Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 81

Book 3. Chapter 81

The Mahabharata In Sanskrit


Book 3

Chapter 81

1

[पुलस्त्य]

ततॊ गच्छेत राजेन्द्र कुरुक्षेत्रम अभिष्टुतम

पापेभ्यॊ विप्रमुच्यन्ते तद्गताः सर्वजन्तवः

2

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम

य एवं सततं बरूयात सॊ ऽपि पापैः परमुच्यते

3

अत्र मासं वसेद वीर सरस्वत्यां युधिष्ठिर

यत्र बरह्मादयॊ देव ऋषयः सिद्धचारणाः

4

गन्धर्वाप्सरसॊ यक्षाः पन्नगाश च महीपते

बरह्म कषेत्रं महापुण्यम अभिगच्छन्ति भारत

5

मनसाप्य अभिकामस्य कुरुक्षेत्रं युधिष्ठिर

पापाणि विप्रणश्यन्ति बरह्मलॊकं च गच्छति

6

गत्वा हि शरद्धया युक्तः कुरुक्षेत्रं कुरूद्वह

राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः

7

ततॊ मचक्रुकं राजन दवारपालं महाबलम

यक्षं समभिवाद्यैव गॊसहस्रफलं लभेत

8

ततॊ गच्छेत धर्मज्ञ विष्णॊर सथानम अनुत्तमम

सततं नाम राजेन्द्र यत्र संनिहितॊ हरिः

9

तत्र सनात्वार्चयित्वा च तरिलॊकप्रभवं हरिम

अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति

10

ततः पारिप्लवं गच्छेत तीर्थं तरैलॊक्यविश्रुतम

अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः

11

पृथिव्यास तीर्थम आसाद्य गॊसहस्रफलं लभेत

ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप

दशाश्वमेधिके सनात्वा तद एव लभते फलम

12

सर्पदर्वीं समासाद्य नागानां तीर्थम उत्तमम

अग्निष्टॊमम अवाप्नॊति नागलॊकं च विन्दति

13

ततॊ गच्छेत धर्मज्ञ दवारपालं तरन्तुकम

तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत

14

ततः पञ्चनदं गत्वा नियतॊ नियताशनः

कॊटिकीर्थम उपस्पृश्य हयमेध फलं लभेत

अश्विनॊस तीर्थम आसाद्य रूपवान अभिजायते

15

ततॊ गच्छेत धर्मज्ञ वाराहं तीर्थम उत्तमम

विष्णुर वाराह रूपेण पूर्वं यत्र सथितॊ ऽभवत

तत्र सनात्वा नरव्याघ्र अग्निष्टॊम फलं लभेत

16

ततॊ जयन्त्या राजेन्द्र सॊमतीर्थं समाविशेत

सनात्वा फलम अवाप्नॊति राजसूयस्य मानवः

17

एकहंसे नरः सनात्वा गॊसहस्रफलं लभेत

कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह

पुण्डरीकम अवाप्नॊति कृतशौचॊ भवेन नरः

18

ततॊ मुञ्ज वटं नाम महादेवस्य धीमतः

तत्रॊष्य रजनीम एकां गाणपत्यम अवाप्नुयात

19

तत्रैव च महाराज यक्षी लॊकपरिश्रुता

तां चाभिगम्य राजेन्द्र पुण्याँल लॊकान अवाप्नुयात

20

कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ

परदक्षिणम उपावृत्य तीर्थसेवी समाहितः

21

संमिते पुष्कराणां च सनात्वार्च्य पितृदेवताः

जामदग्न्येन रामेण आहृते वै महात्मना

कृतकृत्यॊ भवेद राजन्न अश्वमेधं च विन्दति

22

ततॊ रामह्रदान गच्छेत तीर्थसेवी नराधिप

यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा

कषत्रम उत्साद्य वीर्येण हरदाः पञ्च निवेशिताः

23

पूरयित्वा नरव्याघ्र रुधिरेणेति नः शरुतम

पितरस तर्पिताः सर्वे तथैव च पिता महाः

ततस ते पितरः परीता रामम ऊचुर महीपते

24

रम राम महाभाग परीताः सम तव भार्गव

अनया पितृभक्त्या च विक्रमेण च ते विभॊ

वरं वृणीष्व भद्रं ते किम इच्छसि महाद्युते

25

एवम उक्तः स राजेन्द्र रामः परहरतां वरः

अब्रवीत पराञ्जलिर वाक्यं पितॄन स गगने सथितान

26

भवन्तॊ यदि मे परीता यद्य अनुग्राह्यता मयि

पितृप्रसादाद इच्छेयं तपसाप्यायनं पुनः

27

यच च रॊषाभिभूतेन कषत्रम उत्सादितं मया

ततश च पापान मुच्येयं युष्माकं तेजसा हय अहम

हरदाश च तीर्थभूता मे भवेयुर भुवि विश्रुताः

28

एतच छरुत्वा शुभं वाक्यं रामस्य पितरस तदा

परत्यूचुः परमप्रीता रामं हर्षसमन्विताः

29

तपस ते वर्धतां भूयः पितृभक्त्या विशेषतः

यच च रॊषाभिभूतेन कषत्रम उत्सादितं तवया

30

ततश च पापान मुक्तस तवं कर्मभिस ते च पातिताः

हरदाश च तव तीर्थत्वं गमिष्यन्ति न संशयः

31

हरदेष्व एतेषु यः सनात्वा पितॄन संतर्पयिष्यति

पितरस तस्य वै परीता दास्यन्ति भुवि दुर्लभम

ईप्सितं मनसः कामं सवर्गलॊकं च शाश्वतम

32

एवं दत्त्वा वरान राजन रामस्य पितरस तदा

आमन्त्र्य भार्गवं परीतास तत्रैवान्तर दधुस तदा

33

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनाः

सनात्वा हरदेषु रामस्य बरह्म चारी शुभव्रतः

रामम अभ्यर्च्य राजेन्द्र लभेद बहुसुवर्णकम

34

वंशमूलकम आसाद्य तीर्थसेवी कुरूद्वह

सववंशम उद्धरेद राजन सनात्वा वै वंशमूलके

35

कायशॊधनम आसाद्य तीर्थं भरतसत्तम

शरीरशुद्धिः सनातस्य तस्मिंस तीर्थे न संशयः

शुद्धदेहश च संयाति शुभाँल लॊकान अनुत्तमान

36

ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम

लॊका यत्रॊद्धृताः पूर्वं विष्णुना परभ विष्णुना

37

लॊकॊद्धारं समासाद्य तीर्थं तरैलॊक्यविश्रुतम

सनात्वा तीर्थवरे राजँल लॊकान उद्धरते सवकान

शरीतीर्थं च समासाद्य विन्दते शरियम उत्तमाम

38

कपिला तीर्थम आसाद्य बरह्म चारी समाहितः

तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा

कपिलानां सहस्रस्य फलं विन्दति मानवः

39

सूर्यतीर्थं समासाद्य सनात्वा नियतमानसः

अर्चयित्वा पितॄन देवान उपवासपरायणः

अग्निष्टॊमम अवाप्नॊति सूर्यलॊकं च गच्छति

40

गमां भवनम आसाद्य तीर्थसेवी यथाक्रमम

तत्राभिषेकं कुर्वाणॊ गॊसहस्रफलं लभेत

41

शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह

देव्यास तीर्थे नरः सनात्वा लभते रूपम उत्तमम

42

ततॊ गच्छेत राजेन्द्र दवारपालम अरन्तुकम

तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनाः

तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत

43

ततॊ गच्छेत धर्मज्ञ बरह्मावर्तं नराधिप

बरह्मावर्ते नरः सनात्वा बरह्मलॊकम अवाप्नुयात

44

ततॊ गच्छेत धर्मज्ञ सुतीर्थकम अनुत्तमम

यत्र संनिहिता नित्यं पितरॊ दैवतैः सह

45

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

अश्वमेधम अवाप्नॊति पितृलॊकं च गच्छति

46

ततॊ ऽमबुवश्यं धर्मज्ञ समासाद्य यथाक्रमम

कॊशेश्वरस्य तीर्थेषु सनात्वा भरतसत्तम

सर्वव्याधिविनिर्मुक्तॊ बरह्मलॊके महीयते

47

मातृतीर्थं च तत्रैव यत्र सनातस्य भारत

परजा विवर्धते राजन्न अनन्तां चाश्नुते शरियम

48

ततः शीतवनं गच्छेन नियतॊ नियताशनः

तीर्थं तत्र महाराज महद अन्यत्र दुर्लभम

49

पुनाति दर्शनाद एव दण्डेनैकं नराधिप

केशान अभ्युक्ष्य वै तस्मिन पूतॊ भवति भारत

50

तीर्थं तत्र महाराज शवानलॊमापहं समृतम

यतविप्रा नरव्याघ्र विद्वांसस तीर्थतत्पराः

51

शवानलॊमापनयने तीर्थे भरतसत्तम

पराणायामैर निर्हरन्ति शवलॊमानि दविजॊत्तमाः

52

पूतात्मानश च राजेन्द्र परयान्ति परमां गतिम

दशाश्वमेधिकं चैव तस्मिंस तीर्थे महीपते

तत्र सनात्वा नरव्याघ्र गच्छेत परमां गतिम

53

ततॊ गच्छेत राजेन्द्र मानुषं लॊकविश्रुतम

यत्र कृष्णमृगा राजन वयाधेन परिपीडिताः

अवगाह्य तस्मिन सरसि मानुषत्वम उपागताः

54

तस्मिंस तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः

सर्वपापविशुद्धात्मा सवर्गलॊके महीयते

55

मानुषस्य तु पूर्वेण करॊशमात्रे महीपते

आपगा नाम विख्याता नदी सिद्धनिषेविता

56

शयामाक भॊजनं तत्र यः परयच्छति मानवः

देवान पितॄंश च उद्दिश्य तस्य धर्मफलं महत

एकस्मिन भॊजिते विप्रे कॊटिर भवति भॊजिता

57

तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा

उषित्वा रजनीम एकाम अग्निष्टॊम फलं लभेत

58

ततॊ गच्छेत राजेन्द्र बरह्मणः सथानम उत्तमम

बरह्मॊदुम्बरम इत्य एव परकाशं भुवि भारत

59

तत्र सप्तर्षिकुण्डेषु सनातस्य कुरुपुंगव

केदारे चैव राजेन्द्र कपिष्ठल महात्मनाः

60

बरह्माणम अभिगम्याथ शुचिः परयत मानसः

सर्वपापविशुद्धात्मा बरह्मलॊकं परपद्यते

61

कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम

अन्तर्धानम अवाप्नॊति तपसा दग्धकिल्बिषः

62

ततॊ गच्छेत राजेन्द्र सरकं लॊकविश्रुतम

कृष्णपक्षे चतुर्दश्याम अभिगम्य वृषध्वजम

लभते सर्वकामान हि सवर्गलॊकं च गच्छति

63

तिस्रः कॊट्यस तु तीर्थानां सरके कुरुनन्दन

रुद्र कॊटिस तथा कूपे हरदेषु च महीपते

इलास्पदं च तत्रैव तीर्थं भरतसत्तम

64

तत्र सनात्वार्चयित्वा च पितॄन देवांश च भारत

न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति

65

किंदाने च नरः सनात्वा किंजप्ये च महीपते

अप्रमेयम अवाप्नॊति दानं जप्यं च भारत

66

कलश्यां चाप्य उपस्पृश्य शरद्दधानॊ जितेन्द्रियः

अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः

67

सरकस्य तु पूर्वेण नारदस्य महात्मनाः

तीर्थं कुरु वरश्रेष्ठ अनाजन्मेति विश्रुतम

68

तत्र तीर्थे नरः सनात्वा पराणांश चॊत्सृज्य भारत

नारदेनाभ्यनुज्ञातॊ लॊकान पराप्नॊति दुर्लभान

69

शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत

तत्र सनात्वा नरॊ राजन पुण्डरीकफलं लभेत

70

ततस तरिविष्टपं गच्छेत तरिषु लॊकेषु विश्रुतम

तत्र वैतरणी पुण्या नदी पापप्रमॊचनी

71

तत्र सनात्वार्चयित्वा च शूलपाणिं वृषध्वजम

सर्वपापविशुद्धात्मा गच्छेत परमां गतिम

72

ततॊ गच्छेत राजेन्द्र फलकी वनम उत्तमम

यत्र देवाः सदा राजन फलकी वनम आश्रिताः

तपश चरन्ति विपुलं बहुवर्षसहस्रकम

73

दृषद्वत्यां नरः सनात्वा तर्पयित्वा च देवताः

अग्निष्टॊमातिरात्राभ्यां फलं विन्दति भारत

74

तीर्थे च सर्वदेवानां सनात्वा भरतसत्तम

गॊसहस्रस्य राजेन्द्र फलं पराप्नॊति मानवः

75

पाणिखाते नरः सनात्वा तर्पयित्वा च देवताः

राजसूयम अवाप्नॊति ऋषिलॊकं च गच्छति

76

ततॊ गच्छेत राजेन्द्र मिश्रकं तीर्थम उत्तमम

तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना

77

वयासेन नृपशार्दूल दविजार्थम इति नः शरुतम

सर्वतीर्थेषु स सनाति मिश्रके सनाति यॊ नरः

78

ततॊ वयास वनं गच्छेन नियतॊ नियताशनः

मनॊजवे नरः सनात्वा गॊसहस्रफलं लभेत

79

गत्वा मधु वटीं चापि देव्यास तीर्थं नरः शुचिः

तत्र सनात्वार्चयेद देवान पितॄंश च परयतः शुचिः

स देव्या समनुज्ञातॊ गॊसहस्रफलं लभेत

80

कौशिक्याः संगमे यस तु दृषद्वत्याश च भारत

सनाति वै नियताहारः सर्वपापैः परमुच्यते

81

ततॊ वयास सथली नाम यत्र वयासेन धीमता

पुत्रशॊकाभितप्तेन देहत्यागार्थ निश्चयः

82

कृतॊ देवैश च राजेन्द्र पुनर उत्थापितस तदा

अभिगम्य सथलीं तस्य गॊसहस्रफलं लभेत

83

किं दत्तं कूपम आसाद्य तिलप्रस्थं परदाय च

गच्छेत परमां सिद्धिम ऋणैर मुक्तः कुरूद्वह

84

अहश च सुदिनं चैव दवे तीर्थे च सुदुर्लभे

तयॊः सनात्वा नरव्याघ्र सूर्यलॊकम अवाप्नुयात

85

मृगधूमं ततॊ गच्छेत तरिषु लॊकेषु विश्रुतम

तत्र गङ्गा हरदे सनात्वा समभ्यर्च्य च मानवः

शूलपाणिं महादेवम अश्वमेध फलं लभेत

86

देव तीर्थे नरः सनात्वा गॊसहस्रफलं लभेत

अथ वामनकं गच्छेत तरिषु लॊकेषु विश्रुतम

87

तत्र विष्णुपदे सनात्वा अर्चयित्वा च वामनम

सर्वपापविशुद्धात्मा विष्णुलॊकम अवाप्नुयात

88

कुलम्पुने नरः सनात्वा पुनाति सवकुलं नरः

पवनस्य हरदं गत्वा मरुतां तीर्थम उत्तमम

तत्र सनात्वा नरव्याघ्र वायुलॊके महीयते

89

अमराणां हरदे सनात्वा अमरेषु नराधिप

अमराणां परभावेन सवर्गलॊके महीयते

90

शालिहॊत्रस्य राजेन्द्र शालिशूर्पे यथाविधि

सनात्वा नरवरश्रेष्ठ गॊसहस्रफलं लभेत

91

शरीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम

तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत

92

ततॊ नैमिष कुञ्जं च समासाद्य कुरूद्वह

ऋषयः किल राजेन्द्र नैमिषेयास तपॊधनाः

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा

93

ततः कुञ्जः सरस्वत्यां कृतॊ भरतसत्तम

ऋषीणाम अवकाशः सयाद यथा तुष्टिकरॊ महान

94

तस्मिन कुञ्जे नरः सनात्वा गॊसहस्रफलं लभेत

कन्या तीर्थे नरः सनात्वा अग्निष्टॊम फलं लभेत

95

ततॊ गच्छेन नरव्याघ्र बरह्मणः सथानम उत्तमम

तत्र वर्णावरः सनात्वा बराह्मण्यं लभते नरः

बराह्मणश च विशुद्धात्मा गच्छेत परमां गतिम

96

ततॊ गच्छेन नरश्रेष्ठ सॊमतीर्थम अनुत्तमम

तत्र सनात्वा नरॊ राजन सॊमलॊकम अवाप्नुयात

97

सप्त सारस्वतं तीर्थं ततॊ गच्छेन नराधिप

यत्र मङ्कणकः सिद्धॊ महर्षिर लॊकविश्रुतः

98

पुरा मङ्कणकॊ राजन कुशाग्रेणेति नः शरुतम

कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत

99

स वै शाकरसं दृष्ट्वा हर्षाविष्टॊ महातपाः

परनृत्तः किल विप्रर्षिर विस्मयॊत्फुल्ललॊचनः

100

ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत

परनृत्तम उभयं वीर तेजसा तस्य मॊहितम

101

बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः

विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप

नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि

102

ततः परनृत्तम आसाद्य हर्षाविष्टेन चेतसा

सुराणां हितकामार्थम ऋषिं देवॊ ऽभयभाषत

103

अहॊ महर्षे धर्मज्ञ किमर्थं नृत्यते भवान

हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव

104

[रसि]

किं न पश्यसि मे देवकराच छाक रसं सरुतम

यं दृष्ट्वाहं परनृत्तॊ वै हर्षेण महतान्वितः

105

[पुलस्त्य]

तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम

अहं वै विस्मयं विप्र न गच्छामीति पश्य माम

106

एवम उक्त्वा नरश्रेष्ठ महादेवेन धीमता

अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽनघ

107

ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम

तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः

108

नान्यं देवम अहं मन्ये रुद्रात परतरं महत

सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक

109

तवया सृष्टम इदं विश्वं तरैलॊक्यं स चराचरम

तवाम एव भगवन सर्वे परविशन्ति युगक्षये

110

देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया

तवयि सर्वे च दृश्यन्ते सुरा बरह्मादयॊ ऽनघ

111

सर्वस तवम असि लॊकानां कर्ता कारयिता च ह

तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः

एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽभवत

112

[रसि]

तवत्प्रसादान महादेव तपॊ मे न कषरेत वै

113

[पुलस्त्य]

ततॊ देवः परहृष्टात्मा बरह्मर्षिम इदम अब्रवीत

तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा

114

आश्रमे चेह वत्स्यामि तवया सार्धं महामुने

सप्त सारस्वते सनात्वा अर्चयिष्यन्ति ये तु माम

115

न तेषां दुर्लभं किं चिद इह लॊके परत्र च

सारस्वतं च ते लॊकं गमिष्यन्ति न संशयः

116

ततस तव औशनसं गच्छेत तरिषु लॊकेषु विश्रुतम

यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः

117

कार्तिकेयश च भगवांस तरिसंध्यं किल भारत

सांनिध्यम अकरॊत तत्र भार्गव परियकाम्यया

118

कपालमॊचनं तीर्थं सर्वपापप्रमॊचनम

तत्र सनात्वा नरव्याघ्र सर्वपापैः परमुच्यते

119

अग्नितीर्थं ततॊ गच्छेत तत्र सनात्वा नरर्षभ

अग्निलॊकम अवाप्नॊति कुलं चैव समुद्धरेत

120

विश्वा मित्रस्य तत्रैव तीर्थं भरतसत्तम

तत्र सनात्वा महाराज बराह्मण्यम अभिजायते

121

बरह्मयॊनिं समासाद्य शुचिः परयत मानसः

तत्र सनात्वा नरव्याघ्र बरह्मलॊकं परपद्यते

पुनात्य आ सप्तमं चैव कुलं नास्त्य अत्र संशयः

122

ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम

पृथूदकम इति खयातं कार्तिकेयस्य वै नृप

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

123

अज्ञानाज जञानतॊ वापि सत्रिया वा पुरुषेण वा

यत किं चिद अशुभं कर्मकृतं मानुषबुद्धिना

124

तत सर्वं नश्यते तस्य सनातमात्रस्य भारत

अश्वमेध फलं चापि सवर्गलॊकं च गच्छति

125

पुण्यम आहुः कुरुक्षेत्रं कुरुक्षेत्रात सरस्वतीम

सरस्वत्याश च तीर्थानि तीर्थेभ्यश च पृथूदकम

126

उत्तमे सर्वतीर्थानां यस तयजेद आत्मनस तनुम

पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत

127

गीतं सनत कुमारेण वयासेन च महात्मना

वेदे च नियतं राजन अभिगच्छेत पृथूदकम

128

पृथूदकात पुण्यतमं नान्यत तीर्थं नरॊत्तम

एतन मेध्यं पवित्रं च पावनं च न संशयः

129

तत्र सनात्वा दिवं यान्ति अपि पापकृतॊ जनाः

पृथूदके नरश्रेष्ठ पराहुर एवं मनीषिणः

130

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम

तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत

131

ततॊ गच्छेन नरश्रेष्ठ तीर्थं देव्या यथाक्रमम

सरस्वत्यारुणायाश च संगमं लॊकविश्रुतम

132

तरिरात्रॊपॊषितः सनात्वा मुच्यते बरह्महत्यया

अग्निष्टॊमातिरात्राभ्यां फलं विन्दति मानवः

133

आ सप्तमं कुलं चैव पुनाति भरतर्षभ

अवतीर्णं च तत्रैव तीर्थं कुरुकुलॊद्वह

विप्राणाम अनुकम्पार्थं दर्भिणा निर्मितं पुरा

134

वरतॊपनयनाभ्यां वा उपवासेन वा दविजः

करिया मन्त्रैश च संयुक्तॊ बराह्मणः सयान न संशयः

135

करिया मन्त्रविहीनॊ ऽपि तत्र सनात्वा नरर्षभ

चीर्ण वरतॊ भवेद विप्रॊ दृष्टम एतत पुरातने

136

समुद्राश चापि चत्वारः समानीताश च दर्भिणा

येषु सनातॊ नरव्याघ्र न दुर्गतिम अवाप्नुयात

फलानि गॊसहस्राणां चतुर्णां विन्दते च सः

137

ततॊ गच्छेत राजेन्द्र तीर्थं शतसहस्रकम

साहस्रकं च तत्रैव दवे तीर्थे लॊकविश्रुते

138

उभयॊर हि नरः सनात्वा गॊसहस्रफलं भवेत

दानं वाप्य उपवासॊ वा सहस्रगुणितं भवेत

139

ततॊ गच्छेत राजेन्द्र रेणुका तीर्थम उत्तमम

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

सरव पापविशुद्धात्मा अग्निष्टॊम फलं लभेत

140

विमॊचनम उपस्पृश्य जितमन्युर जितेन्द्रियः

परतिग्रह कृतैर दॊषैर सर्वैः स परिमुच्यते

141

ततः पञ्च वटं गत्वा बरह्म चारी जितेन्द्रियः

पुण्येन महता युक्तः सतां लॊके महीयते

142

यत्र यॊगेश्वरः सथाणुः सवयम एव वृषध्वजः

तम अर्चयित्वा देवेशं गमनाद एव सिध्यति

143

औजसं वरुणं तीर्थं दीप्यते सवेन तेजसा

यत्र बरह्मादिभिर देवैर ऋषिभिश च तपॊधनैः

सेनापत्येन देवानाम अभिषिक्तॊ गुहस तदा

144

औजसस्य तु पूर्वेण कुरु तीर्थं कुरूद्वह

कुरु तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः

सर्वपापविशुद्धात्मा कुरु लॊकं परपद्यते

145

सवर्गद्वारं ततॊ गच्छेन नियतॊ नियताशनः

सवर्गलॊकम अवाप्नॊति बरह्मलॊकं च गच्छति

146

ततॊ गच्छेद अनरकं तीर्थसेवी नराधिप

तत्र सनात्वा नरॊ राजन न दुर्गतिम इवाप्नुयात

147

तत्र बरह्मा सवयं नित्यं देवैः सह महीपते

अन्वास्यते नरश्रेष्ठ नारायण पुरॊगमैः

148

सांनिध्यं चैव राजेन्द्र रुद्र पत्न्याः कुरूद्वह

अभिगम्य च तां देवीं न दुर्गतिम अवाप्नुयात

149

तत्रैव च महाराज विश्वेश्वरम उमापतिम

अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः

150

नारायणं चाभिगम्य पद्मनाभम अरिंदमम

शॊभमानॊ महाराज विष्णुलॊकं परपद्यते

151

तीर्थे तु सर्वदेवानां सनातः स पुरुषर्षभ

सर्वदुःखैः परित्यक्तॊ दयॊतते शशिवत सदा

152

ततः सवस्ति पुरं गच्छेत तीर्थसेवी नराधिप

पावनं तीर्थम आसाद्य तर्पयेत पितृदेवताः

अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः

153

गङ्गा हरदश च तत्रैव कूपश च भरतर्षभ

तिस्रः कॊट्यस तु तीर्थानां तस्मिन कूपे महीपते

तत्र सनात्वा नरॊ राजन सवर्गलॊकं परपद्यते

154

आपगायां नरः सनात्वा अर्चयित्वा महेश्वरम

गाणपत्यम अवाप्नॊति कुलं चॊद्धरते सवकम

155

ततः सथाणुवटं गच्छेत तरिषु लॊकेषु विश्रुतम

तत्र सनात्वा सथितॊ रात्रिं रुद्र लॊकम अवाप्नुयात

156

बदरी पाचनं गच्छेद वसिष्ठस्याश्रमं ततः

बदरं भक्षयेत तत्र तरिरात्रॊपॊषितॊ नरः

157

सम्यग दवादश वर्षाणि बदरान भक्षयेत तु यः

तरिरात्रॊपॊषितश चैव भवेत तुल्यॊ नराधिप

158

इन्द्र मार्गं समासाद्य तीर्थसेवी नराधिप

अहॊरात्रॊपवासेन शक्र लॊके महीयते

159

एकरात्रं समासाद्य एकरात्रॊषितॊ नरः

नियतः सत्यवादी च बरह्मलॊके महीयते

160

ततॊ गच्छेत धर्मज्ञ तीर्थं तरैलॊक्यविश्रुतम

आदित्यस्याश्रमॊ यत्र तेजॊराशेर महात्मनाः

161

तस्मिंस तीर्थे नरः सनात्वा पूजयित्वा विभावसुम

आदित्यलॊकं वरजति कुलं चैव समुद्धरेत

162

सॊमतीर्थे नरः सनात्वा तीर्थसेवी कुरूद्वह

सॊमलॊकम अवाप्नॊति नरॊ नास्त्य अत्र संशयः

163

ततॊ गच्छेत धर्मज्ञ दधीचस्य महात्मनाः

तीर्थं पुण्यतमं राजन पावनं लॊकविश्रुतम

164

यत्र सारस्वतॊ राजन सॊ ऽङगिरास तपसॊ निधिः

तस्मिंस तीर्थे नरः सनात्वा वाजपेयफलं लभेत

सारस्वतीं गतिं चैव लभते नात्र संशयः

165

ततः कन्याश्रमं गच्छेन नियतॊ बरह्मचर्यवान

तरिरात्रॊपॊषितॊ राजन्न उपवासपरायणः

लभेत कन्याशतं दिव्यं बरह्मलॊकं च गच्छति

166

यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः

मासि मासि समायान्ति पुण्येन महतान्विताः

167

संनिहित्याम उपस्पृश्य राहुग्रस्ते दिवाकरे

अश्वमेध शतं तेन इष्टं भवति शाश्वतम

168

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च

नद्यॊ नदास तडागाश च सर्वप्रस्रवणानि च

169

उदपानाश च वप्राश च पुण्यान्य आयतनानि च

मासि मासि समायान्ति संनिहित्यां न संशयः

170

यत किं चिद दुष्कृतं कर्म सत्रिया वा पुरुषस्य वा

सनातमात्रस्य तत सर्वं नश्यते नात्र संशयः

पद्मवर्णेन यानेन बरह्मलॊकं स गच्छति

171

अभिवाद्य ततॊ यक्षं दवारपालम अरन्तुकम

कॊटिरूपम उपस्पृश्य लभेद बहुसुवर्णकम

172

गङ्गा हरदश च तत्रैव तीर्थं भरतसत्तम

तत्र सनातस तु धर्मज्ञ बरह्म चारी समाहितः

राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम

173

पृथिव्यां नैमिषं पुण्यम अन्तरिक्षे च पुष्करम

तरयाणाम अपि लॊकानां कुरुक्षेत्रं विशिष्यते

174

पांसवॊ ऽपि कुरुक्षेत्रे वायुना समुदीरिताः

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम

175

दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम

ये वसन्ति कुरुक्षेत्रे ते वसन्ति तरिविष्टपे

176

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम

अप्य एकां वाचम उत्सृज्य सर्वपापैः परमुच्यते

177

बरह्म वेदी कुरुक्षेत्रं पुण्यं बरह्मर्षिसेवितम

तदावसन्ति ये राजन न ते शॊच्याः कथं चन

178

तरन्तुकारन्तुकयॊर यद अन्तरं; रामह्रदानां च मचक्रुकस्य

एतत कुरुक्षेत्रसमन्तपञ्चकं; पिता महस्यॊत्तर वेदिर उच्यते

1

[pulastya]

tato gaccheta rājendra kurukṣetram abhiṣṭutam

pāpebhyo vipramucyante tadgatāḥ sarvajantava

2

kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham

ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate

3

atra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira

yatra brahmādayo deva ṛṣayaḥ siddhacāraṇāḥ

4

gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate

brahma kṣetraṃ mahāpuṇyam abhigacchanti bhārata

5

manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira

pāpāṇi vipraṇaśyanti brahmalokaṃ ca gacchati

6

gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha

rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānava

7

tato macakrukaṃ rājan dvārapālaṃ mahābalam

yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet

8

tato gaccheta dharmajña viṣṇor sthānam anuttamam

satataṃ nāma rājendra yatra saṃnihito hari

9

tatra snātvārcayitvā ca trilokaprabhavaṃ harim

aśvamedham avāpnoti viṣṇulokaṃ ca gacchati

10

tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam

agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānava

11

pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet

tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa

daśāśvamedhike snātvā tad eva labhate phalam

12

sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam

agniṣṭomam avāpnoti nāgalokaṃ ca vindati

13

tato gaccheta dharmajña dvārapālaṃ tarantukam

tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet

14

tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ

koṭikīrtham upaspṛśya hayamedha phalaṃ labhet

aśvinos tīrtham āsādya rūpavān abhijāyate

15

tato gaccheta dharmajña vārāhaṃ tīrtham uttamam

viṣṇur vārāha rūpeṇa pūrvaṃ yatra sthito 'bhavat

tatra snātvā naravyāghra agniṣṭoma phalaṃ labhet

16

tato jayantyā rājendra somatīrthaṃ samāviśet

snātvā phalam avāpnoti rājasūyasya mānava

17

ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet

kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha

puṇḍarīkam avāpnoti kṛtaśauco bhaven nara

18

tato muñja vaṭaṃ nāma mahādevasya dhīmataḥ

tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt

19

tatraiva ca mahārāja yakṣī lokapariśrutā

tāṃ cābhigamya rājendra puṇyāṁl lokān avāpnuyāt

20

kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha

pradakṣiṇam upāvṛtya tīrthasevī samāhita

21

saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ

jāmadagnyena rāmeṇa āhṛte vai mahātmanā

kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati

22

tato rāmahradān gacchet tīrthasevī narādhipa

yatra rāmeṇa rājendra tarasā dīptatejasā

kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ

23

pūrayitvā naravyāghra rudhireṇeti naḥ śrutam

pitaras tarpitāḥ sarve tathaiva ca pitā mahāḥ

tatas te pitaraḥ prītā rāmam ūcur mahīpate

24

rama rāma mahābhāga prītāḥ sma tava bhārgava

anayā pitṛbhaktyā ca vikrameṇa ca te vibho

varaṃ vṛṇīva bhadraṃ te kim icchasi mahādyute

25

evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ

abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān

26

bhavanto yadi me prītā yady anugrāhyatā mayi

pitṛprasādād iccheyaṃ tapasāpyāyanaṃ puna

27

yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā

tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham

hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ

28

etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā

pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ

29

tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ

yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā

30

tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ

hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśaya

31

hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati

pitaras tasya vai prītā dāsyanti bhuvi durlabham

īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam

32

evaṃ dattvā varān rājan rāmasya pitaras tadā

āmantrya bhārgavaṃ prītās tatraivāntar dadhus tadā

33

evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanāḥ

snātvā hradeṣu rāmasya brahma cārī śubhavrataḥ

rāmam abhyarcya rājendra labhed bahusuvarṇakam

34

vaṃśamūlakam āsādya tīrthasevī kurūdvaha

svavaṃśam uddhared rājan snātvā vai vaṃśamūlake

35

kāyaśodhanam āsādya tīrthaṃ bharatasattama

śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ

śuddhadehaś ca saṃyāti śubhāṁl lokān anuttamān

36

tato gaccheta rājendra tīrthaṃ trailokyaviśrutam

lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabha viṣṇunā

37

lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam

snātvā tīrthavare rājaṁl lokān uddharate svakān

śrītīrthaṃ ca samāsādya vindate śriyam uttamām

38

kapilā tīrtham āsādya brahma cārī samāhitaḥ

tatra snātvārcayitvā ca daivatāni pitṝṃs tathā

kapilānāṃ sahasrasya phalaṃ vindati mānava

39

sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ

arcayitvā pitṝn devān upavāsaparāyaṇaḥ

agniṣṭomam avāpnoti sūryalokaṃ ca gacchati

40

gamāṃ bhavanam āsādya tīrthasevī yathākramam

tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet

41

aṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha

devyās tīrthe naraḥ snātvā labhate rūpam uttamam

42

tato gaccheta rājendra dvārapālam arantukam

tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanāḥ

tatra snātvā naro rājann agniṣṭoma phalaṃ labhet

43

tato gaccheta dharmajña brahmāvartaṃ narādhipa

brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt

44

tato gaccheta dharmajña sutīrthakam anuttamam

yatra saṃnihitā nityaṃ pitaro daivataiḥ saha

45

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ

aśvamedham avāpnoti pitṛlokaṃ ca gacchati

46

tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam

kośeśvarasya tīrtheṣu snātvā bharatasattama

sarvavyādhivinirmukto brahmaloke mahīyate

47

mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata

prajā vivardhate rājann anantāṃ cāśnute śriyam

48

tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ

tīrthaṃ tatra mahārāja mahad anyatra durlabham

49

punāti darśanād eva daṇḍenaikaṃ narādhipa

keśān abhyukṣya vai tasmin pūto bhavati bhārata

50

tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam

yataviprā naravyāghra vidvāṃsas tīrthatatparāḥ

51

vānalomāpanayane tīrthe bharatasattama

prāṇāyāmair nirharanti śvalomāni dvijottamāḥ

52

pūtātmānaś ca rājendra prayānti paramāṃ gatim

daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate

tatra snātvā naravyāghra gaccheta paramāṃ gatim

53

tato gaccheta rājendra mānuṣaṃ lokaviśrutam

yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ

avagāhya tasmin sarasi mānuṣatvam upāgatāḥ

54

tasmiṃs tīrthe naraḥ snātvā brahma cārī jitendriyaḥ

sarvapāpaviśuddhātmā svargaloke mahīyate

55

mānuṣasya tu pūrveṇa krośamātre mahīpate

āpagā nāma vikhyātā nadī siddhaniṣevitā

56

yāmāka bhojanaṃ tatra yaḥ prayacchati mānavaḥ

devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat

ekasmin bhojite vipre koṭir bhavati bhojitā

57

tatra snātvārcayitvā ca daivatāni pitṝṃs tathā

uṣitvā rajanīm ekām agniṣṭoma phalaṃ labhet

58

tato gaccheta rājendra brahmaṇaḥ sthānam uttamam

brahmodumbaram ity eva prakāśaṃ bhuvi bhārata

59

tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava

kedāre caiva rājendra kapiṣṭhala mahātmanāḥ

60

brahmāṇam abhigamyātha śuciḥ prayata mānasaḥ

sarvapāpaviśuddhātmā brahmalokaṃ prapadyate

61

kapiṣṭhalasya kedāraṃ samāsādya sudurlabham

antardhānam avāpnoti tapasā dagdhakilbiṣa

62

tato gaccheta rājendra sarakaṃ lokaviśrutam

kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam

labhate sarvakāmān hi svargalokaṃ ca gacchati

63

tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana

rudra koṭis tathā kūpe hradeṣu ca mahīpate

ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama

64

tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata

na durgatim avāpnoti vājapeyaṃ ca vindati

65

kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate

aprameyam avāpnoti dānaṃ japyaṃ ca bhārata

66

kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ

agniṣṭomasya yajñasya phalaṃ prāpnoti mānava

67

sarakasya tu pūrveṇa nāradasya mahātmanāḥ

tīrthaṃ kuru varaśreṣṭha anājanmeti viśrutam

68

tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata

nāradenābhyanujñāto lokān prāpnoti durlabhān

69

uklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet

tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet

70

tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam

tatra vaitaraṇī puṇyā nadī pāpapramocanī

71

tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam

sarvapāpaviśuddhātmā gaccheta paramāṃ gatim

72

tato gaccheta rājendra phalakī vanam uttamam

yatra devāḥ sadā rājan phalakī vanam āśritāḥ

tapaś caranti vipulaṃ bahuvarṣasahasrakam

73

dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ

agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata

74

tīrthe ca sarvadevānāṃ snātvā bharatasattama

gosahasrasya rājendra phalaṃ prāpnoti mānava

75

pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ

rājasūyam avāpnoti ṛṣilokaṃ ca gacchati

76

tato gaccheta rājendra miśrakaṃ tīrtham uttamam

tatra tīrthāni rājendra miśritāni mahātmanā

77

vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam

sarvatīrtheṣu sa snāti miśrake snāti yo nara

78

tato vyāsa vanaṃ gacchen niyato niyatāśanaḥ

manojave naraḥ snātvā gosahasraphalaṃ labhet

79

gatvā madhu vaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ

tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ

sa devyā samanujñāto gosahasraphalaṃ labhet

80

kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata

snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate

81

tato vyāsa sthalī nāma yatra vyāsena dhīmatā

putraśokābhitaptena dehatyāgārtha niścaya

82

kṛto devaiś ca rājendra punar utthāpitas tadā

abhigamya sthalīṃ tasya gosahasraphalaṃ labhet

83

kiṃ dattaṃ kūpam āsādya tilaprasthaṃ pradāya ca

gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha

84

ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe

tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt

85

mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam

tatra gaṅgā hrade snātvā samabhyarcya ca mānava

ś
lapāṇiṃ mahādevam aśvamedha phalaṃ labhet

86

deva tīrthe naraḥ snātvā gosahasraphalaṃ labhet

atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam

87

tatra viṣṇupade snātvā arcayitvā ca vāmanam

sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt

88

kulampune naraḥ snātvā punāti svakulaṃ naraḥ

pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam

tatra snātvā naravyāghra vāyuloke mahīyate

89

amarāṇāṃ hrade snātvā amareṣu narādhipa

amarāṇāṃ prabhāvena svargaloke mahīyate

90

ś
lihotrasya rājendra śāliśūrpe yathāvidhi

snātvā naravaraśreṣṭha gosahasraphalaṃ labhet

91

rīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama

tatra snātvā naro rājann agniṣṭoma phalaṃ labhet

92

tato naimiṣa kuñjaṃ ca samāsādya kurūdvaha

ayaḥ kila rājendra naimiṣeyās tapodhanāḥ

tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā

93

tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama

ṛṣīṇ
m avakāśaḥ syād yathā tuṣṭikaro mahān

94

tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet

kanyā tīrthe naraḥ snātvā agniṣṭoma phalaṃ labhet

95

tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam

tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ

brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim

96

tato gacchen naraśreṣṭha somatīrtham anuttamam

tatra snātvā naro rājan somalokam avāpnuyāt

97

sapta sārasvataṃ tīrthaṃ tato gacchen narādhipa

yatra maṅkaṇakaḥ siddho maharṣir lokaviśruta

98

purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam

kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat

99

sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ

pranṛttaḥ kila viprarṣir vismayotphullalocana

100

tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat

pranṛttam ubhayaṃ vīra tejasā tasya mohitam

101

brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ

vijñapto vai mahādeva ṛṣer arthe narādhipa

nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi

102

tataḥ pranṛttam āsādya harṣāviṣṭena cetasā

surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata

103

aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān

harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava

104

[rsi]

kiṃ na paśyasi me devakarāc chāka rasaṃ srutam

yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvita

105

[pulastya]

taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam

ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām

106

evam uktvā naraśreṣṭha mahādevena dhīmatā

aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha

107

tato bhasma kṣatād rājan nirgataṃ himasaṃnibham

tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gata

108

nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat

surāsurasya jagato gatis tvam asi śūladhṛk

109

tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sa carācaram

tvām eva bhagavan sarve praviśanti yugakṣaye

110

devair api na śakyas tvaṃ parijñātuṃ kuto mayā

tvayi sarve ca dṛśyante surā brahmādayo 'nagha

111

sarvas tvam asi lokānāṃ kartā kārayitā ca ha

tvatprasādāt surāḥ sarve modantīhākuto bhayāḥ

evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat

112

[rsi]

tvatprasādān mahādeva tapo me na kṣareta vai

113

[pulastya]

tato devaḥ prahṛṣṭtmā brahmarṣim idam abravīt

tapas te vardhatāṃ vipra matprasādāt sahasradhā

114

ā
rame ceha vatsyāmi tvayā sārdhaṃ mahāmune

sapta sārasvate snātvā arcayiṣyanti ye tu mām

115

na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca

sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśaya

116

tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam

yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ

117

kārtikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata

sāṃnidhyam akarot tatra bhārgava priyakāmyayā

118

kapālamocanaṃ tīrthaṃ sarvapāpapramocanam

tatra snātvā naravyāghra sarvapāpaiḥ pramucyate

119

agnitīrthaṃ tato gacchet tatra snātvā nararṣabha

agnilokam avāpnoti kulaṃ caiva samuddharet

120

viśvā mitrasya tatraiva tīrthaṃ bharatasattama

tatra snātvā mahārāja brāhmaṇyam abhijāyate

121

brahmayoniṃ samāsādya śuciḥ prayata mānasaḥ

tatra snātvā naravyāghra brahmalokaṃ prapadyate

punāty ā saptamaṃ caiva kulaṃ nāsty atra saṃśaya

122

tato gaccheta rājendra tīrthaṃ trailokyaviśrutam

pṛthūdakam iti khyātaṃ kārtikeyasya vai nṛpa

tatrābhiṣekaṃ kurvīta pitṛdevārcane rata

123

ajñānāj jñānato vāpi striyā vā puruṣeṇa vā

yat kiṃ cid aśubhaṃ karmakṛtaṃ mānuṣabuddhinā

124

tat sarvaṃ naśyate tasya snātamātrasya bhārata

aśvamedha phalaṃ cāpi svargalokaṃ ca gacchati

125

puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm

sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam

126

uttame sarvatīrthānāṃ yas tyajed ātmanas tanum

pṛthūdake japyaparo nainaṃ śvo maraṇaṃ tapet

127

gītaṃ sanat kumāreṇa vyāsena ca mahātmanā

vede ca niyataṃ rājan abhigacchet pṛthūdakam

128

pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama

etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśaya

129

tatra snātvā divaṃ yānti api pāpakṛto janāḥ

pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇa

130

madhusravaṃ ca tatraiva tīrthaṃ bharatasattama

tatra snātvā naro rājan gosahasraphalaṃ labhet

131

tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam

sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam

132

trirātropoṣitaḥ snātvā mucyate brahmahatyayā

agniṣṭomātirātrābhyāṃ phalaṃ vindati mānava

133

ā
saptamaṃ kulaṃ caiva punāti bharatarṣabha

avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha

viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā

134

vratopanayanābhyāṃ vā upavāsena vā dvijaḥ

kriyā mantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśaya

135

kriyā mantravihīno 'pi tatra snātvā nararṣabha

cīrṇa vrato bhaved vipro dṛṣṭam etat purātane

136

samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā

yeṣu snāto naravyāghra na durgatim avāpnuyāt

phalāni gosahasrāṇāṃ caturṇāṃ vindate ca sa

137

tato gaccheta rājendra tīrthaṃ śatasahasrakam

sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute

138

ubhayor hi naraḥ snātvā gosahasraphalaṃ bhavet

dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet

139

tato gaccheta rājendra reṇukā tīrtham uttamam

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ

srava pāpaviśuddhātmā agniṣṭoma phalaṃ labhet

140

vimocanam upaspṛśya jitamanyur jitendriyaḥ

pratigraha kṛtair doṣair sarvaiḥ sa parimucyate

141

tataḥ pañca vaṭaṃ gatvā brahma cārī jitendriyaḥ

puṇyena mahatā yuktaḥ satāṃ loke mahīyate

142

yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ

tam arcayitvā deveśaṃ gamanād eva sidhyati

143

aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā

yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ

senāpatyena devānām abhiṣikto guhas tadā

144

aujasasya tu pūrveṇa kuru tīrthaṃ kurūdvaha

kuru tīrthe naraḥ snātvā brahma cārī jitendriyaḥ

sarvapāpaviśuddhātmā kuru lokaṃ prapadyate

145

svargadvāraṃ tato gacchen niyato niyatāśanaḥ

svargalokam avāpnoti brahmalokaṃ ca gacchati

146

tato gacched anarakaṃ tīrthasevī narādhipa

tatra snātvā naro rājan na durgatim ivāpnuyāt

147

tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate

anvāsyate naraśreṣṭha nārāyaṇa purogamai

148

sāṃnidhyaṃ caiva rājendra rudra patnyāḥ kurūdvaha

abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt

149

tatraiva ca mahārāja viśveśvaram umāpatim

abhigamya mahādevaṃ mucyate sarvakilbiṣai

150

nārāyaṇaṃ cābhigamya padmanābham ariṃdamam

śobhamāno mahārāja viṣṇulokaṃ prapadyate

151

tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha

sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā

152

tataḥ svasti puraṃ gacchet tīrthasevī narādhipa

pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ

agniṣṭomasya yajñasya phalaṃ prāpnoti mānava

153

gaṅgā hradaś ca tatraiva kūpaś ca bharatarṣabha

tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate

tatra snātvā naro rājan svargalokaṃ prapadyate

154

pagāyāṃ naraḥ snātvā arcayitvā maheśvaram

gāṇapatyam avāpnoti kulaṃ coddharate svakam

155

tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam

tatra snātvā sthito rātriṃ rudra lokam avāpnuyāt

156

badarī pācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ

badaraṃ bhakṣayet tatra trirātropoṣito nara

157

samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ

trirātropoṣitaś caiva bhavet tulyo narādhipa

158

indra mārgaṃ samāsādya tīrthasevī narādhipa

ahorātropavāsena śakra loke mahīyate

159

ekarātraṃ samāsādya ekarātroṣito naraḥ

niyataḥ satyavādī ca brahmaloke mahīyate

160

tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam

ādityasyāśramo yatra tejorāśer mahātmanāḥ

161

tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum

ādityalokaṃ vrajati kulaṃ caiva samuddharet

162

somatīrthe naraḥ snātvā tīrthasevī kurūdvaha

somalokam avāpnoti naro nāsty atra saṃśaya

163

tato gaccheta dharmajña dadhīcasya mahātmanāḥ

tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam

164

yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ

tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet

sārasvatīṃ gatiṃ caiva labhate nātra saṃśaya

165

tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān

trirātropoṣito rājann upavāsaparāyaṇaḥ

labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati

166

yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ

māsi māsi samāyānti puṇyena mahatānvitāḥ

167

saṃnihityām upaspṛśya rāhugraste divākare

aśvamedha śataṃ tena iṣṭaṃ bhavati śāśvatam

168

pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca

nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca

169

udapānāś ca vaprāś ca puṇyāny āyatanāni ca

māsi māsi samāyānti saṃnihityāṃ na saṃśaya

170

yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā

snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ

padmavarṇena yānena brahmalokaṃ sa gacchati

171

abhivādya tato yakṣaṃ dvārapālam arantukam

koṭirūpam upaspṛśya labhed bahusuvarṇakam

172

gaṅgā hradaś ca tatraiva tīrthaṃ bharatasattama

tatra snātas tu dharmajña brahma cārī samāhitaḥ

rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam

173

pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram

trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate

174

pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ

api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim

175

dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm

ye vasanti kurukṣetre te vasanti triviṣṭape

176

kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham

apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate

177

brahma vedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam

tadāvasanti ye rājan na te śocyāḥ kathaṃ cana

178

tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya

etat kurukṣetrasamantapañcakaṃ; pitā mahasyottara vedir ucyate
hieroglyphics for king tut| egyptian hieroglyphics represent translation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 81