Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 165

Book 7. Chapter 165

The Mahabharata In Sanskrit


Book 7

Chapter 165

1

[स]

करूरम आयॊधनं जज्ञे तस्मिन राजसमागमे

रुद्रस्येव हि करुद्धस्य निघ्नतस तु पशून यथा

2

हस्तानाम उत्तमाङ्गानां कार्मुकाणां च भारत

छत्राणां चापविद्धानां चामराणां च संयुगे

3

भग्नचक्रै रथैश चापि पातितैश च महाध्वजैः

सादिभिश च हतैः शूरैः संकीर्णा वसुधाभवत

4

बाणपात निकृत्तास तु यॊधास ते कुरुसत्तम

चेष्टन्तॊ विविधाश चेष्टा वयदृश्यन्त महाहवे

5

वर्तमाने तथा युद्धे घॊरे देवासुरॊपमे

अब्रवीत कषत्रियांस तत्र धर्मराजॊ युधिष्ठिरः

अभिद्रवत संयत्ताः कुम्भयॊनिं महारथाः

6

एष वै पार्षतॊ वीरॊ भारद्वाजेन संगतः

घटते च यथाशक्ति भारद्वाजस्य नाशने

7

यादृशानि हि रूपाणि दृश्यन्ते नॊ महारणे

अद्य दरॊणं रणे करुद्धः पातयिष्यति पार्षतः

ते यूयं सहिता भूत्वा कुम्भयॊनिं परीप्सत

8

युधिष्ठिर समाज्ञप्ताः सृञ्जयानां महारथाः

अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः

9

तान समापततः सर्वान भारद्वाजॊ महारथः

अभ्यद्रवत वेगेन मर्तव्यम इति निश्चितः

10

परयाते सत्यसंधे तु समकम्पत मेदिनी

ववुर वाताः स निर्घातास तरासयन्ति वरूथिनीम

11

पपात महती चॊल्का आदित्यान निर्गतेव ह

दीपयन्तीव तापेन शंसन्तीव महद भयम

12

जज्वलुश चैव शस्त्राणि भारद्वाजस्य मारिष

रथाः सवनन्ति चात्यर्थं हयाश चाश्रूण्य अवासृजन

13

हतौजा इव चाप्य आसीद भारद्वाजॊ महारथः

ऋषीणां बरह्मवादानां सवर्गस्य गमनं परति

सुयुद्धेन ततः पराणान उत्स्रष्टुम उपचक्रमे

14

ततश चतुर्दिशं सैन्यैर दरुपदस्याभिसंवृतः

निर्दहन कषत्रिय वरातान दरॊणः पर्यचरद रणे

15

हत्वा विंशतिसाहस्रान कषत्रियान अरिमर्दनः

दशायुतानि तीक्ष्णाग्रैर अवधीद विशिखैः शितैः

16

सॊ ऽतिष्ठद आहवे यत्तॊ विधूम इव पावकः

कषत्रियाणाम अभावाय बराह्मम आत्मानम आस्थितः

17

पाञ्चाल्यं विरथं भीमॊ हतसर्वायुधं वशी

अविषण्णं महात्मानं तवरमाणः समभ्ययात

18

ततः सवरथम आरॊप्य पाञ्चाल्यम अरिमर्दनः

अब्रवीद अभिसंप्रेक्ष्य दरॊणम अस्यन्तम अन्तिकात

19

न तवदन्य इहाचार्यं यॊद्धुम उत्सहते पुमान

तवरस्व पराग वधायैव तवयि भारः समाहितः

20

स तथॊक्तॊ महाबाहुः सर्वभारसहं नवम

अभिपत्याददे कषिप्रम आयुधप्रवरं दृढम

21

संरब्धश चशरान अस्यन दरॊणं दुर्वारणं रणे

विवारयिषुर आचार्यं शरवर्षैर अवाकिरत

22

तौ नयवारयतां शरेष्ठौ संरब्धौ रणशॊभिनौ

उदीरयेतां बराह्माणि दिव्यान्य अस्त्राण्य अनेकशः

23

स महास्त्रैर महाराज दरॊणम आच्छादयद रणे

निहत्य सर्वाण्य अस्त्राणि भारद्वाजस्य पार्षतः

24

स वसातीञ शिबींश चैव बाह्लीकान कौरवान अपि

रक्षिष्यमाणान संग्रामे दरॊणं वयधमद अच्युतः

25

धृष्टद्युम्नस तदा राजन गभस्तिभिर इवांशुमान

बभौ परच्छादयन नाशाः शरजालैः समन्ततः

26

तस्य दरॊणॊ धनुश छित्त्वा विद्ध्वा चैनं शिलीमुखैः

मर्माण्य अभ्यहनद भूयः स वयथां परमाम अगात

27

ततॊ भीमॊ दृढक्रॊधॊ दरॊणस्याल्शिष्य तं रथम

शनकैर इव राजेन्द्र दरॊणं वचनम अब्रवीत

28

यदि नाम न युध्येरञ शिक्षिता बरह्म बन्धवः

सवकर्मभिर असंतुष्टा न सम कषत्रं कषयं वरजेत

29

अहिंसा सर्वभूतेषु धर्मं जयायस्तरं विदुः

तस्य च बराह्मणॊ मूलं भवांश च बरह्मवित्तमः

30

शवपाकवन मलेच्छ गणान हत्वा चान्यान पृथग्विधान

अज्ञानान मूढवद बरह्मन पुत्रदारधनेप्सया

31

एकस्यार्थे बहून हत्वा पुत्रस्याधर्मविद यथा

सवकर्मस्थान विकर्मस्थॊ न वयपत्रपसे कथम

32

स चाद्य पतितः शेते पृष्टेनावेदितस तव

धर्मराजेन तद वाक्यं नातिशङ्कितुम अर्हसि

33

एवम उक्तस ततॊ दरॊणॊ भीमेनॊत्सृज्य तद धनुः

सर्वाण्य अस्त्राणि धर्मात्मा हातु कामॊ ऽभयभाषत

कर्ण कर्ण महेष्वास कृप दुर्यॊधनेति च

34

संग्रामे करियतां यत्नॊ बरवीम्य एष पुनः पुनः

पाण्डवेभ्यः शिवं वॊ ऽसतु शस्त्रम अभ्युत्सृजाम्य अहम

35

इति तत्र महाराज पराक्रॊशद दरौणिम एव च

उत्सृज्य च रणे शस्त्रं रथॊपस्थे निवेश्य च

अभयं सर्वभूतानां परददौ यॊगयुक्तवान

36

तस्य तच छिद्रम आज्ञाय धृष्टद्युम्नः समुत्थितः

खड्गी रथाद अवप्लुत्य सहसा दरॊणम अभ्ययात

37

हाहाकृतानि भूतानि मानुषाणीतराणि च

दरॊणं तथागतं दृष्ट्वा धृष्टद्युम्न वशंगतम

38

हाहाकारं भृशं चक्रुर अहॊ धिग इति चाब्रुवन

दरॊणॊ ऽपि शस्त्राण्य उत्सृज्य परमं साम्यम आस्थितः

39

तथॊक्त्वा यॊगम आस्थाय जयॊतिर भूतॊ महातपाः

दिवम आक्रामद आचार्यः सद्भिः सह दुराक्रमम

40

दवौ सूर्याव इति नॊ बुद्धिर आसीत तस्मिंस तथागते

एकाग्रम इव चासीद धि जयॊतिर्भिः पूरितं नभः

समपद्यत चार्काभे भारद्वाज निशाकरे

41

निमेष मात्रेण च तज जयॊतिर अन्तरधीयत

आसीत किलकिला शब्दः परहृष्टानां दिवौकसाम

बरह्मलॊकं गते दरॊणे धृष्टद्युम्ने च मॊहिते

42

वयम एव तदाद्राक्ष्म पञ्च मानुषयॊनयः

यॊगयुक्तं महात्मानं गच्छन्तं परमां गतिम

43

अहं धनंजयः पार्थः कृपः शारद्वतॊ दविजः

वासुदेवश च वार्ष्णेयॊ धर्मराजश च पाण्डवः

44

अन्ये तु सर्वे नापश्यन भारद्वाजस्य धीमतः

महिमानं महाराज यॊगमुक्तस्य गच्छतः

45

गतिं परमिकां पराप्तम अजानन्तॊ नृयॊनयः

नापश्यन गच्छमानं हि तं सार्धम ऋषिपुंगवैः

आचार्यं यॊगम आस्थाय बरह्मलॊकम अरिंदमम

46

वितुन्नाङ्गं शरशतैर नयस्तायुधम असृक कषरम

धिक्कृतः पार्तषस तं तु सर्वभूतैः परामृशत

47

तस्य मूर्धानम आलम्ब्य गतसत्त्वस्य देहिनः

किं चिद अब्रुवतः कायाद विचकर्तासिना शिरः

48

हर्षेण महता युक्तॊ भारद्वाजे निपातिते

सिंहनाद रवं चक्रे भामयन खड्गम आहवे

49

आकर्णपलितः शयामॊ वयसाशीति पञ्चकः

तवत्कृते वयचरत संख्ये स तु षॊडद वर्षवत

50

उक्तवांश च महाबाहुः कुन्तीपुत्रॊ धनंजयः

जीवन्तम आनयाचार्यं मा वधीर दरुपदात्मजः

51

न हन्तव्यॊ न हन्तव्य इति ते सैनिकाश च ह

उत्क्रॊशन्न अर्जुनश चैव सानुक्रॊशस तम आद्रवत

52

करॊशमाने ऽरजुने चैव पार्थिवेषु च सर्वशः

धृष्टद्युम्नॊ ऽवधीद दरॊणं रथतल्पे नरर्षभम

53

शॊणितेन परिक्लिन्नॊ रथाद भूमिम अरिंदमः

लॊहिताङ्ग इवादित्यॊ दुर्दर्शः समपद्यत

एवं तं निहतं संख्ये ददृशे सैनिकॊ जनः

54

धेष्टद्युम्नस तु तद राजन भारद्वाज शिरॊमहत

तावकानां महेष्वासः परमुखे तत समाक्षिपत

55

ते तु दृष्ट्वा शिरॊ राजन भारद्वाजस्य तावकाः

पलायनकृतॊत्साहा दुद्रुवुः सर्वतॊदिशम

56

दरॊणस तु दिवम आस्थाय नक्षत्रपथम आविशत

अहम एव तदाद्राक्षं दरॊणस्य निधनं नृप

57

ऋषेः परसादात कृष्णस्य सत्यवत्याः सुतस्य च

विधूमाम इव संयान्तीम उल्कां परज्वलिताम इव

अपश्याम दिवं सतब्ध्वा गच्छन्तं तं महाद्युतिम

58

हते दरॊणे निरुत्साहान कुरून पाण्डव सृञ्जयाः

अभ्यद्रवन महावेगास ततः सैन्यं वयदीर्यत

59

निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः

तावका निहते दरॊणे गतासव इवाभवन

60

पराजयम अथावाप्य परत्र च महद भयम

उभयेनैव ते हीना नाविन्दन धृतिम आत्मनः

61

अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः

नाध्यगच्छंस तदा राजन कबन्धायुत संकुले

62

पाण्डवास तु जयं लब्ध्वा परत्र च महद यशः

बाणशब्दरवांश चक्रुः सिंहनादांश च पुष्कलान

63

भीमसेनस ततॊ राजन धृष्टद्युम्नश च पार्षतः

वरूथिन्याम अनृत्येतां परिष्वज्य परस्परम

64

अब्रवीच च तदा भीमः पार्षतं शत्रुतापनम

भूयॊ ऽहं तवां विजयिनं परिष्वक्ष्यामि पार्षत

सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे

65

एतावद उक्त्वा भीमस तु हर्षेण महता युतः

बाहुशब्देन पृथिवीं कम्पयाम आस पाण्डवः

66

तस्य शब्देन वित्रस्ताः पराद्रवंस तावका युधि

कषत्रधर्मं समुत्सृज्य पलायनपरायणाः

67

पाण्डवास तु जयं लब्ध्वा हृष्टा हय आसन विशां पते

अरिक्षयं च संग्रामे तेन ते सुखम आप्नुवन

68

ततॊ दरॊणे हते राजन कुरवः शस्त्रपीडिताः

हतप्रवीरा विध्वस्ता भृशं शॊकपरायणाः

69

विचेतसॊ हतॊत्साहाः कश्मलाभिहतौजसः

आर्तस्वरेण महता पुत्रं ते पर्यवारयन

70

रजस्वला वेपमाना वीक्षमाणा दिशॊ दश

अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते

71

स तैः परिवृतॊ राजा तरस्तैः कषुद्रमृगैर इव

अशक्नुवन्न अवस्थातुम अपायात तनयस तव

72

कषुत्पिपासापरिश्रान्तास ते यॊधास तव भारत

आदित्येन च संतप्ता भृशं विमनसॊ ऽभवन

73

भास्करस्येव पतनं समुद्रस्येव शॊषणम

विपर्यासं यथा मेरॊर वासवस्येव निर्जयम

74

अमर्षणीयं तद दृष्ट्वा भारद्वाजस्य पातनम

तरस्तरूपतरा राजन कौरवाः पराद्रवन भयात

75

गान्धारराजः शकुनिस तरस्तस तरस्ततरैः सह

हतं रुक्मरथं दृष्ट्वा पराद्रवत सहितॊ रथैः

76

वरूथिनीं वेगवतीं विद्रुतां स पताकिनीम

परिगृह्य महासेनां सूतपुत्रॊ ऽपयाद भयात

77

रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम

मद्राणाम ईश्वरः शल्यॊ वीक्षमाणॊ ऽपयाद भयात

78

हतप्रवीरैर भूयिष्ठं दविपैर बहु पदातिभिः

वृतः शारद्वतॊ ऽगच्छत कष्टं कथम इति बरुवन

79

भॊजानीकेन शिष्टेन कलिङ्गारट्ट बाह्लिकैः

कृतवर्मा वृतॊ राजन परायान सुजवनैर हयैः

80

पदातिगणसंयुक्तस तरस्तॊ राजन भयार्दितः

उलूकः पराद्रवत तत्र दृष्ट्वा दरॊणं निपातितम

81

दर्शनीयॊ युवा चैव शौर्ये च कृतलक्षणः

दुःशासनॊ भृशॊद्विग्नः पराद्रवद गजसंवृतः

82

गजाश्वरथसंयुक्तॊ वृतश चैव पदातिभिः

दुर्यॊधनॊ महाराज परायात तत्र महारथः

83

गजान रथान समारुह्य परस्यापि हयाञ जनाः

परकीर्णकेशा विध्वस्ता न दवाव एकत्र धावतः

84

नेदम अस्तीति पुरुषा हतॊत्साहा हतौजसः

उत्सृज्य कवचान अन्ये पराद्रवंस तावका विभॊ

85

अन्यॊन्यं ते समाक्रॊशन सैनिका भरतर्षभ

तिष्ठ तिष्ठेति न च ते सवयं तत्रावतस्थिरे

86

धुर्यान परमुच्य तु रथाद धतसूतान सवलंकृतान

अधिरुह्य हयान यॊधाः कषिप्रं पद्भिर अचॊदयन

87

दरवमाणे तथा सैन्ये तरस्तरूपे हतौजसि

परतिस्रॊत इव गराहॊ दरॊणपुत्रः परान इयात

88

हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः

कथं चित संकटान मुक्तॊ मत्तद्विरदविक्रमः

89

दरवमाणं बलं दृष्ट्वा पलायनकृतक्षणम

दुर्यॊधनं समासाद्य दरॊणपुत्रॊ ऽबरवीद इदम

90

किम इयं दरवते सेना तरस्तरूपेव भारत

दरवमाणां च राजेन्द्र नावस्थापयसे रणे

91

तवं चापि न यथा पूर्वं परकृतिस्थॊ नराधिप

कर्णप्रभृतयश चेमे नावतिष्ठन्ति पार्थिवाः

92

अन्येष्व अपि च युद्धेषु नैव सेनाद्रवत तदा

कच चित कषेमं महाबाहॊ तव सैन्यस्य भारत

93

कस्मिन्न इदं हते राजन रथसिंहे बलं तव

एताम अवस्थां संप्राप्तं तन ममाचक्ष्व कौरव

94

तत तु दुर्यॊधनः शरुत्वा दरॊणपुत्रस्य भाषितम

घॊरम अप्रियम आख्यातुं नाशकत पार्थिवर्षभः

95

भिन्ना नौर इव ते पुत्रॊ निमग्नः शॊकसागरे

बाष्पेण पिहितॊ दृष्ट्वा दरॊणपुत्रं रथे सथितम

96

ततः शारद्वतं राजा सव्रीडम इदम अब्रवीत

शंसेह सर्वं भद्रं ते यथा सैन्यम इदं दरुतम

97

अतः शारद्वतॊ राजन्न आर्तिं गच्छन पुनः पुनः

शशंस दरॊणपुत्राय यथा दरॊणॊ निपातितः

98

[कृप]

वयं दरॊणं पुरस्कृत्य पृथिव्यां परवरं रथम

परावर्तयाम संग्रामं पाञ्चालैर एव केवलैः

99

ततः परवृत्ते संग्रामे विमिश्राः कुरु सॊमकाः

अन्यॊन्यम अभिगर्जन्तः शस्त्रैर देहान अपातयन

100

ततॊ दरॊणॊ बराह्मम अस्त्रं विकुर्वाणॊ नरर्षभः

अहनच छात्रवान भल्लैः शतशॊ ऽथ सहस्रशः

101

पाण्डवाः केकया मत्स्याः पाञ्चालाश च विशेषतः

संख्ये दरॊण रथं पराप्य वयनशन कालचॊदिताः

102

सहस्रं रथसिंहानां दविसाहस्रं च दन्तिनाम

दरॊणॊ बरह्मास्त्र निर्दग्धं परेषयाम आस मृत्यवे

103

आकर्णपलितः शयामॊ वयसाशीति पञ्चकः

रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत

104

कलिश्यमानेषु सैन्येषु वध्यमानेषु राजसु

अमर्षवशम आपन्नाः पाञ्चाला विमुखाभवन

105

तेषु किं चित परभग्नेषु विमुखेषु सपत्नजित

दिव्यम अस्त्रं विकुर्वाणॊ बभूवार्क इवॊदितः

106

स मध्यं पराप्य पाण्डूनां शररश्मिः परतापवान

मध्यं गत इवादित्यॊ दुष्प्रेक्ष्यस ते पिताभवत

107

ते दह्यमाना दरॊणेन सूर्येणेव विराजता

दग्धवीर्या निरुत्साहा बभूवुर गतचेतसः

108

तान दृष्ट्वा पीडितान बाणैर दरॊणेन मधुसूदनः

जयैषी पाण्डुपुत्राणाम इदं वचनम अब्रवीत

109

नैष जातु परैः शक्यॊ जेतुं शस्त्रभृतां वरः

अपि वृत्रहणा संख्ये रथयूथप यूथपः

110

ते यूयं धर्मम उत्सृज्य जयं रक्षत पाण्डवाः

यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः

111

अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम

हतं तं संयुगे कश चिद आख्यात्व अस्मै मृषा नरः

112

एतन नारॊचयद वाक्यं कुन्तीपुत्रॊ धनंजयः

अरॊचयंस तु सर्वे ऽनये कृच्छ्रेण तु युधिष्ठिरः

113

भीमसेनस तु सव्रीडम अब्रवीत पितरं तव

अश्वत्थामा हत इति तच चाबुध्यत ते पिता

114

स शङ्कमानस तन मिथ्या धर्मराजम अपृच्छत

हतं वाप्य अहतं वाजौ तवां पिता पुत्रवत्सलः

115

तद अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः

अश्वत्थामानम आहेदं हतः कुञ्जर इत्य उत

भीमेन गिरिवर्ष्माणं मालवस्येन्द्र वर्मणः

116

उपसृत्य तदा दरॊणम उच्चैर इदम अभाषत

यस्यार्थे शस्त्रम आधत्से यम अवेक्ष्य च जीवसि

पुत्रस ते दयितॊ नित्यं शॊ ऽशवत्थामा निपातितः

117

तच छरुत्ता विमनास तत्र आचार्यॊ महद अप्रियम

नियम्य दिव्यान्य अस्त्राणि नायुध्यत यथा पुरा

118

तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम

पाञ्चालराजस्य सुतः करूरकर्मा समाद्रवत

119

तं दृष्ट्वा विहितं मृत्युं लॊकतत्त्वविचक्षणः

दिव्यान्य अस्त्राण्य अथॊत्सृज्य रणे पराय उपाविशत

120

ततॊ ऽसय केशान सव्येन गृहीत्वा पाणिना तदा

पार्षतः करॊशमानानां वीराणाम अच्छिनच छिरः

121

न हन्तव्यॊ न हन्तव्य इति ते सर्वतॊ ऽबरुवन

तथैव चार्जुनॊ वाहाद अवरुह्यैनम आद्रवत

122

उद्यम्य बाहू तवरितॊ बरुवाणश च पुनः पुनः

जीवन्तम आनयाचार्यं मा वधीर इति धर्मवित

123

तथापि वार्यमाणेन कौरवैर अर्जुनेन च

हत एव नृशंसेन पिता तव नरर्षभ

124

सैनिकाश च ततः सर्वे पराद्रवन्त भयार्दिताः

वयं चापि निरुत्साहा हते पितरि ते ऽनघ

125

[स]

तच छरुत्वा दरॊणपुत्रस तु निधनं पितुर आहवे

करॊधम आहारयत तीव्रं पदाहत इवॊरगः

1

[s]

krūram āyodhanaṃ jajñe tasmin rājasamāgame

rudrasyeva hi kruddhasya nighnatas tu paśūn yathā

2

hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata

chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge

3

bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ

sādibhiś ca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat

4

bāṇapāta nikṛttās tu yodhās te kurusattama

ceṣṭanto vividhāś ceṣṭā vyadṛśyanta mahāhave

5

vartamāne tathā yuddhe ghore devāsuropame

abravīt kṣatriyāṃs tatra dharmarājo yudhiṣṭhiraḥ

abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ

6

eṣa vai pārṣato vīro bhāradvājena saṃgataḥ

ghaṭate ca yathāśakti bhāradvājasya nāśane

7

yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe

adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ

te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata

8

yudhiṣṭhira samājñaptāḥ sṛñjayānāṃ mahārathāḥ

abhyadravanta saṃyattā bhāradvājaṃ jighāṃsava

9

tān samāpatataḥ sarvān bhāradvājo mahārathaḥ

abhyadravata vegena martavyam iti niścita

10

prayāte satyasaṃdhe tu samakampata medinī

vavur vātāḥ sa nirghātās trāsayanti varūthinīm

11

papāta mahatī colkā ādityān nirgateva ha

dīpayantīva tāpena śaṃsantīva mahad bhayam

12

jajvaluś caiva śastrāṇi bhāradvājasya māriṣa

rathāḥ svananti cātyarthaṃ hayāś cāśrūṇy avāsṛjan

13

hataujā iva cāpy āsīd bhāradvājo mahāratha

ṛṣīṇāṃ
brahmavādānāṃ svargasya gamanaṃ prati

suyuddhena tataḥ prāṇān utsraṣṭum upacakrame

14

tataś caturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ

nirdahan kṣatriya vrātān droṇaḥ paryacarad raṇe

15

hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ

daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitai

16

so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ

kṣatriyāṇām abhāvāya brāhmam ātmānam āsthita

17

pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī

aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt

18

tataḥ svaratham āropya pāñcālyam arimardanaḥ

abravīd abhisaṃprekṣya droṇam asyantam antikāt

19

na tvadanya ihācāryaṃ yoddhum utsahate pumān

tvarasva prāg vadhāyaiva tvayi bhāraḥ samāhita

20

sa tathokto mahābāhuḥ sarvabhārasahaṃ navam

abhipatyādade kṣipram āyudhapravaraṃ dṛḍham

21

saṃrabdhaś caśarān asyan droṇaṃ durvāraṇaṃ raṇe

vivārayiṣur ācāryaṃ śaravarṣair avākirat

22

tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau

udīrayetāṃ brāhmāṇi divyāny astrāṇy anekaśa

23

sa mahāstrair mahārāja droṇam ācchādayad raṇe

nihatya sarvāṇy astrāṇi bhāradvājasya pārṣata

24

sa vasātīñ śibīṃś caiva bāhlīkān kauravān api

rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyuta

25

dhṛṣṭadyumnas tadā rājan gabhastibhir ivāṃśumān

babhau pracchādayan nāśāḥ arajālaiḥ samantata

26

tasya droṇo dhanuś chittvā viddhvā cainaṃ śilīmukhaiḥ

marmāṇy abhyahanad bhūyaḥ sa vyathāṃ paramām agāt

27

tato bhīmo dṛḍhakrodho droṇasyālśiṣya taṃ ratham

śanakair iva rājendra droṇaṃ vacanam abravīt

28

yadi nāma na yudhyerañ śikṣitā brahma bandhavaḥ

svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet

29

ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ

tasya ca brāhmaṇo mūlaṃ bhavāṃś ca brahmavittama

30

vapākavan mleccha gaṇān hatvā cānyān pṛthagvidhān

ajñānān mūḍhavad brahman putradāradhanepsayā

31

ekasyārthe bahūn hatvā putrasyādharmavid yathā

svakarmasthān vikarmastho na vyapatrapase katham

32

sa cādya patitaḥ śete pṛṣṭenāveditas tava

dharmarājena tad vākyaṃ nātiśaṅkitum arhasi

33

evam uktas tato droṇo bhīmenotsṛjya tad dhanuḥ

sarvāṇy astrāṇi dharmātmā hātu kāmo 'bhyabhāṣata

karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca

34

saṃgrāme kriyatāṃ yatno bravīmy eṣa punaḥ punaḥ

pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmy aham

35

iti tatra mahārāja prākrośad drauṇim eva ca

utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca

abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān

36

tasya tac chidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ

khaḍgī rathād avaplutya sahasā droṇam abhyayāt

37

hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca

droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumna vaśaṃgatam

38

hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan

droṇo 'pi śastrāṇy utsṛjya paramaṃ sāmyam āsthita

39

tathoktvā yogam āsthāya jyotir bhūto mahātapāḥ

divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam

40

dvau sūryāv iti no buddhir āsīt tasmiṃs tathāgate

ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṃ nabhaḥ

samapadyata cārkābhe bhāradvāja niśākare

41

nimeṣa mātreṇa ca taj jyotir antaradhīyata

āsīt kilakilā śabdaḥ prahṛṣṭnāṃ divaukasām

brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite

42

vayam eva tadādrākṣma pañca mānuṣayonayaḥ

yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim

43

ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ

vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍava

44

anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ

mahimānaṃ mahārāja yogamuktasya gacchata

45

gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ

nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ

ācāryaṃ yogam āsthāya brahmalokam ariṃdamam

46

vitunnāṅgaṃ śaraśatair nyastāyudham asṛk kṣaram

dhikkṛtaḥ pārtaṣas taṃ tu sarvabhūtaiḥ parāmṛśat

47

tasya mūrdhānam ālambya gatasattvasya dehinaḥ

kiṃ cid abruvataḥ kāyād vicakartāsinā śira

48

harṣeṇa mahatā yukto bhāradvāje nipātite

siṃhanāda ravaṃ cakre bhāmayan khaḍgam āhave

49

karṇapalitaḥ śyāmo vayasāśīti pañcakaḥ

tvatkṛte vyacarat saṃkhye sa tu ṣoḍada varṣavat

50

uktavāṃś ca mahābāhuḥ kuntīputro dhanaṃjayaḥ

jīvantam ānayācāryaṃ mā vadhīr drupadātmaja

51

na hantavyo na hantavya iti te sainikāś ca ha

utkrośann arjunaś caiva sānukrośas tam ādravat

52

krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ

dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham

53

oṇitena pariklinno rathād bhūmim ariṃdamaḥ

lohitāṅga ivādityo durdarśaḥ samapadyata

evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko jana

54

dheṣṭadyumnas tu tad rājan bhāradvāja śiromahat

tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat

55

te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ

palāyanakṛtotsāhā dudruvuḥ sarvatodiśam

56

droṇas tu divam āsthāya nakṣatrapatham āviśat

aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa

57

eḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca

vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva

apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim

58

hate droṇe nirutsāhān kurūn pāṇḍava sṛñjayāḥ

abhyadravan mahāvegās tataḥ sainyaṃ vyadīryata

59

nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ

tāvakā nihate droṇe gatāsava ivābhavan

60

parājayam athāvāpya paratra ca mahad bhayam

ubhayenaiva te hīnā nāvindan dhṛtim ātmana

61

anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ

nādhyagacchaṃs tadā rājan kabandhāyuta saṃkule

62

pāṇḍavās tu jayaṃ labdhvā paratra ca mahad yaśaḥ

bāṇaśabdaravāṃś cakruḥ siṃhanādāṃś ca puṣkalān

63

bhīmasenas tato rājan dhṛṣṭadyumnaś ca pārṣataḥ

varūthinyām anṛtyetāṃ pariṣvajya parasparam

64

abravīc ca tadā bhīmaḥ pārṣataṃ śatrutāpanam

bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata

sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge

65

etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ

bāhuśabdena pṛthivīṃ kampayām āsa pāṇḍava

66

tasya śabdena vitrastāḥ prādravaṃs tāvakā yudhi

kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ

67

pāṇḍavās tu jayaṃ labdhvā hṛṣṭā hy āsan viśāṃ pate

arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan

68

tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ

hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ

69

vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ

ārtasvareṇa mahatā putraṃ te paryavārayan

70

rajasvalā vepamānā vīkṣamāṇā diśo daśa

aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate

71

sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva

aśaknuvann avasthātum apāyāt tanayas tava

72

kṣutpipāsāpariśrāntās te yodhās tava bhārata

ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan

73

bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam

viparyāsaṃ yathā meror vāsavasyeva nirjayam

74

amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam

trastarūpatarā rājan kauravāḥ prādravan bhayāt

75

gāndhārarājaḥ śakunis trastas trastataraiḥ saha

hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathai

76

varūthinīṃ vegavatīṃ vidrutāṃ sa patākinīm

parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt

77

rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm

madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt

78

hatapravīrair bhūyiṣṭhaṃ dvipair bahu padātibhiḥ

vṛtaḥ śāradvato 'gacchat kaṣṭaṃ katham iti bruvan

79

bhojānīkena śiṣṭena kaliṅgāraṭṭa bāhlikaiḥ

kṛtavarmā vṛto rājan prāyān sujavanair hayai

80

padātigaṇasaṃyuktas trasto rājan bhayārditaḥ

ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam

81

darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ

duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛta

82

gajāśvarathasaṃyukto vṛtaś caiva padātibhiḥ

duryodhano mahārāja prāyāt tatra mahāratha

83

gajān rathān samāruhya parasyāpi hayāñ janāḥ

prakīrṇakeśā vidhvastā na dvāv ekatra dhāvata

84

nedam astīti puruṣā hatotsāhā hataujasaḥ

utsṛjya kavacān anye prādravaṃs tāvakā vibho

85

anyonyaṃ te samākrośan sainikā bharatarṣabha

tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire

86

dhuryān pramucya tu rathād dhatasūtān svalaṃkṛtān

adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan

87

dravamāṇe tathā sainye trastarūpe hataujasi

pratisrota iva grāho droṇaputraḥ parān iyāt

88

hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ

kathaṃ cit saṃkaṭān mukto mattadviradavikrama

89

dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam

duryodhanaṃ samāsādya droṇaputro 'bravīd idam

90

kim iyaṃ dravate senā trastarūpeva bhārata

dravamāṇāṃ ca rājendra nāvasthāpayase raṇe

91

tvaṃ cāpi na yathā pūrvaṃ prakṛtistho narādhipa

karṇaprabhṛtayaś ceme nāvatiṣṭhanti pārthivāḥ

92

anyeṣv api ca yuddheṣu naiva senādravat tadā

kac cit kṣemaṃ mahābāho tava sainyasya bhārata

93

kasminn idaṃ hate rājan rathasiṃhe balaṃ tava

etām avasthāṃ saṃprāptaṃ tan mamācakṣva kaurava

94

tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam

ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabha

95

bhinnā naur iva te putro nimagnaḥ śokasāgare

bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam

96

tataḥ śāradvataṃ rājā savrīḍam idam abravīt

śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam

97

ataḥ śāradvato rājann ārtiṃ gacchan punaḥ punaḥ

śaśaṃsa droṇaputrāya yathā droṇo nipātita

98

[kṛpa]

vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham

prāvartayāma saṃgrāmaṃ pāñcālair eva kevalai

99

tataḥ pravṛtte saṃgrāme vimiśrāḥ kuru somakāḥ

anyonyam abhigarjantaḥ śastrair dehān apātayan

100

tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ

ahanac chātravān bhallaiḥ śataśo 'tha sahasraśa

101

pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ

saṃkhye droṇa rathaṃ prāpya vyanaśan kālacoditāḥ

102

sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām

droṇo brahmāstra nirdagdhaṃ preṣayām āsa mṛtyave

103

karṇapalitaḥ śyāmo vayasāśīti pañcakaḥ

raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat

104

kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu

amarṣavaśam āpannāḥ pāñcālā vimukhābhavan

105

teṣu kiṃ cit prabhagneṣu vimukheṣu sapatnajit

divyam astraṃ vikurvāṇo babhūvārka ivodita

106

sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān

madhyaṃ gata ivādityo duṣprekṣyas te pitābhavat

107

te dahyamānā droṇena sūryeṇeva virājatā

dagdhavīryā nirutsāhā babhūvur gatacetasa

108

tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ

jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt

109

naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ

api vṛtrahaṇā saṃkhye rathayūthapa yūthapa

110

te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ

yathā vaḥ saṃyuge sarvān na hanyād rukmavāhana

111

aśvatthāmni hate naiṣa yudhyed iti matir mama

hataṃ taṃ saṃyuge kaś cid ākhyātv asmai mṛṣā nara

112

etan nārocayad vākyaṃ kuntīputro dhanaṃjayaḥ

arocayaṃs tu sarve 'nye kṛcchreṇa tu yudhiṣṭhira

113

bhīmasenas tu savrīḍam abravīt pitaraṃ tava

aśvatthāmā hata iti tac cābudhyata te pitā

114

sa śaṅkamānas tan mithyā dharmarājam apṛcchata

hataṃ vāpy ahataṃ vājau tvāṃ pitā putravatsala

115

tad atathya bhaye magno jaye sakto yudhiṣṭhiraḥ

aśvatthāmānam āhedaṃ hataḥ kuñjara ity uta

bhīmena girivarṣmāṇaṃ mālavasyendra varmaṇa

116

upasṛtya tadā droṇam uccair idam abhāṣata

yasyārthe śastram ādhatse yam avekṣya ca jīvasi

putras te dayito nityaṃ śo 'śvatthāmā nipātita

117

tac chruttā vimanās tatra ācāryo mahad apriyam

niyamya divyāny astrāṇi nāyudhyata yathā purā

118

taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam

pāñcālarājasya sutaḥ krūrakarmā samādravat

119

taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ

divyāny astrāṇy athotsṛjya raṇe prāya upāviśat

120

tato 'sya keśān savyena gṛhītvā pāṇinā tadā

pārṣataḥ krośamānānāṃ vīrāṇām acchinac chira

121

na hantavyo na hantavya iti te sarvato 'bruvan

tathaiva cārjuno vāhād avaruhyainam ādravat

122

udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ

jīvantam ānayācāryaṃ mā vadhīr iti dharmavit

123

tathāpi vāryamāṇena kauravair arjunena ca

hata eva nṛśaṃsena pitā tava nararṣabha

124

sainikāś ca tataḥ sarve prādravanta bhayārditāḥ

vayaṃ cāpi nirutsāhā hate pitari te 'nagha

125

[s]

tac chrutvā droṇaputras tu nidhanaṃ pitur āhave

krodham āhārayat tīvraṃ padāhata ivoragaḥ
faerie queene canto i| faerie queene canto 9
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 165