Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 27

Book 8. Chapter 27

The Mahabharata In Sanskrit


Book 8

Chapter 27

1

[स]

परयान एव तदा कर्णॊ हर्षयन वाहिनीं तव

एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत

2

यॊ ममाद्य महात्मानं दर्शयेच छवेत वाहनम

तस्मै दद्याम अभिप्रेतं वरं यं मनसेच्छति

3

स चेत तद अभिमन्येत तस्मै दद्याम अहं पुनः

शक्तटं रत्नसंपूर्णं यॊ मे बरूयाद धनंजयम

4

स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान

अन्यं तस्मै पुनर दद्यां सौवर्णं हस्तिषड्गवम

5

तथा तस्मै पुनर दद्यां सत्रीणां शतम अलंकृतम

शयामानां निष्ककण्ठीनां गीतवाद्य विपश्चिताम

6

स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान

अन्यं तस्मै वरं दद्यां शवेतान पञ्च शतान हयान

7

हेमभाण्ड परिच्छन्नान सुमृष्टमणिकुण्डलान

सुदान्तान अपि चैवाहं दद्याम अष्ट शतान परान

8

रथं च शुभ्रं सौवर्णं दद्यां तस्मै सवलंकृतम

युक्तं परमकाम्बॊजैर यॊ मे बरूयाद धनंजयम

9

अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट

काञ्चनैर विविधैर भाण्डैर आच्छन्नान हेममालिनः

उत्पन्नान अपरान्तेषु विनीतान हस्तिशिक्षकैः

10

स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान

अन्यं तस्मै वरं दद्यां यम असौ कामयेत सवयम

11

पुत्रदारान विहारांश च यद अन्यद वित्तम अस्ति मे

तच च तस्मै पुनर दद्यां यद यत स मनसेच्छति

12

हत्वा च सहितौ कृष्णौ तयॊर वित्तानि सर्वशः

तस्मै दद्याम अहं यॊ मे परब्रूयात केशवार्जुनौ

13

एता वाचः सुबहुशः कर्ण उच्चारयन युधि

दध्मौ सागरसंभूतं सुस्वनं शङ्खम उत्तमम

14

ता वाचः सूतपुत्रस्य तथायुक्ता निशम्य तु

दुर्यॊधनॊ महाराज परहृष्टः सानुगॊ ऽभवत

15

ततॊ दुन्दुभिनिर्घॊषॊ मृदङ्गानां च सर्वशः

सिंहनादः सवादित्रः कुञ्जराणाम अनिस्वनः

16

परादुरासीत तदा राजंस तवत सैन्ये भरतर्षभ

यॊधानां संप्रहृष्टानां तथा समभवत सवनः

17

तथा परहृष्टे सैन्ये तु परवमानं महारथम

विकत्थमानं समरे राधेयम अरिकर्शनम

मद्रराजः परहस्येवं वचनं परथ्यभाषत

18

मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम

परयच्छ पुरुषायाद्य दरक्ष्यसि तवं धनंजयम

19

बाल्याद इव तवं तयजसि वसु वैश्रवणॊ यथा

अयत्नेनैव राधेय दरष्टास्य अद्य धनंजयम

20

परासृजसि मिथ्या किं किं च तवं बहु मूढवत

अपात्र दाने ये दॊषास तान मॊहान नावबुध्यसे

21

यत परवेदयसे वित्तं बहुत्वेन खलु तवया

शक्यं बहुविधैर यज्ञैर यष्टुं सूत यजस्व तैः

22

यच च परार्थयसे हन्तुं कृष्णौ मॊहान मृषैव तत

न हि शुश्रुम संमर्दे करॊष्ट्रा सिंहौ निपातितौ

23

अप्रार्थितं परार्थयसे सुहृदॊ न हि सन्ति ते

ये तवां न वारयन्त्य आशु परपतन्तं हुताशने

24

कालकार्यं न जानीषे कालपक्वॊ ऽसय असंशयम

बह्वबद्धम अकर्णीयं कॊ हि बरूयाज जिजीविषुः

25

समुद्रतरणं दॊर्भ्यां कण्ठे बद्ध्वा यथा शिलाम

गिर्यग्राद वा निपतनं तादृक तव चिकीर्षितम

26

सहितः सर्वयॊधैस तवं वयूढानीकैः सुरक्षितः

धनंजयेन युध्यस्व शरेयश चेत पराप्तुम इच्छसि

27

हितार्थं धार्तराष्ट्रस्य बरवीमि तवा न हिंसया

शरद्धत्स्वैतन मया परॊक्तं यदि ते ऽसति जिजीविषा

28

[कर्ण]

सववीर्ये ऽहं पराश्वस्य परार्थयाम्य अर्जुनं रणे

तवं तु मित्र मुखः शत्रुर मां भीषयितुम इच्छसि

29

न माम अस्माद अभिप्रायात कश चिद अद्य निवर्तयेत

अपीन्द्रॊ वज्रम उद्यम्य किं नु मर्त्यः करिष्यति

30

[स]

इति कर्णस्य वाक्यान्ते शल्यः पराहॊत्तरं वचः

चुकॊपयिषुर अत्यर्थं कर्णं मद्रेश्वरः पुनः

31

यदा वै तवां फल्गुन वेगनुन्ना; जया चॊदिता हस्तवता विसृष्टाः

अन्वेतारः कङ्कपत्राः शिताग्रास; तदा तप्स्यस्य अर्जुनस्याभियॊगात

32

यदा दिव्यं धनुर आदाय पार्थः; परभासयन पृतनां सव्यसाची

तवाम अर्दयेत निशितैः पृषत्कैस; तदा पश्चात तप्स्यसे सूतपुत्र

33

बालश चन्द्रं मातुर अङ्के शयानॊ; यथा कश चित परार्थयते ऽपहर्तुम

तद्वन मॊहाद यतमानॊ रथस्थस; तवं परार्थयस्य अर्जुनम अद्य जेतुम

34

तरिशूलम आश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि तवम

सुतीक्ष्णधारॊपम कर्मणा तवं; युयुत्ससे यॊ ऽरजुनेनाद्य कर्ण

35

सिद्धं सिंहं केसरिणं बृहन्तं; बालॊ मूढः कषुद्रमृगस तरस्वी

समाह्वयेत तद्वद एतत तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य

36

मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव

वने सृगालः पिशितस्य तृप्तॊ; मा मार्थम आसाद्य विनङ्क्ष्यसि तवम

37

ईषादन्तं महानागं परभिन्नकरटा मुखम

शशक आह्वयसे युद्धे कर्ण पार्थं धनंजयम

38

बिलस्थं कृष्णसर्पं तवं बाल्यात काष्ठेन विध्यसि

महाविषं पूर्णकॊशं यत पार्थं यॊद्धुम इच्छसि

39

सिंहं केसरिणं करुद्धम अतिक्रम्याभिनर्दसि

सृगाल इव मूढत्वान नृसिंहं कर्ण पाण्डवम

40

सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम

लट्व एवाह्वयसे पाते कर्ण पार्थं धनंजयम

41

सर्वाम्भॊ निलयं भीमम ऊर्मिमन्तं झषायुतम

चन्द्रॊदये विवर्तन्तम अप्लवः संतितीर्षसि

42

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं परहारिणम

वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम

43

महाघॊषं महामेघं दर्दुरः परतिनर्दसि

कामतॊय परदं लॊके नरपर्जन्यम अर्जुनम

44

यथा च सवगृहस्थः शवा वयाघ्रं वनगतं भषेत

तथा तवं भषसे कर्ण नरव्याघ्रं धनंजयम

45

सृगालॊ ऽपि वने कर्ण शशैः परिवृतॊ वसन

मन्यते सिंहम आत्मानं यावत सिंहं न पश्यति

46

तथा तवम अपि राधेय सिंहम आत्मानम इच्छसि

अपश्यञ शत्रुदमनं नरव्याघ्रं धनंजयम

47

वयाघ्रं तवं मन्यसे ऽऽतमानं यावत कृष्णौ न पश्यसि

समास्थिताव एकरथे सूर्यचन्द्रमसाव इव

48

यावद गाण्डीवनिर्घॊषं न शृणॊषि महाहवे

तावद एव तवया कर्ण शक्यं वक्तुं यथेच्छसि

49

रथशब्दधनुः शब्दैर नादयन्तं दिशॊ दश

नर्दन्तम इव शार्दूलं दृष्ट्वा करॊष्टा भविष्यसि

50

नित्यम एव सृगाजस तवं नित्यं सिंहॊ धनंजयः

वीर परद्वेषणान मूढ नित्यं करॊष्टेव लक्ष्यसे

51

यथाखुः सयाद बिडालश च शवा वयाघ्रश च बलाबले

यथा सृगालः सिंहश च यथा च शशकुञ्जरौ

52

यथानृतं च सत्यं च यथा चापि वृषामृते

तथा तवम अपि पार्थश च परख्याताव आत्मकर्मभिः

53

[स]

अधिक्षिप्तस तु राधेयः शल्येनामित तेजसा

शल्यम आह सुसंक्रुद्धॊ वाक्शल्यम अवधारयन

54

गुणान गुणवतः शल्य गुणवान वेत्ति नागुणः

तवं तु नित्यं गुणैर हीनः किं जञास्यस्य अगुणॊ गुणान

55

अर्जुनस्य महास्त्राणि करॊधं वीर्यं धनुः शरान

अहं शल्याभिजानामि न तवं जानासि तत तथा

56

एवम एवात्मनॊ वीर्यम अहं वीर्यं च पाण्डवे

जानन्न एवाह्वये युद्धे शल्य नाग्निं पतंगवत

57

अस्ति चायम इषुः शल्य सुपुङ्खॊ रथभॊजनः

एकतूणी शयः पत्री सुधौतः समलंकृतः

58

शेते चन्दनपूर्णेन पूजितॊ बहुलाः समाः

आहेयॊ विषवान उग्रॊ नराश्वद्विपसंघहा

59

एकवीरॊ महारौद्रस तनुत्रास्थि विदारणः

निर्भिन्द्यां येन रुष्टॊ ऽहम अपि मेरुं महागिरिम

60

तम अहं जातु नास्येयम अन्यस्मिन फल्गुनाद ऋते

कृष्णाद वा देवकीपुत्रात सत्यं चात्र शृणुष्व मे

61

तेनाहम इषुणा शल्य वासुदेवधनंजयौ

यॊत्स्ये परमसंक्रुद्धस तत कर्म सदृशं मम

62

सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः परतिष्ठिता

सर्वेषां पाण्डुपुत्राणां जयः पार्थे परतिष्ठितः

उभयं तत समासाद्य कॊ ऽतिवर्तितुम अर्हति

63

ताव एतौ पुरुषव्याघ्रौ समेतौ सयन्दने सथितौ

माम एकम अभिसंयातौ सुजातं शल्य पश्य मे

64

पितृष्वसा मातुलजौ भरातराव अपराजितौ

मणी सूत्र इव परॊक्तौ दरष्टासि निहतौ मया

65

अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्य कपिध्वजौ

भीरूणां तरासजननौ शल्य हर्षकरौ मम

66

तवं तु दुष्प्रकृतिर मूढॊ महायुद्धेष्व अकॊविदः

भयावतीर्णः संत्रासाद अबद्धं बहु भाषसे

67

संस्तौषि तवं तु केनापि हेतुना तौ कुदेशज

तौ हत्वा समरे हन्ता तवाम अद्धा सहबान्धवम

68

पापदेशज दुर्बुद्धे कषुद्रक्षत्रियपांसन

सुहृद भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्न असि

69

तौ वा ममाद्य हन्तारौ हन्तास्मि समरे सथितौ

नाहं बिभेमि कृष्णाभ्यां विजानन्न आत्मनॊ बलम

70

वासुदेव सहस्रं वा फल्गुनानां शतानि च

अहम एकॊ हनिष्यामि जॊषम आस्स्व कुदेशज

71

सत्रियॊ बालाश च वृद्धाश च परायः करीडा गता जनाः

या गाथाः संप्रगायन्ति कुर्वन्तॊ ऽधययनं यथा

ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु

72

बराह्मणैः कथिताः पूर्वं यथावद राजसंनिधौ

शरुत्वा चैकमना मूढ कषम वा बरूहि वॊत्तमम

73

मित्रध्रुन मद्रकॊ नित्यं यॊ नॊ दवेष्टि स मद्रकः

मद्रके संगतं नास्ति कषुद्रवाक्ये नराधमे

74

दुरात्मा मद्रकॊ नित्यं नित्यं चानृतिकॊ ऽनृजुः

यावदन्तं हि दौरात्म्यं मद्रकेष्व इति नः शरुतम

75

पिता माता च पुत्रश च शवश्रू शवशुर मातुलाः

जामाता दुहिता भराता नप्ता ते ते च बान्धवाः

76

वयस्याभ्यागताश चान्ये दासीदासं च संगतम

पुम्भिर विमिश्रा नार्यश च जञाताज्ञाताः सवयेच्छया

77

येषां गृहेषु शिष्टानां सक्तु मन्थाशिनां सदा

पीत्वा सीधुं सगॊ मांसं नर्दन्ति च हसन्ति च

78

यानि चैवाप्य अबद्धानि परवर्तन्ते च कामतः

कामप्रलापिनॊ ऽनयॊन्यं तेषु धर्मः कथं भवेत

79

मद्रकेषु विलुप्तेषु परख्याताशुभ कर्मसु

नापि वैरं न सौहार्दं मद्रकेषु समाचरेत

80

मद्रके संगतं नास्ति मद्रकॊ हि सचापलः

मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च

81

राजयाजक याज्येन नष्टं दत्तं हविर भवेत

82

शूद्र संस्कारकॊ विप्रॊ यथा याति पराभवम

तथा बरह्म दविषॊ नित्यं गच्छन्तीह पराभवम

83

मद्रके संगतं नास्ति हतं वृश्चिकतॊ विषम

आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत

84

इति वृश्चिक दष्टस्य नाना विषहतस्य च

कुर्वन्ति भेषजं पराज्ञाः सत्यं तच चापि दृश्यते

एवं विद्वञ जॊषम आस्स्व शृणु चात्रॊत्तरं वचः

85

वासांस्य उत्सृज्य नृत्यन्ति सत्रियॊ या मद्य मॊहिताः

मिथुने ऽसंयताश चापि यथा कामचराश च ताः

तासां पुत्रः कथं धर्मं मद्रकॊ वक्तुम अर्हति

86

यास तिष्ठन्त्यः परमेहन्ति यथैवॊष्ट्री दशेरके

तासां विभ्रष्टलज्जानां निर्लज्जानां ततस ततः

तवं पुत्रस तादृशीनां हि धर्मं वक्तुम इहेच्छसि

87

सुवीरकं याच्यमाना मद्रका कषति सफिजौ

अदातु कामा वचनम इदं वदति दारुणम

88

मा मा सुवीरकं कश चिद याचतां दयितॊ मम

पुत्रं दद्यां परतिपदं न तु दद्यां सुवीरकम

89

नार्यॊ बृहत्यॊ निर्ह्रीका मद्रकाः कम्बलावृताः

घस्मरा नष्टशौचाश च पराय इत्य अनुशुश्रुम

90

एवमादि मयान्यैर वा शक्यं वक्तुं भवेद बहु

आ केशाग्रान नखाग्राच च वक्तव्येषु कुवर्त्मसु

91

मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं तव इह

पापदेशॊद्भवा मलेच्छा धर्माणम अविचक्षणाः

92

एष मुख्यतमॊ धर्मः कषत्रियस्येति नः शरुतम

यद आजौ निहतः शेते सद्भिः समभिपूजितः

93

आयुधानां संपराये यन मुच्येयम अहं ततः

न मे स परथमः कल्पॊ निधने सवर्गम इच्छतः

94

सॊ ऽहं परियः सखा चास्मि धार्तराष्ट्रस्य धीमतः

तदर्थे हि मम पराणा यच च मे विद्यते वसु

95

वयक्तं तवम अप्य उपहितः पाण्डवैः पापदेशज

यथा हय अमित्रवत सर्वं तवम अस्मासु परवर्तसे

96

कामं न खलु शक्यॊ ऽहं तवद्विधानां शतैर अपि

संग्रामाद विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः

97

सारङ्ग इव घर्मार्तः कामं विलप शुष्य च

नाहं भीषयितुं शक्यः कषत्रवृत्ते वयवस्थितः

98

तनु तयजां नृसिंहानाम आहवेष्व अनिवर्तिनाम

या गतिर गुरुणा पराङ मे परॊक्ता रामेण तां समर

99

सवेषां तराणार्थम उद्युक्तं वधाय दविषताम अपि

विद्धि माम आस्थितं वृत्तं पौरूरव समुत्तमम

100

न तद भूतं परपश्यामि तरिषु लॊकेषु मद्रक

यॊ माम अस्माद अभिप्रायाद वारयेद इति मे मतिः

101

एवं विद्वञ जॊषम आस्स्व तरासात किं बहु भाषसे

मा तवा हत्वा परदास्यामि करव्याद्भ्यॊ मद्रकाधम

102

मित्र परतीक्षया शल्य धार्तराष्ट्रस्य चॊभयॊः

अपवादतितिक्षाभिस तरिभिर एतैर हि जीवसि

103

पुनश चेद ईद्दृशं वाक्यं मद्रराजवदिष्यसि

शिरस ते पातयिष्यामि गदया वज्रकल्पया

104

शरॊतारस तव इदम अद्येह दरष्टारॊ वा कुदेशज

कर्णं वा जघ्नतुः कृष्णौ कर्णॊ वापि जघान तौ

105

एवम उक्त्वा तु राधेयः पुनर एव विशां पते

अब्रवीन मद्रराजानं याहि याहीत्य असंभ्रमम

1

[s]

prayān eva tadā karṇo harṣayan vāhinīṃ tava

ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata

2

yo mamādya mahātmānaṃ darśayec chveta vāhanam

tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati

3

sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ

śaktaṭaṃ ratnasaṃpūrṇaṃ yo me brūyād dhanaṃjayam

4

sa cet tad abhimanyeta puruṣo 'rjuna darśivān

anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam

5

tathā tasmai punar dadyāṃ strīṇāṃ atam alaṃkṛtam

śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādya vipaścitām

6

sa cet tad abhimanyeta puruṣo 'rjuna darśivān

anyaṃ tasmai varaṃ dadyāṃ śvetān pañca śatān hayān

7

hemabhāṇḍa paricchannān sumṛṣṭamaṇikuṇḍalān

sudāntān api caivāhaṃ dadyām aṣṭa śatān parān

8

rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam

yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam

9

anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ atāni ṣaṭ

kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ

utpannān aparānteṣu vinītān hastiśikṣakai

10

sa cet tad abhimanyeta puruṣo 'rjuna darśivān

anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam

11

putradārān vihārāṃś ca yad anyad vittam asti me

tac ca tasmai punar dadyāṃ yad yat sa manasecchati

12

hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ

tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau

13

etā vācaḥ subahuśaḥ karṇa uccārayan yudhi

dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkham uttamam

14

tā vācaḥ sūtaputrasya tathāyuktā niśamya tu

duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat

15

tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ

siṃhanādaḥ savāditraḥ kuñjarāṇām anisvana

16

prādurāsīt tadā rājaṃs tvat sainye bharatarṣabha

yodhānāṃ saṃprahṛṣṭnāṃ tathā samabhavat svana

17

tathā prahṛṣṭe sainye tu pravamānaṃ mahāratham

vikatthamānaṃ samare rādheyam arikarśanam

madrarājaḥ prahasyevaṃ vacanaṃ prathyabhāṣata

18

mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam

prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam

19

bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā

ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam

20

parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat

apātra dāne ye doṣās tān mohān nāvabudhyase

21

yat pravedayase vittaṃ bahutvena khalu tvayā

śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva tai

22

yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat

na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau

23

aprārthitaṃ prārthayase suhṛdo na hi santi te

ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane

24

kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam

bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣu

25

samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām

giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam

26

sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ

dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi

27

hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā

śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā

28

[karṇa]

svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe

tvaṃ tu mitra mukhaḥ śatrur māṃ bhīṣayitum icchasi

29

na mām asmād abhiprāyāt kaś cid adya nivartayet

apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati

30

[s]

iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ

cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ puna

31

yadā vai tvāṃ phalguna veganunnā; jyā coditā hastavatā visṛṣṭāḥ

anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt

32

yadā divyaṃ dhanur ādāya pārthaḥ; prabhāsayan pṛtanāṃ savyasācī

tvām ardayeta niśitaiḥ pṛṣatkais; tadā paścāt tapsyase sūtaputra

33

bālaś candraṃ mātur aṅke śayāno; yathā kaś cit prārthayate 'pahartum

tadvan mohād yatamāno rathasthas; tvaṃ prārthayasy arjunam adya jetum

34

triśūlam āśliṣya sutīkṣṇadhāraṃ; sarvāṇi gātrāṇi nigharṣasi tvam

sutīkṣṇadhāropama karmaṇā tvaṃ; yuyutsase yo 'rjunenādya karṇa

35

siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ; bālo mūḍhaḥ kṣudramṛgas tarasvī

samāhvayet tadvad etat tavādya; samāhvānaṃ sūtaputrārjunasya

36

mā sūtaputrāhvaya rājaputraṃ; mahāvīryaṃ kesariṇaṃ yathaiva

vane sṛgālaḥ piśitasya tṛpto; mā mārtham āsādya vinaṅkṣyasi tvam

37

īṣ
dantaṃ mahānāgaṃ prabhinnakaraṭā mukham

śaśaka āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam

38

bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi

mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi

39

siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi

sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam

40

suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam

laṭv evāhvayase pāte karṇa pārthaṃ dhanaṃjayam

41

sarvāmbho nilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam

candrodaye vivartantam aplavaḥ saṃtitīrṣasi

42

abhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam

vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam

43

mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi

kāmatoya pradaṃ loke naraparjanyam arjunam

44

yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet

tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam

45

sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan

manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati

46

tathā tvam api rādheya siṃham ātmānam icchasi

apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam

47

vyāghraṃ tvaṃ manyase 'tmānaṃ yāvat kṛṣṇau na paśyasi

samāsthitāv ekarathe sūryacandramasāv iva

48

yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave

tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi

49

rathaśabdadhanuḥ śabdair nādayantaṃ diśo daśa

nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi

50

nityam eva sṛgājas tvaṃ nityaṃ siṃho dhanaṃjayaḥ

vīra pradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase

51

yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale

yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau

52

yathānṛtaṃ ca satyaṃ ca yathā cāpi vṛṣāmṛte

tathā tvam api pārthaś ca prakhyātāv ātmakarmabhi

53

[s]

adhikṣiptas tu rādheyaḥ śalyenāmita tejasā

śalyam āha susaṃkruddho vākśalyam avadhārayan

54

guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ

tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān

55

arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān

ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā

56

evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave

jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat

57

asti cāyam iṣuḥ śalya supuṅkho rathabhojanaḥ

ekatūṇī śayaḥ patrī sudhautaḥ samalaṃkṛta

58

ete candanapūrṇena pūjito bahulāḥ samāḥ

heyo viṣavān ugro narāśvadvipasaṃghahā

59

ekavīro mahāraudras tanutrāsthi vidāraṇaḥ

nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim

60

tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte

kṛṣṇd vā devakīputrāt satyaṃ cātra śṛṇuṣva me

61

tenāham iṣuṇā śalya vāsudevadhanaṃjayau

yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama

62

sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā

sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ

ubhayaṃ tat samāsādya ko 'tivartitum arhati

63

tāv etau puruṣavyāghrau sametau syandane sthitau

mām ekam abhisaṃyātau sujātaṃ śalya paśya me

64

pitṛṣvasā mātulajau bhrātarāv aparājitau

maṇī sūtra iva proktau draṣṭāsi nihatau mayā

65

arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣya kapidhvajau

bhīrūṇāṃ trāsajananau śalya harṣakarau mama

66

tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ

bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase

67

saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja

tau hatvā samare hantā tvām addhā sahabāndhavam

68

pāpadeśaja durbuddhe kṣudrakṣatriyapāṃsana

suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇbhyāṃ bhīṣayann asi

69

tau vā mamādya hantārau hantāsmi samare sthitau

nāhaṃ bibhemi kṛṣṇbhyāṃ vijānann ātmano balam

70

vāsudeva sahasraṃ vā phalgunānāṃ śatāni ca

aham eko haniṣyāmi joṣam āssva kudeśaja

71

striyo bālāś ca vṛddhāś ca prāyaḥ krīḍā gatā janāḥ

yā gāthāḥ saṃpragāyanti kurvanto 'dhyayanaṃ yathā

tā gāthāḥ śṛu me śalya madrakeṣu durātmasu

72

brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau

śrutvā caikamanā mūḍha kṣama vā brūhi vottamam

73

mitradhrun madrako nityaṃ yo no dveṣṭi sa madrakaḥ

madrake saṃgataṃ nāsti kṣudravākye narādhame

74

durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ

yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam

75

pitā mātā ca putraś ca śvaśrū śvaśura mātulāḥ

jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ

76

vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam

pumbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā

77

yeṣāṃ gṛheṣu śiṣṭānāṃ saktu manthāśināṃ sadā

pītvā sīdhuṃ sago māṃsaṃ nardanti ca hasanti ca

78

yāni caivāpy abaddhāni pravartante ca kāmataḥ

kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet

79

madrakeṣu vilupteṣu prakhyātāśubha karmasu

nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret

80

madrake saṃgataṃ nāsti madrako hi sacāpalaḥ

madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca

81

rājayājaka yājyena naṣṭaṃ dattaṃ havir bhavet

82

ś
dra saṃskārako vipro yathā yāti parābhavam

tathā brahma dviṣo nityaṃ gacchantīha parābhavam

83

madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam

ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet

84

iti vṛścika daṣṭasya nānā viṣahatasya ca

kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate

evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vaca

85

vāsāṃsy utsṛjya nṛtyanti striyo yā madya mohitāḥ

mithune 'saṃyatāś cāpi yathā kāmacarāś ca tāḥ

tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati

86

yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrī daśerake

tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ

tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi

87

suvīrakaṃ yācyamānā madrakā kaṣati sphijau

adātu kāmā vacanam idaṃ vadati dāruṇam

88

mā mā suvīrakaṃ kaś cid yācatāṃ dayito mama

putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam

89

nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ

ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma

90

evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu

ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu

91

madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha

pāpadeśodbhavā mlecchā dharmāṇam avicakṣaṇāḥ

92

eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam

yad ājau nihataḥ śete sadbhiḥ samabhipūjita

93

yudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ

na me sa prathamaḥ kalpo nidhane svargam icchata

94

so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ

tadarthe hi mama prāṇā yac ca me vidyate vasu

95

vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja

yathā hy amitravat sarvaṃ tvam asmāsu pravartase

96

kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api

saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikai

97

sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca

nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthita

98

tanu tyajāṃ nṛsiṃhānām āhaveṣv anivartinām

yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara

99

sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api

viddhi mām āsthitaṃ vṛttaṃ paurūrava samuttamam

100

na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka

yo mām asmād abhiprāyād vārayed iti me mati

101

evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase

mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama

102

mitra pratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ

apavādatitikṣābhis tribhir etair hi jīvasi

103

punaś ced īddṛśaṃ vākyaṃ madrarājavadiṣyasi

śiras te pātayiṣyāmi gadayā vajrakalpayā

104

rotāras tv idam adyeha draṣṭāro vā kudeśaja

karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau

105

evam uktvā tu rādheyaḥ punar eva viśāṃ pate

abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 27