Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 5

Book 2. Chapter 5

The Mahabharata In Sanskrit


Book 2

Chapter 5

1

[व]

तत्र तत्रॊपविष्टेषु पाण्डवेषु महात्मसु

महत्सु चॊपविष्टेषु गन्धर्वेषु च भारत

2

लॊकान अनुचरन सर्वान आगमत तां सभाम ऋषिः

नारदः सुमहातेजा ऋषिभिः सहितस तदा

3

पारिजातेन राजेन्द्र रैवतेन च धीमता

सुमुखेन च सौम्येन देवर्षिर अमितद्युतिः

सभास्थान पाण्डवान दरष्टुं परीयमाणॊ मनॊजवः

4

तम आगतम ऋषिं दृष्ट्वा नारदं सर्वधर्मवित

सहसा पाण्डवश्रेष्ठः परत्युत्थायानुजैः सह

अभ्यवादयत परीत्या विनयावनतस तदा

5

तद अर्हम आसनं तस्मै संप्रदाय यथाविधि

अर्चयाम आस रत्नैश च सर्वकामैश च धर्मवित

6

सॊ ऽरचितः पाण्डवैः सर्वैर महर्षिर वेदपारगः

धर्मकामार्थ संयुक्तं पप्रच्छेदं युधिष्ठिरम

7

[न]

कच चिद अर्थाश च कल्पन्ते धर्मे च रमते मनः

सुखानि चानुभूयन्ते मनश च न विहन्यते

8

कच चिद आचरितां पूर्वैर नरदेव पिता महैः

वर्तसे वृत्तिम अक्षीणां धर्मार्थसहितां नृषु

9

कच चिद अर्थेन वा धर्मं धर्मेणार्थम अथापि वा

उभौ वा परीतिसारेण न कामेन परबाधसे

10

कच चिद अर्थं च धर्मं च कामं च जयतां वर

विभज्य काले कालज्ञ सदा वरद सेवसे

11

कच चिद राजगुणैः षड्भिः सप्तॊपायांस तथानघ

बलाबलं तथा सम्यक चतुर्दश परीक्षसे

12

कच चिद आत्मानम अन्वीक्ष्य परांश च जयतां वर

तथा संधाय कर्माणि अष्टौ भारत सेवसे

13

कच चित परकृतयः षट ते न लुप्ता भरतर्षभ

आढ्यास तथाव्यसनिनः सवनुरक्ताश च सर्वशः

14

कच चिन न तर्कैर दूतैर वा ये चाप्य अपरिशङ्किताः

तवत्तॊ वा तव वामात्यैर भिद्यते जातु मन्त्रितम

15

कच चित संधिं यथाकालं विग्रहं चॊपसेवसे

कच चिद वृत्तिम उदासीने मध्यमे चानुवर्तसे

16

कच चिद आत्मसमा बुद्ध्या शुचयॊ जीवितक्षमाः

कुलीनाश चानुरक्ताश च कृतास ते वीर मन्त्रिणः

17

विजयॊ मन्त्रमूलॊ हि राज्ञां भवति भारत

सुसंवृतॊ मन्त्रधनैर अमात्यैः शास्त्रकॊविदैः

18

कच चिन निद्रावशं नैषि कच चित काले विबुध्यसे

कच चिच चापररात्रेषु चिन्तयस्य अर्थम अर्थवित

19

कच चिन मन्त्रयसे नैकः कच चिन न बहुभिः सह

कच चित ते मन्त्रितॊ मन्त्रॊ न राष्ट्रम अनुधावति

20

कच चिद अर्थान विनिश्चित्य लघुमूलान महॊदयान

कषिप्रम आरभसे कर्तुं न विघ्नयसि तादृशान

21

कच चिन न सर्वे कर्मान्ताः परॊक्षास ते विशङ्किताः

सर्वे वा पुनर उत्सृष्टाः संसृष्टं हय अत्र कारणम

22

कच चिद राजन कृतान्य एव कृतप्रायानि वा पुनः

विदुस ते वीरकर्माणि नानवाप्तानि कानि चित

23

कच चित कारणिकाः सर्वे सर्वशास्त्रेषु कॊविदाः

कारयन्ति कुमारांश च यॊधमुख्यांश च सर्वशः

24

कच चित सहस्रैर मूर्खाणाम एकं करीणासि पण्डितम

पण्डितॊ हय अर्थकृच्छ्रेषु कुर्यान निःश्रेयसं परम

25

कच चिद दुर्गाणि सर्वाणि धनधान्यायुधॊदकैः

यन्त्रैश च परिपूर्णानि तथा शिल्पिधनुर्धरैः

26

एकॊ ऽपय अमात्यॊ मेधावी शूरॊ दान्तॊ विचक्षणः

राजानं राजपुत्रं वा परापयेन महतीं शरियम

27

कच चिद अष्टा दशान्येषु सवपक्षे दश पञ्च च

तरिभिस तरिभिर अविज्ञातैर वेत्सि तीर्थानि चारकैः

28

कच चिद दविषाम अविदितः परतियत्तश च सर्वदा

नित्ययुक्तॊ रिपून सर्वान वीक्षसे रिपुसूदन

29

कच चिद विनयसंपन्नः कुलपुत्रॊ बहुश्रुतः

अनसूयुर अनुप्रष्टा सत्कृतस ते पुरॊहितः

30

कच चिद अग्निषु ते युक्तॊ विधिज्ञॊ मतिमान ऋजुः

हुतं च हॊष्यमानं च काले वेदयते सदा

31

कच चिद अङ्गेषु निष्णातॊ जयॊतिषां परतिपादकः

उत्पातेषु च सर्वेषु दैवज्ञः कुशलस तव

32

कच चिन मुख्या महत्स्व एव मध्यमेषु च मध्यमाः

जघन्याश च जघन्येषु भृत्याः कर्मसु यॊजिताः

33

अमात्यान उपधातीतान पितृपैतामहाञ शुचीन

शरेष्ठाञ शरेष्ठेषु कच चित तवं नियॊजयसि कर्मसु

34

कच चिन नॊग्रेण दण्डेन भृशम उद्वेजित परजाः

राष्ट्रं तवानुशासन्ति मन्त्रिणॊ भरतर्षभ

35

कच चित तवां नावजानन्ति याजकाः पतितं यथा

उग्रप्रतिग्रहीतारं कामयानम इव सत्रियः

36

कच चिद धृष्टश च शूरश च मतिमान धृतिमाञ शुचिः

कुलीनश चानुरक्तश च दक्षः सेनापतिस तव

37

कच चिद बलस्य ते मुख्याः सर्वे युद्धविशारदाः

दृष्टापदाना विक्रान्तास तवया सत्कृत्य मानिताः

38

कच चिद बलस्य भक्तं च वेतनं च यथॊचितम

संप्राप्तकालं दातव्यं ददासि न विकर्षसि

39

कालातिक्रमणाद धयेते भक्त वेतनयॊर भृताः

भर्तुः कुप्यन्ति दौर्गत्यात सॊ ऽनर्थः सुमहान समृतः

40

कच चित सर्वे ऽनुरक्तास तवां कुलपुत्राः परधानतः

कच चित पराणांस तवार्थेषु संत्यजन्ति सदा युधि

41

कच चिन नैकॊ बहून अर्थान सर्वशः साम्परायिकान

अनुशास्सि यथाकामं कामात्मा शासनातिगः

42

कच चित पुरुषकारेण पुरुषः कर्मशॊभयन

लभते मानम अधिकं भूयॊ वा भक्त वेतनम

43

कच चिद विद्याविनीतांश च नराञ जञानविशारदान

यथार्हं गुणतश चैव दानेनाभ्यवपद्यसे

44

कच चिद दारान मनुष्याणां तवार्थे मृत्युम एयुषाम

वयसनं चाभ्युपेतानां बिभर्षि भरतर्षभ

45

कच चिद भयाद उपनतं कलीबं वा रिपुम आगतम

युद्धे वा विजितं पार्थ पुत्रवत परिरक्षसि

46

कच चित तवम एव सर्वस्याः पृथिव्याः पृथिवीपते

समश च नाभिशङ्क्यश च यथा माता यथा पिता

47

कच चिद वयसनिनं शत्रुं निशम्य भरतर्षभ

अभियासि जवेनैव समीक्ष्य तरिविधं बलम

48

पार्ष्णिमूलं च विज्ञाय वयवसायं पराजयम

बलस्य च महाराज दत्त्वा वेतनम अग्रतः

49

कच चिच च बलमुख्येभ्यः परराष्ट्रे परंतप

उपच्छन्नानि रत्नानि परयच्छसि यथार्हतः

50

कच चिद आत्मानम एवाग्रे विजित्य विजितेन्द्रियः

पराञ जिगीषसे पार्थ परमत्तान अजितेन्द्रियान

51

कच चित ते यास्यतः शत्रून पूर्वं यान्ति सवनुष्ठिताः

सामं दानं च भेदश च दण्डश च विधिवद गुणाः

52

कच चिन मूलं दृढं कृत्वा यात्रां यासि विशां पते

तांश च विक्रमसे जेतुं जित्वा च परिरक्षसि

53

कच चिद अष्टाङ्गसंयुक्ता चतुर्विध बला चमूः

बलमुख्यैः सुनीता ते दविषतां परतिबाधनी

54

कच चिल लवं च मुष्टिं च परराष्ट्रे परंतप

अविहाय महाराज विहंसि समरे रिपून

55

कच चित सवपरराष्ट्रेषु बहवॊ ऽधिकृतास तव

अर्थान समनुतिष्ठन्ति रक्षन्ति च परस्परम

56

कच चिद अभ्यवहार्याणि गात्रसंस्पर्शकानि च

घरेयाणि च महाराज रक्षन्त्य अनुमतास तव

57

कच चित कॊशं च कॊष्ट्थं च वाहनं दवारम आयुधम

आयश च कृतकल्याणैस तव भक्तैर अनुष्ठितः

58

कच चिद आभ्यन्तरेभ्यश च बाह्येभ्यश च विशां पते

रक्षस्य आत्मानम एवाग्रे तांश च सवेभ्यॊ मिथश च तान

59

कच चिन न पाने दयूते वा करीडासु परमदासु च

परतिजानन्ति पूर्वाह्णे वययं वयसनजं तव

60

कच चिद आयस्य चार्धेन चतुर्भागेन वा पुनः

पादभागैस तरिभिर वापि वययः संशॊध्यते तव

61

कच चिज जञातीन गुरून वृद्धान वणिजः शिल्पिनः शरितान

अभीक्ष्णम अनुगृह्णासि धनधान्येन दुर्गतान

62

कच चिद आयव्यये युक्ताः सर्वे गणक लेखकाः

अनुतिष्ठन्ति पूर्वाह्णे नित्यम आयव्ययं तव

63

कच चिद अर्थेषु संप्रौढान हितकामान अनुप्रियान

नापकर्षसि कर्मभ्यः पूर्वम अप्राप्य किल्बिषम

64

कच चिद विदित्वा पुरुषान उत्तमाधममध्यमान

तवं कर्मस्व अनुरूपेषु नियॊजयसि भारत

65

कच चिन न लुब्धाश चौरा वा वैरिणॊ वा विशां पते

अप्राप्तव्यवहारा वा तव कर्मस्व अनुष्ठिताः

66

कच चिन न लुब्धैश चौरैर वा कुमारैः सत्री बलेन वा

तवया वा पीड्यते राष्ट्रं कच चित पुष्टाः कृषी वलाः

67

कच चिद राष्ट्रे तडागानि पूर्णानि च महान्ति च

भागशॊ विनिविष्टानि न कृषिर देव मातृका

68

कच चिद बीजं च भक्तं च कर्षकायावसीदते

परतिकं च शतं वृद्ध्या ददास्य ऋणम अनुग्रहम

69

कच चित सवनुष्ठिता तात वार्त्ता ते साधुभिर जनैः

वार्त्तायां संश्रितस तात लॊकॊ ऽयं सुखम एधते

70

कच चिच छुचिकृतः पराज्ञाः पञ्च पञ्च सवनुष्ठिताः

कषेमं कुर्वन्ति संहत्य राजञ जनपदे तव

71

कच चिन नगरगुप्त्य अर्थं गरामा नगरवत कृताः

गरामवच च कृता रक्षा ते च सर्वे तद अर्पणाः

72

कच चिद बलेनानुगताः समानि विषमाणि च

पुराणचौराः साध्यक्षाश चरन्ति विषये तव

73

कच चित सत्रियः सान्त्वयसि कच चित ताश च सुरक्षिताः

कच चिन न शरद्दधास्य आसां कच चिद गुह्यं न भाषसे

74

कच चिच चारान निशि शरुत्वा तत कार्यम अनुचिन्त्य च

परियाण्य अनुभवञ शेषे विदित्वाभ्यन्तरं जनम

75

कच चिद दवौ परथमौ यामौ रात्र्यां सुप्त्वा विशां पते

संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे

76

कच चिद दर्शयसे नित्यं मनुष्यान समलंकृतान

उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः

77

कच चिद रक्ताम्बरधराः खड्गहस्ताः सवलं कृताः

अभितस तवाम उपासन्ते रक्षणार्थम अरिंदम

78

कच चिद दण्ड्येषु यमवत पूज्येषु च विशां पते

परीक्ष्य वर्तसे सम्यग अप्रियेषु परियेषु च

79

कच चिच छारीरम आबाधम औषधैर नियमेन वा

मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि

80

कच चिद वैद्याश चिकित्सायाम अष्टाङ्गायां विशारदाः

सुहृदश चानुरक्ताश च शरीरे ते हिताः सदा

81

कच चिन न मानान मॊहाद वा कामाद वापि विशां पते

अर्थि परत्यर्थिनः पराप्तान अपास्यसि कथं चन

82

कच चिन न लॊभान मॊहाद वा विश्रम्भात परणयेन वा

आश्रितानां मनुष्याणां वृत्तिं तवं संरुणत्सि च

83

कच चित पौरा न सहिता ये च ते राष्ट्रवासिनः

तवया सह विरुध्यन्ते परैः करीताः कथं चन

84

कच चित ते दुर्बलः शत्रुर बलेनॊपनिपीडितः

मन्त्रेण बलवान कश चिद उभाभ्यां वा युधिष्ठिर

85

कच चित सर्वे ऽनुरक्तास तवां भूमिपालाः परधानतः

कच चित पराणांस तवदर्थेषु संत्यजन्ति तवया हृताः

86

कच चित ते सर्वविद्यासु गुणतॊ ऽरचा परवर्तते

बराह्मणानां च साधूनां तव निःश्रेयसे शुभा

87

कच चिद धर्मे तरयी मूले पूर्वैर आचरिते जनैः

वर्तमानस तथा कर्तुं तस्मिन कर्मणि वर्तसे

88

कच चित तव गृहे ऽननानि सवादून्य अश्नन्ति वै दविजाः

गुणवन्ति गुणॊपेतास तवाध्यक्षं सदक्षिणम

89

कच चित करतून एकचित्तॊ वाजपेयांश च सर्वशः

पुण्डरीकांश च कार्त्स्न्येन यतसे कर्तुम आत्मवान

90

कच चिज जञातीन गुरून वृद्धान दैवतांस तापसान अपि

चैत्यांश च वृक्षान कल्याणान बराह्मणांश च नमस्यसि

91

कच चिद एषा च ते बुद्धिर वृत्तिर एषा च ते ऽनघ

आयुष्या च यशस्या च धर्मकामार्थ दर्शिनी

92

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति

विजित्य च महीं राजा सॊ ऽतयन्तं सुखम एधते

93

कच चिद आर्यॊ विशुद्धात्मा कषारितश चौर कर्मणि

अदृष्टशास्त्रकुशलैर न लॊभाद वध्यते शुचिः

94

पृष्टॊ गृहीतस तत्कारी तज्ज्ञैर दृष्टः स कारणः

कच चिन न मुच्यते सतेनॊ दरव्यलॊभान नरर्षभ

95

वयुत्पन्ने कच चिद आढ्यस्य दरिद्रस्य च भारत

अर्थान न मिथ्या पश्यन्ति तवामात्या हृता धनैः

96

नास्तिक्यम अनृतं करॊधं परमादं दीर्घसूत्रताम

अदर्शनं जञानवताम आलस्यं कषिप्तचित्तताम

97

एकचिन्तनम अर्थानाम अनर्थज्ञैश च चिन्तनम

निश्चितानाम अनारम्भं मन्त्रस्यापरिरक्षणम

98

मङ्गल्यस्याप्रयॊगं च परसङ्गं विषयेषु च

कच चित तवं वर्जयस्य एतान राजदॊषांश चतुर्दश

99

कच चित ते सफला वेदाः कच चित ते सफलं धनम

कच चित ते सफला दाराः कच चित ते सफलं शरुतम

100

[य]

कथं वै सफला वेदाः कथं वै सफलं धनम

कथं वै सफला दाराः कथं वै सफलं शरुतम

101

[न]

अग्निहॊत्रफला वेदा दत्तभुक्त फलं धनम

रतिपुत्र फला दाराः शीलवृत्तफलं शरुतम

102

[व]

एतद आख्याय स मुनिर नारदः सुमहातपाः

पप्रच्छानन्तरम इदं धर्मात्मानं युधिष्ठिरम

103

[न]

कच चिद अभ्यागता दूराद वणिजॊ लाभकारणात

यथॊक्तम अवहार्यन्ते शुल्कं शुल्कॊपजीविभिः

104

कच चित ते पुरुषा राजन पुरे राष्ट्रे च मानिताः

उपानयन्ति पण्यानि उपधाभिर अवञ्चिताः

105

कच चिच छृणॊषि वृद्धानां धर्मार्थसहिता गिरः

नित्यम अर्थविदां तात तथा धर्मानुदर्शिनाम

106

कच चित ते कृषितन्त्रेषु गॊषु पुष्पफलेषु च

धर्मार्थं च दविजातिभ्यॊ दीयते मधुसर्पिषी

107

दरव्यॊपकरणं कच चित सर्वदा सर्वशिल्पिनाम

चातुर्मास्यावरं सम्यङ नियतं संप्रयच्छसि

108

कच चित कृतं विजानीषे कर्तारं च परशंससि

सतां मध्ये महाराज सत करॊषि च पूजयन

109

कच चित सूत्राणि सर्वाणि गृह्णासि भरतर्षभ

हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभॊ

110

कच चिद अभ्यस्यते शश्वद गृहे ते भरतर्षभ

धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम

111

कच चिद अस्त्राणि सर्वाणि बरह्मदण्डश च ते ऽनघ

विषयॊगाश च ते सर्वे विदिताः शत्रुनाशनाः

112

कच चिद अग्निभयाच चैव सर्पव्याल भयात तथा

रॊगरक्षॊभयाच चैव राष्ट्रं सवं परिरक्षसि

113

कच चिद अन्धांश च मूकांश च पङ्गून वयङ्गान अबान्धवान

पितेव पासि धर्मज्ञ तथा परव्रजितान अपि

114

[व]

एताः कुरूणाम ऋषभॊ महात्मा; शरुत्वा गिरॊ बराह्मणसत्तमस्य

परणम्य पादाव अभिवाद्य हृष्टॊ; राजाब्रवीन नारदं देवरूपम

115

एवं करिष्यामि यथा तवयॊक्तं; परज्ञा हि मे भूय एवाभिवृद्धा

उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च

116

[न]

एवं यॊ वर्तते राजा चातुर्वर्ण्यस्य रक्षणे

स विहृत्येह सुसुखी शक्रस्यैति सलॊकताम

1

[v]

tatra tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu

mahatsu copaviṣṭeṣu gandharveṣu ca bhārata

2

lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ

nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā

3

pārijātena rājendra raivatena ca dhīmatā

sumukhena ca saumyena devarṣir amitadyutiḥ

sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojava

4

tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit

sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha

abhyavādayata prītyā vinayāvanatas tadā

5

tad arham āsanaṃ tasmai saṃpradāya yathāvidhi

arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit

6

so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ

dharmakāmārtha saṃyuktaṃ papracchedaṃ yudhiṣṭhiram

7

[n]

kac cid arthāś ca kalpante dharme ca ramate manaḥ

sukhāni cānubhūyante manaś ca na vihanyate

8

kac cid ācaritāṃ pūrvair naradeva pitā mahaiḥ

vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu

9

kac cid arthena vā dharmaṃ dharmeṇārtham athāpi vā

ubhau vā prītisāreṇa na kāmena prabādhase

10

kac cid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara

vibhajya kāle kālajña sadā varada sevase

11

kac cid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha

balābalaṃ tathā samyak caturdaśa parīkṣase

12

kac cid ātmānam anvīkṣya parāṃś ca jayatāṃ vara

tathā saṃdhāya karmāṇi aṣṭau bhārata sevase

13

kac cit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha

āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśa

14

kac cin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ

tvatto vā tava vāmātyair bhidyate jātu mantritam

15

kac cit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase

kac cid vṛttim udāsīne madhyame cānuvartase

16

kac cid ātmasamā buddhyā śucayo jīvitakṣamāḥ

kulīnāś cānuraktāś ca kṛtās te vīra mantriṇa

17

vijayo mantramūlo hi rājñāṃ bhavati bhārata

susaṃvṛto mantradhanair amātyaiḥ śāstrakovidai

18

kac cin nidrāvaśaṃ naiṣi kac cit kāle vibudhyase

kac cic cāpararātreṣu cintayasy artham arthavit

19

kac cin mantrayase naikaḥ kac cin na bahubhiḥ saha

kac cit te mantrito mantro na rāṣṭram anudhāvati

20

kac cid arthān viniścitya laghumūlān mahodayān

kṣipram ārabhase kartuṃ na vighnayasi tādṛśān

21

kac cin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ

sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam

22

kac cid rājan kṛtāny eva kṛtaprāyāni vā punaḥ

vidus te vīrakarmāṇi nānavāptāni kāni cit

23

kac cit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ

kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśa

24

kac cit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam

paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param

25

kac cid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ

yantraiś ca paripūrṇāni tathā śilpidhanurdharai

26

eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ

rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam

27

kac cid aṣṭā daśānyeṣu svapakṣe daśa pañca ca

tribhis tribhir avijñātair vetsi tīrthāni cārakai

28

kac cid dviṣām aviditaḥ pratiyattaś ca sarvadā

nityayukto ripūn sarvān vīkṣase ripusūdana

29

kac cid vinayasaṃpannaḥ kulaputro bahuśrutaḥ

anasūyur anupraṣṭā satkṛtas te purohita

30

kac cid agniṣu te yukto vidhijño matimān ṛjuḥ

hutaṃ ca hoṣyamānaṃ ca kāle vedayate sadā

31

kac cid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ

utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava

32

kac cin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ

jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ

33

amātyān upadhātītān pitṛpaitāmahāñ śucīn

śreṣṭhāñ śreṣṭheṣu kac cit tvaṃ niyojayasi karmasu

34

kac cin nogreṇa daṇḍena bhṛśam udvejita prajāḥ

rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha

35

kac cit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā

ugrapratigrahītāraṃ kāmayānam iva striya

36

kac cid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ

kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava

37

kac cid balasya te mukhyāḥ sarve yuddhaviśāradāḥ

dṛṣṭpadānā vikrāntās tvayā satkṛtya mānitāḥ

38

kac cid balasya bhaktaṃ ca vetanaṃ ca yathocitam

saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi

39

kālātikramaṇād dhyete bhakta vetanayor bhṛtāḥ

bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛta

40

kac cit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ

kac cit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi

41

kac cin naiko bahūn arthān sarvaśaḥ sāmparāyikān

anuśāssi yathākāmaṃ kāmātmā śāsanātiga

42

kac cit puruṣakāreṇa puruṣaḥ karmaśobhayan

labhate mānam adhikaṃ bhūyo vā bhakta vetanam

43

kac cid vidyāvinītāṃś ca narāñ jñānaviśāradān

yathārhaṃ guṇataś caiva dānenābhyavapadyase

44

kac cid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām

vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha

45

kac cid bhayād upanataṃ klībaṃ vā ripum āgatam

yuddhe vā vijitaṃ pārtha putravat parirakṣasi

46

kac cit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate

samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā

47

kac cid vyasaninaṃ śatruṃ niśamya bharatarṣabha

abhiyāsi javenaiva samīkṣya trividhaṃ balam

48

pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam

balasya ca mahārāja dattvā vetanam agrata

49

kac cic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa

upacchannāni ratnāni prayacchasi yathārhata

50

kac cid ātmānam evāgre vijitya vijitendriyaḥ

parāñ jigīṣase pārtha pramattān ajitendriyān

51

kac cit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ

sāmaṃ dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ

52

kac cin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate

tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi

53

kac cid aṣṭāgasaṃyuktā caturvidha balā camūḥ

balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī

54

kac cil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa

avihāya mahārāja vihaṃsi samare ripūn

55

kac cit svapararāṣṭreṣu bahavo 'dhikṛtās tava

arthān samanutiṣṭhanti rakṣanti ca parasparam

56

kac cid abhyavahāryāṇi gātrasaṃsparśakāni ca

ghreyāṇi ca mahārāja rakṣanty anumatās tava

57

kac cit kośaṃ ca koṣṭthaṃ ca vāhanaṃ dvāram āyudham

āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhita

58

kac cid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate

rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān

59

kac cin na pāne dyūte vā krīḍāsu pramadāsu ca

pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava

60

kac cid āyasya cārdhena caturbhāgena vā punaḥ

pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava

61

kac cij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān

abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān

62

kac cid āyavyaye yuktāḥ sarve gaṇaka lekhakāḥ

anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava

63

kac cid artheṣu saṃprauḍhān hitakāmān anupriyān

nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam

64

kac cid viditvā puruṣān uttamādhamamadhyamān

tvaṃ karmasv anurūpeṣu niyojayasi bhārata

65

kac cin na lubdhāś caurā vā vairiṇo vā viśāṃ pate

aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ

66

kac cin na lubdhaiś caurair vā kumāraiḥ strī balena vā

tvayā vā pīḍyate rāṣṭraṃ kac cit puṣṭāḥ kṛṣī valāḥ

67

kac cid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca

bhāgaśo viniviṣṭāni na kṛṣir deva mātṛkā

68

kac cid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate

pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham

69

kac cit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ

vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate

70

kac cic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ

kṣemaṃ kurvanti saṃhatya rājañ janapade tava

71

kac cin nagaragupty arthaṃ grāmā nagaravat kṛtāḥ

grāmavac ca kṛtā rakṣā te ca sarve tad arpaṇāḥ

72

kac cid balenānugatāḥ samāni viṣamāṇi ca

purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava

73

kac cit striyaḥ sāntvayasi kac cit tāś ca surakṣitāḥ

kac cin na śraddadhāsy āsāṃ kac cid guhyaṃ na bhāṣase

74

kac cic cārān niśi śrutvā tat kāryam anucintya ca

priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam

75

kac cid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate

saṃcintayasi dharmārthau yāma utthāya paścime

76

kac cid darśayase nityaṃ manuṣyān samalaṃkṛtān

utthāya kāle kālajñaḥ saha pāṇḍava mantribhi

77

kac cid raktāmbaradharāḥ khaḍgahastāḥ svalaṃ kṛtāḥ

abhitas tvām upāsante rakṣaṇārtham ariṃdama

78

kac cid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate

parīkṣya vartase samyag apriyeṣu priyeṣu ca

79

kac cic chārīram ābādham auṣadhair niyamena vā

mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi

80

kac cid vaidyāś cikitsāyām aṣṭāgāyāṃ viśāradāḥ

suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā

81

kac cin na mānān mohād vā kāmād vāpi viśāṃ pate

arthi pratyarthinaḥ prāptān apāsyasi kathaṃ cana

82

kac cin na lobhān mohād vā viśrambhāt praṇayena vā

ā
ritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca

83

kac cit paurā na sahitā ye ca te rāṣṭravāsinaḥ

tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana

84

kac cit te durbalaḥ śatrur balenopanipīḍitaḥ

mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira

85

kac cit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ

kac cit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ

86

kac cit te sarvavidyāsu guṇato 'rcā pravartate

brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā

87

kac cid dharme trayī mūle pūrvair ācarite janaiḥ

vartamānas tathā kartuṃ tasmin karmaṇi vartase

88

kac cit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ

guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam

89

kac cit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ

puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān

90

kac cij jñātīn gurūn vṛddhān daivatāṃs tāpasān api

caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi

91

kac cid eṣā ca te buddhir vṛttir eṣā ca te 'nagha

āyuṣyā ca yaśasyā ca dharmakāmārtha darśinī

92

etayā vartamānasya buddhyā rāṣṭraṃ na sīdati

vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate

93

kac cid āryo viśuddhātmā kṣāritaś caura karmaṇi

adṛṣṭaśāstrakuśalair na lobhād vadhyate śuci

94

pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sa kāraṇaḥ

kac cin na mucyate steno dravyalobhān nararṣabha

95

vyutpanne kac cid āḍhyasya daridrasya ca bhārata

arthān na mithyā paśyanti tavāmātyā hṛtā dhanai

96

nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām

adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām

97

ekacintanam arthānām anarthajñaiś ca cintanam

niścitānām anārambhaṃ mantrasyāparirakṣaṇam

98

maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca

kac cit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa

99

kac cit te saphalā vedāḥ kac cit te saphalaṃ dhanam

kac cit te saphalā dārāḥ kac cit te saphalaṃ śrutam

100

[y]

kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam

kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam

101

[n]

agnihotraphalā vedā dattabhukta phalaṃ dhanam

ratiputra phalā dārāḥ śīlavṛttaphalaṃ śrutam

102

[v]

etad ākhyāya sa munir nāradaḥ sumahātapāḥ

papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram

103

[n]

kac cid abhyāgatā dūrād vaṇijo lābhakāraṇāt

yathoktam avahāryante śulkaṃ śulkopajīvibhi

104

kac cit te puruṣā rājan pure rāṣṭre ca mānitāḥ

upānayanti paṇyāni upadhābhir avañcitāḥ

105

kac cic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ

nityam arthavidāṃ tāta tathā dharmānudarśinām

106

kac cit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca

dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī

107

dravyopakaraṇaṃ kac cit sarvadā sarvaśilpinām

cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi

108

kac cit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi

satāṃ madhye mahārāja sat karoṣi ca pūjayan

109

kac cit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha

hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho

110

kac cid abhyasyate śaśvad gṛhe te bharatarṣabha

dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram

111

kac cid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha

viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ

112

kac cid agnibhayāc caiva sarpavyāla bhayāt tathā

rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi

113

kac cid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān

piteva pāsi dharmajña tathā pravrajitān api

114

[v]

etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya

praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam

115

evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā

uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca

116

[n]

evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe

sa vihṛtyeha susukhī śakrasyaiti salokatām
on the summa theologica| on the summa theologica
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 5