Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 213

Book 1. Chapter 213

The Mahabharata In Sanskrit


Book 1

Chapter 213

1

[वै]

उक्तवन्तॊ यदा वाक्यम असकृत सर्ववृष्णयः

ततॊ ऽबरवीद वासुदेवॊ वाक्यं धर्मार्थसंहितम

2

नावमानं कुलस्यास्य गुडा केशः परयुक्तवान

संमानॊ ऽभयधिकस तेन परयुक्तॊ ऽयम असंशयम

3

अर्थलुब्धान न वः पार्थॊ मन्यते सात्वतान सदा

सवयंवरम अनाधृष्यं मन्यते चापि पाण्डवः

4

परदानम अपि कन्यायाः पशुवत कॊ ऽनुमंस्यते

विक्रमं चाप्य अपत्यस्य कः कुर्यात पुरुषॊ भुवि

5

एतान दॊषांश च कौन्तेयॊ दृष्टवान इति मे मतिः

अतः परसह्य हृतवान कन्यां धर्मेण पाण्डवः

6

उचितश चैव संबन्धः सुभद्रा च यशस्विनी

एष चापीदृशः पार्थः परसह्य हृतवान इति

7

भरतस्यान्वये जातं शंतनॊश च महात्मनः

कुन्तिभॊजात्मजा पुत्रं कॊ बुभूषेत नार्जुनम

8

न च पश्यामि यः पार्थं विक्रमेण पराजयेत

अपि सर्वेषु लॊकेषु सैन्द्र रुद्रेषु मारिष

9

स च नाम रथस तादृङ मदीयास ते च वाजिनः

यॊद्धा पार्थश च शीघ्रास्त्राः कॊ नु तेन समॊ भवेत

10

तम अनुद्रुत्य सान्त्वेन परमेण धनंजयम

निवर्तयध्वं संहृष्टा ममैषा परमा मतिः

11

यदि निर्जित्य वः पार्थॊ बलाद गच्छेत सवकं पुरम

परणश्येद वॊ यशः सद्यॊ न तु सान्त्वे पराजयः

12

तच छरुत्वा वासुदेवस्य तथा चक्रुर जनाधिप

निवृत्तश चार्जुनस तत्र विवाहं कृतवांस ततः

13

उषित्वा तत्र कौन्तेयः संवत्सरपराः कषपाः

पुष्करेषु ततः शिष्टं कालं वर्तितवान परभुः

पूर्णे तु दवादशे वर्षे खाण्डव परस्थम आविशत

14

अभिगम्य स राजानं विनयेन समाहितः

अभ्यर्च्य बराह्मणान पार्थॊ दरौपदीम अभिजग्मिवान

15

तं दरौपदी परत्युवाच परणयात कुरुनन्दनम

तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा

सुबद्धस्यापि भारस्य पूर्वबन्धः शलथायते

16

तथा बहुविधं कृष्णां विलपन्तीं धनंजयः

सान्त्वयाम आस भूयश च कषमयाम आस चासकृत

17

सुभद्रां तवरमाणश च रक्तकौशेय वाससम

पार्थः परस्थापयाम आस कृत्वा गॊपालिका वपुः

18

साधिकं तेन रूपेण शॊभमाना यशस्विनी

भवनं शरेष्ठम आसाद्य वीर पत्नी वराङ्गना

ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी

19

ततॊ ऽभिगम्य तवरिता पूर्णेन्दुसदृशानना

ववन्दे दरौपदीं भद्रा परेष्याहम इति चाब्रवीत

20

परत्युत्थाय च तां कृष्णा सवसारं माधवस्य ताम

सस्वजे चावदत परीता निःसपत्नॊ ऽसतु ते पतिः

तथैव मुदिता भद्रा ताम उवाचैवम अस्त्व इति

21

ततस ते हृष्टमनसः पाण्डवेया महारथाः

कुन्ती च परमप्रीता बभूव जनमेजय

22

शरुत्वा तु पुण्डरीकाक्षः संप्राप्तं सवपुरॊत्तमम

अर्जुनं पाण्डवश्रेष्ठम इन्द्रप्रस्थगतं तदा

23

आजगाम विशुद्धात्मा सह रामेण केशवः

वृष्ण्यन्धकमहामात्रैः सह वीरैर महारथैः

24

भरातृभिश च कुमारैश च यॊधैश च शतशॊ वृतः

सैन्येन महता शौरिर अभिगुप्तः परंतपः

25

तत्र दानपतिर धीमान आजगाम महायशाः

अक्रूरॊ वृष्णिवीराणां सेनापतिर अरिंदमः

26

अनाधृष्टिर महातेजा उद्धवश च महायशाः

साक्षाद बृहस्पतेः शिष्यॊ महाबुद्धिर महायशाः

27

सत्यकः सात्यकिश चैव कृतवर्मा च सात्वतः

परद्युम्नश चैव साम्बश च निशठः शङ्कुर एव च

28

चारुदेष्णश च विक्रान्तॊ झिल्ली विपृथुर एव च

सारणश च महाबाहुर गदश च विदुषां वरः

29

एते चान्ये च बहवॊ वृष्णिभॊजान्धकास तथा

आजग्मुः खाण्डव परस्थम आदाय हरणं बहु

30

ततॊ युधिष्ठिरॊ राजा शरुत्वा माधवम आगतम

परतिग्रहार्थं कृष्णस्य यमौ परास्थापयत तदा

31

ताभ्यां परतिगृहीतं तद वृष्णिचक्रं समृद्धिमत

विवेश खाण्डव परस्थं पताकाध्वजशॊभितम

32

सिक्तसंमृष्टपन्थानं पुष्पप्रकर शॊभितम

चन्दनस्य रसैः शीतैः पुण्यगन्धैर निषेवितम

33

दह्यतागुरुणा चैव देशे देशे सुगन्धिना

सुसंमृष्ट जनाकीर्णं वणिग्भिर उपशॊभितम

34

परतिपेदे महाबाहुः सह रामेण केशवः

वृष्ण्यन्धकमहाभॊजैः संवृतः पुरुषॊत्तमः

35

संपूज्यमानः पौरैश च बराह्मणैश च सहस्रशः

विवेश भवनं राज्ञः पुरंदर गृहॊपमम

36

युधिष्ठिरस तु रामेण समागच्छद यथाविधि

मूर्ध्नि केशवम आघ्राय पर्यष्वजत बाहुना

37

तं परीयमाणं कृष्णस तु विनयेनाभ्यपूजयत

भीमं च पुरुषव्याघ्रं विधिवत परत्यपूजयत

38

तांश च वृष्ण्यन्धकश्रेष्ठान धर्मराजॊ युधिष्ठिरः

परतिजग्राह सत्कारैर यथाविधि यथॊपगम

39

गुरुवत पूजयाम आस कांश चित कांश चिद वयस्यवत

कांश चिद अभ्यवदत परेम्णा कैश चिद अप्य अभिवादितः

40

ततॊ ददौ वासुदेवॊ जन्यार्थे धनम उत्तमम

हरणं वै सुभद्राया जञातिदेयं महायशाः

41

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम

चतुर्युजाम उपेतानां सूतैः कुशलसंमतैः

सहस्रं परददौ कृष्णॊ गवाम अयुतम एव च

42

शरीमान माथुरदेश्यानां दॊग्ध्रीणां पुण्यवर्चसाम

वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम

ददौ जनार्दनः परीत्या सहस्रं हेमभूषणम

43

तथैवाश्वतरीणां च दान्तानां वातरंहसाम

शतान्य अञ्जन केशीनां शवेतानां पञ्च पञ्च च

44

सनपनॊत्सादने चैव सुयुक्तं वयसान्वितम

सत्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम

45

सुवर्णशतकण्ठीनाम अरॊगाणां सुवाससाम

परिचर्यासु दक्षाणां परददौ पुष्करेक्षणः

46

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः

मनुष्यभारान दाशार्हॊ ददौ दश जनार्दनः

47

गजानां तु परभिन्नानां तरिधा परस्रवतां मदम

गिरिकूट निकाशानां समरेष्व अनिवर्तिनाम

48

कॢप्तानां पटु घण्टानां वराणां हेममालिनाम

हस्त्यारॊहैर उपेतानां सहस्रं साहस परियः

49

रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली

परीयमाणॊ हलधरः संबन्ध परीतिम आवहन

50

स महाधनरत्नौघॊ वस्त्रकम्बल फेनवान

महागजमहाग्राहः पताका शैवलाकुलः

51

पाण्डुसागरम आविद्धः परविवेश महानदः

पूर्णम आपूरयंस तेषां दविषच छॊकावहॊ ऽभवत

52

परतिजग्राह तत सर्वं धर्मराजॊ युधिष्ठिरः

पूजयाम आस तांश चैव वृष्ण्यन्धकमहारथान

53

ते समेता महात्मानः कुरु वृष्ण्यन्धकॊत्तमाः

विजह्रुर अमरावासे नराः सुकृतिनॊ यथा

54

तत्र तत्र महापानैर उत्कृष्टतलनादितैः

यथायॊगं यथा परीतिविजह्रुः कुरु वृष्णयः

55

एवम उत्तमवीर्यास ते विहृत्य दिवसान बहून

पूजिताः कुरुभिर जग्मुः पुनर दवारवतीं पुरीम

56

रामं पुरस्कृत्य ययुर वृष्ण्यन्धकमहारथाः

रत्नान्य आदाय शुभ्राणि दत्तानि कुरुसत्तमैः

57

वासुदेवस तु पार्थेन तत्रैव सह भारत

उवास नगरे रम्ये शक्र परस्थे महामनाः

वयचरद यमुना कूले पार्थेन सह भारत

58

ततः सुभद्रा सौभद्रं केशवस्य परिया सवसा

जयन्तम इव पौलॊमी दयुतिमन्तम अजीजनत

59

दीर्घबाहुं महासत्त्वम ऋषभाक्षम अरिंदमम

सुभद्रा सुषुवे वीरम अभिमन्युं नरर्षभम

60

अभीश च मन्युमांश चैव ततस तम अरिमर्दनम

अभिमन्युम इति पराहुर आर्जुनिं पुरुषर्षभम

61

स सात्वत्याम अतिरथः संबभूव धनंजयात

मखे निर्मथ्यमानाद वा शमी गर्भाद धुताशनः

62

यस्मिञ जाते महाबाहुः कुन्तीपुत्रॊ युधिष्ठिरः

अयुतं गा दविजातिभ्यः परादान निष्कांश च तावतः

63

दयितॊ वासुदेवस्य बाल्यात परभृति चाभवत

पितॄणां चैव सर्वेषां परजानाम इव चन्द्रमाः

64

जन्मप्रभृति कृष्णश च चक्रे तस्य करियाः शुभाः

स चापि ववृधे बालः शुक्लपक्षे यथा शशी

65

चतुष्पादं दशविधं धनुर्वेदम अरिंदमः

अर्जुनाद वेद वेदज्ञात सकलं दिव्यमानुषम

66

विज्ञानेष्व अपि चास्त्राणां सौष्ठवे च महाबलः

करियास्व अपि च सर्वासु विशेषान अभ्यशिक्षयत

67

आगमे च परयॊगे च चक्रे तुल्यम इवात्मनः

तुतॊष पुत्रं सौभद्रं परेक्षमाणॊ धनंजयः

68

सर्वसंहननॊपेतं सर्वलक्षणलक्षितम

दुर्धर्षम ऋषभस्कन्धं वयात्ताननम इवॊरगम

69

सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम

मेघदुन्दुभि निर्घॊषं पूर्णचन्द्रनिभाननम

70

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ

ददर्श पुत्रं बीभत्सुर मघवान इव तं यथा

71

पाञ्चाल्य अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा

लेभे पञ्च सुतान वीराञ शुभान पञ्चाचलान इव

72

युधिष्ठिरात परतिविन्ध्यं सुत सॊमं वृकॊदरात

अर्जुनाच छरुत कर्माणं शतानीकं च नाकुलिम

73

सहदेवाच छरुत सेनम एतान पञ्च महारथान

पाञ्चाली सुषुवे वीरान आदित्यान अदितिर यथा

74

शास्त्रतः परतिविन्ध्यं तम ऊचुर विप्रा युधिष्ठिरम

परप्रहरण जञाने परतिविन्ध्यॊ भवत्व अयम

75

सुते सॊमसहस्रे तु सॊमार्क समतेजसम

सुत सॊमं महेष्वासं सुषुवे भीमसेनतः

76

शरुतं कर्म महत कृत्वा निवृत्तेन किरीटिना

जातः पुत्रस तवेत्य एवं शरुतकर्मा ततॊ ऽभवत

77

शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः

चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम

78

ततस तव अजीजनत कृष्णा नक्षत्रे वह्नि दैवते

सहदेवात सुतं तस्माच छरुत सेनेति तं विदुः

79

एकवर्षान्तरास तव एव दरौपदेया यशस्विनः

अन्वजायन्त राजेन्द्र परस्परहिते रताः

80

जातकर्माण्य आनुपूर्व्याच चूडॊपनयनानि च

चकार विधिवद धौम्यस तेषां भरतसत्तम

81

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः

जगृहुः सर्वम इष्वस्त्रम अर्जुनाद दिव्यमानुषम

82

देवगर्भॊपमैः पुत्रैर वयूढॊरस्कैर महाबलैः

अन्विता राजशार्दूल पाण्डवा मुदम आप्नुवन

1

[vai]

uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ

tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam

2

nāvamānaṃ kulasyāsya guḍā keśaḥ prayuktavān

saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam

3

arthalubdhān na vaḥ pārtho manyate sātvatān sadā

svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍava

4

pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate

vikramaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi

5

etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ

ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍava

6

ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī

eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti

7

bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ

kuntibhojātmajā putraṃ ko bubhūṣeta nārjunam

8

na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet

api sarveṣu lokeṣu saindra rudreṣu māriṣa

9

sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ

yoddhā pārthaś ca śīghrāstrāḥ ko nu tena samo bhavet

10

tam anudrutya sāntvena parameṇa dhanaṃjayam

nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā mati

11

yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram

praṇaśyed vo yaśaḥ sadyo na tu sāntve parājaya

12

tac chrutvā vāsudevasya tathā cakrur janādhipa

nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tata

13

uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ

puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ

pūrṇe tu dvādaśe varṣe khāṇḍava prastham āviśat

14

abhigamya sa rājānaṃ vinayena samāhitaḥ

abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān

15

taṃ draupadī pratyuvāca praṇayāt kurunandanam

tatraiva gaccha kaunteya yatra sā sātvatātmajā

subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate

16

tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ

sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt

17

subhadrāṃ tvaramāṇaś ca raktakauśeya vāsasam

pārthaḥ prasthāpayām āsa kṛtvā gopālikā vapu

18

sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī

bhavanaṃ śreṣṭham āsādya vīra patnī varāṅganā

vavande pṛthu tāmrākṣī pṛthāṃ bhadrā yaśasvinī

19

tato 'bhigamya tvaritā pūrṇendusadṛśānanā

vavande draupadīṃ bhadrā preṣyāham iti cābravīt

20

pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām

sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ

tathaiva muditā bhadrā tām uvācaivam astv iti

21

tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ

kuntī ca paramaprītā babhūva janamejaya

22

rutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam

arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā

23

jagāma viśuddhātmā saha rāmeṇa keśavaḥ

vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathai

24

bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ

sainyena mahatā śaurir abhiguptaḥ paraṃtapa

25

tatra dānapatir dhīmān ājagāma mahāyaśāḥ

akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdama

26

anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ

sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ

27

satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ

pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca

28

cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca

sāraṇaś ca mahābāhur gadaś ca viduṣāṃ vara

29

ete cānye ca bahavo vṛṣṇibhojāndhakās tathā

ājagmuḥ khāṇḍava prastham ādāya haraṇaṃ bahu

30

tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam

pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā

31

tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat

viveśa khāṇḍava prasthaṃ patākādhvajaśobhitam

32

siktasaṃmṛṣṭapanthānaṃ puṣpaprakara śobhitam

candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam

33

dahyatāguruṇā caiva deśe deśe sugandhinā

susaṃmṛṣṭa janākīrṇaṃ vaṇigbhir upaśobhitam

34

pratipede mahābāhuḥ saha rāmeṇa keśavaḥ

vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottama

35

saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ

viveśa bhavanaṃ rājñaḥ puraṃdara gṛhopamam

36

yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi

mūrdhni keśavam āghrāya paryaṣvajata bāhunā

37

taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat

bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat

38

tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ

pratijagrāha satkārair yathāvidhi yathopagam

39

guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat

kāṃś cid abhyavadat premṇā kaiś cid apy abhivādita

40

tato dadau vāsudevo janyārthe dhanam uttamam

haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ

41

rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām

caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ

sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca

42

rīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām

vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām

dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam

43

tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām

śatāny añjana keśīnāṃ śvetānāṃ pañca pañca ca

44

snapanotsādane caiva suyuktaṃ vayasānvitam

strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām

45

suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām

paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇa

46

kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ

manuṣyabhārān dāśārho dadau daśa janārdana

47

gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam

girikūṭa nikāśānāṃ samareṣv anivartinām

48

kḷptānāṃ paṭu ghaṇṭānāṃ varāṇāṃ hemamālinām

hastyārohair upetānāṃ sahasraṃ sāhasa priya

49

rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī

prīyamāṇo haladharaḥ saṃbandha prītim āvahan

50

sa mahādhanaratnaugho vastrakambala phenavān

mahāgajamahāgrāhaḥ patākā śaivalākula

51

pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ

pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat

52

pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ

pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān

53

te sametā mahātmānaḥ kuru vṛṣṇyandhakottamāḥ

vijahrur amarāvāse narāḥ sukṛtino yathā

54

tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ

yathāyogaṃ yathā prītivijahruḥ kuru vṛṣṇaya

55

evam uttamavīryās te vihṛtya divasān bahūn

pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm

56

rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ

ratnāny ādāya śubhrāṇi dattāni kurusattamai

57

vāsudevas tu pārthena tatraiva saha bhārata

uvāsa nagare ramye śakra prasthe mahāmanāḥ

vyacarad yamunā kūle pārthena saha bhārata

58

tataḥ subhadrā saubhadraṃ keśavasya priyā svasā

jayantam iva paulomī dyutimantam ajījanat

59

dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam

subhadrā suṣuve vīram abhimanyuṃ nararṣabham

60

abhīś ca manyumāṃś caiva tatas tam arimardanam

abhimanyum iti prāhur ārjuniṃ puruṣarṣabham

61

sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt

makhe nirmathyamānād vā śamī garbhād dhutāśana

62

yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ

ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvata

63

dayito vāsudevasya bālyāt prabhṛti cābhavat

pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ

64

janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ

sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī

65

catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ

arjunād veda vedajñāt sakalaṃ divyamānuṣam

66

vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ

kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat

67

game ca prayoge ca cakre tulyam ivātmanaḥ

tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjaya

68

sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam

durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam

69

siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam

meghadundubhi nirghoṣaṃ pūrṇacandranibhānanam

70

kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau

dadarśa putraṃ bībhatsur maghavān iva taṃ yathā

71

pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā

lebhe pañca sutān vīrāñ śubhān pañcācalān iva

72

yudhiṣṭhirāt prativindhyaṃ suta somaṃ vṛkodarāt

arjunāc chruta karmāṇaṃ śatānīkaṃ ca nākulim

73

sahadevāc chruta senam etān pañca mahārathān

pāñcālī suṣuve vīrān ādityān aditir yathā

74

ś
strataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram

parapraharaṇa jñāne prativindhyo bhavatv ayam

75

sute somasahasre tu somārka samatejasam

suta somaṃ maheṣvāsaṃ suṣuve bhīmasenata

76

rutaṃ karma mahat kṛtvā nivṛttena kirīṭinā

jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat

77

atānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ

cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam

78

tatas tv ajījanat kṛṣṇā nakṣatre vahni daivate

sahadevāt sutaṃ tasmāc chruta seneti taṃ vidu

79

ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ

anvajāyanta rājendra parasparahite ratāḥ

80

jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca

cakāra vidhivad dhaumyas teṣāṃ bharatasattama

81

kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ

jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam

82

devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ

anvitā rājaśārdūla pāṇḍavā mudam āpnuvan
masters of hardcore chapter xxvi| chapter xxvii
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 213