Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 90

Book 1. Chapter 90

The Mahabharata In Sanskrit


Book 1

Chapter 90

1

[ज]

शरुतस तवत्तॊ मया विप्र पूर्वेषां संभवॊ महान

उदाराश चापि वंशे ऽसमिन राजानॊ मे परिश्रुताः

2

किं तु लघ्व अर्थसंयुक्तं परियाख्यानं न माम अति

परीणात्य अतॊ भवान भूयॊ विस्तरेण बरवीतु मे

3

एताम एव कथां दिव्याम आप्रजा पतितॊ मनॊः

तेषाम आजननं पुण्यं कस्य न परीतिम आवहेत

4

सद धर्मगुणमाहात्म्यैर अभिवर्धितम उत्तमम

विष्टभ्य लॊकांस तरीन एषां यशः सफीतम अवस्थितम

5

गुणप्रभाव वीर्यौजः सत्त्वॊत्साहवताम अहम

न तृप्यामि कथां शृण्वन्न अमृतास्वाद संमिताम

6

[व]

शृणु राजन पुरा सम्यङ मया दवैपायनाच छरुतम

परॊच्यमानम इदं कृत्स्नं सववंशजननं शुभम

7

दक्षस्यादितिः

अदितेर विवस्वान

विवस्वतॊ मनुः

मनॊर इला

इलायाः पुरूरवाः

पुरूरवस आयुः

आयुषॊ नहुषः

नहुषस्य ययातिः

8

ययातेर दवे भार्ये बभूवतुः

उशनसॊ दुहिता देव यानी वृषपर्वणश च दुहिता शर्मिष्ठा नाम

अत्रानुवंशॊ भवति

9

यदुं च तुर्वसुं चैव देव यानी वयजायत

दरुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी

10

तत्र यदॊर यादवाः

पूरॊः पौरवाः

11

पूरॊर भार्या कौसल्या नाम

तस्याम अस्य जज्ञे जनमेजयॊ नाम

यस तरीन अश्वमेधान आजहार

विश्वजिता चेष्ट्वा वनं परविवेश

12

जनमेजयः खल्व अनन्तां नामॊपयेमे माधवीम

तस्याम अस्य जज्ञे पराचिन्वान

यः पराचीं दिशं जिगाय यावत सूर्यॊदयात

ततस तस्य पराचिन्वत्वम

13

पराचिन्वान खल्व अश्मकीम उपयेमे

तस्याम अस्य जज्ञे संयातिः

14

संयातिः खलु दृषद्वतॊ दुहितरं वराङ्गीं नामॊपयेमे

तस्याम अस्य जज्ञे अहं पातिः

15

अहं पातिस तु खलु कृतवीर्यदुहितरम उपयेमे भानुमतीं नाम

तस्याम अस्य जज्ञे सार्वभौमः

16

सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम

तस्याम अस्य जज्ञे जयत्सेनः

17

जयत्सेनः खलु वैदर्भीम उपयेमे सुषुवां नाम

तस्याम अस्य जज्ञे अराचीनः

18

अराचीनॊ ऽपि वैदर्भीम एवापराम उपयेमे मर्यादां नाम

तस्याम अस्य जज्ञे महाभौमः

19

महाभौमः खलु परासेनजितीम उपयेमे सुयज्ञां नाम

तस्याम अस्य जज्ञे अयुत नायी

यः पुरुषमेधानाम अयुतम आनयत

तद अस्यायुत नायित्वम

20

अयुतनायी खलु पृथुश्रवसॊ दुहितरम उपयेमे भासां नाम

तस्याम अस्य जज्ञे अक्रॊधनः

21

अक्रॊधनः खलु कालिनीं करण्डुं नामॊपयेमे

तस्याम अस्य जज्ञे देवातिथिः

22

देवातिथिः खलु वैदेहीम उपयेमे मर्यादां नाम

तस्याम अस्य जज्ञे ऋचः

23

ऋचः खल्व आङ्गेयीम उपयेमे सुदेवां नाम

तस्यां पुत्रम अजनयद ऋक्षम

24

ऋक्षः खलु तक्षक दुहितरम उपयेमे जवालां नाम

तस्यां पुत्रं मतिनारं नामॊत्पादयाम आस

25

मतिनारः खलु सरस्वत्यां दवादश वार्षिकं सत्रम आजहार

26

निवृत्ते च सत्रे सरस्वत्य अभिगम्य तं भर्तारं वरयाम आस

तस्यां पुत्रम अजनयत तंसुं नाम

27

अत्रानुवंशॊ भवति

28

तंसुं सरस्वती पुत्रं मतिनाराद अजीजनत

इलिनं जनयाम आस कालिन्द्यां तंसुर आत्मजम

29

इलिनस तु रथंतर्यां दुःषन्ताद्यान पञ्च पुत्रान अजनयत

30

दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामॊपयेमे

तस्याम अस्य जज्ञे भरतः

तत्र शलॊकौ भवतः

31

माता भस्त्रा पितुः पुत्रॊ येन जातः स एव सः

भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम

32

रेतॊ धाः पुत्र उन्नयति नरदेव यमक्षयात

तवं चास्य धाता गर्भस्य सत्याम आह शकुन्तला

33

ततॊ ऽसय भरतत्वम

34

भरतः खलु काशेयीम उपयेमे सार्वसेनीं सुनन्दां नाम

तस्याम अस्य जज्ञे भुमन्युः

35

भुमन्युः खलु दाशार्हीम उपयेमे जयां नाम

तस्याम अस्य जज्ञे सुहॊत्रः

36

सुहॊत्रः खल्व इक्ष्वाकुकन्याम उपयेमे सुवर्णां नाम

तस्याम अस्य जज्ञे हस्ती

य इदं हास्तिनपुरं मापयाम आस

एतद अस्य हास्तिनपुरत्वम

37

हस्ती खलु तरैगर्तीम उपयेमे यशॊधरां नाम

तस्याम अस्य जज्ञे विकुण्ठनः

38

विकुण्ठनः खलु दाशार्हीम उपयेमे सुदेवां नाम

तस्याम अस्य जज्ञे ऽजमीढः

39

अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम ऋक्षायां चेति

पृथक्पृथग वंशकरा नृपतयः

तत्र वंशकरः संवरणः

40

संवरणः खलु वैवस्वतीं तपतीं नामॊपयेमे

तस्याम अस्य जज्ञे कुरुः

41

कुरुः खलु दाशार्हीम उपयेमे शुभाङ्गीं नाम

तस्याम अस्य जज्ञे विडूरथः

42

विडूरथस तु मागधीम उपयेमे संप्रियां नाम

तस्याम अस्य जज्ञे ऽरुग्वान नाम

43

अरुग्वान खलु मागधीम उपयेमे ऽमृतां नाम

तस्याम अस्य जज्ञे परिक्षित

44

परिक्षित खलु बाहुदाम उपयेमे सुयशां नाम

तस्याम अस्य जज्ञे भीमसेनः

45

भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम

तस्याम अस्य जज्ञे पर्यश्रवाः

यम आहुः परतीपं नाम

46

परतीपः खलु शैब्याम उपयेमे सुनन्द्दां नाम

तस्यां पुत्रान उत्पादयाम आस देवापिं शंतनुं बाह्लीकं चेति

47

देवापिः खलु बाल एवारण्यं परविवेश

शंतनुस तु महीपालॊ ऽभवत

अत्रानुवंशॊ भवति

48

यं यं कराभ्यां सपृशति जीर्णं स सुखम अश्नुते

पुनर युवा च भवति तस्मात तं शंतनुं विदुः

49

तद अस्य शंतनुत्वम

50

शंतनुः खलु गनां भागीरथीम उपयेमे

तस्याम अस्य जज्ञे देवव्रतः

यम आहुर भीष्म इति

51

भीष्मः खलु पितुः परियचिकीर्षया सत्यवतीम उदवहन मातरम

याम आहुर गन्धकालीति

52

तस्यां कानीनॊ गर्भः पराशराद दवैपायनः

तस्याम एव शंतनॊर दवौ पुत्रॊ बभूवतुः

चित्राङ्गदॊ विचित्रवीर्यश च

53

तयॊर अप्राप्तयौवन एव चित्राङ्गदॊ गन्धर्वेण हतः

विचित्रवीर्यस तु राजा समभवत

54

विचित्रवीर्यः खलु कौसल्यात्मजे ऽमबिकाम्बालिके काशिराज दुहितराव उपयेमे

55

विचित्रवीर्यस तव अनपत्य एव विदेहत्वं पराप्तः

56

ततः सत्यवती चिन्तयाम आस

दौःषन्तॊ वंश उच्छिद्यते इति

57

सा दवैपायनम ऋषिं चिन्तयाम आस

58

स तस्याः पुरतः सथितः किं करवाणीति

59

सा तम उवाच

भराता तवानपत्य एव सवर्यातॊ विचित्रवीर्यः

साध्व अपत्यं तस्यॊत्पादयेति

60

स परम इत्य उक्त्वा तरीन पुत्रान उत्पादयाम आस धृतराष्ट्रं पाण्डुं विदुरं चेति

61

तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद दवैपायनस्य

62

तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः परधाना बभूवुर दुर्यॊधनॊ दुःशासनॊ विकर्णश चित्रसेनेति

63

पाण्डॊस तु दवे भार्ये बभूवतुः कुन्ती माद्री चेत्य उभे सत्रीरत्ने

64

अथ पाण्डुर मृगयां चरन मैथुन गतम ऋषिम अपश्यन मृग्यां वर्तमानम

तथैवाप्लुत मनासादित कामरसम अतृप्तं बाणेनाभिजघान

65

स बाणविद्धॊवाच पाण्डुम

चरता धर्मम इयं येन तवयाभिज्ञेन कामरसस्याहम अनवाप्तकामरसॊ ऽभिहतस तस्मात तवम अप्य एताम अवस्थाम आसाद्यानवाप्त कामरसः पञ्चत्वम आप्स्यसि कषिप्रम एवेति

66

स विवर्णरूपः पाण्डुः शापं परिहरमाणॊ नॊपासर्पत भार्ये

67

वाक्यं चॊवाच

सवचापल्याद इदं पराप्तवान अहम

शृणॊमि च नानपत्यस्य लॊका सन्तीति

68

सा तवं मदर्थे पुत्रान उत्पादयेति कुन्तीम उवाच

69

सा तत्र पुत्रान उत्पादयाम आस धर्माद युधिष्ठिरं मारुताद भीमसेनं शक्राद अर्जुनम इति

70

स तां हृष्टरूपः पाण्डुर उवाच

इयं ते सपत्न्यनपत्या

साध्व अस्याम अपत्यम उत्पाद्यताम इति

71

सैवम अस्त्व इत्य उक्तः कुन्त्या

72

ततॊ माद्र्याम अश्विभ्यां नकुल सहदेवाव उत्पादितौ

73

माद्रीं खल्व अलंकृतां दृष्ट्वा पाण्डुर भावं चक्रे

74

स तां सपृष्ट्वैव विदेहत्वं पराप्तः

75

तत्रैनं चितास्थं माद्री समन्वारुरॊह

76

उवाच कुन्तीम

यमयॊर आर्ययाप्रमत्तया भवितव्यम इति

77

ततस ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम आनीय तापसैर भीष्मस्य विदुरस्य च निवेदिताः

78

तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन

79

ततश च हिडिम्बम अन्तरा हत्वैक चक्रां गताः

80

तस्याम अप्य एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम अभिगताः

81

तस्माद दरौपदीं भार्याम अविन्दन सवविषयं चाजग्मुः कुशलिनः

82

पुत्रांश चॊत्पादयाम आसुः

परतिविन्ध्यं युधिष्ठिरः

सुत सॊमं वृकॊदरः

शरुतकीर्तिम अर्जुनः

शतानीकं नकुलः

शरुतकर्माणं सहदेवेति

83

युधिष्ठिरस तु गॊवासनस्य शैब्यस्य देविकां नाम कन्यां सवयंवरे लेभे

तस्यां पुत्रं जनयाम आस यौधेयं नाम

84

भीमसेनॊ ऽपि काश्यां बलधरां नामॊपयेमे वीर्यशुल्काम

तस्यां पुत्रं सर्वगं नामॊत्पादयाम आस

85

अर्जुनः खलु दवारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम उदवहत

तस्यां पुत्रम अभिमन्युं नाम जनयाम आस

86

नकुलस तु चैद्यां करेणुवतीं नाम भार्याम उदवहत

तस्यां पुत्रं निरमित्रं नामाजनयत

87

सहदेवॊ ऽपि माद्रीम एव सवयंवरे विजयां नामॊपयेमे

तस्यां पुत्रम अजनयत सुहॊत्रं नाम

88

भीमसेनस तु पूर्वम एव हिडिम्बायां राक्षस्यां घटॊत्कचं नाम पुत्रं जनयाम आस

89

इत्य एत एकादश पाण्डवानां पुत्राः

90

विराटस्य दुहितरम उत्तरां नामाभिमन्युर उपयेमे

तस्याम अस्य परासुर गर्भॊ ऽजायत

91

तम उत्सङ्गेन परतिजग्राह पृथा नियॊगात पुरुषॊत्तमस्य वासुदेवस्य

षाण्मासिकं गर्भम अहम एनं जीवयिष्यामीति

92

संजीवयित्वा चैनम उवाच

परिक्षीणे कुले जातॊ भवत्व अयं परिक्षिन नामेति

93

परिक्षित तु खलु माद्रवतीं नामॊपयेमे

तस्याम अस्य जनमेजयः

94

जनमेजयात तु वपुष्टमायां दवौ पुत्रौ शतानीकः शङ्कुश च

95

शतानीकस तु खलु वैदेहीम उपयेमे

तस्याम अस्य जज्ञे पुत्रॊ ऽशवमेध दत्तः

96

इत्य एष पूरॊर वंशस तु पाण्डवानां च कीर्तितः

पूरॊर वंशम इमं शरुत्वा सर्वपापैः परमुच्यते

1

[j]

śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān

udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ

2

kiṃ tu laghv arthasaṃyuktaṃ priyākhyānaṃ na mām ati

prīṇāty ato bhavān bhūyo vistareṇa bravītu me

3

etām eva kathāṃ divyām āprajā patito manoḥ

teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet

4

sad dharmaguṇamāhātmyair abhivardhitam uttamam

viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam

5

guṇaprabhāva vīryaujaḥ sattvotsāhavatām aham

na tṛpyāmi kathāṃ śṛvann amṛtāsvāda saṃmitām

6

[v]

śṛ
u rājan purā samyaṅ mayā dvaipāyanāc chrutam

procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham

7

dakṣasyāditiḥ

aditer vivasvān

vivasvato manuḥ

manor ilā

ilāyāḥ purūravāḥ

purūravasa āyuḥ

āyuṣo nahuṣaḥ

nahuṣasya yayāti

8

yayāter dve bhārye babhūvatuḥ

uśanaso duhitā deva yānī vṛṣaparvaṇaś ca duhitā śarmiṣṭhā nāma

atrānuvaṃśo bhavati

9

yaduṃ ca turvasuṃ caiva deva yānī vyajāyata

druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī

10

tatra yador yādavāḥ

pūroḥ pauravāḥ

11

pūror bhāryā kausalyā nāma

tasyām asya jajñe janamejayo nāma

yas trīn aśvamedhān ājahāra

viśvajitā ceṣṭvā vanaṃ praviveśa

12

janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm

tasyām asya jajñe prācinvān

yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt

tatas tasya prācinvatvam

13

prācinvān khalv aśmakīm upayeme

tasyām asya jajñe saṃyāti

14

saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme

tasyām asya jajñe ahaṃ pāti

15

ahaṃ pātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma

tasyām asya jajñe sārvabhauma

16

sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma

tasyām asya jajñe jayatsena

17

jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma

tasyām asya jajñe arācīna

18

arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma

tasyām asya jajñe mahābhauma

19

mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma

tasyām asya jajñe ayuta nāyī

yaḥ puruṣamedhānām ayutam ānayat

tad asyāyuta nāyitvam

20

ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma

tasyām asya jajñe akrodhana

21

akrodhanaḥ khalu kālinīṃ karaṇḍuṃ nāmopayeme

tasyām asya jajñe devātithi

22

devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma

tasyām asya jajñe ṛca

23

caḥ khalv āṅgeyīm upayeme sudevāṃ nāma

tasyāṃ putram ajanayad ṛkṣam

24

kṣaḥ khalu takṣaka duhitaram upayeme jvālāṃ nāma

tasyāṃ putraṃ matināraṃ nāmotpādayām āsa

25

matināraḥ khalu sarasvatyāṃ dvādaśa vārṣikaṃ satram ājahāra

26

nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa

tasyāṃ putram ajanayat taṃsuṃ nāma

27

atrānuvaṃśo bhavati

28

taṃsuṃ sarasvatī putraṃ matinārād ajījanat

ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam

29

ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat

30

duḥṣantaḥ khalu viśvāmitra duhitaraṃ śakuntalāṃ nāmopayeme

tasyām asya jajñe bharataḥ

tatra ślokau bhavata

31

mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ

bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām

32

reto dhāḥ putra unnayati naradeva yamakṣayāt

tvaṃ cāsya dhātā garbhasya satyām āha śakuntalā

33

tato 'sya bharatatvam

34

bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma

tasyām asya jajñe bhumanyu

35

bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma

tasyām asya jajñe suhotra

36

suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma

tasyām asya jajñe hastī

ya idaṃ hāstinapuraṃ māpayām āsa

etad asya hāstinapuratvam

37

hastī khalu traigartīm upayeme yaśodharāṃ nāma

tasyām asya jajñe vikuṇṭhana

38

vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma

tasyām asya jajñe 'jamīḍha

39

ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndharyāṃ vimalāyām ṛkṣāyāṃ ceti

pṛthakpṛthag vaṃśakarā nṛpatayaḥ

tatra vaṃśakaraḥ saṃvaraṇa

40

saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme

tasyām asya jajñe kuru

41

kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma

tasyām asya jajñe viḍūratha

42

viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma

tasyām asya jajñe 'rugvān nāma

43

arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma

tasyām asya jajñe parikṣit

44

parikṣit khalu bāhudām upayeme suyaśāṃ nāma

tasyām asya jajñe bhīmasena

45

bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma

tasyām asya jajñe paryaśravāḥ

yam āhuḥ pratīpaṃ nāma

46

pratīpaḥ khalu śaibyām upayeme sunanddāṃ nāma

tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti

47

devāpiḥ khalu bāla evāraṇyaṃ praviveśa

śaṃtanus tu mahīpālo 'bhavat

atrānuvaṃśo bhavati

48

yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute

punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ vidu

49

tad asya śaṃtanutvam

50

aṃtanuḥ khalu ganāṃ bhāgīrathīm upayeme

tasyām asya jajñe devavrataḥ

yam āhur bhīṣma iti

51

bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram

yām āhur gandhakālīti

52

tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ

tasyām eva śaṃtanor dvau putro babhūvatuḥ

citrāṅgado vicitravīryaś ca

53

tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ

vicitravīryas tu rājā samabhavat

54

vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirāja duhitarāv upayeme

55

vicitravīryas tv anapatya eva videhatvaṃ prāpta

56

tataḥ satyavatī cintayām āsa

dauḥṣanto vaṃśa ucchidyate iti

57

sā dvaipāyanam ṛṣiṃ cintayām āsa

58

sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti

59

sā tam uvāca

bhrātā tavānapatya eva svaryāto vicitravīryaḥ

sādhv apatyaṃ tasyotpādayeti

60

sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti

61

tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya

62

teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citraseneti

63

pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne

64

atha pāṇḍur mṛgayāṃ caran maithuna gatam ṛṣim apaśyan mṛgyāṃ vartamānam

tathaivāpluta manāsādita kāmarasam atṛptaṃ bāṇenābhijaghāna

65

sa bāṇaviddhovāca pāṇḍum

caratā dharmam iyaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyānavāpta kāmarasaḥ pañcatvam āpsyasi kṣipram eveti

66

sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye

67

vākyaṃ covāca

svacāpalyād idaṃ prāptavān aham

śṛ
omi ca nānapatyasya lokā santīti

68

sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca

69

sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti

70

sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca

iyaṃ te sapatnyanapatyā

sādhv asyām apatyam utpādyatām iti

71

saivam astv ity uktaḥ kuntyā

72

tato mādryām aśvibhyāṃ nakula sahadevāv utpāditau

73

mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre

74

sa tāṃ spṛṣṭvaiva videhatvaṃ prāpta

75

tatrainaṃ citāsthaṃ mādrī samanvāruroha

76

uvāca kuntīm

yamayor āryayāpramattayā bhavitavyam iti

77

tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ

78

tatrāpi jatu gṛhe dagdhuṃ samārabdhā na śakitā vidura mantritena

79

tataś ca hiḍimbam antarā hatvaika cakrāṃ gatāḥ

80

tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcāla nagaram abhigatāḥ

81

tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalina

82

putrāṃś cotpādayām āsuḥ

prativindhyaṃ yudhiṣṭhiraḥ

suta somaṃ vṛkodaraḥ

śrutakīrtim arjunaḥ

śatānīkaṃ nakulaḥ

śrutakarmāṇaṃ sahadeveti

83

yudhiṣṭhiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe

tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma

84

bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām

tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa

85

arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat

tasyāṃ putram abhimanyuṃ nāma janayām āsa

86

nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat

tasyāṃ putraṃ niramitraṃ nāmājanayat

87

sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme

tasyāṃ putram ajanayat suhotraṃ nāma

88

bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa

89

ity eta ekādaśa pāṇḍavānāṃ putrāḥ

90

virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme

tasyām asya parāsur garbho 'jāyata

91

tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya

ṣā
māsikaṃ garbham aham enaṃ jīvayiṣyāmīti

92

saṃjīvayitvā cainam uvāca

parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti

93

parikṣit tu khalu mādravatīṃ nāmopayeme

tasyām asya janamejaya

94

janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca

95

atānīkas tu khalu vaidehīm upayeme

tasyām asya jajñe putro 'śvamedha datta

96

ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ

pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate
veda in sanskrit| veda in sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 90