Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 192

Book 12. Chapter 192

The Mahabharata In Sanskrit


Book 12

Chapter 192

1

[य]

कालमृत्युयमानां च बराह्मणस्य च सत्तम

विवादॊ वयाहृतः पूर्वं तद भवान वक्तुम अर्हति

2

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

इक्ष्वाकॊः सूर्यपुत्रस्य यद्वृत्तं बराह्मणस्य च

3

कालस्य मृत्यॊश च तथा यद्वृत्तं तन निबॊध मे

यथा स तेषां संवादॊ यस्मिन सथाने ऽपि चाभवत

4

बराह्मणॊ जापकः कश चिद धर्मवृत्तॊ महायशाः

षडङ्गविन महाप्राज्ञः पैप्पलादिः स कौशिकः

5

तस्यापरॊक्षं विज्ञानं षडङ्गेषु तथैव च

वेदेषु चैव निष्णातॊ हिमवत्पादसंश्रयः

6

सॊ ऽनत्यं बराह्मं तपस तेपे संहितां संयतॊ जपन

तस्य वर्षसहस्रं तु नियमेन तथागतम

7

स देव्या दर्शितः साक्षात परीतास्मीति तदा किल

जप्यम आवर्तयंस तूस्नीं न च तां किं चिद अब्रवीत

8

तस्यानुकम्पया देवी परीता समभवत तदा

वेद माता ततस तस्य तज जप्यं समपूजयत

9

समाप्तजप्यस तूत्थाय शिरसा पादयॊस तथा

पपात देव्या धर्मात्मा वचनं चेदम अब्रवीत

10

दिष्ट्या देवि परसन्ना तवं दर्शनं चागता मम

यदि वापि परसन्नासि जप्ये मे रमतां मनः

11

[सावित्री]

किं परार्थयसि विप्रर्षे किं चेष्टं करवाणि ते

परब्रूहि जपतां शरेष्ठ सर्वं तत ते भविष्यति

12

[भी]

इत्य उक्तः स तदा देव्या विप्रः परॊवाच धर्मवित

जप्यं परति ममेच्छेयं वर्धत्व इति पुनः पुनः

13

मनसश चसमाधिर मे वर्धेताहर अहः शुभे

तत तथेति ततॊ देवी मधुरं परत्यभासत

14

इदं चैवापरं पराह देवी तत्प्रियकाम्यया

निरयं नैव यातासि यत्र याता दविजर्षभाः

15

यास्यसि बरह्मणः सथानम अनिमित्तम अनिन्दितम

साधये भविता चैतद यत तवयाहम इहार्थिता

16

नियतॊ जप चैकाग्रॊ धर्मस तवां समुपैष्यति

कालॊ मृत्युर यमश चैव समायास्यन्ति ते ऽनतिकम

भविता च विवादॊ ऽतर तव तेषां च धर्मतः

17

एवम उक्त्वा घवगती जगाम भवनं सवकम

बराह्मणॊ ऽपि जपन्न आस्ते दिव्यं वर्षशतं तदा

18

समाप्ते नियमे तस्मिन्न अथ विप्रस्य धीमतः

साक्षात परीतस तदा धर्मॊ दर्शयाम आस तं दविजम

19

[धर्म]

दविजाते पश्य मां धर्मम अहं तवां दरष्टुम आगतः

जप्यस्य च फलं यत ते संप्राप्तं तच च मे शृणु

20

जिता लॊकास तवया सर्वे ये दिव्या ये च मानुषाः

देवानां निरयान साधॊ सर्वान उत्क्रम्य यास्यसि

21

पराण तयागं कुरु मुने गच्छ लॊकान यथेप्सितान

तयक्त्वात्मनः शरीरं च ततॊ लॊकान अवाप्स्यसि

22

[बराह्मण]

कृतं लॊकैर हि मे धर्मगच्छ च तवं यथासुखम

बहुदुःखसुखं देहं नॊत्सृजेयम अहं विभॊ

23

[धर्म]

अवश्यं भॊः शरीरं ते तयक्तव्यं मुनिपुंगव

सवर्ग आरॊह्यतां विप्र किं वा ते रॊचते ऽनघ

24

[बराह्मण]

न रॊचये सवर्गवसं विना देहाद अहं विभॊ

गच्छ धर्मन मे शरद्धा सवर्गं गन्तुं विनात्मना

25

[धर्म]

अलं देहे मनः कृत्वा तयक्त्वा देहं सुखी भव

गच्छ लॊकान अरजसॊ यत्र गत्वा न शॊचति

26

[बराह्मण]

रमे जपन महाभाग कृतं लॊकैः सनातनैः

सशरीरेण गन्तव्यॊ मया सवर्गॊ न वा विभॊ

27

[धर्म]

यदि तवं नेच्छसि तयक्तुं शरीरं पश्य व दविज

एष कालस तथा मृत्युर यमश च तवाम उपागताः

28

[भीस्म]

अथ वैवस्वतः कालॊ मृत्युश च तरितयं विभॊ

बराह्मणं तं महाभागम उपागम्येदम अब्रुवन

29

तपसॊ ऽसय सुतप्तस्य तथा सुचरितस्य च

फलप्राप्तिस तव शरेष्ठा यमॊ ऽहं तवाम उपब्रुवे

30

यथावद अस्य जप्यस्य फलं पराप्तस तवम उत्तमम

कालस ते सवर्गम आरॊधुं कालॊ ऽहं तवाम उपागतः

31

मृत्युं मा विधिधर्मज्ञ रूपिणं सवयम आगतम

कालेन चॊदितं विप्र तवाम इतॊ नेतुम अद्य वै

32

[बराह्मण]

सवागतं सूर्यपुत्राय कालाय च महात्मने

मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः

33

[भी]

अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस तत्र समागमे

अब्रवीत परमप्रीतः सवशक्त्या किं करॊमि वः

34

तस्मिन्न एवाथ काले तु तीर्थयात्राम उपागतः

इक्ष्वाकुर अगमत तत्र समेता यत्र ते विभॊ

35

सर्वान एव तु राजर्षिः संपूज्याभिप्रनम्य च

कुशलप्रश्नम अकरॊत सर्वेषां राजसत्तमः

36

तस्मै सॊ ऽथासनं दत्त्वा पाद्यम अर्घ्यं तथैव च

अब्रवीद बराह्मणॊ वाक्यं कृत्वा कुशलसंविदम

37

सवागतं ते महाराज बरूहि यद यद इहेच्छसि

सवशक्त्या किं करॊमीह तद भवान परब्रवीतु मे

38

[राजा]

राजाहं बराह्मणश च तवं यदि सः कर्म संस्थितः

ददामि वसु किं चित ते परार्थितं तद वदस्व मे

39

[बरा]

दविविधा बराह्मणा राजन धर्मश च दविविधः समृतः

परवृत्तश च निवृत्तश च निवृत्तॊ ऽसमि परतिग्रहात

40

तेभ्यः परयच्छ दानानि ये परवृत्ता नराधिप

अहं न परतिगृह्णामि किम इष्टं किं ददानि ते

बरूहि तवं नृपतिश्रेष्ठ तपसा साधयामि किम

41

[रा]

कषत्रियॊ ऽहं न जानामि देहीति वचनं कव चित

परयच्छ युद्धम इत्य एवं वादिनः समॊ दविजॊत्तम

42

[बरा]

तुष्यसि तवं सवधर्मेण तथा तुष्टा वयं नृप

अन्यॊन्यस्यॊत्तरं नास्ति यद इष्टं तत समाचर

43

[रा]

सवशक्त्याहं ददानीति तवया पूर्वं परभासितम

याचे तवां दियतां मह्यं जप्यस्यास्य फलं दविज

44

[बरा]

युद्धं मम सदा वाणी याचतीति विकत्थसे

न च युद्धं मया सार्धं किमर्थं याचसे पुनः

45

[रा]

वाग्वज्रा बराह्मणा परॊक्ताः कषत्रिया बाहुजीविनः

वाग युद्धं तद इदं तीव्रं मम विप्र तवया सह

46

[बरा]

सैवाद्यापि परतिज्ञा मे सवशक्त्या किं परदीयताम

बरूहि दास्यामि राजेन्द्र विभवे सति माचिरम

47

[रा]

यत तद वर्षशतं पूर्णं जप्यं वै जपता तवया

फलं पराप्तं तत परयच्छ मम दित्सुर भवान यदि

48

[बरा]

परमं गृह्यतां तस्य फलं यज जपितं मया

अर्धं तवम अविचारेण फलं तस्य समाप्नुहि

49

अथ वा सर्वम एवेह जप्यकं मामकं फलम

राजन पराप्नुहि कामं तवं यदि सर्वम इहेच्छसि

50

[रा]

कृतं सर्वेण भद्रं ते जप्यं यद याचितं मया

सवस्ति ते ऽसतु गमिष्यामि किं चतस्य फलं वद

51

[बरा]

फलप्राप्तिं न जानामि दत्तं यज जपितं मया

अयं धर्मश च कालश च यमॊ मृत्युश च साक्षिणः

52

[रा]

अज्ञातम अस्य धर्मस्य फलं मे किं करिष्यति

पराप्नॊतु तत फलं विप्रॊ नाहम इच्छे ससंशयम

53

[बरा]

नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया

वाक्यं परमानं राजर्षे ममापि तव चैव हि

54

नाभिसंधिर मया जप्ये कृतपूर्वः कथं चन

जप्यस्य राजशार्दूल कथं जञास्याम्य अहं फलम

55

ददस्वेति तवया चॊक्तं ददामीति तथा मया

न वाचं दूसयिष्यामि सत्यं रक्ष सथिरॊ भव

56

अथैवं वदतॊ मे ऽदय वचनं न करिष्यसि

महान अधर्मॊ भविता तव राजन मृषा कृतः

57

न युक्तं तु मृषा वाणी तवया वक्तुम अरिन्दम

तथा मयाप्य अभ्यधिकं मृषा वक्तुं न शक्यते

58

संश्रुतं च मया पूर्वं ददानीत्य अविचारितम

तद्गृह्णीस्वाविचारेण यदि सत्ये सथितॊ भवान

59

इहागम्य हि मां राजञ जाप्यं फलम अयाचिथाः

तन मन निसृष्टं गृह्णीस्व भव सत्ये सथिरॊ ऽपि च

60

नायं लॊकॊ ऽसति न परॊ न च पूर्वान स तारयेत

कुत एवावरान राजन मृषावादपरायनः

61

न यज्ञाध्ययने दानं नियमास तारयन्ति हि

तथा सत्यं परे लॊके यथा वै पुरुषर्षभ

62

तपांसि यानि चीर्णानि चरिष्यसि च यत तपः

समाः शतैः सहस्रैश च तत सत्यान न विशिष्यते

63

सत्यम एकाक्षरं बरह्मसत्यम एकाक्षरं तपः

सत्यम एकाक्षरॊ यज्ञः सत्यम एकाक्षरं शरुतम

64

सत्यं वेदेषु जागर्ति फलं सत्ये परं समृतम

सत्याद धर्मॊ दमश चैव सर्वं सत्ये परतिष्ठितम

65

सत्यं वेदास तथाङ्गानि सत्यं यज्ञस तथा विधिः

वरतचर्यास तथा सत्यम ओंकारः सत्यम एव च

66

परानिनां जननं सत्यं सत्यं संततिर एव च

सत्येन वायुर अभ्येति सत्येन तपते रविः

67

सत्येन चाग्निर दहति सवर्गः सत्ये परतिष्ठितः

सत्यं यज्ञस तपॊ वेदाः सतॊभा मन्त्राः सरस्वती

68

तुलाम आरॊपितॊ धर्मः सत्यं चैवेति नः शरुतम

समां कक्षां धारयतॊ यतः सत्यं ततॊ ऽधिकम

69

यतॊ धर्मस ततः सत्यं सर्वं सत्येन वर्धते

किमर्थम अनृतं कर्म कर्तुं राजंस तवम इच्छसि

70

सत्ये कुरु सथिरं भावं मा राजन्न अनृतं कृथाः

कस्मात तवम अनृतं वाक्यं देहीति कुरुषे ऽशुभम

71

यदि जप्यफलं दत्तं मया नेसिष्यसे नृप

सवधर्मेभ्यः परिभ्रष्टॊ लॊकान अनुचरिष्यसि

72

संश्रुत्य यॊ न दित्सेत याचित्वा यश च नेच्छति

उभाव आनृतिकाव एतौ न मृषा कर्तुम अर्हसि

73

[रा]

यॊद्धव्यं रक्षितव्यं च कषत्रधर्मः किल दविज

दातारः कषत्रियाः परॊक्ता गृह्णीयां भवतः कथम

74

[बरा]

न छन्दयामि ते राजन नापि ते गृहम आव्रजम

इहागम्य तु याचित्वा न गृह्णीसे पुनः कथम

75

[धर्म]

अविवादॊ ऽसतु युवयॊर वित्तं मां धर्मम आगतम

दविजॊ दानफलैर युक्तॊ राजा सत्यफलेन च

76

[सवर्ग]

सवर्गं मां विद्धि राजेन्द्र रूपिणं सवयम आगतम

अविवादॊ ऽसतु युवयॊर उभौ तुल्यफलौ युवाम

77

[रा]

कृतं सवर्गेण मे कार्यं गच्छ सवर्गयथासुखम

विप्रॊ यदीच्छते दातुं परतीच्छतु च मे धनम

78

[बरा]

बाल्ये यदि सयाद अज्ञानान मया हस्तः परसारितः

निवृत्ति लक्षणं धर्मम उपासे संहितां जपन

79

निवृत्तं मां चिरं राजन विप्रं लॊभयसे कथम

सवेन कार्यं करिष्यामि तवत्तॊ नेच्छे फलं नृप

तपःस्वाध्यय शीलॊ ऽहं निवृत्तश च परतिग्रहात

80

[रा]

यदि विप्र निसृष्टं ते जप्यस्य फलम उत्तमम

आवयॊर यत फलं किं चित सहितं नौ तद अस्त्व इह

81

दविजाः परतिग्रहे युक्ता दातारॊ राजवंशजाः

यदि धर्मः शरुतॊ विप्र सहैव फलम अस्तु नौ

82

मा वा भूत सह भॊज्यं नौ मदीयं फलम आप्नुहि

परतीच्छ मत्कृतं धर्मं यदि ते मय्य अनुग्रहः

83

[भी]

ततॊ विकृतचेष्टौ दवौ पुरुषौ समुपस्थितौ

गृहीत्वान्यॊन्यम आवेष्ट्य कुचेलाव ऊचतुर वचः

84

न मे धारयसीत्य एकॊ धारयामीति चापरः

इहास्ति नौ विवादॊ ऽयम अयं राजानुशासकः

85

सत्यं बरवीम्य अहम इदं न मे धारयते भवान

अनृतं वदसीह तवम ऋणं ते धारयाम्य अहम

86

ताव उभौ भृशसंतप्तौ राजानम इदम ऊचतुः

परीक्ष्यतां यथा सयाव नावाम इह विगर्हितौ

87

[विकृत]

धारयामि नरव्याघ्र विकृतस्येह गॊः फलम

ददतश च न गृह्णाति विकृतॊ मे महीपते

88

[विरूप]

न मे धारयते किं चिद विरूपॊ ऽयं नराधिप

मिथ्या बरवीत्य अयं हि तवा मिथ्याभासं नराधिप

89

[रा]

विरूपकिं धारयते भवान अस्य वदस्व मे

शरुत्वा तथा करिष्यामीत्य एवं मे धीयते मतिः

90

[विरूप]

शृणुष्वावहितॊ राजन यथैतद धारयाम्य अहम

विकृतस्यास्य राजर्षे निखिलेन नरर्षभ

91

अनेन धर्मप्राप्त्य अर्थं शुभा दत्ता पुरानघ

धेनुर विप्राय राजर्षे तपःस्वाध्यायशीलिने

92

तस्याश चायं मया राजन फलम अभ्येत्य याचितः

विकृतेन च मे दत्तं विशूधेनान्तरात्मना

93

ततॊ मे सुकृतं कर्मकृतम आत्मविशुद्धये

गावौ हि कपिले करीत्वा वत्सले बहु दॊहने

94

ते चॊञ्छ वृत्तये राजन मया समपवर्जिते

यथाविधि यथाश्रद्धं तद अस्याहं पुनः परभॊ

95

इहाद्य वै गृहीत्वा तत परयच्छे दविगुणं फलम

एकस्याः पुरुषव्याघ्र कः शुद्धः कॊ ऽतर दॊषवान

96

एवं विवदमानौ सवस तवाम इहाभ्यागतौ नृप

कुरु धर्मम अधर्मं वा विनये नौ समाधय

97

यदि नेच्छति मे दानं यथादत्तम अनेन वै

भवान अत्र सथिरॊ भूत्वा मार्गे सथापयतु परभुः

98

[रा]

दीयमानं न गृह्णासि ऋणं कस्मात तवम अद्य वै

यथैव ते ऽभयनुज्ञातं तथा गृह्णीस्व माचिरम

99

[विकृत]

दीयताम इत्य अनेनॊक्तं ददानीति तथा मया

नायं मे धारयत्य अत्र गम्यतां यत्र वाञ्छति

100

[रा]

ददतॊ ऽसय न गृह्णासि विषमं परतिभाति मे

दन्द्यॊ हि तवं मम मतॊ नास्त्य अत्र खलु संशयः

101

[विकृत]

मयास्य दत्तं राजर्षे गृह्णीयां तत कथं पुनः

कामम अत्रापराधॊ मे दन्द्यम आज्ञापय परभॊ

102

[विरूप]

दीयमानं यदि मया नेसिष्यसि कथं चन

नियंस्यति तवा नृपतिर अयं धर्मानुशासकः

103

[विकृत]

सवं मया याचितेनेह दत्तं कथम इहाद्य तत

गृह्णीयां गच्छतु भवान अभ्यनुज्ञां ददानि ते

104

[बरा]

शरुतम एतत तवया राजन्न अनयॊः कथितं दवयॊः

परतिज्ञातं मया यत ते तद्गृहाणाविचारितम

105

[रा]

परस्तुतं सुमहत कार्यम आवयॊर गह्वरं यथा

जापकस्य दृधी कारः कथम एतद भविष्यति

106

यदि तावन न गृह्णामि बराह्मणेनापवर्जितम

कथं न लिप्येयम अहं दॊषेण महताद्य वै

107

[भी]

तौ चॊवाच स राजर्षिः कृतकार्यौ गमिष्यथः

नेदानीं माम इहासाद्य राजधर्मॊ भवेन मृषा

108

सवधर्मः परिपाल्यश च राज्ञाम एष विनिश्चयः

विप्र धर्मश च सुगुरुर माम अनात्मानम आविशत

109

[बरा]

गृहाण धारये ऽहं ते याचितं ते शरुतं मया

न चेद गरहीष्यसे राजञ शपिष्ये तवां न संशयः

110

[रा]

धिग राजधर्मं यस्यायं कार्यस्येह विनिश्चयः

इत्य अर्थं मे गरहीतव्यं कथं तुल्यं भवेद इति

111

एष पानिर अपूर्वं भॊ निक्षेपार्थं परसारितः

यन मे धारयसे विप्र तद इदानीं परदीयताम

112

[बरा]

संहिता जपता यावान मया कश चिद गुणः कृतः

तत सर्वं परतिगृह्णीस्व यदि किं चिद इहास्ति मे

113

[रा]

जलम एतन निपतितं मम पानौ दविजॊत्तम

समम अस्तु सहैवास्तु परतिगृह्णातु वै भवान

114

[विरूप]

कामक्रॊधौ विद्धि नौ तवम आवाभ्यां कारितॊ भवान

समेति च यद उक्तं ते समा लॊकास तवास्य च

115

नायं धारयते किं चिज जिज्ञासा तवत्कृते कृता

कालॊ धर्मस तथा मृत्युः कामक्रॊधौ तथा युवाम

116

सर्वम अन्यॊन्यनिकसे निघृष्टं पश्यतस तव

गच्छ लॊकाञ जितान सवेन कर्मणा यत्र वाञ्छति

117

[भी]

जापकानां फलावाप्तिर मया ते संप्रकीर्तिता

गतिः सथानं च लॊकाश च जापकेन यथा जिताः

118

परयाति संहिताध्यायी बराह्मणं परमेष्ठिनम

अथ वाग्निं समायाति सूर्यम आविशते ऽपि वा

119

स तैजसेन भावेन यदि तत्राश्नुते रतिम

गुणांस तेषां समादत्ते रागेण परतिमॊहितः

120

एवं सॊमे तथा वायौ भूम्याकाश शरीरगः

सरागस तत्र वसति गुणांस तेषां समाचरन

121

अथ तत्र विरागी स गच्छति तव अथ संशयम

परम अव्ययम इच्छन स तम एवाविशते पुनः

122

अमृताच चामृतं पराप्तः शीती भूतॊ निरात्मवान

बरह्मभूतः स निर्द्वन्द्वः सुखी शान्तॊ निरामयः

123

बरह्म सथानम अनावर्तम एकम अक्षरसंज्ञकम

अदुःखम अजरं शान्तं सथानं तत परतिपद्यते

124

चतुर्भिर लक्षणैर हीनं तथा षड्भिः सषॊडशैः

पुरुषं समतिक्रम्य आकाशं परतिपद्यते

125

अथ वेच्छति रागात्मा सर्वं तद अधितिष्ठति

यच च परार्थयते तच च मनसा परतिपद्यते

126

अथ वा वीक्षते लॊकान सर्वान निरयसंस्थितान

निःस्पृहः सर्वतॊ मुक्तस तत्रैव रमते सुखी

127

एवम एषा महाराज जापकस्य गतिर यथा

एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि

1

[y]

kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama

vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati

2

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

ikṣvākoḥ sūryaputrasya yadvṛttaṃ brāhmaṇasya ca

3

kālasya mṛtyoś ca tathā yadvṛttaṃ tan nibodha me

yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat

4

brāhmaṇo jāpakaḥ kaś cid dharmavṛtto mahāyaśāḥ

aḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśika

5

tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca

vedeṣu caiva niṣṇāto himavatpādasaṃśraya

6

so 'ntyaṃ brāhmaṃ tapas tepe saṃhitāṃ saṃyato japan

tasya varṣasahasraṃ tu niyamena tathāgatam

7

sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila

japyam āvartayaṃs tūsnīṃ na ca tāṃ kiṃ cid abravīt

8

tasyānukampayā devī prītā samabhavat tadā

veda mātā tatas tasya taj japyaṃ samapūjayat

9

samāptajapyas tūtthāya śirasā pādayos tathā

papāta devyā dharmātmā vacanaṃ cedam abravīt

10

diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama

yadi vāpi prasannāsi japye me ramatāṃ mana

11

[sāvitrī]

kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te

prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati

12

[bhī]

ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit

japyaṃ prati mameccheyaṃ vardhatv iti punaḥ puna

13

manasaś casamādhir me vardhetāhar ahaḥ śubhe

tat tatheti tato devī madhuraṃ pratyabhāsata

14

idaṃ caivāparaṃ prāha devī tatpriyakāmyayā

nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ

15

yāsyasi brahmaṇaḥ sthānam animittam aninditam

sādhaye bhavitā caitad yat tvayāham ihārthitā

16

niyato japa caikāgro dharmas tvāṃ samupaiṣyati

kālo mṛtyur yamaś caiva samāyāsyanti te 'ntikam

bhavitā ca vivādo 'tra tava teṣāṃ ca dharmata

17

evam uktvā ghavagatī jagāma bhavanaṃ svakam

brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā

18

samāpte niyame tasminn atha viprasya dhīmataḥ

sākṣāt prītas tadā dharmo darśayām āsa taṃ dvijam

19

[dharma]

dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ

japyasya ca phalaṃ yat te saṃprāptaṃ tac ca me śṛṇu

20

jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ

devānāṃ nirayān sādho sarvān utkramya yāsyasi

21

prāṇa tyāgaṃ kuru mune gaccha lokān yathepsitān

tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi

22

[brāhmaṇa]

kṛtaṃ lokair hi me dharmagaccha ca tvaṃ yathāsukham

bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho

23

[dharma]

avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava

svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha

24

[brāhmaṇa]

na rocaye svargavasaṃ vinā dehād ahaṃ vibho

gaccha dharmana me śraddhā svargaṃ gantuṃ vinātmanā

25

[dharma]

alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava

gaccha lokān arajaso yatra gatvā na śocati

26

[brāhmaṇa]

rame japan mahābhāga kṛtaṃ lokaiḥ sanātanaiḥ

saśarīreṇa gantavyo mayā svargo na vā vibho

27

[dharma]

yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya va dvija

eṣa kālas tathā mṛtyur yamaś ca tvām upāgatāḥ

28

[bhīsma]

atha vaivasvataḥ kālo mṛtyuś ca tritayaṃ vibho

brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan

29

tapaso 'sya sutaptasya tathā sucaritasya ca

phalaprāptis tava śreṣṭhā yamo 'haṃ tvām upabruve

30

yathāvad asya japyasya phalaṃ prāptas tvam uttamam

kālas te svargam ārodhuṃ kālo 'haṃ tvām upāgata

31

mṛtyuṃ mā vidhidharmajña rūpiṇaṃ svayam āgatam

kālena coditaṃ vipra tvām ito netum adya vai

32

[brāhmaṇa]

svāgataṃ sūryaputrāya kālāya ca mahātmane

mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi va

33

[bhī]

arghyaṃ pādyaṃ ca dattvā sa tebhyas tatra samāgame

abravīt paramaprītaḥ svaśaktyā kiṃ karomi va

34

tasminn evātha kāle tu tīrthayātrām upāgataḥ

ikṣvākur agamat tatra sametā yatra te vibho

35

sarvān eva tu rājarṣiḥ saṃpūjyābhipranamya ca

kuśalapraśnam akarot sarveṣāṃ rājasattama

36

tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca

abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam

37

svāgataṃ te mahārāja brūhi yad yad ihecchasi

svaśaktyā kiṃ karomīha tad bhavān prabravītu me

38

[rājā]

rājāhaṃ brāhmaṇaś ca tvaṃ yadi saḥ karma saṃsthitaḥ

dadāmi vasu kiṃ cit te prārthitaṃ tad vadasva me

39

[brā]

dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smṛtaḥ

pravṛttaś ca nivṛttaś ca nivṛtto 'smi pratigrahāt

40

tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa

ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te

brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim

41

[rā]

kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kva cit

prayaccha yuddham ity evaṃ vādinaḥ smo dvijottama

42

[brā]

tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa

anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara

43

[rā]

svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāsitam

yāce tvāṃ diyatāṃ mahyaṃ japyasyāsya phalaṃ dvija

44

[brā]

yuddhaṃ mama sadā vāṇī yācatīti vikatthase

na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase puna

45

[rā]

vāgvajrā brāhmaṇā proktāḥ kṣatriyā bāhujīvinaḥ

vāg yuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha

46

[brā]

saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām

brūhi dāsyāmi rājendra vibhave sati māciram

47

[rā]

yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā

phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi

48

[brā]

paramaṃ gṛhyatāṃ tasya phalaṃ yaj japitaṃ mayā

ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi

49

atha vā sarvam eveha japyakaṃ māmakaṃ phalam

rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi

50

[rā]

kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā

svasti te 'stu gamiṣyāmi kiṃ catasya phalaṃ vada

51

[brā]

phalaprāptiṃ na jānāmi dattaṃ yaj japitaṃ mayā

ayaṃ dharmaś ca kālaś ca yamo mṛtyuś ca sākṣiṇa

52

[rā]

ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati

prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam

53

[brā]

nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā

vākyaṃ pramānaṃ rājarṣe mamāpi tava caiva hi

54

nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃ cana

japyasya rājaśārdūla kathaṃ jñāsyāmy ahaṃ phalam

55

dadasveti tvayā coktaṃ dadāmīti tathā mayā

na vācaṃ dūsayiṣyāmi satyaṃ rakṣa sthiro bhava

56

athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi

mahān adharmo bhavitā tava rājan mṛṣā kṛta

57

na yuktaṃ tu mṛṣā vāṇī tvayā vaktum arindama

tathā mayāpy abhyadhikaṃ mṛṣā vaktuṃ na śakyate

58

saṃśrutaṃ ca mayā pūrvaṃ dadānīty avicāritam

tadgṛhṇīsvāvicāreṇa yadi satye sthito bhavān

59

ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ

tan man nisṛṣṭaṃ gṛhṇīsva bhava satye sthiro 'pi ca

60

nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet

kuta evāvarān rājan mṛṣāvādaparāyana

61

na yajñādhyayane dānaṃ niyamās tārayanti hi

tathā satyaṃ pare loke yathā vai puruṣarṣabha

62

tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ

samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate

63

satyam ekākṣaraṃ brahmasatyam ekākṣaraṃ tapaḥ

satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam

64

satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam

satyād dharmo damaś caiva sarvaṃ satye pratiṣṭhitam

65

satyaṃ vedās tathāṅgāni satyaṃ yajñas tathā vidhiḥ

vratacaryās tathā satyam oṃkāraḥ satyam eva ca

66

prānināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca

satyena vāyur abhyeti satyena tapate ravi

67

satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ

satyaṃ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī

68

tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam

samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam

69

yato dharmas tataḥ satyaṃ sarvaṃ satyena vardhate

kimartham anṛtaṃ karma kartuṃ rājaṃs tvam icchasi

70

satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ

kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham

71

yadi japyaphalaṃ dattaṃ mayā nesiṣyase nṛpa

svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi

72

saṃśrutya yo na ditseta yācitvā yaś ca necchati

ubhāv ānṛtikāv etau na mṛṣā kartum arhasi

73

[rā]

yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija

dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham

74

[brā]

na chandayāmi te rājan nāpi te gṛham āvrajam

ihāgamya tu yācitvā na gṛhṇīse punaḥ katham

75

[dharma]

avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam

dvijo dānaphalair yukto rājā satyaphalena ca

76

[svarga]

svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam

avivādo 'stu yuvayor ubhau tulyaphalau yuvām

77

[rā]

kṛtaṃ svargeṇa me kāryaṃ gaccha svargayathāsukham

vipro yadīcchate dātuṃ pratīcchatu ca me dhanam

78

[brā]

bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ

nivṛtti lakṣaṇaṃ dharmam upāse saṃhitāṃ japan

79

nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham

svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa

tapaḥsvādhyaya śīlo 'haṃ nivṛttaś ca pratigrahāt

80

[rā]

yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam

āvayor yat phalaṃ kiṃ cit sahitaṃ nau tad astv iha

81

dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ

yadi dharmaḥ śruto vipra sahaiva phalam astu nau

82

mā vā bhūt saha bhojyaṃ nau madīyaṃ phalam āpnuhi

pratīccha matkṛtaṃ dharmaṃ yadi te mayy anugraha

83

[bhī]

tato vikṛtaceṣṭau dvau puruṣau samupasthitau

gṛhītvānyonyam āveṣṭya kucelāv ūcatur vaca

84

na me dhārayasīty eko dhārayāmīti cāparaḥ

ihāsti nau vivādo 'yam ayaṃ rājānuśāsaka

85

satyaṃ bravīmy aham idaṃ na me dhārayate bhavān

anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmy aham

86

tāv ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ

parīkṣyatāṃ yathā syāva nāvām iha vigarhitau

87

[vikṛta]

dhārayāmi naravyāghra vikṛtasyeha goḥ phalam

dadataś ca na gṛhṇāti vikṛto me mahīpate

88

[virūpa]

na me dhārayate kiṃ cid virūpo 'yaṃ narādhipa

mithyā bravīty ayaṃ hi tvā mithyābhāsaṃ narādhipa

89

[rā]

virūpakiṃ dhārayate bhavān asya vadasva me

śrutvā tathā kariṣyāmīty evaṃ me dhīyate mati

90

[virūpa]

śṛ
uṣvāvahito rājan yathaitad dhārayāmy aham

vikṛtasyāsya rājarṣe nikhilena nararṣabha

91

anena dharmaprāpty arthaṃ śubhā dattā purānagha

dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline

92

tasyāś cāyaṃ mayā rājan phalam abhyetya yācitaḥ

vikṛtena ca me dattaṃ viśūdhenāntarātmanā

93

tato me sukṛtaṃ karmakṛtam ātmaviśuddhaye

gāvau hi kapile krītvā vatsale bahu dohane

94

te coñcha vṛttaye rājan mayā samapavarjite

yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho

95

ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam

ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān

96

evaṃ vivadamānau svas tvām ihābhyāgatau nṛpa

kuru dharmam adharmaṃ vā vinaye nau samādhaya

97

yadi necchati me dānaṃ yathādattam anena vai

bhavān atra sthiro bhūtvā mārge sthāpayatu prabhu

98

[rā]

dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai

yathaiva te 'bhyanujñātaṃ tathā gṛhṇīsva māciram

99

[vikṛta]

dīyatām ity anenoktaṃ dadānīti tathā mayā

nāyaṃ me dhārayaty atra gamyatāṃ yatra vāñchati

100

[rā]

dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me

dandyo hi tvaṃ mama mato nāsty atra khalu saṃśaya

101

[vikṛta]

mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ

kāmam atrāparādho me dandyam ājñāpaya prabho

102

[virūpa]

dīyamānaṃ yadi mayā nesiṣyasi kathaṃ cana

niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsaka

103

[vikṛta]

svaṃ mayā yāciteneha dattaṃ katham ihādya tat

gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te

104

[brā]

śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ

pratijñātaṃ mayā yat te tadgṛhāṇāvicāritam

105

[rā]

prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā

jāpakasya dṛdhī kāraḥ katham etad bhaviṣyati

106

yadi tāvan na gṛhṇāmi brāhmaṇenāpavarjitam

kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai

107

[bhī]

tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ

nedānīṃ mām ihāsādya rājadharmo bhaven mṛṣā

108

svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ

vipra dharmaś ca sugurur mām anātmānam āviśat

109

[brā]

gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā

na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśaya

110

[rā]

dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ

ity arthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti

111

eṣa pānir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ

yan me dhārayase vipra tad idānīṃ pradīyatām

112

[brā]

saṃhitā japatā yāvān mayā kaś cid guṇaḥ kṛtaḥ

tat sarvaṃ pratigṛhṇīsva yadi kiṃ cid ihāsti me

113

[rā]

jalam etan nipatitaṃ mama pānau dvijottama

samam astu sahaivāstu pratigṛhṇātu vai bhavān

114

[virūpa]

kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān

sameti ca yad uktaṃ te samā lokās tavāsya ca

115

nāyaṃ dhārayate kiṃ cij jijñāsā tvatkṛte kṛtā

kālo dharmas tathā mṛtyuḥ kāmakrodhau tathā yuvām

116

sarvam anyonyanikase nighṛṣṭaṃ paśyatas tava

gaccha lokāñ jitān svena karmaṇā yatra vāñchati

117

[bhī]

jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā

gatiḥ sthānaṃ ca lokāś ca jāpakena yathā jitāḥ

118

prayāti saṃhitādhyāyī brāhmaṇaṃ parameṣṭhinam

atha vāgniṃ samāyāti sūryam āviśate 'pi vā

119

sa taijasena bhāvena yadi tatrāśnute ratim

guṇāṃs teṣāṃ samādatte rāgeṇa pratimohita

120

evaṃ some tathā vāyau bhūmyākāśa śarīragaḥ

sarāgas tatra vasati guṇāṃs teṣāṃ samācaran

121

atha tatra virāgī sa gacchati tv atha saṃśayam

param avyayam icchan sa tam evāviśate puna

122

amṛtāc cāmṛtaṃ prāptaḥ śītī bhūto nirātmavān

brahmabhūtaḥ sa nirdvandvaḥ sukhī śānto nirāmaya

123

brahma sthānam anāvartam ekam akṣarasaṃjñakam

aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate

124

caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ

puruṣaṃ samatikramya ākāśaṃ pratipadyate

125

atha vecchati rāgātmā sarvaṃ tad adhitiṣṭhati

yac ca prārthayate tac ca manasā pratipadyate

126

atha vā vīkṣate lokān sarvān nirayasaṃsthitān

niḥspṛhaḥ sarvato muktas tatraiva ramate sukhī

127

evam eṣā mahārāja jāpakasya gatir yathā

etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
mahabharata sanskrit text| mahabharata sanskrit text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 192