Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 149

Book 5. Chapter 149

The Mahabharata In Sanskrit


Book 5

Chapter 149

1

[व]

जनार्दनवचः शरुत्वा धर्मराजॊ युधिष्ठिरः

भरातॄन उवाच धर्मात्मा समक्षं केशवस्य ह

2

शरुतं भवद्भिर यद्वृत्तं सभायां कुरुसंसदि

केशवस्यापि यद वाक्यं तत सर्वम अवधारितम

3

तस्मात सेना विभागं मे कुरुध्वं नरसत्तमाः

अक्षौहिण्यस तु सप्तैताः समेता विजयाय वै

4

तासां मे पतयः सप्त विख्यातास तान निबॊधत

दरुपदश च विराटश च धृष्टद्युम्न शिखण्डिनौ

5

सात्यकिश चेकितानश च भीमसेनश च वीर्यवान

एते सेना परणेतारॊ वीराः सर्वे तनुत्यजः

6

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः

हरीमन्तॊ नीतिमन्तश च सर्वे युद्धविशारदाः

इष्वस्त्रकुशलाश चैव तथा सर्वास्त्रयॊधिनः

7

सप्तानाम अपि यॊ नेता सेनानां परविभागवित

यः सहेत रणे भीष्मं शरार्चिः पावकॊपमम

8

तवं तावत सहदेवात्र परब्रूहि कुरुनन्दन

सवमतं पुरुषव्याघ्र कॊ नः सेनापतिः कषमः

9

संयुक्त एकदुःखश च वीर्यवांश च महीपतिः

यं समाश्रित्य धर्मज्ञं सवम अंशम अनुयुञ्ज्महे

10

मत्स्यॊ विराटॊ बलवान कृतास्त्रॊ युद्धदुर्मदः

परसहिष्यति संग्रामे भीष्मं तांश च महारथान

11

तथॊक्ते सहदेवेन वाक्ये वाक्यविशारदः

नकुलॊ ऽनन्तरं तस्माद इदं वचनम आददे

12

वयसा शास्त्रतॊ धैर्यात कुलेनाभिजनेन च

हरीमान कुलान्वितः शरीमान सर्वशास्त्रविशारदः

13

वेद चास्त्रं भरद्वाजाद दुर्धर्षः सत्यसंगरः

यॊ नित्यं सपर्धते दरॊणं भीष्मं चैव महाबलम

14

शलाघ्यः पार्थिव संघस्य परमुखे वाहिनीपतिः

पुत्रपौत्रैः परिवृतः शतशाख इव दरुमः

15

यस तताप तपॊ घॊरं सदारः पृथिवीपतिः

रॊषाद दरॊण विनाशाय वीरः समितिशॊभनः

16

पितेवास्मान समाधत्ते यः सदा पार्थिवर्षभः

शवशुरॊ दरुपदॊ ऽसमाकं सेनाम अग्रे परकर्षतु

17

स दरॊण भीष्माव आयान्तौ सहेद इति मतिर मम

स हि दिव्यास्त्रविद राजा सखा चाङ्गिरसॊ नृपः

18

माद्री सुताभ्याम उक्ते तु सवमते कुरुनन्दनः

वासविर वासव समः सव्यसाच्य अब्रवीद वचः

19

यॊ ऽयं तपः परभावेन ऋषिसंतॊषणेन च

दिव्यः पुरुष उत्पन्नॊ जवाला वर्णॊ महाबलः

20

धनुष्मान कवची खङ्गी रथम आरुह्य दंशितः

दिव्यैर हयवरैर युक्तम अग्निकुण्डात समुत्थितः

21

गर्हन्न इव महामेघॊ रथघॊषेण वीर्यवान

सिंहसंहननॊ वीरः सिंहविक्रान्त विक्रमः

22

सिंहॊरस्कॊ महाबाहुः सिंहवक्षा महावलः

सिंहप्रगर्जनॊ वीरः सिंहस्कन्धॊ महाद्युतिः

23

सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहु सुमुखॊ ऽकृशः

सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः

24

अभेद्यः सर्वशस्त्राणां परभिन्न इव वारणः

जज्ञे दरॊण विनाशाय सत्यवादी जितेन्द्रियः

25

धृष्टद्युम्नम अहं मन्ये सहेद भीष्मस्य सायकान

वज्राशनिसमस्पर्शान दीप्तास्यान उरगान इव

26

यमदूत समान वेगे निपाते पावकॊपमान

रामेणाजौ विषहितान वज्रनिष्पेष दारुणान

27

पुरुषं तं न पश्यामि यः सहेत महाव्रतम

धृष्टद्युम्नम ऋते राजन्न इति मे धीयते मतिः

28

कषिप्रहस्तश चित्रयॊधी मतः सेनापतिर मम

अभेद्यकवचः शरीमान मातङ्ग इव यूथपः

29

वधार्थं यः समुत्पन्नः शिखण्डी दरुपदात्मजः

वदन्ति सिद्धा राजेन्द्र ऋषयश च समागताः

30

यस्य संग्राममध्येषु दिव्यम अस्त्रं विकुर्वतः

रूपं दरक्ष्यन्ति पुरुषा रामस्येव महात्मनः

31

न तं युद्धेषु पश्यामि यॊ विभिन्द्याच छिखण्डिनम

शस्त्रेण समरे राजन संनद्धं सयन्दने सथितम

32

दवैरथे विषहेन नान्यॊ भीष्मं राजन महाव्रतम

शिखण्डिनम ऋते वीरं स मे सेनापतिर मतः

33

सर्वस्य जगतस तात सारासारं बलाबलम

सर्वं जानाति धर्मात्मा गतम एष्यच च केशवः

34

यम आह कृष्णॊ दाशार्हः सॊ ऽसतु नॊ वाहिनीपतिः

कृतास्त्रॊ हय अकृतास्त्रॊ वा वृद्धॊ वा यदि वा युवा

35

एष नॊ विजये मूलम एष तात विपर्यये

अत्र पराणाश च राज्यं च भावाभावौ सुखासुखे

36

एष धाता विधाता च सिद्धिर अत्र परतिष्ठिता

यम आह कृष्णॊ दाशार्हः स नः सेनापतिः कषमः

बरवीतु वदतां शरेष्ठॊ निशा समतिवर्तते

37

ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम

रात्रिशेषे वयतिक्रान्ते परयास्यामॊ रणाजिरम

अधिवासित शस्त्राश च कृतकौतुक मङ्गलाः

38

तस्य तद वचनं शरुत्वा धर्मराजस्य धीमतः

अब्रवीत पुण्डरीकाक्षॊ धनंजयम अवेक्ष्य ह

39

ममाप्य एते महाराज भवद्भिर य उदाहृताः

नेतारस तव सेनायाः शूरा विक्रान्तयॊधिनः

सर्व एते समर्था हि तव शत्रून परमर्दितुम

40

इन्द्रस्यापि भयं हय एते जनयेयुर महाहवे

किं पुनर धार्तराष्ट्राणां लुब्धानां पापचेतसाम

41

महापि हि महाबाहॊ तवत्प्रियार्थम अरिंदम

कृतॊ यत्नॊ महांस तत्र शमः सयाद इति भारत

धर्मस्य गतम आनृण्यं न सम वाच्या विवक्षताम

42

कृतार्थं मन्यते बालः सॊ ऽऽतमानम अविचक्षणः

धार्तराष्ट्रॊ बलस्थं च मन्यते ऽऽतमानम आतुरः

43

युज्यतां वाहिनी साधु वधसाध्या हि ते मताः

न धार्तराष्ट्राः शक्ष्यन्ति सथातुं दृष्ट्वा धनंजयम

44

भीमसेनं च संक्रुद्धं यमौ चापि यमॊपमौ

युयुधान दवितीयं च धृष्टद्युम्नम अमर्षणम

45

अभिमन्युं दरौपदेयान विराटद्रुपदाव अपि

अक्षौहिणीपतींश चान्यान नरेन्द्रान दृढविक्रमान

46

सारवद बलम अस्माकं दुष्प्रधर्षं दुरासदम

धार्तराष्ट्र बलं संख्ये वधिष्यति न संशयः

47

एवम उक्ते तु केष्णेन संप्रहृष्यन नरॊत्तमाः

तेषां परहृष्टमनसां नादः समभवन महान

48

यॊग इत्य अथ सैन्यानां तवरतां संप्रधावताम

हयवारणशब्दश च नेमिघॊषश च सर्वशः

शङ्खदुन्दुभिनिर्घॊषस तुमुलः सर्वतॊ ऽभवत

49

परयास्यतां पाण्डवानां ससैन्यानां समन्ततः

गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी

50

अग्रानीके भीमसेनॊ माद्रीपुत्रौ च दंशितौ

सौभद्रॊ दरौपदेयाश च धृष्टद्युम्नश च पार्षतः

परभद्रकाश च पाञ्चाला भीमसेनमुखा ययुः

51

ततः शब्दः समभवत समुद्रस्येव पर्वणि

हृष्टानां संप्रयातानां घॊषॊ दिवम इवास्पृशत

52

परहृष्टा दंशिता यॊधाः परानीक विदारणाः

तेषां मध्ये ययौ राजा कुन्तीपुत्रॊ युधिष्ठिरः

53

शकटापण वेशाश च यानयुग्यं च सर्वशः

कॊशयन्त्रायुधं चैव ये च वैद्याश चिकित्सकाः

54

फल्गु यच च बलं किं चित तथैव कृश दुर्बलम

तत संगृह्य ययौ राजा य चापि परिचारकाः

55

उपप्लव्ये तु पाञ्चाली दरौपदी सत्यवादिनी

सह सत्रीभिर निववृते दासीदास समावृता

56

कृत्वा मूलप्रतीकारान गुल्मैः सथावरजङ्गमैः

सकन्धावारेण महता परययुः पाण्डुनन्दनाः

57

ददतॊ गां हिरण्यं च बराह्मणैर अभिसंवृताः

सतूयमाना ययू राजन रथैर मणिविभूषितैः

58

केकया धृष्टकेतुश च पुत्रः काश्यस्य चाभिभूः

शरेणिमान वसु दानश च शिखण्डी चापराजितः

59

हृष्टास तुष्टाः कवचिनः सशस्त्राः समलंकृताः

राजानम अन्वयुः सर्वे परिवार्य युधिष्ठिरम

60

जघनार्धे विराटश च यज्ञसेनश च सॊमकिः

सुधर्मा कुन्तिभॊजश च धृष्टद्युम्नस्य चात्मजाः

61

रथायुतानि चत्वारि हयाः पञ्च गुणास ततः

पत्तिसैन्यं दशगुणं सादिनाम अयुतानि षट

62

अनाधृष्टिश चेकितानश चेदिराजॊ ऽथ सात्यकिः

परिवार्य ययुः सर्वे वासुदेवधनंजयौ

63

आसाद्य तु कुरुक्षेत्रं वयूढानीकाः परहारिणः

पाण्डवाः समदृश्यन्त नर्दन्तॊ वृषभा इव

64

ते ऽवगाह्य कुरुक्षेत्रं शङ्खान दध्मुर अरिंदमाः

तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ

65

पाञ्चजन्यस्य निर्घॊषं विस्फूर्जितम इवाशनेः

निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः

66

शङ्खदुन्दुभिसंसृष्टः सिंहनादस तरस्विनाम

पृथिवीं चान्तरिक्षं च सागरांश चान्वनादयत

67

तदॊ देशे समे सनिग्धे परभूतयवसेन्धने

निवेशयाम आस तदा सेनां राजा युधिष्ठिरः

68

परिहृत्य शमशानानि देवतायतनानि च

आश्रमांश च महर्षीणां तीर्थान्य आयतनानि च

69

मधुरानूषरे देशे शिवे पुण्ये महीपतिः

निवेशं कारयाम आस कुन्तीपुत्रॊ युधिष्ठिरः

70

ततश च पुनर उत्थाय सुखी विश्रान्त वाहनः

परययौ पृथिवीपालैर वृतः शतसहस्रशः

71

विद्राव्य शतशॊ गुल्मान धार्तराष्ट्रस्य सैनिकान

पर्यक्रामत समन्ताच च पार्थेन सह केशवः

72

शिबिरं मापयाम आस धृष्टद्युम्नश च पार्षतः

सात्यकिश च रथॊदारॊ युयुधानः परतापवान

73

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम

सूपतीर्थाम शुचि जलां शर्करा पङ्कवर्जिताम

74

खानयाम आस परिखां केशवस तत्र भारत

गुप्त्यर्थम अपि चादिश्य बलं तत्र नयवेशयत

75

विधिर यः शिबिरस्यासीत पाण्डवानां महात्मनाम

तद विधानि नरेन्द्राणां कारयाम आस केशवः

76

परभूतजलकाष्ठानि दुराधर्षतराणि च

भक्ष्यभॊज्यॊपपन्नानि शतशॊ ऽथ सहस्रशः

77

शिबिराणि महार्हाणि राज्ञां तत्र पृथक पृथक

विमानानीव राजेन्द्र निविष्टानि महीतले

78

तत्रासञ शिल्पिनः पराज्ञाः शतशॊ दत्तवेतनाः

सर्व औपकरणैर युक्ता वैद्याश च सुविशारदाः

79

जया धनुर्वर्म शस्त्राणां तथैव मधुसर्पिषॊः

ससर्ज रसपांसूनां राशयः पर्वतॊपमाः

80

बहूदकं सुयवसं तुषाङ्गार समन्वितम

शिबिरे शिबिरे राजा संचकार युधिष्ठिरः

81

महायन्त्राणि नाराचास तॊमरर्ष्टि परश्वधाः

धनूंषि कवचादीनि हृद्य अभूवन नृणां तदा

82

गजाः कङ्कट संनाहा लॊहवर्मॊत्तरच छदाः

अदृश्यंस तत्र गिर्याभाः सहस्रशतयॊधिनः

83

निविष्टान पाण्डवांस तत्र जञात्वा मित्राणि भारत

अभिसस्रुर यथॊद्देशं सबलाः सहवाहनाः

84

चरितब्रह्म चर्यास ते सॊमपा भूरिदक्षिणाः

जयाय पाण्डुपुत्राणां समाजग्मुर महीक्षितः

1

[v]

janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ

bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha

2

rutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi

keśavasyāpi yad vākyaṃ tat sarvam avadhāritam

3

tasmāt senā vibhāgaṃ me kurudhvaṃ narasattamāḥ

akṣauhiṇyas tu saptaitāḥ sametā vijayāya vai

4

tāsāṃ me patayaḥ sapta vikhyātās tān nibodhata

drupadaś ca virāṭaś ca dhṛṣṭadyumna śikhaṇḍinau

5

sātyakiś cekitānaś ca bhīmasenaś ca vīryavān

ete senā praṇetāro vīrāḥ sarve tanutyaja

6

sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ

hrīmanto nītimantaś ca sarve yuddhaviśāradāḥ

iṣvastrakuśalāś caiva tathā sarvāstrayodhina

7

saptānām api yo netā senānāṃ pravibhāgavit

yaḥ saheta raṇe bhīṣmaṃ śarārciḥ pāvakopamam

8

tvaṃ tāvat sahadevātra prabrūhi kurunandana

svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣama

9

saṃyukta ekaduḥkhaś ca vīryavāṃś ca mahīpatiḥ

yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe

10

matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ

prasahiṣyati saṃgrāme bhīṣmaṃ tāṃś ca mahārathān

11

tathokte sahadevena vākye vākyaviśāradaḥ

nakulo 'nantaraṃ tasmād idaṃ vacanam ādade

12

vayasā śāstrato dhairyāt kulenābhijanena ca

hrīmān kulānvitaḥ śrīmān sarvaśāstraviśārada

13

veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ

yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam

14

lāghyaḥ pārthiva saṃghasya pramukhe vāhinīpatiḥ

putrapautraiḥ parivṛtaḥ śataśākha iva druma

15

yas tatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ

roṣād droṇa vināśāya vīraḥ samitiśobhana

16

pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ

śvaśuro drupado 'smākaṃ senām agre prakarṣatu

17

sa droṇa bhīṣmāv āyāntau sahed iti matir mama

sa hi divyāstravid rājā sakhā cāṅgiraso nṛpa

18

mādrī sutābhyām ukte tu svamate kurunandanaḥ

vāsavir vāsava samaḥ savyasācy abravīd vaca

19

yo 'yaṃ tapaḥ prabhāvena ṛṣisaṃtoṣaṇena ca

divyaḥ puruṣa utpanno jvālā varṇo mahābala

20

dhanuṣmān kavacī khaṅgī ratham āruhya daṃśitaḥ

divyair hayavarair yuktam agnikuṇḍāt samutthita

21

garhann iva mahāmegho rathaghoṣeṇa vīryavān

siṃhasaṃhanano vīraḥ siṃhavikrānta vikrama

22

siṃhorasko mahābāhuḥ siṃhavakṣā mahāvalaḥ

siṃhapragarjano vīraḥ siṃhaskandho mahādyuti

23

subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhu sumukho 'kṛśaḥ

sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhita

24

abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ

jajñe droṇa vināśāya satyavādī jitendriya

25

dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān

vajrāśanisamasparśān dīptāsyān uragān iva

26

yamadūta samān vege nipāte pāvakopamān

rāmeṇājau viṣahitān vajraniṣpeṣa dāruṇān

27

puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam

dhṛṣṭadyumnam ṛte rājann iti me dhīyate mati

28

kṣiprahastaś citrayodhī mataḥ senāpatir mama

abhedyakavacaḥ śrīmān mātaṅga iva yūthapa

29

vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ

vadanti siddhā rājendra ṛṣayaś ca samāgatāḥ

30

yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ

rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmana

31

na taṃ yuddheṣu paśyāmi yo vibhindyāc chikhaṇḍinam

śastreṇa samare rājan saṃnaddhaṃ syandane sthitam

32

dvairathe viṣahen nānyo bhīṣmaṃ rājan mahāvratam

śikhaṇḍinam ṛte vīraṃ sa me senāpatir mata

33

sarvasya jagatas tāta sārāsāraṃ balābalam

sarvaṃ jānāti dharmātmā gatam eṣyac ca keśava

34

yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ

kṛtāstro hy akṛtāstro vā vṛddho vā yadi vā yuvā

35

eṣa no vijaye mūlam eṣa tāta viparyaye

atra prāṇāś ca rājyaṃ ca bhāvābhāvau sukhāsukhe

36

eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā

yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ

bravītu vadatāṃ śreṣṭho niśā samativartate

37

tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam

rātriśeṣe vyatikrānte prayāsyāmo raṇājiram

adhivāsita śastrāś ca kṛtakautuka maṅgalāḥ

38

tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ

abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha

39

mamāpy ete mahārāja bhavadbhir ya udāhṛtāḥ

netāras tava senāyāḥ śūrā vikrāntayodhinaḥ

sarva ete samarthā hi tava śatrūn pramarditum

40

indrasyāpi bhayaṃ hy ete janayeyur mahāhave

kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām

41

mahāpi hi mahābāho tvatpriyārtham ariṃdama

kṛto yatno mahāṃs tatra śamaḥ syād iti bhārata

dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām

42

kṛtārthaṃ manyate bālaḥ so 'tmānam avicakṣaṇaḥ

dhārtarāṣṭro balasthaṃ ca manyate 'tmānam ātura

43

yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ

na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam

44

bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau

yuyudhāna dvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam

45

abhimanyuṃ draupadeyān virāṭadrupadāv api

akṣauhiṇīpatīṃś cānyān narendrān dṛḍhavikramān

46

sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam

dhārtarāṣṭra balaṃ saṃkhye vadhiṣyati na saṃśaya

47

evam ukte tu keṣṇena saṃprahṛṣyan narottamāḥ

teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavan mahān

48

yoga ity atha sainyānāṃ tvaratāṃ saṃpradhāvatām

hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ

śaṅkhadundubhinirghoṣas tumulaḥ sarvato 'bhavat

49

prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ

gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī

50

agrānīke bhīmaseno mādrīputrau ca daṃśitau

saubhadro draupadeyāś ca dhṛṣṭadyumnaś ca pārṣataḥ

prabhadrakāś ca pāñcālā bhīmasenamukhā yayu

51

tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi

hṛṣṭnāṃ saṃprayātānāṃ ghoṣo divam ivāspṛśat

52

prahṛṣṭā daṃśitā yodhāḥ parānīka vidāraṇāḥ

teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhira

53

akaṭāpaṇa veśāś ca yānayugyaṃ ca sarvaśaḥ

kośayantrāyudhaṃ caiva ye ca vaidyāś cikitsakāḥ

54

phalgu yac ca balaṃ kiṃ cit tathaiva kṛśa durbalam

tat saṃgṛhya yayau rājā ya cāpi paricārakāḥ

55

upaplavye tu pāñcālī draupadī satyavādinī

saha strībhir nivavṛte dāsīdāsa samāvṛtā

56

kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ

skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ

57

dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ

stūyamānā yayū rājan rathair maṇivibhūṣitai

58

kekayā dhṛṣṭaketuś ca putraḥ kāśyasya cābhibhūḥ

reṇimān vasu dānaś ca śikhaṇḍī cāparājita

59

hṛṣṭs tuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ

rājānam anvayuḥ sarve parivārya yudhiṣṭhiram

60

jaghanārdhe virāṭaś ca yajñasenaś ca somakiḥ

sudharmā kuntibhojaś ca dhṛṣṭadyumnasya cātmajāḥ

61

rathāyutāni catvāri hayāḥ pañca guṇās tataḥ

pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣa

62

anādhṛṣṭiś cekitānaś cedirājo 'tha sātyakiḥ

parivārya yayuḥ sarve vāsudevadhanaṃjayau

63

sādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ

pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva

64

te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ

tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau

65

pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ

niśamya sarvasainyāni samahṛṣyanta sarvaśa

66

aṅkhadundubhisaṃsṛṣṭaḥ siṃhanādas tarasvinām

pṛthivīṃ cāntarikṣaṃ ca sāgarāṃś cānvanādayat

67

tado deśe same snigdhe prabhūtayavasendhane

niveśayām āsa tadā senāṃ rājā yudhiṣṭhira

68

parihṛtya śmaśānāni devatāyatanāni ca

āśramāṃś ca maharṣīṇāṃ tīrthāny āyatanāni ca

69

madhurānūṣare deśe śive puṇye mahīpatiḥ

niveśaṃ kārayām āsa kuntīputro yudhiṣṭhira

70

tataś ca punar utthāya sukhī viśrānta vāhanaḥ

prayayau pṛthivīpālair vṛtaḥ śatasahasraśa

71

vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān

paryakrāmat samantāc ca pārthena saha keśava

72

ibiraṃ māpayām āsa dhṛṣṭadyumnaś ca pārṣataḥ

sātyakiś ca rathodāro yuyudhānaḥ pratāpavān

73

sādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm

sūpatīrthām śuci jalāṃ śarkarā paṅkavarjitām

74

khānayām āsa parikhāṃ keśavas tatra bhārata

guptyartham api cādiśya balaṃ tatra nyaveśayat

75

vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām

tad vidhāni narendrāṇāṃ kārayām āsa keśava

76

prabhūtajalakāṣṭhāni durādharṣatarāṇi ca

bhakṣyabhojyopapannāni śataśo 'tha sahasraśa

77

ibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak

vimānānīva rājendra niviṣṭāni mahītale

78

tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ

sarv aupakaraṇair yuktā vaidyāś ca suviśāradāḥ

79

jyā dhanurvarma śastrāṇāṃ tathaiva madhusarpiṣoḥ

sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ

80

bahūdakaṃ suyavasaṃ tuṣāṅgāra samanvitam

śibire śibire rājā saṃcakāra yudhiṣṭhira

81

mahāyantrāṇi nārācās tomararṣṭi paraśvadhāḥ

dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā

82

gajāḥ kaṅkaṭa saṃnāhā lohavarmottarac chadāḥ

adṛśyaṃs tatra giryābhāḥ sahasraśatayodhina

83

niviṣṭān pāṇḍavāṃs tatra jñātvā mitrāṇi bhārata

abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ

84

caritabrahma caryās te somapā bhūridakṣiṇāḥ

jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ
hanti parva of mahabharata| hanti parva of mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 149