Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 137

Book 12. Chapter 137

The Mahabharata In Sanskrit


Book 12

Chapter 137

1

[य]

उक्तॊ मन्त्रॊ महाबाहॊ न विश्वासॊ ऽसति शत्रुषु

कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत

2

विश्वासाद धि परं राज्ञॊ राजन्न उत्पद्यते भयम

कथं वै नाश्वसन राजा शत्रूञ जयति पार्थिव

3

एतन मे संशयं छिन्धि मनॊ मे संप्रमुह्यति

अविश्वास कथाम एताम उपश्रुत्य पितामह

4

[भ]

शृणु कौन्तेय यॊ वृत्तॊ बरह्मदत्तनिवेशने

पूजन या सह संवादॊ बरह्मदत्तस्य पार्थिव

5

काम्पिल्ये बरह्मदत्तस्य अन्तःपुरनिवासिनी

पूजनी नाम शकुनी दीर्घकालं सहॊषिता

6

रुतज्ञा सर्वभूतानां यथा वै जीव जीवकः

सर्वज्ञा सर्वधर्मज्ञा तिर्यग्यॊनिगतापि सा

7

अभिप्रजाता सा तत्र पुत्रम एकं सुवर्चसम

समकालं च राज्ञॊ ऽपि देव्याः पुत्रॊ वयजायत

8

समुद्रतीरं गत्वा सा तव आजहार फलद्वयम

पुष्ट्य अर्थं च सवपुत्रस्य राजपुत्रस्य चैव ह

9

फलम एकं सुतायादाद राजपुत्राय चापरम

अमृतास्वाद सदृशं बलतेजॊ विवर्धनम

तत्रागच्छत परां वृद्धिं राजपुत्रः फलाशनात

10

धात्र्या हस्तगतश चापि तेनाक्रीडत पक्षिणा

शून्ये तु तम उपादाय पक्षिणं समजातकम

हत्वा ततः स राजेन्द्र धात्र्या हस्तम उपागमत

11

अथ सा शकुनी राजन्न आगमत फलहारिका

अपश्यन निहतं पुत्रं तेन बालेन भूतले

12

बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम

पूजनी दुःखसंतप्ता रुदती वाक्यम अब्रवीत

13

कषत्रिये संगतं नास्ति न परीतिर न च सौहृदम

कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च

14

कषत्रियेषु न विश्वासः कार्यः सर्वॊपघातिषु

अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम

15

अहम अस्य करॊम्य अद्य सदृशीं वैरयातनाम

कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः

16

सह संजातवृद्धस्य तथैव सह भॊजिनः

शरणा गतस्य च वधस तरिविधं हय अस्य किल्बिषम

17

इत्य उक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा

भित्त्वा सवस्था तत इदं पूजनी वाक्यम अब्रवीत

18

इच्छयैव कृतं पापं सद्य एवॊपसर्पति

कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम

19

पापं कर्मकृतं किं चिन न तस्मिन यदि विद्यते

निपात्यते ऽसय पुत्रेषु न चेत पौत्रेषु नप्तृषु

20

[ब]

अस्ति वै कृतम अस्माभिर अस्ति परतिकृतं तवया

उभयं तत समीभूतं वस पूजनि मा गमः

21

[प]

सकृत कृतापराधस्य तत्रैव परिलम्बतः

न तद बुधाः परशंसन्ति शरेयस तत्रापसर्पणम

22

सान्त्वे परयुक्ते नृपते कृतवैरे न विश्वसेत

कषिप्रं परबध्यते मूढॊ न हि वैरं परशाम्यति

23

अन्यॊन्यं कृतवैराणां पुत्रपौत्रं निगच्छति

पुत्रपौत्रे विनष्टे तु परलॊकं निगच्छति

24

सर्वेषां कृतवैराणाम अविश्वासः सुखावहः

एकान्ततॊ न विश्वासः कार्यॊ विश्वासघातकः

25

न विश्वसेद अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत

कामं विश्वासयेद अन्यान परेषां तु न विश्वसेत

26

माता पिता बान्धवानां परिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः

भराता शत्रुः कलिन्नपाणिर वयस्य; आत्मा हय एकः सुखदुःखस्य वेत्ता

27

अन्यॊन्यकृतवैराणां न संधिर उपपद्यते

स च हेतुर अतिक्रान्तॊ यदर्थम अहम आवसम

28

पूजितस्यार्थ मानाभ्यां जन्तॊः पूर्वापकारिणः

चेतॊ भवत्य अविश्वस्तं पूर्वं तरासयते बलात

29

पूर्वं संमानना यत्र पश्चाच चैव विमानना

जह्यात तं सत्त्ववान वासं संमानित विमानितः

30

उषितास्मि तवागारे दीर्घकालम अहिंसिता

तद इदं वैरम उत्पन्नं सुखम आस्स्व वरजाम्य अहम

31

[ब]

यत्कृते परतिकुर्याद वै न स तत्रापराध्नुयात

अनृणस तेन भवति वस पूजानि मा गमः

32

[प]

न कृतस्य न कर्तुश च सख्यं संधीयते पुनः

हृदयं तत्र जानाति कर्तुश चैव कृतस्य च

33

[ब]

कृतस्य चैव कर्तुश च सख्यं संधीयते पुनः

वैरस्यॊपशमॊ दृष्टः पापं नॊपाश्नुते पुनः

34

[प]

नास्ति वैरम उपक्रान्तं सान्त्वितॊ ऽसमीति नाश्वसेत

विश्वासाद बध्यते बालस तस्माच छरेयॊ हय अदर्शनम

35

तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैर अपि

साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः

36

[ब]

संवासाज जायते सनेहॊ जीवितान्तकरेष्व अपि

अन्यॊन्यस्य च विश्वासः शवपचेन शुनॊ यथा

37

अन्यॊन्यकृतवैराणां संवासान मृदुतां गतम

नैव तिष्ठति तद वैरं पुष्करस्थम इवॊदकम

38

[प]

वैरं पञ्च समुत्थानं तच च बुध्यन्ति पण्डिताः

सत्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम

39

तत्र दाता निहन्तव्यः कषत्रियेण विशेषतः

परकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम

40

कृतवैरे न विश्वासः कार्यस तव इह सुहृद्य अपि

छन्नं संतिष्ठते वैरं गूढॊ ऽगनिर इव दारुषु

41

न वित्तेन न पारुष्यैर न सान्त्वेन न च शरुतैः

वैराग्निः शाम्यते राजन्न और्वाग्निर इव सागरे

42

न हि वैराग्निर उद्भूतः कर्म वाप्य अपराधजम

शाम्यत्य अदग्ध्वा नृपते विना हय एकतर कषयात

43

सत्कृतस्यार्थ मानाभ्यां सयात तु पूर्वापकारिणः

नैव शान्तिर न विश्वासः कर्म तरासयते बलात

44

नैवापकारे कस्मिंश चिद अहं तवयि तथा भवान

विश्वासाद उषिता पूर्वं नेदानीं विश्वसाम्य अहम

45

[ब]

कालेन करियते कार्यं तथैव विविधाः करियाः

कालेनैव परवर्तन्ते कः कस्येहापराध्यति

46

तुल्यं चॊभे परवर्तेते मरणं जन्म चैव ह

कार्यते चैव कालेन तन्निमित्तं हि जीवति

47

बध्यन्ते युगपत के चिद एकैकस्य न चापरे

कालॊ दहति पूतानि संप्राप्याग्निर इवेन्धनम

48

नाहं परमाणं नैव तवम अन्यॊन्यकरणे शुभे

कालॊ नित्यम उपाधत्ते सुखं दुःखं च देहिनाम

49

एवं वसेह स सनेहा यथाकालम अहिंसिता

यत्कृतं तच च मे कषान्तं तवं चैव कषम पूजनि

50

[प]

यदि कालः परमाणं ते न वैरं कस्य चिद भवेत

कस्मात तव अपचितिं यान्ति बान्धवा बान्धवे हते

51

कस्माद देवासुराः पूर्वम अन्यॊन्यम अभिजघ्निरे

यदि कालेन निर्याणं सुखदुःखे भवाभवौ

52

भिषजॊ भेषजं कर्तुं कस्माद इच्छन्ति रॊगिणे

यदि कालेन पच्यन्ते भेषजैः किं परयॊजनम

53

परलापः करियते कस्मात सुमहाञ शॊकमूर्छितैः

यदि कालः परमाणं ते कस्माद धर्मॊ ऽसति कर्तृषु

54

तव पुत्रॊ ममापत्यं हतवान हिंसितॊ मया

अनन्तरं तवया चाहं बन्धनीया महीपते

55

अहं हि पुत्रशॊकेन कृतपापा तवात्मजे

तथा तवया परहर्तव्यं मयि तत्त्वं च मे शृणु

56

भक्षार्थं करीडनार्थं वा नरा वाञ्छन्ति पक्षिणः

तृतीयॊ नास्ति संयॊगॊ वधबन्धाद ऋते कषमः

57

वधबन्धभयाद एके मॊक्षतन्त्रम उपागताः

मरणॊत्पातजं दुःखम आहुर धर्मविदॊ जनाः

58

सर्वस्य दयिताः पराणाः सर्वस्य दयिताः सुताः

दुःखाद उद्विजते सर्वः सर्वस्य सुखम ईप्सितम

59

दुःखं जरा बरह्मदत्तदुःखम अर्थविपर्ययः

दुःखं चानिष्ट संवासॊ दुःखम इष्टवियॊगजम

60

वैरबन्धकृतं दुःखं हिंसाजं सत्रीकृतं तथा

दुःखं सुखेन सततं जनाद विपरिवर्तते

61

न दुःखं परदुःखे वै के चिद आहुर अबुद्धयः

यॊ दुःखं नाभिजानाति स जल्पति महाजने

62

यस तु शॊचति दुःखार्तः स कथं वक्तुम उत्सहेत

रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे

63

यत्कृतं ते मया राजंस तवया च मम यत्कृतम

न तद वर्षशतैः शक्यं वयपॊहितुम अरिंदम

64

आवयॊः कृतम अन्यॊन्यं तत्र संधिर न विद्यते

समृत्वा समृत्वा हि ते पुत्रं नवं वैरं भविष्यति

65

वैरम अन्तिकम आसज्य यः परीतिं कर्तुम इच्छति

मृन्मयस्येव भग्नस्य तस्य संधिर न विद्यते

66

निश्चितश चार्थशास्त्रज्ञैर अविश्वासः सुखॊदयः

उशनाश चाथ गाथे दवे परह्रादायाब्रवीत पुरा

67

ये वैरिणः शरद्दधते सत्ये सत्येतरे ऽपि वा

ते शरद्दधाना वध्यन्ते मधु शुष्ककृणैर यथा

68

न हि वैराणि शाम्यन्ति कुलेष्व आ दशमाद युगात

आख्यातारश च विद्यन्ते कुले चेद विद्यते पुमान

69

उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः

अथैनं परतिपिंषन्ति पूर्णं घटम इवाश्मनि

70

सदा न विश्वसेद राजन पापं कृत्वेह कस्य चित

अपकृत्य परेषां हि विश्वासाद दुःखम अश्नुते

71

[ब]

नाविश्वासाच चिन्वते ऽरहान नेहन्ते चापि किं चन

भयाद एकतरान नित्यं मृतकल्पा भवन्ति च

72

[प]

यस्येह वरणिनौ पादौ पद्भ्यां च परिसर्पति

कषण्येते तस्य तौ पादौ सुगुप्तम अभिधावतः

73

नेत्राभ्यां स रुजाभ्यां यः परतिवातम उदीक्षते

तस्य वायुरुजात्यर्थं नेत्रयॊर भवति धरुवम

74

दुष्टं पन्थानम आश्रित्य यॊ मॊहाद अभिपद्यते

आत्मनॊ बलम अज्ञत्वा तद अन्तं तस्य जीवितम

75

यस तु वर्षम अविज्ञाय कषेत्रं कृषति मानवः

हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः

76

यश च तिक्तं कषायं वाप्य आस्वाद विधुरं हितम

आहारं कुरुते नित्यं सॊ ऽमृतत्वाय कल्पते

77

पथ्यं भुक्त्वा नरॊ लॊभाद यॊ ऽनयद अश्नाति भॊजनम

परिणामम अविज्ञाय तद अन्तं तस्य जीवितम

78

दैवं पुरुषकारश च सथिताव अन्यॊन्यसंश्रयात

उदात्तानां कर्म तन्त्रं दैवं कलीबा उपासते

79

कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु

गरस्यते ऽकर्म शीलस तु सदानर्थैर अकिंचनः

80

तस्मात संशयिते ऽपय अर्थे कार्य एव पराक्रमः

सर्वस्वम अपि संत्यज्य कार्यम आत्महितं नरैः

81

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चकम

मित्राणि सहजान्य आहुर वर्तयन्तीह यैर बुधाः

82

निवेशनं च कुप्यं च कषेत्रं भार्या सुहृज्जनः

एतान्य उपचितान्य आहुः सर्वत्र लभते पुमान

83

सर्वत्र रमते पराज्ञः सर्वत्र च विरॊचते

न विभीषयते कं चिद भीषितॊ न बिभेति च

84

नित्यं बुद्धिमतॊ हय अर्थः सवल्पकॊ ऽपि विवर्धते

दाक्ष्येण कुरुते कर्म संयमात परतितिष्ठति

85

गृहस्नेहावबद्धानां नराणाम अल्पमेधसाम

कुस्त्री खादति मांसानि माघमा सेगवाम इव

86

गृहं कषेत्राणि मित्राणि सवदेश इति चापरे

इत्य एवम अवसीदन्ति नरा बुद्धिविपर्यये

87

उत्पतेत सरुजाद देशाद वयाधिदुर्भिक्ष पीडितात

अन्यत्र वस्तुं गच्छेद वा वसेद वा नित्यमानितः

88

तस्माद अन्यत्र यास्यामि वस्तुं नाहम इहॊत्सहे

कृतम एतद अनाहार्यं तव पुत्रेण पार्थिव

89

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम

कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत

90

कुमित्रे नास्ति विश्वासः कुभार्यायां कुतॊ रतिः

कुराज्ये निर्वृतिर नास्ति कुदेशे न परजीव्यते

91

कुमित्रे संगतं नास्ति नित्यम अस्थिरसौहृदे

अवमानः कुसंबन्धे भवत्य अर्थविपर्यये

92

सा भार्या या परियं बरूते सपुत्रॊ यत्र निर्वृतिः

तन मित्रं यत्र विश्वासः स देशॊ यत्र जीव्यते

93

यत्र नास्ति बलात कारः स राजा तीव्रशासनः

न चैव हय अभिसंबन्धॊ दरिद्रं यॊ बुभूषति

94

भार्या देशॊ ऽथ मित्राणि पुत्र संबन्धिबान्धवाः

एतत सर्वं गुणवति धर्मनेत्रे महीपतौ

95

अधर्मज्ञस्य विलयं परजा गच्छन्त्य अनिग्रहात

राजा मूलं तरिवर्गस्य अप्रमत्तॊ ऽनुपालयन

96

बलिषड भागम उद्धृत्य बलिं तम उपयॊजयेत

न रक्षति परजाः सम्यग यः स पार्थिव तस्करः

97

दत्त्वाभयं यः सवयम एव राजा; न तत परमाणं कुरुते यथावत

स सर्वलॊकाद उपलभ्य पापम; अधर्मबुद्धिर निरयं परयाति

98

दत्त्वाभयं यः सम राजा परमाणं कुरुते सदा

स सर्वसुखकृज जञेयः परजा धर्मेण पालयन

99

पिता माता गुरुर गॊप्ता वह्निर वैश्रवणॊ यमः

सप्त राज्ञॊ गुणान एतान मनुर आह परजापतिः

100

पिता हि राजा राष्ट्रस्य परजानां यॊ ऽनुकम्पकः

तस्मिन मिथ्या परणीते हि तिर्यग गच्छति मानवः

101

संभावयति मातेव दीनम अभ्यवपद्यते

दहत्य अग्निर इवानिष्टान यमयन भवते यमः

102

इष्टेषु विसृजत्य अर्थान कुबेर इव कामदः

गुरुर धर्मॊपदेशेन गॊप्ता च परिपालनात

103

यस तु रञ्जयते राजा पौरजानपदान गुणैः

न तस्य भरश्यते राज्यं गुणधर्मानुपालनात

104

सवयं समुपजानन हि पौरजानपद करियाः

स सुखं मॊदते भूप इह लॊके परत्र च

105

नित्यॊद्विग्नाः परजा यस्य करभार परपीडिताः

अनर्थैर विप्रलुप्यन्ते स गच्छति पराभवम

106

परजा यस्य विवर्धन्ते सरसीव महॊत्पलम

स सर्वयज्ञफलभाग राजा लॊके महीयते

107

बलिना विग्रहॊ राजन न कथं चित परशस्यते

बलिना विगृहीतस्य कुतॊ राज्यं कुतः सुखम

108

[भ]

सैवम उक्त्वा शकुनिका बरह्मदत्तं नराधिपम

राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम

109

एतत ते बरह्मदत्तस्य पूजन्या सह भाषितम

मयॊक्तं भरतश्रेष्ठ किम अन्यच छरॊतुम इच्छसि

1

[y]

ukto mantro mahābāho na viśvāso 'sti śatruṣu

kathaṃ hi rājā varteta yadi sarvatra nāśvaset

2

viśvāsād dhi paraṃ rājño rājann utpadyate bhayam

kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva

3

etan me saṃśayaṃ chindhi mano me saṃpramuhyati

aviśvāsa kathām etām upaśrutya pitāmaha

4

[bh]

śṛ
u kaunteya yo vṛtto brahmadattaniveśane

pūjan yā saha saṃvādo brahmadattasya pārthiva

5

kāmpilye brahmadattasya antaḥpuranivāsinī

pūjanī nāma śakunī dīrghakālaṃ sahoṣitā

6

rutajñā sarvabhūtānāṃ yathā vai jīva jīvakaḥ

sarvajñā sarvadharmajñā tiryagyonigatāpi sā

7

abhiprajātā sā tatra putram ekaṃ suvarcasam

samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata

8

samudratīraṃ gatvā sā tv ājahāra phaladvayam

puṣṭy arthaṃ ca svaputrasya rājaputrasya caiva ha

9

phalam ekaṃ sutāyādād rājaputrāya cāparam

amṛtāsvāda sadṛśaṃ balatejo vivardhanam

tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt

10

dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā

ś
nye tu tam upādāya pakṣiṇaṃ samajātakam

hatvā tataḥ sa rājendra dhātryā hastam upāgamat

11

atha sā śakunī rājann āgamat phalahārikā

apaśyan nihataṃ putraṃ tena bālena bhūtale

12

bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam

pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt

13

kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam

kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca

14

kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu

apakṛtyāpi satataṃ sāntvayanti nirarthakam

15

aham asya karomy adya sadṛśīṃ vairayātanām

kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātina

16

saha saṃjātavṛddhasya tathaiva saha bhojinaḥ

śaraṇā gatasya ca vadhas trividhaṃ hy asya kilbiṣam

17

ity uktvā caraṇābhyāṃ tu netre nṛpasutasya sā

bhittvā svasthā tata idaṃ pūjanī vākyam abravīt

18

icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati

kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham

19

pāpaṃ karmakṛtaṃ kiṃ cin na tasmin yadi vidyate

nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu

20

[b]

asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā

ubhayaṃ tat samībhūtaṃ vasa pūjani mā gama

21

[p]

sakṛt kṛtāparādhasya tatraiva parilambataḥ

na tad budhāḥ praśaṃsanti śreyas tatrāpasarpaṇam

22

sāntve prayukte nṛpate kṛtavaire na viśvaset

kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati

23

anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati

putrapautre vinaṣṭe tu paralokaṃ nigacchati

24

sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ

ekāntato na viśvāsaḥ kāryo viśvāsaghātaka

25

na viśvased aviśvaste viśvaste 'pi na viśvaset

kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset

26

mātā pitā bāndhavānāṃ pariṣṭhau; bhāryā jarā bījamātraṃ tu putraḥ

bhrātā śatruḥ klinnapāṇir vayasya; ātmā hy ekaḥ sukhaduḥkhasya vettā

27

anyonyakṛtavairāṇāṃ na saṃdhir upapadyate

sa ca hetur atikrānto yadartham aham āvasam

28

pūjitasyārtha mānābhyāṃ jantoḥ pūrvāpakāriṇaḥ

ceto bhavaty aviśvastaṃ pūrvaṃ trāsayate balāt

29

pūrvaṃ saṃmānanā yatra paścāc caiva vimānanā

jahyāt taṃ sattvavān vāsaṃ saṃmānita vimānita

30

uṣitāsmi tavāgāre dīrghakālam ahiṃsitā

tad idaṃ vairam utpannaṃ sukham āssva vrajāmy aham

31

[b]

yatkṛte pratikuryād vai na sa tatrāparādhnuyāt

anṛṇas tena bhavati vasa pūjāni mā gama

32

[p]

na kṛtasya na kartuś ca sakhyaṃ saṃdhīyate punaḥ

hṛdayaṃ tatra jānāti kartuś caiva kṛtasya ca

33

[b]

kṛtasya caiva kartuś ca sakhyaṃ saṃdhīyate punaḥ

vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute puna

34

[p]

nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset

viśvāsād badhyate bālas tasmāc chreyo hy adarśanam

35

tarasā ye na śakyante śastraiḥ suniśitair api

sāmnā te vinigṛhyante gajā iva kareṇubhi

36

[b]

saṃvāsāj jāyate sneho jīvitāntakareṣv api

anyonyasya ca viśvāsaḥ śvapacena śuno yathā

37

anyonyakṛtavairāṇāṃ saṃvāsān mṛdutāṃ gatam

naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam

38

[p]

vairaṃ pañca samutthānaṃ tac ca budhyanti paṇḍitāḥ

strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam

39

tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ

prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam

40

kṛtavaire na viśvāsaḥ kāryas tv iha suhṛdy api

channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu

41

na vittena na pāruṣyair na sāntvena na ca śrutaiḥ

vairāgniḥ śāmyate rājann aurvāgnir iva sāgare

42

na hi vairāgnir udbhūtaḥ karma vāpy aparādhajam

śāmyaty adagdhvā nṛpate vinā hy ekatara kṣayāt

43

satkṛtasyārtha mānābhyāṃ syāt tu pūrvāpakāriṇaḥ

naiva śāntir na viśvāsaḥ karma trāsayate balāt

44

naivāpakāre kasmiṃś cid ahaṃ tvayi tathā bhavān

viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmy aham

45

[b]

kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ

kālenaiva pravartante kaḥ kasyehāparādhyati

46

tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha

kāryate caiva kālena tannimittaṃ hi jīvati

47

badhyante yugapat ke cid ekaikasya na cāpare

kālo dahati pūtāni saṃprāpyāgnir ivendhanam

48

nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe

kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām

49

evaṃ vaseha sa snehā yathākālam ahiṃsitā

yatkṛtaṃ tac ca me kṣāntaṃ tvaṃ caiva kṣama pūjani

50

[p]

yadi kālaḥ pramāṇaṃ te na vairaṃ kasya cid bhavet

kasmāt tv apacitiṃ yānti bāndhavā bāndhave hate

51

kasmād devāsurāḥ pūrvam anyonyam abhijaghnire

yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau

52

bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe

yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam

53

pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ

yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu

54

tava putro mamāpatyaṃ hatavān hiṃsito mayā

anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate

55

ahaṃ hi putraśokena kṛtapāpā tavātmaje

tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu

56

bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ

tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣama

57

vadhabandhabhayād eke mokṣatantram upāgatāḥ

maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ

58

sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ

duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam

59

duḥkhaṃ jarā brahmadattaduḥkham arthaviparyayaḥ

duḥkhaṃ cāniṣṭa saṃvāso duḥkham iṣṭaviyogajam

60

vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā

duḥkhaṃ sukhena satataṃ janād viparivartate

61

na duḥkhaṃ paraduḥkhe vai ke cid āhur abuddhayaḥ

yo duḥkhaṃ nābhijānāti sa jalpati mahājane

62

yas tu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet

rasajñaḥ sarvaduḥkhasya yathātmani tathā pare

63

yatkṛtaṃ te mayā rājaṃs tvayā ca mama yatkṛtam

na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama

64

vayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate

smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati

65

vairam antikam āsajya yaḥ prītiṃ kartum icchati

mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate

66

niścitaś cārthaśāstrajñair aviśvāsaḥ sukhodayaḥ

uśanāś cātha gāthe dve prahrādāyābravīt purā

67

ye vairiṇaḥ śraddadhate satye satyetare 'pi vā

te śraddadhānā vadhyante madhu śuṣkakṛṇair yathā

68

na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt

ākhyātāraś ca vidyante kule ced vidyate pumān

69

upaguhya hi vairāṇi sāntvayanti narādhipāḥ

athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani

70

sadā na viśvased rājan pāpaṃ kṛtveha kasya cit

apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute

71

[b]

nāviśvāsāc cinvate 'rhān nehante cāpi kiṃ cana

bhayād ekatarān nityaṃ mṛtakalpā bhavanti ca

72

[p]

yasyeha vraṇinau pādau padbhyāṃ ca parisarpati

kṣaṇyete tasya tau pādau suguptam abhidhāvata

73

netrābhyāṃ sa rujābhyāṃ yaḥ prativātam udīkṣate

tasya vāyurujātyarthaṃ netrayor bhavati dhruvam

74

duṣṭaṃ panthānam āśritya yo mohād abhipadyate

ātmano balam ajñatvā tad antaṃ tasya jīvitam

75

yas tu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ

hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute puna

76

yaś ca tiktaṃ kaṣāyaṃ vāpy āsvāda vidhuraṃ hitam

āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate

77

pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam

pariṇāmam avijñāya tad antaṃ tasya jīvitam

78

daivaṃ puruṣakāraś ca sthitāv anyonyasaṃśrayāt

udāttānāṃ karma tantraṃ daivaṃ klībā upāsate

79

karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu

grasyate 'karma śīlas tu sadānarthair akiṃcana

80

tasmāt saṃśayite 'py arthe kārya eva parākramaḥ

sarvasvam api saṃtyajya kāryam ātmahitaṃ narai

81

vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcakam

mitrāṇi sahajāny āhur vartayantīha yair budhāḥ

82

niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ

etāny upacitāny āhuḥ sarvatra labhate pumān

83

sarvatra ramate prājñaḥ sarvatra ca virocate

na vibhīṣayate kaṃ cid bhīṣito na bibheti ca

84

nityaṃ buddhimato hy arthaḥ svalpako 'pi vivardhate

dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati

85

gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām

kustrī khādati māṃsāni māghamā segavām iva

86

gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare

ity evam avasīdanti narā buddhiviparyaye

87

utpatet sarujād deśād vyādhidurbhikṣa pīḍitāt

anyatra vastuṃ gacched vā vased vā nityamānita

88

tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe

kṛtam etad anāhāryaṃ tava putreṇa pārthiva

89

kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam

kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet

90

kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ

kurājye nirvṛtir nāsti kudeśe na prajīvyate

91

kumitre saṃgataṃ nāsti nityam asthirasauhṛde

avamānaḥ kusaṃbandhe bhavaty arthaviparyaye

92

sā bhāryā yā priyaṃ brūte saputro yatra nirvṛtiḥ

tan mitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate

93

yatra nāsti balāt kāraḥ sa rājā tīvraśāsanaḥ

na caiva hy abhisaṃbandho daridraṃ yo bubhūṣati

94

bhāryā deśo 'tha mitrāṇi putra saṃbandhibāndhavāḥ

etat sarvaṃ guṇavati dharmanetre mahīpatau

95

adharmajñasya vilayaṃ prajā gacchanty anigrahāt

rājā mūlaṃ trivargasya apramatto 'nupālayan

96

baliṣaḍ bhāgam uddhṛtya baliṃ tam upayojayet

na rakṣati prajāḥ samyag yaḥ sa pārthiva taskara

97

dattvābhayaṃ yaḥ svayam eva rājā; na tat pramāṇaṃ kurute yathāvat

sa sarvalokād upalabhya pāpam; adharmabuddhir nirayaṃ prayāti

98

dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā

sa sarvasukhakṛj jñeyaḥ prajā dharmeṇa pālayan

99

pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ

sapta rājño guṇān etān manur āha prajāpati

100

pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ

tasmin mithyā praṇīte hi tiryag gacchati mānava

101

saṃbhāvayati māteva dīnam abhyavapadyate

dahaty agnir ivāniṣṭān yamayan bhavate yama

102

iṣṭeṣu visṛjaty arthān kubera iva kāmadaḥ

gurur dharmopadeśena goptā ca paripālanāt

103

yas tu rañjayate rājā paurajānapadān guṇaiḥ

na tasya bhraśyate rājyaṃ guṇadharmānupālanāt

104

svayaṃ samupajānan hi paurajānapada kriyāḥ

sa sukhaṃ modate bhūpa iha loke paratra ca

105

nityodvignāḥ prajā yasya karabhāra prapīḍitāḥ

anarthair vipralupyante sa gacchati parābhavam

106

prajā yasya vivardhante sarasīva mahotpalam

sa sarvayajñaphalabhāg rājā loke mahīyate

107

balinā vigraho rājan na kathaṃ cit praśasyate

balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham

108

[bh]

saivam uktvā śakunikā brahmadattaṃ narādhipam

rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam

109

etat te brahmadattasya pūjanyā saha bhāṣitam

mayoktaṃ bharataśreṣṭha kim anyac chrotum icchasi
part of the body or part of a book| part of the body or part of a book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 137