Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 220

Book 12. Chapter 220

The Mahabharata In Sanskrit


Book 12

Chapter 220

1

[य]

मग्नस्य वयसने कृच्छ्रे किं शरेयः पुरुषस्य हि

बन्धुनाशे महीपाल राज्यनाने ऽपि वा पुनः

2

तवं हि नः परमॊ वक्ता लॊके ऽसमिन भरतर्षभ

एतद भवन्तं पृच्छामि तन मे वक्तुम इहार्हसि

3

[भी]

पुत्रदारैः सुखैश चैव वियुक्तस्य धनेन च

मग्नस्य वयसने कृच्छ्रे धृतिः शरेयः करी नृप

4

धैर्येण युक्तस्य सतः शरीरं न विशीर्यते

आरॊग्याच च शरीरस्य स पुनर विन्दते शरियम

5

यस्य राज्ञॊ नरास तात सात्त्विकीं वृत्तिम आस्थिताः

तस्य सथैर्यं च धर्यं च वयवसायश च कर्मसु

6

अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम

बलिवासव संवादं पुनर एव युधिष्ठिर

7

वृत्ते देवासुरे युद्धे दैत्यदानव संक्षये

विष्णुक्रान्तेषु लॊकेषु देवराजे शतक्रतौ

8

इज्यमानेषु देवेषु चातुर्वर्ण्ये वयवस्थिते

समृध्यमाने तरैलॊक्ये परीतियुक्ते सवयम्भुवि

9

रुद्रैर वसुभिर आदित्यैर अश्विभ्याम अपि चर्षिभिः

गन्धर्वैर भुजगेन्द्रैश च सिद्धैर्श चान्यैर वृतः परभुः

10

चतुर्दन्तं सुदान्तं च वारणेन्द्रं शरिया वृतम

आरुह्यैरावतं शक्रस तरैलॊक्यम अनुसंययौ

11

स कदा चित समुद्रान्ते कस्मिंश चिद गिरिगह्वरे

बलिं वैरॊचनिं वज्ञी ददर्शॊपससर्प च

12

तम ऐरावत मूर्धस्थं परेक्ष्य देवगणैर वृतम

सुरेन्द्रम इन्द्रं दैत्येन्द्रॊ न शुशॊच न विव्यथे

13

दृष्ट्वा तम अविकारस्थं तिष्ठन्तं निर्भयं बलिम

अधिरूढॊ दविपश्रेष्ठम इत्य उवाच शतक्रतुः

14

दैत्य न वयथसे शैर्याद अथ वा वृद्धसेवया

तपसा भावितत्वाद वा सर्वथैतत सुदुष्करम

15

शत्रुभिर वशम आनीतॊ हीनः सथानाद अनुत्तमात

वैरॊचने किम आश्रित्य शॊचितव्ये न शॊचसि

16

शरैष्ठ्यं पराप्य सवजातीनां भुक्त्वा भॊगान अनुत्तमान

हृतस्वबलराज्यस तवं बरूहि तस्मान न शॊचसि

17

ईश्वरॊ हि पुरा भूत्वा पितृपैतमहे पदे

तत्त्वम अद्य हृतं दृष्ट्वा सपत्नैः किं न शॊचसि

18

बद्धश च वारुणैः पाशैर वज्रेण च समाहतः

हृतदारॊ हृतधनॊ बरूहि कस्मान न शॊचसि

19

भरष्ट शरीर विभव भरष्टॊ यन न शॊचसि दुष्करम

तरैलॊक्यराज्यनाशे हि कॊ ऽनयॊ जीवितुम उत्सहेत

20

एतच चान्यच च परुषं बरुवन्तं परिभूय तम

शरुत्वा सुखम असंभ्रान्तॊ बलिर वैरॊचनॊ ऽबरवीत

21

निगृहीते मयि भृशं शक्र किं कत्थितेन ते

वज्रम उद्यम्य तिष्ठन्तं पश्यामि तवां पुरंदर

22

अशक्तः पूर्वम आसीस तवं कथं चिच छक्ततां गतः

कस तवदन्य इमा वाचः सुक्रूरा वक्तुम अर्हति

23

यस तु शत्रॊर वशस्थस्य शक्तॊ ऽपि कुरुते दयाम

हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः

24

अनिश्चयॊ हि युद्धेषु दवयॊर विवदमानयॊः

एकः पराप्नॊति विजयम एकश चैव पराभवम

25

मा च ते भूत सवभावॊ ऽयं मया दैवतपुंगव

ईश्वरः सर्वभूतानां विक्रमेण जितॊ बलात

26

नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम

यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम

27

अहम आसं यथाद्य तवं भविता तवं यथा वयम

मावमन्स्था मया कर्म दुष्कृतं कृतम इत्य उत

28

सुखदुःखे हि पुरुषः पर्यायेनाधिगच्छति

पर्यायेनासि शक्रत्वं पराप्तः शक्र न कर्मणा

29

कालः काले नयति मां तवां च कालॊ नयत्य अयम

तेनाहं तवं यथा नाद्य तवं चापि न यथा वयम

30

न मातृपितृशुश्रूसा न च दैवतपूजनम

नान्यॊ गुणसमाचारः पुरुषस्य सुखावहः

31

न विद्या न तपॊ दानं न मित्राणि न बन्धवाः

शक्नुवन्ति परित्रातुं नरं कालेन पीडितम

32

नागामिनम अनर्थं हि परतिघात शतैर अपि

शक्नुवन्ति परतिव्यॊधुम ऋते बुद्धिबलान नरः

33

पर्यायैर हन्यमानानां परित्राता न विद्यते

इदं तु दुःखं यच्च छक्र कर्ताहम इति मन्यते

34

यदि कर्ता भवेत कर्ता न करियेत कदा चन

यस्मात तु करियते कर्ता तस्मात कर्ताप्य अनीश्वरः

35

कालेन तवाहम अजयं कालेनाहं जितस तवया

गन्ता गतिमतां कालः कालः कलयति परजाः

36

इन्द्र पराकृतया बुद्ध्या परलपन नावबुध्यसे

के चित तवां बहु मन्यन्ते शरैष्ठ्यं पराप्तं सवकर्मणा

37

कथम अस्मद्विधॊ नाम जानँल लॊकप्रवृत्तयः

कालेनाभ्याहतः शॊचेन मुह्येद वाप्य अर्थसंभ्रमे

38

नित्यं कालपरीतस्य मम वा मद्विधस्य वा

बुद्धिर वयसनम आसाद्य भिन्ना नौर इव सीदति

39

अहं च तवं च ये चान्ये भविष्यन्ति सुराधिपाः

ते सर्वे शक्र यास्यन्ति मार्गम इन्द्र शतैर गतम

40

तवाम अप्य एवं सुदुर्धर्षं जवलन्तं परया शरिया

काले परिनते कालः कालयिष्यति माम इव

41

बहूनीन्द्र सहस्राणि दैतेयानां युगे युगे

अभ्यतीतानि कालेन कालॊ हि दुरतिक्रमः

42

इदं तु लब्ध्वा तवं सथानम आत्मानं बहु मन्यसे

सर्वभूतभवं देवं बरह्माणम इव शाश्वतम

43

न चेदम अचलं सथानम अनन्तं वापि कस्य चित

तवं तु बालिशया बुद्ध्या ममेदम इति मन्यसे

44

अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं धरुवम

ममेयम इति मॊहात तवं राजश्रियम अभीप्ससि

45

नेयं तव न चास्माकं न चान्येषां सथिरा मता

अतिक्रम्य बहून अन्यांस तवयि तावद इयं सथिता

46

कं चित कालम इयं सथित्वा तवयि वासव चञ्चला

गौर निपानम इवॊत्सृज्य पुनर अन्यं गमिष्यति

47

राजलॊका हय अतिक्रान्ता यान न संख्यातुम उत्सहे

तवत्तॊ बहुतराश चान्ये भविष्यन्ति पुरंदर

48

सवृक्षौषधि रत्रेयं ससरित पर्वताकरा

तान इदानीं न पश्यामि यैर भुक्तेयं पुरा मही

49

पृथुर ऐलॊ मयॊ भौमॊ नरकः शम्बरस तथा

अश्वग्रीवः पुलॊमा च सवर्भानुर अमितध्वजः

50

परह्रादॊ नमुचिर दक्षॊ विप्रचित्तिर विरॊचनः

हरीनिषेधः सुहॊत्रश च भूरिहा पुष्पवान वृषः

51

सत्येषुर ऋषभॊ राहुः कपिलाश्वॊ विरूपकः

बानः कार्तस्वरॊ वह्निर विश्वदंस्त्रॊ ऽथ नैरृतः

52

रित्थाहुत्थौ वीर ताम्रौ वराहाश्वॊ रुचिः परभुः

विश्वजित परतिशौरिश च वृषाण्डॊ विष्करॊ मधुः

53

हिरण्यकशिपुश चैव कैतभश चैव दानवः

दैत्याश च कालखञ्जाश च सर्वे ते नैरृतैः सह

54

एते चान्ये च बहवः पूर्वे पूर्वतराश च ये

दैत्येन्द्रा दानवेन्द्राश च यांश चान्यान अनुशुश्रुम

55

बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः

कालेनाभ्याहताः सर्वे कालॊ हि बलवत्तरः

56

सर्वैः करतुशतैर इष्टं न तवम एकः शतक्रतुः

सर्वे धर्मपराश चासन सर्वे सततसत्त्रिणः

57

अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयॊधिनः

सर्वे संहननॊपेताः सर्वे परिघबाहवः

58

सर्वे माया शतधराः सर्वे ते कामचारिणः

सर्वे समरम आसाद्य न शरूयन्ते पराजिताः

59

सर्वे सत्यव्रतपराः सर्वे कामविहारिणः

सर्वे वेद वरतपराः सर्वे चासन बहुश्रुताः

60

सर्वे संहतम ऐश्वर्यम ईश्वराः परतिपेदिरे

न चैश्वर्यं मदस तेषां भूतपूर्वॊ महात्मनाम

61

सर्वे यथार्थदातारः सर्वे विगतमत्सराः

सर्वे सर्वेषु भूतेषु यथावत परतिपेदिरे

62

सर्वे दाक्षायणी पुत्राः पराजापत्या महाबलाः

जवलन्तः परतपन्तश च कालेन परतिसंहृताः

63

तवं चैवेमा यदा भुक्त्वा पृथिवीं तयक्ष्यसे पुनः

न शक्ष्यसि तदा शक्र नियन्तुं शॊकम आत्मनः

64

मुञ्चेच्छां कामभॊगेषु मुञ्चेमं शरीभवं मदम

एवं सवराज्यनाशे तवं शॊकं संप्रसहिष्यसि

65

शॊककाले शुचॊ मा तवं हर्षकाले च मा हृषः

अतीतानागते हित्वा परत्युत्पन्नेन वर्तय

66

मां चेद अभ्यागतः कालः सदा युक्तम अतन्द्रितम

कषमस्व नचिराद इन्द्र तवाम अप्य उपगमिष्यति

67

तरासयन्न इव देवेन्द्र वाग्भिर तक्षसि माम इह

संयते मयि नूनं तवम आत्मानं बहु मन्यसे

68

कालः परथमम आयान मां पश्चात तवम अनुधावति

तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि

69

कॊ हि सथातुम अलं लॊके करुद्धस्य मम संयुगे

कालस तु बलवान पराप्तस तेन तिष्ठसि वासव

70

यत तद वर्षसहस्रान्तं पूर्णं भवितुम अर्हति

यथा मे सर्वगात्राणि न सवस्थानि हतौजसः

71

अहम ऐन्द्रच चयुतः सथानात तवम इन्द्रः परकृतॊ दिवि

सुचित्रे जीवलॊके ऽसमिन्न उपास्यः कालपर्ययात

72

किं हि कृत्वा तवम इन्द्राद्य किं हि कृत्वा चयुता वयम

कालः कर्ता विकर्ता च सर्वम अन्यद अकारणम

73

नाशं विनाशम ऐश्वर्यं सुखदुःखे भवाभवौ

विप्रान पराप्यैवम अत्यर्थं न परहृष्येन न च वयथेत

74

तवम एव हीन्द्र वेत्थास्मान वेदाहं तवां च वासव

विकत्थसे मां किं बद्धं कालेन निरपत्रप

75

तवम एव हि पुरा वेत्थ यत तदा पौरुषं मम

समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम

76

आदित्याश चैव रुद्राश च साध्याश च वसुभिः सह

मया विनिर्जिताः सर्वे मरुतश च शचीपते

77

तवम एव शक्र जानासि देवासुरसमागमे

समेता विबुधा भग्नास तरसा समरे मया

78

पर्वताश चासकृत कषिप्ताः सवनाः सवनौकसः

सतङ्क शिखरा घॊराः समरे मूर्ध्नि ते मया

79

किं नु शक्यं मया कर्तुं यत कालॊ दुरतिक्रमः

न हि तवां नॊत्सहे हन्तुं सवज्रम अपि मुष्टिना

80

न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः

तेन तवा मर्षये शक्र दुर्मर्षणतरस तवया

81

तवं मा परिनते काले परीतं कालवह्निना

नियतं कालपाशेन बद्धं शक्र विकत्थसे

82

अयं स पुरुषः शयामॊ लॊकस्य दुरतिक्रमः

बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा

83

लाभालाभौ सुखं दुःखं कामक्रॊधौ भवाभवौ

वधॊ बन्धः परमॊक्षश च सर्वं कालेन लभ्यते

84

नाहं कर्ता न कर्ता तवं कर्ता यस तु सदा परभुः

सॊ ऽयं पचति कालॊ मां वृक्षे फलम इवागतम

85

यान्य एव पुरुषः कुर्वन सुखैः कालेन युज्यते

पुनस तान्य एव कुर्वाणॊ दुःखैः कालेन युज्यते

86

न च कालेन कालज्ञः सपृष्टः शॊचितुम अर्हति

तेन शक्र न शॊचामि नास्ति शॊके सहायता

87

यदा हि शॊचतां शॊकॊ वयसनं नापकर्षति

सामर्थ्यं शॊचतॊ नास्ति नाद्य शॊचाम्य अहं ततः

88

एवम उक्तः सहस्राक्षॊ भगवान पाकशासनः

परतिसंहृत्य संरम्भम इत्य उवाच शतक्रतुः

89

सवज्रम उद्यतं बाहुं दृष्ट्वा पाशांश च वारुणान

कस्येह न वयथेद बुद्धिर मृत्यॊर अपि जिघांसतः

90

सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी

बरुवन न वयथसे स तवं वाक्यं सत्यपराक्रम

91

हॊ हि विश्वासम अर्थेषु शरीरे वा शरीरभृत

कर्तुम उत्सहते लॊके दृष्ट्वा संप्रस्थितं जगत

92

अहम अप्य एवम एवैनं लॊकं जानामि शाश्वतम

कालाग्नाव आहितं घॊरे गुह्ये सततगे ऽकषरे

93

न चात्र परिहारॊ ऽसति कालस्पृष्टस्य कस्य चित

सूक्ष्माणां महतां चैव भूतानां परिपच्यताम

94

अनीशस्याप्रमत्तस्य भूतानि पचतः सदा

अनिवृत्तस्य कालस्य कषयं पराप्तॊ न मुच्यते

95

अप्रमत्तः परमत्तेषु कालॊ जागर्ति देहिषु

परयत्नेनाप्य अतिक्रान्तॊ दृष्टपूर्वॊ न केन चित

96

पुराणः शाश्वतॊ धर्मः सर्वप्राणभृतां समः

कालॊ न परिहार्यश च न चास्यास्ति वयतिक्रमः

97

अहॊरात्रांश च मासांश च कषणान काष्ठाः कला लवान

संपिन्दयति नः कालॊ बुद्धिं वार्धुषिकॊ यथा

98

इदम अद्य करिष्यामि शवः कर्तास्मीति वादिनम

कालॊ हरति संप्राप्तॊ नदीवेग इवॊदुपम

99

इदानीं तावद एवासौ मया दृष्टः कथं मृतः

इति कालेन हरियतां परलापः शरूयते नृणाम

100

नश्यन्त्य अर्थास तथा भॊगाः सथानम ऐश्वर्यम एव च

अनित्यम अध्रुवं सर्वं वयवसायॊ हि दुष्करः

उच्छ्राया विनिपातान्ता भावाभावस्थ एव च

101

सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी

अहम आसं पुरा चेति मनसापि न बुध्यसे

102

कालेनाक्रम्य लॊके ऽसमिन पच्यमाने बलीयसा

अज्येष्ठम अकनिष्ठं च कषिप्यमाणॊ न बुध्यसे

103

ईर्ष्याभिमान लॊभेषु कामक्रॊधभयेषु च

सपृहा मॊहाभिमानेषु लॊकः सक्तॊ विमुह्यति

104

भवांस तु भावतत्त्वज्ञॊ विद्वाञ जञानतपॊ ऽनवितः

कालं पश्यति सुव्यक्तं पानाव आमलकं यथा

105

कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः

वैरॊचने कृतात्मासि सपृहणीयॊ विजानताम

106

सर्वलॊकॊ हय अयं मन्ये बुद्ध्या परिगतस तवया

विहरन सर्वतॊ मुक्तॊ न कव चित परिषज्जसे

107

रजश च हि तमश च तवा सपृशतॊ न जितेन्द्रियम

निष्प्रीतिं नष्ट संतापं तवम आत्मानम उपाससे

108

सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम

दृष्ट्वा तवां मम संजाता तवय्य अनुक्रॊशनी मतिः

109

नाहम एतादृशं बुद्धिं हन्तुम इच्छामि बन्धने

आनृशंस्यं परॊ धर्मॊ अनुक्रॊशस तथा तवयि

110

मॊक्ष्यन्ते वारुणाः पाशास तवेमे कालपर्ययात

परजानाम अपचारेण सवस्ति ते ऽसतु महासुर

111

यदा शवश्रूं सनुषा वृद्धां परिचारेण यॊक्ष्यते

पुत्रश च पितरं मॊहात परेषयिष्यति कर्मसु

112

बराह्मणैः कारयिष्यन्ति वृषलाः पादधावनम

शूद्राश च बराह्मणीं भर्याम उपयास्यन्ति निर्भयाः

113

वियॊनिषु च बीजानि मॊक्ष्यन्ते पुरुषा यदा

संकरं कांस्यभान्दैश च बलिं चापि कुपात्रकैः

114

चातुर्वर्ण्यं यदा कृत्स्नम उन्मर्यादं भविष्यति

एकैकस ते तदा पाशः करमशः परतिमॊक्ष्यते

115

अस्मत्तस ते भयं नास्ति समयं परतिपालय

सुखी भव निराबाधः सवस्थचेता निरामयः

116

तम एवम उक्त्वा भगवाञ शतक्रतुः; परतिप्रयातॊ गजराजवाहनः

विजित्य सर्वान असुरान सुराधिपॊ; ननन्द हर्षेण बभूव चैकराट

117

महर्षयस तुष्टुवुर अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम

हिमापहॊ हव्यम उदावहंस तवरंस; तथामृतं चार्पितम ईश्वराय ह

118

दविजॊत्तमैः सर्वगतैर अभिष्टुतॊ; विदीप्त तेजा गतमन्युर ईश्वरः

परशान्तचेता मुदितः सवम आलयं; तरिविष्टपं पराप्य मुमॊद वासवः

1

[y]

magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi

bandhunāśe mahīpāla rājyanāne 'pi vā puna

2

tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha

etad bhavantaṃ pṛcchāmi tan me vaktum ihārhasi

3

[bhī]

putradāraiḥ sukhaiś caiva viyuktasya dhanena ca

magnasya vyasane kṛcchre dhṛtiḥ śreyaḥ karī nṛpa

4

dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate

ārogyāc ca śarīrasya sa punar vindate śriyam

5

yasya rājño narās tāta sāttvikīṃ vṛttim āsthitāḥ

tasya sthairyaṃ ca dharyaṃ ca vyavasāyaś ca karmasu

6

atraivodāharantīmam itihāsaṃ purātanam

balivāsava saṃvādaṃ punar eva yudhiṣṭhira

7

vṛtte devāsure yuddhe daityadānava saṃkṣaye

viṣṇukrānteṣu lokeṣu devarāje śatakratau

8

ijyamāneṣu deveṣu cāturvarṇye vyavasthite

samṛdhyamāne trailokye prītiyukte svayambhuvi

9

rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ

gandharvair bhujagendraiś ca siddhairś cānyair vṛtaḥ prabhu

10

caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam

āruhyairāvataṃ śakras trailokyam anusaṃyayau

11

sa kadā cit samudrānte kasmiṃś cid girigahvare

baliṃ vairocaniṃ vajñī dadarśopasasarpa ca

12

tam airāvata mūrdhasthaṃ prekṣya devagaṇair vṛtam

surendram indraṃ daityendro na śuśoca na vivyathe

13

dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim

adhirūḍho dvipaśreṣṭham ity uvāca śatakratu

14

daitya na vyathase śairyād atha vā vṛddhasevayā

tapasā bhāvitatvād vā sarvathaitat suduṣkaram

15

atrubhir vaśam ānīto hīnaḥ sthānād anuttamāt

vairocane kim āśritya śocitavye na śocasi

16

raiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān

hṛtasvabalarājyas tvaṃ brūhi tasmān na śocasi

17

ī
varo hi purā bhūtvā pitṛpaitamahe pade

tattvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi

18

baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ

hṛtadāro hṛtadhano brūhi kasmān na śocasi

19

bhraṣṭa śrīr vibhava bhraṣṭo yan na śocasi duṣkaram

trailokyarājyanāśe hi ko 'nyo jīvitum utsahet

20

etac cānyac ca paruṣaṃ bruvantaṃ paribhūya tam

śrutvā sukham asaṃbhrānto balir vairocano 'bravīt

21

nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te

vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara

22

aśaktaḥ pūrvam āsīs tvaṃ kathaṃ cic chaktatāṃ gataḥ

kas tvadanya imā vācaḥ sukrūrā vaktum arhati

23

yas tu śatror vaśasthasya śakto 'pi kurute dayām

hastaprāptasya vīrasya taṃ caiva puruṣaṃ vidu

24

aniścayo hi yuddheṣu dvayor vivadamānayoḥ

ekaḥ prāpnoti vijayam ekaś caiva parābhavam

25

mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava

īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt

26

naitad asmat kṛtaṃ śakra naitac chakra tvayā kṛtam

yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam

27

aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam

māvamansthā mayā karma duṣkṛtaṃ kṛtam ity uta

28

sukhaduḥkhe hi puruṣaḥ paryāyenādhigacchati

paryāyenāsi śakratvaṃ prāptaḥ śakra na karmaṇā

29

kālaḥ kāle nayati māṃ tvāṃ ca kālo nayaty ayam

tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam

30

na mātṛpitṛśuśrūsā na ca daivatapūjanam

nānyo guṇasamācāraḥ puruṣasya sukhāvaha

31

na vidyā na tapo dānaṃ na mitrāṇi na bandhavāḥ

aknuvanti paritrātuṃ naraṃ kālena pīḍitam

32

nāgāminam anarthaṃ hi pratighāta śatair api

śaknuvanti prativyodhum ṛte buddhibalān nara

33

paryāyair hanyamānānāṃ paritrātā na vidyate

idaṃ tu duḥkhaṃ yacc chakra kartāham iti manyate

34

yadi kartā bhavet kartā na kriyeta kadā cana

yasmāt tu kriyate kartā tasmāt kartāpy anīśvara

35

kālena tvāham ajayaṃ kālenāhaṃ jitas tvayā

gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ

36

indra prākṛtayā buddhyā pralapan nāvabudhyase

ke cit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā

37

katham asmadvidho nāma jānaṁl lokapravṛttayaḥ

kālenābhyāhataḥ śocen muhyed vāpy arthasaṃbhrame

38

nityaṃ kālaparītasya mama vā madvidhasya vā

buddhir vyasanam āsādya bhinnā naur iva sīdati

39

ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ

te sarve śakra yāsyanti mārgam indra śatair gatam

40

tvām apy evaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā

kāle parinate kālaḥ kālayiṣyati mām iva

41

bahūnīndra sahasrāṇi daiteyānāṃ yuge yuge

abhyatītāni kālena kālo hi duratikrama

42

idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase

sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam

43

na cedam acalaṃ sthānam anantaṃ vāpi kasya cit

tvaṃ tu bāliśayā buddhyā mamedam iti manyase

44

aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam

mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi

45

neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā

atikramya bahūn anyāṃs tvayi tāvad iyaṃ sthitā

46

kaṃ cit kālam iyaṃ sthitvā tvayi vāsava cañcalā

gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati

47

rājalokā hy atikrāntā yān na saṃkhyātum utsahe

tvatto bahutarāś cānye bhaviṣyanti puraṃdara

48

savṛkṣauṣadhi ratreyaṃ sasarit parvatākarā

tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī

49

pṛthur ailo mayo bhaumo narakaḥ śambaras tathā

aśvagrīvaḥ pulomā ca svarbhānur amitadhvaja

50

prahrādo namucir dakṣo vipracittir virocanaḥ

hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vṛṣa

51

satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ

bānaḥ kārtasvaro vahnir viśvadaṃstro 'tha nairṛta

52

ritthāhutthau vīra tāmrau varāhāśvo ruciḥ prabhuḥ

viśvajit pratiśauriś ca vṛṣāṇo viṣkaro madhu

53

hiraṇyakaśipuś caiva kaitabhaś caiva dānavaḥ

daityāś ca kālakhañjāś ca sarve te nairṛtaiḥ saha

54

ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye

daityendrā dānavendrāś ca yāṃś cānyān anuśuśruma

55

bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ

kālenābhyāhatāḥ sarve kālo hi balavattara

56

sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ

sarve dharmaparāś cāsan sarve satatasattriṇa

57

antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ

sarve saṃhananopetāḥ sarve parighabāhava

58

sarve māyā śatadharāḥ sarve te kāmacāriṇaḥ

sarve samaram āsādya na śrūyante parājitāḥ

59

sarve satyavrataparāḥ sarve kāmavihāriṇaḥ

sarve veda vrataparāḥ sarve cāsan bahuśrutāḥ

60

sarve saṃhatam aiśvaryam īśvarāḥ pratipedire

na caiśvaryaṃ madas teṣāṃ bhūtapūrvo mahātmanām

61

sarve yathārthadātāraḥ sarve vigatamatsarāḥ

sarve sarveṣu bhūteṣu yathāvat pratipedire

62

sarve dākṣāyaṇī putrāḥ prājāpatyā mahābalāḥ

jvalantaḥ pratapantaś ca kālena pratisaṃhṛtāḥ

63

tvaṃ caivemā yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ

na śakṣyasi tadā śakra niyantuṃ śokam ātmana

64

muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam

evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi

65

okakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ

atītānāgate hitvā pratyutpannena vartaya

66

māṃ ced abhyāgataḥ kālaḥ sadā yuktam atandritam

kṣamasva nacirād indra tvām apy upagamiṣyati

67

trāsayann iva devendra vāgbhir takṣasi mām iha

saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase

68

kālaḥ prathamam āyān māṃ paścāt tvam anudhāvati

tena garjasi devendra pūrvaṃ kālahate mayi

69

ko hi sthātum alaṃ loke kruddhasya mama saṃyuge

kālas tu balavān prāptas tena tiṣṭhasi vāsava

70

yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati

yathā me sarvagātrāṇi na svasthāni hataujasa

71

aham aindrac cyutaḥ sthānāt tvam indraḥ prakṛto divi

sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt

72

kiṃ hi kṛtvā tvam indrādya kiṃ hi kṛtvā cyutā vayam

kālaḥ kartā vikartā ca sarvam anyad akāraṇam

73

nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau

viprān prāpyaivam atyarthaṃ na prahṛṣyen na ca vyathet

74

tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava

vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa

75

tvam eva hi purā vettha yat tadā pauruṣaṃ mama

samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam

76

dityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha

mayā vinirjitāḥ sarve marutaś ca śacīpate

77

tvam eva śakra jānāsi devāsurasamāgame

sametā vibudhā bhagnās tarasā samare mayā

78

parvatāś cāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ

sataṅka śikharā ghorāḥ samare mūrdhni te mayā

79

kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ

na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā

80

na tu vikramakālo 'yaṃ kṣamā kālo 'yam āgataḥ

tena tvā marṣaye śakra durmarṣaṇataras tvayā

81

tvaṃ mā parinate kāle parītaṃ kālavahninā

niyataṃ kālapāśena baddhaṃ śakra vikatthase

82

ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ

baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā

83

lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau

vadho bandhaḥ pramokṣaś ca sarvaṃ kālena labhyate

84

nāhaṃ kartā na kartā tvaṃ kartā yas tu sadā prabhuḥ

so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam

85

yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate

punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate

86

na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati

tena śakra na śocāmi nāsti śoke sahāyatā

87

yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati

sāmarthyaṃ śocato nāsti nādya śocāmy ahaṃ tata

88

evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ

pratisaṃhṛtya saṃrambham ity uvāca śatakratu

89

savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃś ca vāruṇān

kasyeha na vyathed buddhir mṛtyor api jighāṃsata

90

sā te na vyathate buddhir acalā tattvadarśinī

bruvan na vyathase sa tvaṃ vākyaṃ satyaparākrama

91

ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt

kartum utsahate loke dṛṣṭvā saṃprasthitaṃ jagat

92

aham apy evam evainaṃ lokaṃ jānāmi śāśvatam

kālāgnāv āhitaṃ ghore guhye satatage 'kṣare

93

na cātra parihāro 'sti kālaspṛṣṭasya kasya cit

sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām

94

anīśasyāpramattasya bhūtāni pacataḥ sadā

anivṛttasya kālasya kṣayaṃ prāpto na mucyate

95

apramattaḥ pramatteṣu kālo jāgarti dehiṣu

prayatnenāpy atikrānto dṛṣṭapūrvo na kena cit

96

purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ

kālo na parihāryaś ca na cāsyāsti vyatikrama

97

ahorātrāṃś ca māsāṃś ca kṣaṇān kāṣṭhāḥ kalā lavān

saṃpindayati naḥ kālo buddhiṃ vārdhuṣiko yathā

98

idam adya kariṣyāmi śvaḥ kartāsmīti vādinam

kālo harati saṃprāpto nadīvega ivodupam

99

idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ

iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām

100

naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca

anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ

ucchrāyā vinipātāntā bhāvābhāvastha eva ca

101

sā te na vyathate buddhir acalā tattvadarśinī

aham āsaṃ purā ceti manasāpi na budhyase

102

kālenākramya loke 'smin pacyamāne balīyasā

ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase

103

rṣyābhimāna lobheṣu kāmakrodhabhayeṣu ca

spṛhā mohābhimāneṣu lokaḥ sakto vimuhyati

104

bhavāṃs tu bhāvatattvajño vidvāñ jñānatapo 'nvitaḥ

kālaṃ paśyati suvyaktaṃ pānāv āmalakaṃ yathā

105

kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ

vairocane kṛtātmāsi spṛhaṇīyo vijānatām

106

sarvaloko hy ayaṃ manye buddhyā parigatas tvayā

viharan sarvato mukto na kva cit pariṣajjase

107

rajaś ca hi tamaś ca tvā spṛśato na jitendriyam

niṣprītiṃ naṣṭa saṃtāpaṃ tvam ātmānam upāsase

108

suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam

dṛṣṭvā tvāṃ mama saṃjātā tvayy anukrośanī mati

109

nāham etādṛśaṃ buddhiṃ hantum icchāmi bandhane

ānṛśaṃsyaṃ paro dharmo anukrośas tathā tvayi

110

mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt

prajānām apacāreṇa svasti te 'stu mahāsura

111

yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate

putraś ca pitaraṃ mohāt preṣayiṣyati karmasu

112

brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam

śūdrāś ca brāhmaṇīṃ bharyām upayāsyanti nirbhayāḥ

113

viyoniṣu ca bījāni mokṣyante puruṣā yadā

saṃkaraṃ kāṃsyabhāndaiś ca baliṃ cāpi kupātrakai

114

cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati

ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate

115

asmattas te bhayaṃ nāsti samayaṃ pratipālaya

sukhī bhava nirābādhaḥ svasthacetā nirāmaya

116

tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ

vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ

117

maharṣayas tuṣṭuvur añjasā ca taṃ; vṛṣākapiṃ sarvacarācareśvaram

himāpaho havyam udāvahaṃs tvaraṃs; tathāmṛtaṃ cārpitam īśvarāya ha

118

dvijottamaiḥ sarvagatair abhiṣṭuto; vidīpta tejā gatamanyur īśvaraḥ

praśāntacetā muditaḥ svam ālayaṃ; triviṣṭapaṃ prāpya mumoda vāsavaḥ
alain badiou continuum impact theoretical writing| alain badiou continuum impact theoretical writing
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 220