर्षिर वसुर आदित्यॊ विवस्वान सविता मृडः

वयासः सर्वस्य संक्षेपॊ विस्तरः पर्ययॊ नयः

138

ऋतुः संवत्सरॊ मासः पक्षः संख्या समापनः

कला काष्ठा लवॊ मात्रा मुहूर्तॊ ऽहः कषपाः कषणाः

139

विश्वक्षेत्रं परजा बीजं लिङ्गम आद्यस तव अनिन्दितः

सदसद वयक्तम अव्यक्तं पिता माता पितामहः

140

सवर्गद्वारं परजा दवारं मॊक्षद्वारं तरिविष्टपम

निर्वाणं हलादनं चैव बरह्मलॊकः परा गतिः

141

देवासुरविनिर्माता देवासुरपरायणः

देवासुरगुरुर देवॊ देवासुरनमस्कृतः

142

देवासुरमहामात्रॊ देवासुरगणाश्रयः

देवासुरगणाध्यक्षॊ देवासुरगणाग्रणीः

143

देवातिदेवॊ देवर्षिर देवासुरवरप्रदः

देवासुरेश्वरॊ देवॊ देवासुरमहेश्वरः

144

सर्वदेवमयॊ ऽचिन्त्यॊ देवतात्मात्म संभवः

उद्भिदस तरिक्रमॊ वैद्यॊ विरजॊ विरजॊऽमबरः

145

ईड्यॊ हस्ती सुरव्याघ्रॊ देव सिंहॊ नरर्षभः

विबुधाग्र वरः शरेष्ठः सर्वदेवॊत्तमॊत्तमः

146

परयुक्तः शॊभनॊ वर्ज ईशानः परभुर अव्ययः

गुरुः कान्तॊ निजः सर्गः पवित्रः सर्ववाहनः

147

शृङ्गी शृङ्गप्रियॊ बभ्रू राजराजॊ निरामयः

अभिरामः सुरगणॊ विरामः सर्वसाधनः

148

ललाटाक्षॊ विश्वदेहॊ हरिणॊ बरह्म वर्चसः

सथावराणां पतिश चैव नियमेन्द्रियवर्धनः

149

सिद्धार्थः सर्वभूतार्थॊ ऽचिन्त्यः सत्यव्रतः शुचिः

वरताधिपः परं बरह्म मुक्तानां परमा गतिः

150

विमुक्तॊ मुक्ततेजाश च शरीमाञ शरीवर्धनॊ जगत

यथा परधानं भगवान इति भक्त्या सतुतॊ मया

151

यं न बरह्मादयॊ देवा विदुर्यं न महर्षयः

तं सतव्यम अर्च्यं वन्द्यं च कः सतॊष्यति जगत्पतिम

152

भक्तिम एव पुरस्कृत्य मया यज्ञपतिर वसुः

ततॊ ऽभयनुज्ञां पराप्यैव सतुतॊ मतिमतां वरः

153

शिवम एभिः सतुवन देवं नामभिः पुष्टिवर्धनैः

नित्ययुक्तः शुचिर भूत्वा पराप्नॊत्य आत्मानम आत्मना

154

एतद धि परमं बरह्म सवयं गीतं सवयम्भुवा

ऋषयश चैव देवाश च सतुवन्त्य एतेन तत्परम

155

सतूयमानॊ महादेवः परीयते चात्मनामभिः

भक्तानुकम्पी भगवान आत्मसंस्थान करॊति तान

156

तथैव च मनुष्येषु ये मनुष्याः परधानतः

आस्तिकाः शरद्दधानाश च बहुभिर जन्मभिः सतवैः

157

जाग्रतश च सवपन्तश च वरजन्तः पथि संस्थिताः

सतुवन्ति सतूयमानाश च तुष्यन्ति च रमन्ति च

जन्म कॊटिसहस्रेषु नाना संसारयॊनिषु

158

जन्तॊर विशुद्धपापस्य भवे भक्तिः परजायते

उत्पन्ना च भवे भक्तिर अनन्या सर्वभावतः

159

कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः

एतद देवेषु दुष्प्रापं मनुष्येषु न लभ्यते

160

निर्विघ्ना निश्चला रुद्रे भक्तिर अव्यभिचारिणी

तस्यैव च परसादेन भक्तिर उत्पद्यते नृणाम

यया यान्ति परां सिद्धिं तद्भावगतचेतसः

161

ये सर्वभावॊपगताः परत्वेनाभवन नराः

परपन्न वत्सलॊ देवः संसारात तान समुद्धरेत

162

एवम अन्ये न कुर्वन्ति देवाः संसारमॊचनम

मनुष्याणां महादेवाद अन्यत्रापि तपॊबलात

163

इति तेनेन्द्र कल्पेन भगवान सद असत पतिः

कृत्ति वासाः सतुतः कृष्ण तण्डिना शुद्धबुद्धिना

164

सतवम एतं भगवतॊ बरह्मा सवयम अधारयत

बरह्मा परॊवाच शक्राय शक्रः परॊवाच मृत्यवे

165

मृत्युः परॊवाच रुद्राणां रुद्रेभ्यस तण्डिम आगमत

महता तपसा पराप्तस तण्डिना बरह्म सद्मनि

166

तण्डिः परॊवाच शुक्राय गौतमायाह भार्गवः

वैवस्वताय मनवे गौतमः पराह माधव

167

नारायणाय साध्याय मनुर इष्टाय धीमते

यमाय पराह भगवान साध्यॊ नारायणॊ ऽचयुतः

168

नाचिकेताय भगवान आह वैवस्वतॊ यमः

मार्कण्डेयाय वार्ष्णेय नाचिकेतॊ ऽभयभाषत

169

मार्कण्डेयान मया पराप्तं नियमेन जनार्दन

तवाप्य अहम अमित्रघ्न सतवं दद्म्य अद्य विश्रुतम

सवर्ग्यम आरॊग्यम आयुष्यं धन्यं बल्यं तथैव च

170

न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः

पिशाचा यातुधानाश च गुह्यका भुजगा अपि

171

यः पठेत शुचिर भूत्वा बरह्म चारी जितेन्द्रियः

अभग्न यॊगॊ वर्षं तु सॊ ऽशवमेध फलं लभेत

1

[vāsudeva]

tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira

prāñjaliḥ prāha viprarṣir nāma saṃhāram ādita

2

[u]

brahma proktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ

sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhi

3

mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakai

iṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā

4

yathoktair lokavikhyātair munibhis tattvadarśibhiḥ

pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham

śrutaiḥ sarvatra jagati brahmalokāvatāritai

5

yat tad rahasyaṃ paramaṃ brahma proktaṃ sanātanam

vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama

6

paratvena bhavaṃ devaṃ bhaktas tvaṃ parameśvaram

tena te śrāvayiṣyāmi yat tad brahma sanātanam

7

na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kena cit

yuktenāpi vibhūtīnām api varṣaśatair api

8

yasyādir madhyam antaś ca surair api na gamyate

kas tasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava

9

kiṃ tu devasya mahataḥ saṃkṣiptārtha padākṣaram

śaktitaś caritaṃ vakṣye prasādāt tasya caiva hi

10

aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ

yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam

11

anādi nidhanasyāhaṃ sarvayoner mahātmanaḥ

nāmnāṃ kaṃ cit samuddeśaṃ vakṣye hy avyaktayonina

12

varadasya vareṇyasya viśvarūpasya dhīmata

śṛ
u nāma samuddeśaṃ yad uktaṃ padmayoninā

13

daśa nāma sahasrāṇi yāny āha prapitāmahaḥ

tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam

14

gireḥ sāraṃ yathā hemapuṣpāt sāraṃ yathā madhu

ghṛtāt sāraṃ yathā maṇḍas tathaitat sāram uddhṛtam

15

sarvapāpmāpaham idaṃ caturveda samanvitam

prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā

ś
ntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat

16

idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca

nāśraddadhāna rūpāya nāstikāyājitātmane

17

yaś cābhyasūyate devaṃ bhūtātmānaṃ pinākinam

sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugai

18

idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam

idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam

idaṃ jñātvānta kāke 'pi gacched dhi paramāṃ gatim

19

pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam

nigadiṣye mahābāho stavānām uttamaṃ stavam

20

idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ

sarvastavānāṃ divyānāṃ rājatve samakalpayat

21

tadā prabhṛti caivāyam īśvarasya mahātmanaḥ

stavarājeti vikhyāto jagaty amarapūjitaḥ

brahmalokād ayaṃ caiva stavarājo 'vatārita

22

yasmāt taṇḍiḥ purā prāha tena taṇḍi kṛto 'bhavat

svargāc caivātra bhūlokaṃ taṇḍinā hy avatārita

23

sarvamaṅgala maṅgalyaṃ sarvapāpapraṇāśanam

nigadiṣye mahābāho stavānām uttamaṃ stavam

24

brahmaṇām api yad brahma parāṇām api yat param

tejasām api yat tejas tapasām api yat tapa

25

ś
ntīnām api yā śāntir dyutīnām api yā dyutiḥ

dāntānām api yo dānto dhīmatām api yā ca dhīḥ

26

devānām api yo devo munīnām api yo muniḥ

yajñānām api yo yajñaḥ śivānām api yaḥ śiva

27

rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api

yoginām api yo yogī kāraṇānāṃ ca kāraṇam

28

yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ

sarvabhūtātmabhūtasya harasyāmita tejasa

29

aṣṭottara sahasraṃ tu nāmnāṃ śarvasya me śṛṇu

yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi

30

sthiraḥ sthāṇuḥ pabhur bhānuḥ pravaro varado varaḥ

sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhava

31

jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ

hariś ca hariṇākṣaś ca sarvabhūtaharaḥ prabhu

32

pravṛttiś ca nivṛttiś ca niyataḥ śāśvato dhruvaḥ

śmaśānacārī bhagavān khacaro gocaro 'rdana

33

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ

unmattaveśa pracchannaḥ sarvalokaprajāpati

34

mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ

mahātmā sarvabhūtaś ca virūpo vāmano manu

35

lokapālo 'ntarhitātmā prasādo hayagardabhiḥ

pavitraś ca mahāṃś caiva niyamo niyamāśraya

36

sarvakarmā svayambhūś ca ādir ādi karo nidhiḥ

sahasrākṣo virūpākśaḥ somo nakṣatrasādhaka

37

candrasūryagatiḥ ketur graho grahapatir varaḥ

adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'nagha

38

mahātapā ghoratapā adīno dīnasādhakaḥ

saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapa

39

yogī yojyo mahābījo mahāretā mahātapāḥ

suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhana

40

daśa bāhus tv animiṣo nīlakaṇṭha umāpatiḥ

viśvarūpaḥ svayaṃ śreṣṭho balavīro balo gaṇa

41

gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca

pavitraṃ paramaṃ mantraḥ sarvabhāvakaro hara

42

kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān

aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān

43

sruva hastaḥ surūpaś ca tejas tejaḥ karo nidhiḥ

uṣṇīṣī ca suvaktraś ca udagro vinatas tathā

44

dīrghaś ca hari keśaś ca sutīrthaḥ kṛṣṇa eva ca

sṛgālarūpaḥ sarvārtho maṇḍaḥ kuṇḍī kamaṇḍalu

45

ajaś ca mṛgarūpaś ca gandhadhārī kapardy api

urdhva retā ūrdhvaliṅga ūrdhva śāyī nabhastala

46

trijaṭaś cīravāsāś ca rudraḥ senāpatir vibhuḥ

ahaś caro 'tha naktaṃ ca tigmamanyuḥ suvarcasa

47

gajahā daityahā loko lokadhātā guṇākaraḥ

siṃhaśārdūlarūpaś ca ārdra carmāmbarāvṛta

48

kālayogī mahānādaḥ sarvavāsaś catuṣpathaḥ

niśācaraḥ pretacārī bhūtacārī maheśvara

49

bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ

nṛtyapriyo nityanarto nartakaḥ sarvalāsaka

50

ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ

sahasrahasto vijayo vyavasāyo hy anindita

51

amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ

dakṣayajñāpahārī ca susaho madhyamas tathā

52

tejo 'pahārī balahā mudito 'rtho jito varaḥ

gambhīraghoṣo gambhīro gambhīrabalavāhana

53

nyagrodharūpo nyagrodho vṛkṣakarṇa sthitir vibhuḥ

tīkṣṇatāpaś ca haryaśvaḥ sahāyaḥ karmakālavit

54

viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ

hutāśanasahāyaś ca praśāntātmā hutāśana

55

ugratejā mahātejā jayo vijayakālavit

jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca

56

ikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī

vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭa

57

nakṣatravigraha vidhir guṇavṛddhir layo 'gamaḥ

prajāpatir diśā bāhur vibhāgaḥ sarvato mukha

58

vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ

meḍhrajo balacārī ca mahācārī stutas tathā

59

sarvatūrya ninādī ca sarvavādya parigrahaḥ

vyālarūpo bilāvāsī hemamālī taraṃgavit

60

tridaśas trikāladhṛk karma sarvabandhavimocanaḥ

bandhanas tvāsurendrāṇāṃ yudhi śatruvināśana

61

sāṃkhyaprasādo survāsāḥ sarvasādhu niṣevitaḥ

praskandano vibhāgaś ca atulyo yajñabhāgavit

62

sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ

hemo hemakaro yajñaḥ sarvadhārī dharottama

63

lohitākṣo mahākṣaś ca vijayākṣo viśāradaḥ

saṃgraho nigrahaḥ kartā sarpacīranivāsana

64

mukhyo 'mukhyaś ca dehaś ca deharddhiḥ sarvakāmadaḥ

sarvakāmaprasādaś ca subalo balarūpadhṛk

65

kāśanidhi rūpaś ca nipātī uragaḥ khagaḥ

raudrarūpo 'ṃśur ādityo vasu raśmiḥ suvarcasī

66

vasu vego mahāvego mano vego niśācaraḥ

sarvāvāsī śriyāvāsī upadeśa karo hara

67

munir ātmapatir loke saṃbhojyaś ca sahasradaḥ

pakṣī ca pakṣirūpī ca atidīpto viśāṃ pati

68

unmādo madanākāro arthārthakara romaśaḥ

vāmadevaś ca vāmaś ca prāgdakṣiṇyaś ca vāmana

69

siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ

bhikṣuś ca bhikṣurūpaś ca viṣāṇī mṛdur avyaya

70

mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ

vajrahastaś ca viṣkambhī camū stambhana eva ca

71

tur ṛtukaraḥ kālo madhur madhukaro 'calaḥ

vānaspatyo vājaseno nityam āśramapūjita

72

brahma cārī lokacārī sarvacārī sucāravit

īś
na īśvaraḥ kālo niśā cārī pināka dhṛk

73

nandīśvaraś ca nandī ca nandano nandivardhanaḥ

bhagasyākṣi nihantā ca kālo brahmavidāṃ vara

74

caturmukho mahāliṅgaś cāru liṅgas tathaiva ca

liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvaha

75

bījādhyakṣo bījakartā adhyātmānugato balaḥ

itihāsa karaḥ kalpo gautamo 'tha jaleśvara

76

dambho hy adambho vaidambho vaiśyo vaśya karaḥ kaviḥ

lokakartā paśupatir mahākartā mahauṣadhi

77

akṣaraṃ paramaṃ brahmabalavāñ śakra eva ca

nītir hy anītiḥ śuddhātmā śuddho mānyo manogati

78

bahu prasādaḥ svapano darpaṇo 'tha tv amitrajit

vedakāraḥ sūtrakāro vidvān samaramardana

79

mahāmeghanivāsī ca mahāghoro vaśīkaraḥ

agnijvālo mahājvālo atidhūmro huto havi

80

vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ

nīlas tathāṅgalubdhaś ca śobhano niravagraha

81

svastidaḥ svasti bhāvaś ca bhāgī bhāgakaro laghuḥ

utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ paro yuvā

82

kṛṣṇa varṇaḥ suvarṇaś ca indriyaḥ sarvadehinām

mahāpādo mahāhasto mahākāyo mahāyaśāḥ

83

mahāmūrdhā mahāmātro mahānetro dig ālayaḥ

mahādanto mahākarṇo mahāmeḍhro mahāhanu

84

mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk

mahāvakṣā mahorasko antarātmā mṛgālaya

85

lambano lambitauṣṭhaś ca mahāmāyaḥ payo nidhiḥ

mahādanto mahādaṃṣṭro mahājihvo mahāmukha

86

mahānakho mahāromā mahākeśo mahājaṭaḥ

asapatnaḥ prasādaś ca pratyayo girisādhana

87

snehano 'snehanaś caiva ajitaś ca mahāmuniḥ

vṛkṣākāro vṛkṣaketur analo vāyuvāhana

88

maṇḍalīmerudhāmā ca devadānava darpahā

atharvaśīrṣaḥ sāmāsya ṛk sahasrāmitekṣaṇa

89

yajuḥ pādabhujo guhyaḥ prakāśo jaṅgamas tathā

amoghārthaḥ prasādaś ca abhigamyaḥ sudarśana

90

upahāra priyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ

nābhir nandikaro bhāvyaḥ puṣkarastha patiḥ sthira

91

dvādaśas trāsanaś cādyo yajño yajñasamāhitaḥ

naktaṃ kaliś ca kālaś ca makaraḥ kālapūjita

92

sagaṇo gaṇakāraś ca bhūtabhāvana sārathiḥ

bhasma śāyī bhasma goptā bhasmabhūtas tarur gaṇa

93

agaṇaś caiva lopaś ca mahātmā sarvapūjitaḥ

śaṅkus triśaṅkuḥ saṃpannaḥ śucir bhūtaniṣevita

94

ā
ramasthaḥ kapotastho viśvakarmā patir vara

ś
kho viśākhas tāmrauṣṭho hy ambujālaḥ suniścaya

95

kapilo 'kapilaḥ śūra āyuś caiva paro 'paraḥ

gandharvo hy aditis tārkṣyaḥ suvijñeyaḥ susārathi

96

paraśvadhāyudho deva arthakārī subāndhavaḥ

tumbavīṇī mahākopa ūrdhvaretā jale śaya

97

ugro vaṃśakaro vaṃśo vaṃśanādo hy aninditaḥ

sarvāṅgarūpo māyāvī suhṛdo hy anilo 'nala

98

bandhano bandhakartā ca subandhana vimocanaḥ

sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudha

99

bāhus tv aninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ

amareśo mahādevo viśvadevaḥ surārihā

100

ahirbudhno nirṛtiś ca cekitāno haris tathā

ajaikapāc ca kāpālī triśaṅkur ajitaḥ śiva

101

dhanvantarir dhūmaketuḥ skando vaiśravaṇas tathā

dhātā śakraś ca viṣṇuś ca mitras tvaṣṭā dhruvo dhara

102

prabhāvaḥ sarvago vāyur aryamā savitā raviḥ

udagraś ca vidhātā ca māndhātā bhūtabhāvana

103

ratitīrthaś ca vāgmī ca sarvakāmaguṇāvahaḥ

padmagarbho mahāgarbhaś candra vaktro manorama

104

balavāṃś copaśāntaś ca purāṇaḥ puṇyacañcurī

kuru kartā kālarūpī kuru bhūto maheśvara

105

sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ

devadeva mukho 'saktaḥ sad asat sarvaratnavit

106

kailāsaśikharāvāsī himavad girisaṃśrayaḥ

kūlahārī kūlakartā bahu vidyo bahu prada

107

vaṇijo vardhano vṛkṣo nakulaś candanaś chadaḥ

sāragrīvo mahājatrur alolaś ca mahauṣadha

108

siddhārthakārī siddhārthaś cando vyākaraṇottaraḥ

siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhana

109

prabhāvātmā jagat kālas tālo lokahitas taruḥ

sāraṅgo nava cakrāṅgaḥ ketumālī sabhāvana

110

bhūtālayo bhūtapatir ahorātram aninditaḥ

vāhitā sarvabhūtānāṃ nilayaś ca vibhur bhava

111

amoghaḥ saṃyato hy aśvo bhojanaḥ prāṇadhāraṇaḥ

dhṛtimān matimān dakṣaḥ satkṛtaś ca yugādhipa

112

gopālir gopatir grāmo gocarma vasano haraḥ

hiraṇyabāhuś ca tathā guhā pālaḥ praveśinām

113

pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ

gandhāraś ca surālaś ca tapaḥ karma ratir dhanu

114

mahāgīto mahānṛtto hy apsarogaṇasevitaḥ

mahāketur dhanur dhātur naikasānu caraś cala

115

vedanīya āveśaḥ sarvagandhasukhāvahaḥ

toraṇas tāraṇo vāyuḥ paridhāvati caikata

116

saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ

nitya ātmasahāyaś ca devāsurapatiḥ pati

117

yuktaś ca yuktabāhuś ca dvividhaś ca suparvaṇa

āṣā
haś ca suṣāḍdhaś ca dhruvo hari haṇo hara

118

vapur āvartamānebhyo vasu śreṣṭho mahāpathaḥ

śiro hārī vimarṣaś ca sarvalakṣaṇabhūṣita

119

akṣaś ca rathayogī ca sarvayogī mahābalaḥ

samāmnāyo 'samāmnāyas tīrthadevo mahāratha

120

nirjīvo jīvano mantraḥ śubhākṣo bahu karkaśaḥ

ratnaprabhūto raktāṅgo mahārṇava nipānavit

121

mūlo viśālo hy amṛto vyaktāvyaktas tapo nidhiḥ

ārohaṇo nirohaś ca śala hārī mahātapāḥ

122

senā kalpo mahākalpo yugāyuga karo hariḥ

yugarūpo mahārūpo pavano gahano naga

123

nyāyanirvāpaṇaḥ pādaḥ paṇḍito hy acalopamaḥ

bahu mālo mahāmālaḥ sumālo bahu locana

124

vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ

vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādhara

125

indur visarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ

nivedanaḥ sudhā jātaḥ sugandhāro mahādhanu

126

gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām

manthāno bahulo bāhuḥ sakalaḥ sarvalocana

127

taras tālī karas tālī ūrdhvasaṃhanano vahaḥ

chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān

128

muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ

haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt

129

sahasramūrdhā devendraḥ sarvadevamayo guruḥ

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt

130

pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ

brahmadaṇḍavinirmātā śataghnīśatapāśadhṛk

131

padmagarbho mahāgarbho brahma garbho jalodbhavaḥ

gabhastir brahma kṛd brahmā brahmavid brāhmaṇo gati

132

anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ

ūrdhvagātmā paśupatir vātaraṃhā manojava

133

candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ

karṇikāramahāsragvī nīlamauliḥ pinākadhṛk

134

umāpatir umā kānto jāhnavī dhṛg umā dhavaḥ

varo varāho varado vareśaḥ sumahāsvana

135

mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ

prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk

136

sarvapārśva sutas tārkṣyo dharmasādhāraṇo varaḥ

carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvara

137

sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ

vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo naya

138

tuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyā samāpanaḥ

kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ

139

viśvakṣetraṃ prajā bījaṃ liṅgam ādyas tv aninditaḥ

sadasad vyaktam avyaktaṃ pitā mātā pitāmaha

140

svargadvāraṃ prajā dvāraṃ mokṣadvāraṃ triviṣṭapam

nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gati

141

devāsuravinirmātā devāsuraparāyaṇaḥ

devāsuragurur devo devāsuranamaskṛta

142

devāsuramahāmātro devāsuragaṇāśrayaḥ

devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ

143

devātidevo devarṣir devāsuravarapradaḥ

devāsureśvaro devo devāsuramaheśvara

144

sarvadevamayo 'cintyo devatātmātma saṃbhavaḥ

udbhidas trikramo vaidyo virajo virajo'mbara

145

ī
yo hastī suravyāghro deva siṃho nararṣabhaḥ

vibudhāgra varaḥ śreṣṭhaḥ sarvadevottamottama

146

prayuktaḥ śobhano varja īśānaḥ prabhur avyayaḥ

guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhana

147

śṛ
gī śṛgapriyo babhrū rājarājo nirāmayaḥ

abhirāmaḥ suragaṇo virāmaḥ sarvasādhana

148

lalāṭākṣo viśvadeho hariṇo brahma varcasaḥ

sthāvarāṇāṃ patiś caiva niyamendriyavardhana

149

siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ

vratādhipaḥ paraṃ brahma muktānāṃ paramā gati

150

vimukto muktatejāś ca śrīmāñ śrīvardhano jagat

yathā pradhānaṃ bhagavān iti bhaktyā stuto mayā

151

yaṃ na brahmādayo devā viduryaṃ na maharṣayaḥ

taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim

152

bhaktim eva puraskṛtya mayā yajñapatir vasuḥ

tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ vara

153

ivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ

nityayuktaḥ śucir bhūtvā prāpnoty ātmānam ātmanā

154

etad dhi paramaṃ brahma svayaṃ gītaṃ svayambhuvā

ayaś caiva devāś ca stuvanty etena tatparam

155

stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ

bhaktānukampī bhagavān ātmasaṃsthān karoti tān

156

tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ

āstikāḥ śraddadhānāś ca bahubhir janmabhiḥ stavai

157

jāgrataś ca svapantaś ca vrajantaḥ pathi saṃsthitāḥ

stuvanti stūyamānāś ca tuṣyanti ca ramanti ca

janma koṭisahasreṣu nānā saṃsārayoniṣu

158

jantor viśuddhapāpasya bhave bhaktiḥ prajāyate

utpannā ca bhave bhaktir ananyā sarvabhāvata

159

kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ

etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate

160

nirvighnā niścalā rudre bhaktir avyabhicāriṇī

tasyaiva ca prasādena bhaktir utpadyate nṛṇām

yayā yānti parāṃ siddhiṃ tadbhāvagatacetasa

161

ye sarvabhāvopagatāḥ paratvenābhavan narāḥ

prapanna vatsalo devaḥ saṃsārāt tān samuddharet

162

evam anye na kurvanti devāḥ saṃsāramocanam

manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt

163

iti tenendra kalpena bhagavān sad asat patiḥ

kṛtti vāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā

164

stavam etaṃ bhagavato brahmā svayam adhārayat

brahmā provāca śakrāya śakraḥ provāca mṛtyave

165

mṛtyuḥ provāca rudrāṇāṃ rudrebhyas taṇḍim āgamat

mahatā tapasā prāptas taṇḍinā brahma sadmani

166

taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ

vaivasvatāya manave gautamaḥ prāha mādhava

167

nārāyaṇāya sādhyāya manur iṣṭāya dhīmate

yamāya prāha bhagavān sādhyo nārāyaṇo 'cyuta

168

nāciketāya bhagavān āha vaivasvato yamaḥ

mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata

169

mārkaṇḍeyān mayā prāptaṃ niyamena janārdana

tavāpy aham amitraghna stavaṃ dadmy adya viśrutam

svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca

170

na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ

piśācā yātudhānāś ca guhyakā bhujagā api

171

yaḥ paṭheta śucir bhūtvā brahma cārī jitendriyaḥ

abhagna yogo varṣaṃ tu so 'śvamedha phalaṃ labhet
genesis tanach| genesis tanach
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 17