Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 308

Book 12. Chapter 308

The Mahabharata In Sanskrit


Book 12

Chapter 308

1

[य]

अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम

कः पराप्तॊ विनयं बुद्ध्या मॊक्षतत्त्वं वदस्व मे

2

संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः

परं मॊक्षस्य यच चापि तन मे बरूहि पितामह

3

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

जनकस्य च संवादं सुलभायाश च भारत

4

संन्यासफलिकः कश चिद बभूव नृपतिः पुरा

मैथिलॊ जनकॊ नाम धर्मध्वज इति शरुतः

5

स वेदे मॊक्षशास्त्रे च सवे च शास्त्रे कृतागमः

इन्द्रियाणि समाधाय शशास वसुधाम इमाम

6

तस्य वेदविदः पराज्ञाः शरुत्वा तां सादु वृत्तताम

लॊकेषु सपृहयन्त्य अन्ये पुरुषाः पुरुषेश्वर

7

अथ धर्मयुगे तस्मिन यॊगधर्मम अनुष्ठिता

महीम अनुचचारैका सुलभा नाम भिक्षुकी

8

तया जगद इदं संवम अतन्त्या मिथिलेश्वरः

तत्र तत्र शरुतॊ मॊक्षे कथ्यमानस तरिदन्दिभिः

9

सा सुसूक्ष्मां कथां शरुत्वा तथ्यं नेति ससंशया

दर्शने जातसंकल्पा जनकस्य बभूव ह

10

ततः सा विप्रहायाथ पूर्वरूपं हि यॊगतः

अबिभ्रद अनवद्याङ्गी रूपम अन्यद अनुत्तमम

11

चक्षुर निमेष मात्रेण लघ्व अस्त्रगतिगामिनी

विदेहानां पुरीं सुभ्रूर जगाम कमलेक्षणा

12

सा पराप्य मिथिलां रम्यां समृद्धजनसंकुलाम

भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम

13

राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस तथा

केयं कस्य कुतॊ वेति बभूवागत विस्मयः

14

ततॊ ऽसयाः सवागतं कृत्वा वयादिश्य च वरासनम

पूजितां पादशौचेन वरान्नेनाप्य अतर्पयत

15

अथ भुक्तवती परीता राजानं मन्त्रिभिर वृतम

सर्वभाष्यविदां मध्ये चॊदयाम आस भिक्षुकी

16

सुलभा तव अस्य धर्मेषु मुक्तॊ नेति ससंशया

सत्त्वं सत्त्वेन यॊगज्ञा परविवेश महीपते

17

नेत्राभ्यां नेत्रयॊर अस्य रश्मीन संयॊज्य रश्मिभिः

सा सम संचॊदयिष्यन्तम्यॊग बन्धैर बबन्ध ह

18

जनकॊ ऽपय उत्स्मयन राजा भावम अस्या विशेषयन

परतिजग्राह भावेन भावम अस्या नृपॊत्तमः

19

तद एकस्मिन्न अधिष्ठाने संवादः शरूयताम अयम

छत्त्रादिषु विमुक्तस्य मुक्तायाश च तरिदण्डके

20

भगवत्याः कव चर्येयं कृता कव च गमिष्यसि

कस्य च तवं कुतॊ वेति पप्रच्छैनां महीपतिः

21

शरुते वयसि जातौ च सद्भावॊ नाधिगम्यते

एष्व अर्थेषूत्तरं तस्मात परवेद्यं तः समागमे

22

छत्त्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः

स तवां संमन्तुम इच्छामि माहार्हासि मता हि मे

23

यस्माच चैतन मया पराप्तं जञानं वैशेषिकं पुरा

यस्य नान्यः परवक्तास्ति मॊक्षे तम अपि मे शृणु

24

पाराशर्यस गॊत्रस्य वृद्धस्य सुमहात्मनः

भिक्षॊः पञ्चशिखस्याहं शिष्यः परमसंमतः

25

सांख्यज्ञाने तथा यॊगे महीपाल विधौ तथा

तरिविधे मॊक्षधर्मे ऽसमिन गताध्वा छिन्नसंशयः

26

स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन

वार्षिकांश चतुरॊ मासान पुरा मयि सुखॊषितः

27

तेनाहं सांक्य मुख्येन सुदृष्टार्थेन तत्त्वतः

शरावितस तरिविधं मॊक्षं न च राज्याद विचालिथ

28

सॊ ऽहं ताम अखिलां वृत्तिं तरिविधां मॊक्षसंहिताम

मुक्तरागश चराम्य एकः पदे परमके सथितः

29

वैराग्यं पुनर एतस्य मॊक्षस्य परमॊ विधिः

जञानाद एव च वैराग्यं जायते येन मुच्यते

30

जञानेन कुरुते यत्नं यत्नेन पराप्यते महत

महद दवन्द्वप्रमॊक्षाय सा सिद्धिर या वयॊ ऽतिगा

31

सेयं परमिका बुद्धिः पराप्ता निर्द्वन्द्वता मया

इहैव गतमॊहेन चरता मुक्तसङ्गिना

32

यथा कषेत्रं मृदू भूतम अद्भिर आप्लावितं तथा

जनयत्य अङ्कुरं कर्म नृणां तद्वत पुनर्भवम

33

यथा चॊत्तापितं बीजं कपाले यत्र यत्र वा

पराप्याप्य अङ्कुर हेतुत्वम अबीजत्वान न जायते

34

तद्वद भगवता तेन शिखा परॊक्तेन भिक्षुणा

जञानं कृतम अबीजं मे विषयेषु न जायते

35

नाभिषज्जति कस्मिंश चिन नानर्थे न परिग्रहे

नाभिरज्यति चैतेषु वयर्थत्वाद रागदॊषयॊः

36

यश च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत

सव्यं वास्या च यस तक्षेत समाव एताव उभौ मम

37

सुखी सॊ ऽहम अवाप्तार्थः समलॊक्षाश्म काञ्चनः

मुक्तसङ्गः सथितॊ राज्ये विशिष्टॊ ऽनयैस तरिदन्दिभिः

38

मॊक्षे हि तरिविधा निष्ठा दृष्टा पूर्वैर महर्षिभिः

जञानं लॊकॊत्तरं यच च सर्वत्यागश च कर्मणाम

39

जञाननिष्ठां वदन्त्य एके मॊक्षशास्त्रविदॊ जनाः

कर्म निष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः

40

परहायॊभयम अप्य एतज जञानं कर्म च केवलम

तृतीयेयं समाख्याता निष्ठा तेन महात्मना

41

यमे च नियमे चैव दवेषे कामे परिग्रहे

माने दम्भे तथा सनेहे सदृशास ते कुटुम्बिभिः

42

तरिदण्डादिषु यद्य अस्ति मॊक्षॊ जञानेन केन चित

छत्त्रादिषु कथं न सयात तुल्यहेतौ परिग्रहे

43

येन येन हि यस्यार्थः कारणेनेह कस्य चित

तत तद आलम्बते दरव्यं सर्वः सवे सवे परिग्रहे

44

दॊषदर्शी तु गार्हस्थ्ये यॊ वरजत्य आश्रमान्तरम

उत्सृजन परिगृह्नंश च सॊ ऽपि सङ्गान न मुच्यते

45

आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि

राजर्षिभिक्षुकाचार्या मुच्यन्ते केन केतुना

46

अथ सत्याधिपत्ये ऽपि जञानेनैवेह केवलम

मुच्यन्ते किं न मुच्यन्ते पदे परमके सथितः

47

कासाय धारणं मौन्द्यं तरिविष्टब्धः कमन्दलुः

लिङ्गान्य अत्यर्थम एतानि न मॊक्षायेति मे मतिः

48

यदि सत्य अपि लिङ्गे ऽसमिञ जञानम एवात्र कारणम

निर्मॊक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम

49

अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः

किं तद एवार्थसामान्य छत्त्रादिषु न लक्ष्यते

50

आकिंचन्ये च मॊक्षॊ ऽसति कैंचन्ये नास्ति बन्धनम

कैंचन्ये चेतरे चैव जन्तुर जञानेन मुच्यते

51

तस्माद धर्मार्थकामेषु तथा राज्यपरिग्रहे

बन्धनायतनेष्व एषु विद्ध्य अबन्धे पदे सथितम

52

राज्यैश्वर्यमयः पाशः सनेहायतन बन्धनः

मॊक्षाश्म निशितेनेह छिन्नस तयागासिना मया

53

सॊ ऽहम एवंगतॊ मुक्तॊ जातास्थस तवयि भिक्षुकि

अयथार्थॊ हि ते वर्णॊ वक्ष्यामि शृणु तन मम

54

सौकुमार्यं तथारूपं वपुर अग्र्यं तथा वयः

तवैतानि समस्तानि नियमश चेति संशयः

55

यच चाप्य अननुरूपं ते लिङ्गस्यास्य विचेष्टितम

मुक्तॊ ऽयं सयान न वेत्य अस्माद धर्षितॊ मत्परिग्रहः

56

न च कामसमायुक्ते मुक्ते ऽपय अस्ति तरिदण्डकम

न रक्ष्यते तवया चेदं न मुक्तस्यास्ति गॊपना

57

मत पक्षसंश्रयाच चायं शृणु यस ते वयतिक्रमः

आश्रयन्त्याः सवभावेन मम पूर्वपरिग्रहम

58

परवेशस ते कृतः केन मम रास्त्रे पुरे तथा

कस्य वा संनिसर्गात तवं परविष्टा हृदयं मम

59

वर्णप्रवर मुख्यासि बराह्मणी कषत्रियॊ हय अहम

नावयॊर एकयॊगॊ ऽसति मा कृथा वर्णसंकरम

60

वर्तसे मॊक्षधर्मेषु गार्हस्थ्ये तव अहम आश्रमे

अयं चापि सुकस्तस ते दवितीयॊ ऽऽशरमसंकरः

61

सगॊत्रां वासगॊत्रां वा न वेद तवां न वेत्थ माम

सगॊत्रम आविशन्त्यास ते तृतीयॊ गॊत्र संकरः

62

अथ जीवति ते भर्ता परॊषितॊ ऽपय अथ वा कव चित

अगम्या परभार्येति चतुर्थॊ धर्मसंकरः

63

सा तवम एतान्य अकार्याणि कार्यापेक्षा वयवस्यसि

अविज्ञानेन वा युक्ता मिथ्या जञानेन वा पुनः

64

अथ वापि सवतन्त्रास्ति सवदॊषेणेह केन चित

यदि किं चिच छरुतं ते ऽसि सर्वं कृतम अनर्थकम

65

इदम अन्यत तृतीयं ते भावस्पर्श विघातकम

दुष्टाया लक्ष्यते लिङ्गं परवक्तव्यं परकाशितम

66

न मय्य एवाभिसंधिस ते जयैषिण्या जये कृतः

येयं मत्परिषत कृत्स्ना जेतुम इच्छसि ताम अपि

67

तथा हय एवं पुनश च तवं दृष्टिं सवां परतिमुञ्चसि

मत पक्षप्रतिघाताय सवपक्षॊद्भावनाय च

68

सा सवेनामर्षजेन तवम ऋद्धिमॊहेन मॊहिता

भूयः सृजसि यॊगास्त्रं विषामृतम इवैकधा

69

इच्छतॊर हि दवयॊर लाभः सत्रीपुंसॊर अमृतॊपमः

अलाभश चाप्य अरक्तस्य सॊ ऽतर दॊषॊ विषॊपमः

70

मा सप्रक्षीः सधु जानीस्व सवशास्त्रम अनुपालय

कृतेयं हि विजिज्ञासा मुक्तॊ नेति तवया मम

एतत सर्वं परतिच्छन्नं मयि नार्हसि गूहितुम

71

सा यदि तवं सवकार्येण यद्य अन्यस्य महीपतेः

तत्त्वं सत्त्र परतिच्छन्ना मयि नार्हसि गूहितुम

72

न राजानं मृषा गच्छेन न दविजातिं कथंचनन

न सत्रियं सत्री गुणॊपेतां हन्युर हय एते मृषा गताः

73

राज्ञां हि बलम ऐश्वर्यं बरह्म बरह्मविदां बलम

रूपयौवन सौभाग्यं सत्रीणां बलम अनुत्तमम

74

अत एतैर बलैर एत बलिनः सवार्थम इच्छता

आर्जवेनाभिगन्तव्या विनाशाय हय अनार्जवम

75

सा तवं जातिं शरुतं वृत्तं भावं परकृतिम आत्मनः

कृत्यम आगमने चैव वक्तुम अर्हसि तत्त्वतः

76

इत्य एतैर असुखैर वाक्यैर अयुक्तैर असमञ्जसैः

परत्यादिष्टा नरेन्द्रेण सुलभा न वयकम्पत

77

उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना

ततश चारुतरं वाक्यं परचक्रामाथ भासितुम

78

नवभिर नवभिश चैव दॊषैर वाग्बुद्धिदूसनैः

अपेतम उपपन्नार्थम अस्ता दशगुणान्वितम

79

सौक्ष्म्यं संख्या करमौ चॊभौ निर्नयः सप्रयॊजनः

पञ्चैतान्य अर्थजातानि वाक्यम इत्य उच्यते नृप

80

एषाम एकैकशॊ ऽरथानां सौक्ष्म्यादीनां सुलक्षणम

शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः

81

जञानं जञेयेषु भिन्नेषु यथा भेदेन वर्तते

तत्रातिशयिनी बुद्धिस तत सौक्ष्म्यम इति वर्तते

82

दॊषाणां च गुणानां च परमाणं परैविभागशः

कं चिद अर्थम अभिप्रेत्य सा संख्येत्य उपधार्यताम

83

इदं पूर्वम इदं पश्चाद वक्तव्यं यद विवक्षितम

करमयॊगं तम अप्य आहुर वाक्यं वाक्यविदॊ जनाः

84

धर्मार्थकाममॊक्षेषु परतिज्ञाय विशेषतः

इदं तद इति वाक्यान्ते परॊच्यते स विनिर्नयः

85

इच्छा दवेषभवैर दुःखैः परकर्षॊ यत्र जायते

तत्र या नृपते वृत्तिस तत परयॊजनम इष्यते

86

तान्य एतानि यथॊक्तानि सैक्ष्म्यादीनि जनाधिप

एकार्थसमवेतानि वाक्यं मम निशामय

87

उपेतार्थम अभिन्नार्थं नापवृत्तं न चाधिकम

नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव

88

न गुर्व अक्षरसंबद्धं पराङ्मुख मुखं न च

नानृतं न तरिवर्गेण विरुद्धं नाप्य असंक्षृतम

89

न नयूनं कस्त शब्दं वा वयुत्क्रमाभिहितं न च

न शेषं नानुकल्पेन निष्कारणम अहेतुकम

90

कामात करॊधाद भयाल लॊभाद दैन्याद आनार्यकात तथा

हरीतॊ ऽनुक्रॊशतॊ मानान न वक्ष्यामि कथं चन

91

वक्ता शरॊता च वाक्यं च यदा तवाविकलं नृप

समम एति विवक्षायां तदा सॊ ऽरथः परकाशते

92

वक्तव्ये तु यदा वक्ता शरॊतारम अवमन्यते

सवार्थम आह परार्थं वा तदा वाक्यं न रॊहति

93

अथ यः सवार्थम उत्सृज्य परार्थं पराह मानवः

विशङ्का जायते तस्मिन वाक्यं तद अपि दॊषवत

94

यस तु वक्ता दवयॊर अर्थम अविरुद्धं परभासते

शरॊतुश चैवात्मनश चैव स वक्ता नेतरॊ नृप

95

तदर्थवद इदं वाक्यम उपेतं वाक्यसंपदा

अविक्षिप्त मना राजन्न एकाग्रः शरॊतुम अर्हसि

96

कासि कस्य कुतॊ वेति तवयाहम अभिचॊदिता

तत्रॊत्तरम इदं वाक्यं राजन्न एकमनाः शृणु

97

यथा जतु च काष्ठं च पांसवश चॊद बिन्दुभिः

सुश्लिष्टानि तथा राजन परानिनाम इह संभवः

98

शब्दः सपर्शॊ रसॊ रूपं गन्धः पञ्चेन्द्रियाणि च

पृथग आत्मा दशात्मानः संश्लिष्टा जतु काष्ठवत

99

न चैषां चॊदना का चिद अस्तीत्य एष विनिश्चयः

एकैकस्येह विज्ञानं नास्त्य आत्मनि तथा परे

100

न वेद चक्षुश चक्षुस तवं शरॊत्रं नात्मनि वर्तते

तथैव वयभिचारेण न वर्तन्ते परस्परम

संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः

101

बाह्यान अन्यान अपेक्षन्ते गुणांस तान अपि मे शृणु

रूपं चक्षुः परकाशश च दर्शने हेतवस तरयः

यथैवात्र तथान्येषु जञानज्ञेयेषु हेतवः

102

जञानज्ञेयान्तरे तस्मिन मनॊ नामापरॊ गुणः

विचारयति येनायं निश्चये साध्वसाधुनी

103

दवादशस तव अपरस तत्र बुद्धिर नाम गुणः समृतः

येन संशय पूर्वेषु बॊद्धव्येषु वयवस्यति

104

अथ दवादशके तस्मिन सत्त्वं नामापरॊ गुणः

महासत्त्वॊ ऽलपसत्त्वॊ वा जन्तुर येनानुमीयते

105

कषेत्रज्ञ इति चाप्य अन्यॊ गुणस तत्र चतुर्दशः

ममायम इति येनायं मन्यते न च मन्यते

106

अथ पञ्चदशॊ राजन गुणस तत्रापरः समृतः

पृथक कला समूहस्य सामग्र्यं तद इहॊच्यते

107

गुणस तव एवापरस तत्र संघात इति सॊदशः

आकृतिर वयक्तिर इत्य एतौ गुणौ यस्मिन समाश्रितौ

108

सुखदुःखे जरामृत्यू लाभालाभौ परियाप्रिये

इति चैकॊनविंशॊ ऽयं दवन्द्वयॊग इति समृतः

109

ऊर्ध्वम एकॊनविंशत्याः कालॊ नामापरॊ गुणः

इतीमं विद्धि विंशत्या भूतानां परभवाप्ययम

110

विश्मकश चैष संघातॊ महाभूतानि पञ्च च

सदसद भावयॊगौ च गुणाव अन्यौ परकाशकौ

111

इत्य एवं विंशतिश चैव गुणाः सप्त च ये समृताः

विधिः शुक्रं बलं चेति तरय एते गुणाः परे

112

एकविंशश च दश च कलाः संख्यानतः समृताः

समग्रा यत्र वर्तन्ते तच छरीरम इति समृतम

113

अव्यक्तं परकृतिं तव आसां कलानां कश चिद इच्छति

वयक्तं चासां तथैवान्यः सथूलदर्शी परपश्यति

114

अव्यक्तं यदि वा वयक्तं दवयीम अथ चतुष्टयीम

परकृतिं सर्वभूतानां पश्यन्त्य अध्यात्मचिन्तकाः

115

सेयं परकृतिर अव्यक्ता कलाभिर वयक्ततां गता

अहं च तवं च राजेन्द्र ये चाप्य अन्ये शरीरिणः

116

बिन्दुन्यासादयॊ ऽवस्थाः शुक्रशॊनित संभवाः

यासाम एव निपातेन कललं नाम जायते

117

कललाद अर्बुदॊत्पत्तिः पेशी चाप्य अर्बुदॊद्भवा

पेश्यास तव अङ्गाभिनिर्वृत्तिर नखरॊमाणि चाङ्गतः

118

संपूर्णे नवमे मासे जन्तॊर जातस्य मैथिल

जायते नाम रूपत्वं सत्री पुमान वेति लिङ्गतः

119

जातमात्रं तु तद रूपं दृष्ट्वा ताम्रनखाङ्गुलि

कौमार रूपम आपन्नं रूपतॊ न पलभ्यते

120

कौमाराद यौवनं चापि सथाविर्यं चापि यौवनात

अनेन करमयॊगेन पूर्वं पूर्वं न लभ्यते

121

कलानां पृथग अर्थानां परतिभेदः कषणे कषणे

वर्तते सर्वभूतेषु सौक्ष्म्यात तु न विभाव्यते

122

न चैषाम अप्ययॊ राजँल लक्ष्यते परभवॊ न च

अवस्थायाम अवस्थायां दीपस्येवार्चिषॊ गतिः

123

तस्याप्य एवं परभावस्य सदश्वस्येव धावतः

अजस्रं सर्वलॊकस्य कः कुतॊ वा न वा कुतः

124

कस्येदं कस्य वा नेदं कुतॊ वेदं न वा कुतः

संबन्धः कॊ ऽसति भूतानां सवैर अप्य अवयवैर इह

125

यथादित्यान मणेश चैव वीरुद्भ्यश चैव पावकः

भवेत्य एवं समुदयात कलानाम अपि जन्तवः

126

आत्मन्य एवात्मनात्मानं यथा तवम अनुपश्यसि

एवम एवात्मनात्मानम अन्यस्मिन किं न पश्यसि

यद्य आत्मनि परस्मिंश च समताम अध्यवस्यसि

127

अथ मां कासि कस्येति किमर्थम अनुपृच्छसि

इदं मे सयाद इदं नेति दवन्द्वैर मुक्तस्य मैथिल

कासि कस्य कुतॊ वेति वचने किं परयॊजनम

128

रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे

कृतवान यॊ महीपाल किं तस्मिन मुक्तलक्षणम

129

तरिवर्गे सप्तधा वयक्तं यॊ न वेदेह कर्मसु

सङ्गवान यस तरिवर्गे च किं तस्मिन मुक्तलक्षणम

130

परिये चैवाप्रिये चैव दुर्बले बलवत्य अपि

यस्य नास्ति समं चक्षुः किं तस्मिन मुक्तलक्षणम

131

तद अमुक्तस्य ते मॊक्षे यॊ ऽभिमानॊ भवेन नृप

सुहृद्भिः स निवार्यस ते विचित्तस्येव भेषजैः

132

तानि तान्य अनुसंदृश्य सङ्गस्थानान्य अरिंदम

आत्मनात्मनि संपश्येत किं तस्मिन मुक्तलक्षणम

133

इमान्य अन्यानि सूक्ष्माणि मॊक्षम आश्रित्य कानि चित

चतुरङ्ग परवृत्तानि सङ्गस्थानानि मे शृणु

134

य इमां पृथिवीं कृत्स्नाम एकछत्त्रां परशास्ति ह

एकम एव स वै राजा पुरम अध्यावसत्य उत

135

तत पुरे चैकम एवास्य गृहं यद अधितिष्ठति

गृहे शयनम अप्य एकं निशायां यत्र लीयते

136

शय्यार्धं तस्य चाप्य अत्र सत्रीपूर्वम अधितिष्ठति

तद अनेन परसङ्गेन फलेनैवेह युज्यते

137

एवम एवॊपभॊगेषु भॊजनाच छादनेषु च

गुणेषु परिमेयेषु निग्रहानुग्रहौ परति

138

परतन्त्रः सदा राजा सवल्पे सॊ ऽपि परसज्यते

संधिविग्रहयॊगे च कुतॊ राज्ञः सवतन्त्रता

139

सत्रीषु करीदा विहारेषु नित्यम अस्यास्वतन्त्रता

मन्त्रे चामात्य समितौ कुत एव सवतन्त्रता

140

यदा तव आज्ञापयत्य अन्यांस तदास्यॊक्ता सवतन्त्रता

अवशः कार्यते तत्र तस्मिंस तस्मिन गुणे सथितः

141

सवप्तु कामॊ न लभते सवप्तुं कार्यार्थिभिर जनैः

शयने चाप्य अनुज्ञातः सुप्त उत्थाप्यते ऽवशः

142

सनाह्य आलभ पिब पराश जुहुध्य अग्नीन यजेति च

वदस्य शृणु चापीति विवशः कार्यते परैः

143

अभिगम्याभिगम्यैनं याचन्ते सततं नराः

न चाप्य उत्सहते दातुं वित्तरक्षी महाजनात

144

दाने कॊशक्षयॊ हय अस्य वैरं चाप्य अरयच्छतः

कषणेनास्यॊपवर्तन्ते दॊषा वैराग्य कारकाः

145

पराज्ञाञ शूरांस तथैवाध्यान एकस्थाने ऽपि शङ्कते

भयम अप्य अभये राज्ञॊ यैश च नित्यम उपास्यते

146

यदा चैते परदुष्यन्ति राजन ये कीर्तिता मया

तदैवास्य भयं तेभ्यॊ जायते पश्य यादृशम

147

सर्वः सवे सवे गृहे राजा सर्वः सवे सवे गृहे गृही

निग्रहानुग्रहौ कुर्वंस तुल्यॊ जनकराजभिः

148

पुत्रा दारास तथैवात्मा कॊशॊ मित्राणि संचयः

परैः साधारणा हय एते तैस तैर एवास्य हेतुभिः

149

हतॊ देशः पुरं दग्धं परधानः कुञ्जरॊ मृतः

लॊकसाधारणेष्व एषु मिथ्या जञानेन तप्यते

150

अमुक्तॊ मानसैर दुःखैर इछा दवेषप्रियॊद्भवैः

शिरॊ रॊगादिभी रॊगैस तथैव विनिपातिभिः

151

दवन्द्वैस तैस तैर उपहतः सर्वतः परिशङ्कितः

बहु परत्यर्थिकं राज्यम उपास्ते गणयन निशाः

152

तद अल्पसुखम अत्यर्थं बहुदुःखम असारवत

कॊ राज्यम अभिपद्येत पराप्य चॊपशमं लभेत

153

ममेदम इति यच चेदं पुरं रास्त्रं च मन्यसे

बलं कॊशम अमात्यांश च कस्यैतानि न वा नृप

154

मित्रामात्यं पुरं रास्त्रं दन्दः कॊशॊ महीपतिः

सप्ताङ्गश चक्रसंघातॊ राज्यम इत्य उच्यते नृप

155

सप्ताङ्गस्यास्य राज्यस्य तरिदण्डस्येव तिष्ठतः

अन्यॊन्यगुणयुक्तस्य कः केन गुणतॊ ऽधिकः

156

तेषु तेषु हि कालेषु तत तद अङ्गं विशिष्यते

येन यत सिध्यते कार्यं तत पराधान्याय कल्पते

157

सप्ताङ्गश चापि संघातस तरयश चान्ये नृपॊत्तम

संभूय दशवर्गॊ ऽयं भुङ्क्ते राज्यं हि राजवत

158

यश च राजा महॊत्साहः कषत्रधर्मरतॊ भवेत

स तुष्येद दश भागेन ततस तव अन्यॊ दशावरैः

159

नास्त्य असाधारणॊ राजा नास्ति राज्यम अराजकम

राज्ये ऽसति कुतॊ धर्मॊ धर्मे ऽसति कुतः परम

160

यॊ ऽपय अत्र परमॊ धर्मः पवित्रं राजराज्ययॊः

पृथिवी दक्षिणा यस्य सॊ ऽशवमेधॊ न विद्यते

161

साहम एतानि कर्माणि राज्यदुःखानि मैथिल

समर्था शतशॊ वक्तुम अथ वापि सहस्रशः

162

सवदेहे नाभिषङ्गॊ मे कुतः परपरिग्रहे

न माम एवंविधां मुक्ताम ईदृशं वक्तुम अर्हसि

163

ननु नाम तवया मॊक्षः कृत्स्नः पञ्च शिखाच छरुतः

सॊपायः सॊपनिषदः सॊपासङ्गः सनिश्चयः

164

तस्य ते मुक्तसङ्गस्य पाशान आक्रम्य तिष्ठतः

छत्त्रादिषु विशेषेषु कथं सङ्गः पुनर नृप

165

शरुतं ते न शरुतं मन्ये मिथ्या वापि शरुतं शरुतम

अथ वा शरुतसंकाशं शरुतम अन्यच छरुतं तवया

166

अथापीमासु संज्ञासु लौकिकीषु परतिष्ठसि

अभिषङ्गावरॊधाभ्यां बद्धस तवं पराकृतॊ मया

167

सत्त्वेनानुप्रवेशॊ हि यॊ ऽयं तवयि कृतॊ मया

किं तवापकृतं तत्र यदि मुक्तॊ ऽसि सर्वतः

168

नियमॊ हय एष धर्मेषु यतीनां शून्यवासिता

शून्यम आवासयन्त्या च मया किं कस्य दूसितम

169

न पानिभ्यां न बाहुभ्यां पादॊरुभ्यां न चानघ

न गात्रावयवैर अन्यैः सपृशामि तवा नराधिप

170

कुले महति जातेन हरीमता दीर्घदर्शिना

नैतत सदसि वक्तव्यं सद वासद वा मिथः कृतम

171

बराह्मणा गुरवश चेमे तथामात्या गुरूत्तमाः

तवं चाथ गुरुर अप्य एषाम एवम अन्यॊन्यगौरवम

172

तद एवम अनुसंदृश्य वाच्यावाच्यं परीक्षता

सत्रीपुंसॊ समवायॊ ऽयं तवया वाच्यॊ न संसदि

173

यथा पुष्कर पर्णस्थं जलं तत्पर्णसंस्थितम

तिष्ठत्य अस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल

174

यदि वाप्य अस्पृशन्त्या मे सपर्शं जानासि कं चन

जञानं कृतम अबीजं ते कथं तेनेह भिक्षुणा

175

स गार्हस्थ्याच चयुतश च तवं मॊक्षं नावाप्य दुर्विदम

उभयॊर अन्तराले च वर्तसे मॊक्षवातिकः

176

न हि मुक्तस्य मुक्तेन जञस्यैकत्व पृथक्त्वयॊः

भावाभाव समायॊगे जायते वर्णसंकरः

177

वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः

नान्यद अन्यद इति जञात्वा नान्यद अन्यत परवर्तते

178

पानौ कुन्दं तथा कुन्दे पयः पयसि मक्षिकाः

आश्रिताश्रय यॊगेन पृथक्त्वेनाश्रया वयम

179

न तु कुन्दे पयॊ भावः पयश चापि न मक्षिकाः

सवयम एवाश्रयन्त्य एते भावा न तु पराश्रयम

180

पृथक्त्वाद आश्रमाणां च वर्णान्यत्वे तथैव च

परस्परपृथक्त्वाच च कथं ते वर्णसंकरः

181

नास्मि वर्णॊत्तमा जात्या न वैश्या नावरा तथा

तव राजन सवर्णास्मि शुद्धयॊनिर अविप्लुता

182

परधानॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः

कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम

183

दरॊणश च शतशृङ्गश च वक्रद्वारश च पर्वतः

मम सत्त्रेषु पूर्वेषां चिता मघवता सह

184

साहं तस्मिन कुले जाता भर्तर्य असति मद्विधे

विनीता मॊक्षधर्मेषु चराम्य एका मुनिव्रतम

185

नास्मि सत्त्र परतिच्छन्ना न परस्वाभिमानिनी

न धर्मसंकरकरी सवधर्मे ऽसमि धृतव्रता

186

नास्थिरा सवप्रतिज्ञायां नासमीक्ष्य परवादिनी

नासमीक्ष्यागता चाहं तवत्सकाशं जनाधिप

187

मॊक्षे ते भवितां बुद्धिं शरुत्वाहं कुशलैषिणी

तव मॊक्षस्य चाप्य अस्य जिज्ञासार्थम इहागता

188

न वर्गस्था बरवीम्य एतत सवपक्ष परपक्षयॊः

मुक्तॊ न मुच्यते यश च शान्तॊ यश च न शाम्यति

189

यथा शून्ये पुरागारे भिक्षुर एकां निशां वसेत

तथा हि तवच छरीरे ऽसमिन्न इमां वत्स्यामि शर्वतीम

190

साहम आसनदानेन वाग आतिथ्येन चार्चिता

सुप्ता सुशरणा परीता शवॊ गमिष्यामिमैथिल

191

इत्य एतानि स वाक्यानि हेतुमन्त्य अर्थवन्ति च

शरुत्वा नाधिजगौ राजा किं चिद अन्यद अतः परम

1

[y]

aparityajya gārhasthyaṃ kururājarṣisattama

kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me

2

saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ

paraṃ mokṣasya yac cāpi tan me brūhi pitāmaha

3

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

janakasya ca saṃvādaṃ sulabhāyāś ca bhārata

4

saṃnyāsaphalikaḥ kaś cid babhūva nṛpatiḥ purā

maithilo janako nāma dharmadhvaja iti śruta

5

sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ

indriyāṇi samādhāya śaśāsa vasudhām imām

6

tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādu vṛttatām

lokeṣu spṛhayanty anye puruṣāḥ puruṣeśvara

7

atha dharmayuge tasmin yogadharmam anuṣṭhitā

mahīm anucacāraikā sulabhā nāma bhikṣukī

8

tayā jagad idaṃ saṃvam atantyā mithileśvaraḥ

tatra tatra śruto mokṣe kathyamānas tridandibhi

9

sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā

darśane jātasaṃkalpā janakasya babhūva ha

10

tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ

abibhrad anavadyāṅgī rūpam anyad anuttamam

11

cakṣur nimeṣa mātreṇa laghv astragatigāminī

videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā

12

sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām

bhaikṣacaryāpadeśena dadarśa mithileśvaram

13

rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapus tathā

keyaṃ kasya kuto veti babhūvāgata vismaya

14

tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam

pūjitāṃ pādaśaucena varānnenāpy atarpayat

15

atha bhuktavatī prītā rājānaṃ mantribhir vṛtam

sarvabhāṣyavidāṃ madhye codayām āsa bhikṣukī

16

sulabhā tv asya dharmeṣu mukto neti sasaṃśayā

sattvaṃ sattvena yogajñā praviveśa mahīpate

17

netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ

sā sma saṃcodayiṣyantamyoga bandhair babandha ha

18

janako 'py utsmayan rājā bhāvam asyā viśeṣayan

pratijagrāha bhāvena bhāvam asyā nṛpottama

19

tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam

chattrādiṣu vimuktasya muktāyāś ca tridaṇḍake

20

bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi

kasya ca tvaṃ kuto veti papracchaināṃ mahīpati

21

rute vayasi jātau ca sadbhāvo nādhigamyate

eṣv artheṣūttaraṃ tasmāt pravedyaṃ taḥ samāgame

22

chattrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ

sa tvāṃ saṃmantum icchāmi māhārhāsi matā hi me

23

yasmāc caitan mayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā

yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu

24

pārāśaryasa gotrasya vṛddhasya sumahātmanaḥ

bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmata

25

sāṃkhyajñāne tathā yoge mahīpāla vidhau tathā

trividhe mokṣadharme 'smin gatādhvā chinnasaṃśaya

26

sa yathāśāstradṛṣṭena mārgeṇeha parivrajan

vārṣikāṃś caturo māsān purā mayi sukhoṣita

27

tenāhaṃ sāṃkya mukhyena sudṛṣṭrthena tattvataḥ

śrāvitas trividhaṃ mokṣaṃ na ca rājyād vicālitha

28

so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām

muktarāgaś carāmy ekaḥ pade paramake sthita

29

vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ

jñānād eva ca vairāgyaṃ jāyate yena mucyate

30

jñānena kurute yatnaṃ yatnena prāpyate mahat

mahad dvandvapramokṣāya sā siddhir yā vayo 'tigā

31

seyaṃ paramikā buddhiḥ prāptā nirdvandvatā mayā

ihaiva gatamohena caratā muktasaṅginā

32

yathā kṣetraṃ mṛdū bhūtam adbhir āplāvitaṃ tathā

janayaty aṅkuraṃ karma nṛṇāṃ tadvat punarbhavam

33

yathā cottāpitaṃ bījaṃ kapāle yatra yatra vā

prāpyāpy aṅkura hetutvam abījatvān na jāyate

34

tadvad bhagavatā tena śikhā proktena bhikṣuṇā

jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate

35

nābhiṣajjati kasmiṃś cin nānarthe na parigrahe

nābhirajyati caiteṣu vyarthatvād rāgadoṣayo

36

yaś ca me dakṣiṇaṃ bāhuṃ candanena samukṣayet

savyaṃ vāsyā ca yas takṣet samāv etāv ubhau mama

37

sukhī so 'ham avāptārthaḥ samalokṣāśma kāñcanaḥ

muktasaṅgaḥ sthito rājye viśiṣṭo 'nyais tridandibhi

38

mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ

jñānaṃ lokottaraṃ yac ca sarvatyāgaś ca karmaṇām

39

jñānaniṣṭhāṃ vadanty eke mokṣaśāstravido janāḥ

karma niṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśina

40

prahāyobhayam apy etaj jñānaṃ karma ca kevalam

tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā

41

yame ca niyame caiva dveṣe kāme parigrahe

māne dambhe tathā snehe sadṛśās te kuṭumbibhi

42

tridaṇḍādiṣu yady asti mokṣo jñānena kena cit

chattrādiṣu kathaṃ na syāt tulyahetau parigrahe

43

yena yena hi yasyārthaḥ kāraṇeneha kasya cit

tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe

44

doṣadarśī tu gārhasthye yo vrajaty āśramāntaram

utsṛjan parigṛhnaṃś ca so 'pi saṅgān na mucyate

45

dhipatye tathā tulye nigrahānugrahātmani

rājarṣibhikṣukācāryā mucyante kena ketunā

46

atha satyādhipatye 'pi jñānenaiveha kevalam

mucyante kiṃ na mucyante pade paramake sthita

47

kāsāya dhāraṇaṃ maundyaṃ triviṣṭabdhaḥ kamandaluḥ

liṅgāny atyartham etāni na mokṣāyeti me mati

48

yadi saty api liṅge 'smiñ jñānam evātra kāraṇam

nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam

49

atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ

kiṃ tad evārthasāmānya chattrādiṣu na lakṣyate

50

kiṃcanye ca mokṣo 'sti kaiṃcanye nāsti bandhanam

kaiṃcanye cetare caiva jantur jñānena mucyate

51

tasmād dharmārthakāmeṣu tathā rājyaparigrahe

bandhanāyataneṣv eṣu viddhy abandhe pade sthitam

52

rājyaiśvaryamayaḥ pāśaḥ snehāyatana bandhanaḥ

mokṣāśma niśiteneha chinnas tyāgāsinā mayā

53

so 'ham evaṃgato mukto jātāsthas tvayi bhikṣuki

ayathārtho hi te varṇo vakṣyāmi śṛṇu tan mama

54

saukumāryaṃ tathārūpaṃ vapur agryaṃ tathā vayaḥ

tavaitāni samastāni niyamaś ceti saṃśaya

55

yac cāpy ananurūpaṃ te liṅgasyāsya viceṣṭitam

mukto 'yaṃ syān na vety asmād dharṣito matparigraha

56

na ca kāmasamāyukte mukte 'py asti tridaṇḍakam

na rakṣyate tvayā cedaṃ na muktasyāsti gopanā

57

mat pakṣasaṃśrayāc cāyaṃ śṛu yas te vyatikrama

ā
rayantyāḥ svabhāvena mama pūrvaparigraham

58

praveśas te kṛtaḥ kena mama rāstre pure tathā

kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama

59

varṇapravara mukhyāsi brāhmaṇī kṣatriyo hy aham

nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram

60

vartase mokṣadharmeṣu gārhasthye tv aham āśrame

ayaṃ cāpi sukastas te dvitīyo 'śramasaṃkara

61

sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām

sagotram āviśantyās te tṛtīyo gotra saṃkara

62

atha jīvati te bhartā proṣito 'py atha vā kva cit

agamyā parabhāryeti caturtho dharmasaṃkara

63

sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi

avijñānena vā yuktā mithyā jñānena vā puna

64

atha vāpi svatantrāsti svadoṣeṇeha kena cit

yadi kiṃ cic chrutaṃ te 'si sarvaṃ kṛtam anarthakam

65

idam anyat tṛtīyaṃ te bhāvasparśa vighātakam

duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam

66

na mayy evābhisaṃdhis te jayaiṣiṇyā jaye kṛtaḥ

yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api

67

tathā hy evaṃ punaś ca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi

mat pakṣapratighātāya svapakṣodbhāvanāya ca

68

sā svenāmarṣajena tvam ṛddhimohena mohitā

bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā

69

icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ

alābhaś cāpy araktasya so 'tra doṣo viṣopama

70

mā sprakṣīḥ sadhu jānīsva svaśāstram anupālaya

kṛteyaṃ hi vijijñāsā mukto neti tvayā mama

etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum

71

sā yadi tvaṃ svakāryeṇa yady anyasya mahīpateḥ

tattvaṃ sattra praticchannā mayi nārhasi gūhitum

72

na rājānaṃ mṛṣā gacchen na dvijātiṃ kathaṃcanan

na striyaṃ strī guṇopetāṃ hanyur hy ete mṛṣā gatāḥ

73

rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam

rūpayauvana saubhāgyaṃ strīṇāṃ balam anuttamam

74

ata etair balair eta balinaḥ svārtham icchatā

ārjavenābhigantavyā vināśāya hy anārjavam

75

sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ

kṛtyam āgamane caiva vaktum arhasi tattvata

76

ity etair asukhair vākyair ayuktair asamañjasaiḥ

pratyādiṣṭā narendreṇa sulabhā na vyakampata

77

uktavākye tu nṛpatau sulabhā cārudarśanā

tataś cārutaraṃ vākyaṃ pracakrāmātha bhāsitum

78

navabhir navabhiś caiva doṣair vāgbuddhidūsanaiḥ

apetam upapannārtham astā daśaguṇānvitam

79

saukṣmyaṃ saṃkhyā kramau cobhau nirnayaḥ saprayojanaḥ

pañcaitāny arthajātāni vākyam ity ucyate nṛpa

80

eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam

śṛ
u saṃsāryamāṇānāṃ padārthaiḥ padavākyata

81

jñānaṃ jñeyeṣu bhinneṣu yathā bhedena vartate

tatrātiśayinī buddhis tat saukṣmyam iti vartate

82

doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ praivibhāgaśaḥ

kaṃ cid artham abhipretya sā saṃkhyety upadhāryatām

83

idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam

kramayogaṃ tam apy āhur vākyaṃ vākyavido janāḥ

84

dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ

idaṃ tad iti vākyānte procyate sa vinirnaya

85

icchā dveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate

tatra yā nṛpate vṛttis tat prayojanam iṣyate

86

tāny etāni yathoktāni saikṣmyādīni janādhipa

ekārthasamavetāni vākyaṃ mama niśāmaya

87

upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam

nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava

88

na gurv akṣarasaṃbaddhaṃ parāṅmukha mukhaṃ na ca

nānṛtaṃ na trivargeṇa viruddhaṃ nāpy asaṃkṣṛtam

89

na nyūnaṃ kasta śabdaṃ vā vyutkramābhihitaṃ na ca

na śeṣaṃ nānukalpena niṣkāraṇam ahetukam

90

kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā

hrīto 'nukrośato mānān na vakṣyāmi kathaṃ cana

91

vaktā śrotā ca vākyaṃ ca yadā tvāvikalaṃ nṛpa

samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate

92

vaktavye tu yadā vaktā śrotāram avamanyate

svārtham āha parārthaṃ vā tadā vākyaṃ na rohati

93

atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ

viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat

94

yas tu vaktā dvayor artham aviruddhaṃ prabhāsate

śrotuś caivātmanaś caiva sa vaktā netaro nṛpa

95

tadarthavad idaṃ vākyam upetaṃ vākyasaṃpadā

avikṣipta manā rājann ekāgraḥ śrotum arhasi

96

kāsi kasya kuto veti tvayāham abhicoditā

tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛu

97

yathā jatu ca kāṣṭhaṃ ca pāṃsavaś coda bindubhiḥ

suśliṣṭāni tathā rājan prāninām iha saṃbhava

98

abdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca

pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatu kāṣṭhavat

99

na caiṣāṃ codanā kā cid astīty eṣa viniścayaḥ

ekaikasyeha vijñānaṃ nāsty ātmani tathā pare

100

na veda cakṣuś cakṣus tvaṃ śrotraṃ nātmani vartate

tathaiva vyabhicāreṇa na vartante parasparam

saṃśliṣṭā nābhijāyante yathāpa iha pāṃsava

101

bāhyān anyān apekṣante guṇāṃs tān api me śṛṇu

rūpaṃ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ

yathaivātra tathānyeṣu jñānajñeyeṣu hetava

102

jñānajñeyāntare tasmin mano nāmāparo guṇaḥ

vicārayati yenāyaṃ niścaye sādhvasādhunī

103

dvādaśas tv aparas tatra buddhir nāma guṇaḥ smṛtaḥ

yena saṃśaya pūrveṣu boddhavyeṣu vyavasyati

104

atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ

mahāsattvo 'lpasattvo vā jantur yenānumīyate

105

kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ

mamāyam iti yenāyaṃ manyate na ca manyate

106

atha pañcadaśo rājan guṇas tatrāparaḥ smṛtaḥ

pṛthak kalā samūhasya sāmagryaṃ tad ihocyate

107

guṇas tv evāparas tatra saṃghāta iti sodaśaḥ

ākṛtir vyaktir ity etau guṇau yasmin samāśritau

108

sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye

iti caikonaviṃśo 'yaṃ dvandvayoga iti smṛta

109

rdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ

itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam

110

viśmakaś caiṣa saṃghāto mahābhūtāni pañca ca

sadasad bhāvayogau ca guṇāv anyau prakāśakau

111

ity evaṃ viṃśatiś caiva guṇāḥ sapta ca ye smṛtāḥ

vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare

112

ekaviṃśaś ca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ

samagrā yatra vartante tac charīram iti smṛtam

113

avyaktaṃ prakṛtiṃ tv āsāṃ kalānāṃ kaś cid icchati

vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati

114

avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm

prakṛtiṃ sarvabhūtānāṃ paśyanty adhyātmacintakāḥ

115

seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā

ahaṃ ca tvaṃ ca rājendra ye cāpy anye śarīriṇa

116

bindunyāsādayo 'vasthāḥ śukraśonita saṃbhavāḥ

yāsām eva nipātena kalalaṃ nāma jāyate

117

kalalād arbudotpattiḥ peśī cāpy arbudodbhavā

peśyās tv aṅgābhinirvṛttir nakharomāṇi cāṅgata

118

saṃpūrṇe navame māse jantor jātasya maithila

jāyate nāma rūpatvaṃ strī pumān veti liṅgata

119

jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli

kaumāra rūpam āpannaṃ rūpato na palabhyate

120

kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt

anena kramayogena pūrvaṃ pūrvaṃ na labhyate

121

kalānāṃ pṛthag arthānāṃ pratibhedaḥ kṣaṇe kṣaṇe

vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate

122

na caiṣām apyayo rājaṁl lakṣyate prabhavo na ca

avasthāyām avasthāyāṃ dīpasyevārciṣo gati

123

tasyāpy evaṃ prabhāvasya sadaśvasyeva dhāvataḥ

ajasraṃ sarvalokasya kaḥ kuto vā na vā kuta

124

kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ

saṃbandhaḥ ko 'sti bhūtānāṃ svair apy avayavair iha

125

yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ

bhavety evaṃ samudayāt kalānām api jantava

126

tmany evātmanātmānaṃ yathā tvam anupaśyasi

evam evātmanātmānam anyasmin kiṃ na paśyasi

yady ātmani parasmiṃś ca samatām adhyavasyasi

127

atha māṃ kāsi kasyeti kimartham anupṛcchasi

idaṃ me syād idaṃ neti dvandvair muktasya maithila

kāsi kasya kuto veti vacane kiṃ prayojanam

128

ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe

kṛtavān yo mahīpāla kiṃ tasmin muktalakṣaṇam

129

trivarge saptadhā vyaktaṃ yo na vedeha karmasu

saṅgavān yas trivarge ca kiṃ tasmin muktalakṣaṇam

130

priye caivāpriye caiva durbale balavaty api

yasya nāsti samaṃ cakṣuḥ kiṃ tasmin muktalakṣaṇam

131

tad amuktasya te mokṣe yo 'bhimāno bhaven nṛpa

suhṛdbhiḥ sa nivāryas te vicittasyeva bheṣajai

132

tāni tāny anusaṃdṛśya saṅgasthānāny ariṃdama

ātmanātmani saṃpaśyet kiṃ tasmin muktalakṣaṇam

133

imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit

caturaṅga pravṛttāni saṅgasthānāni me śṛṇu

134

ya imāṃ pṛthivīṃ kṛtsnām ekachattrāṃ praśāsti ha

ekam eva sa vai rājā puram adhyāvasaty uta

135

tat pure caikam evāsya gṛhaṃ yad adhitiṣṭhati

gṛhe śayanam apy ekaṃ niśāyāṃ yatra līyate

136

ayyārdhaṃ tasya cāpy atra strīpūrvam adhitiṣṭhati

tad anena prasaṅgena phalenaiveha yujyate

137

evam evopabhogeṣu bhojanāc chādaneṣu ca

guṇeṣu parimeyeṣu nigrahānugrahau prati

138

paratantraḥ sadā rājā svalpe so 'pi prasajyate

saṃdhivigrahayoge ca kuto rājñaḥ svatantratā

139

strīṣu krīdā vihāreṣu nityam asyāsvatantratā

mantre cāmātya samitau kuta eva svatantratā

140

yadā tv ājñāpayaty anyāṃs tadāsyoktā svatantratā

avaśaḥ kāryate tatra tasmiṃs tasmin guṇe sthita

141

svaptu kāmo na labhate svaptuṃ kāryārthibhir janaiḥ

śayane cāpy anujñātaḥ supta utthāpyate 'vaśa

142

snāhy ālabha piba prāśa juhudhy agnīn yajeti ca

vadasya śṛṇu cāpīti vivaśaḥ kāryate parai

143

abhigamyābhigamyainaṃ yācante satataṃ narāḥ

na cāpy utsahate dātuṃ vittarakṣī mahājanāt

144

dāne kośakṣayo hy asya vairaṃ cāpy arayacchataḥ

kṣaṇenāsyopavartante doṣā vairāgya kārakāḥ

145

prājñāñ śrāṃs tathaivādhyān ekasthāne 'pi śaṅkate

bhayam apy abhaye rājño yaiś ca nityam upāsyate

146

yadā caite praduṣyanti rājan ye kīrtitā mayā

tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam

147

sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī

nigrahānugrahau kurvaṃs tulyo janakarājabhi

148

putrā dārās tathaivātmā kośo mitrāṇi saṃcayaḥ

paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhi

149

hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ

lokasādhāraṇeṣv eṣu mithyā jñānena tapyate

150

amukto mānasair duḥkhair ichā dveṣapriyodbhavaiḥ

śiro rogādibhī rogais tathaiva vinipātibhi

151

dvandvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ

bahu pratyarthikaṃ rājyam upāste gaṇayan niśāḥ

152

tad alpasukham atyarthaṃ bahuduḥkham asāravat

ko rājyam abhipadyeta prāpya copaśamaṃ labhet

153

mamedam iti yac cedaṃ puraṃ rāstraṃ ca manyase

balaṃ kośam amātyāṃś ca kasyaitāni na vā nṛpa

154

mitrāmātyaṃ puraṃ rāstraṃ dandaḥ kośo mahīpatiḥ

saptāṅgaś cakrasaṃghāto rājyam ity ucyate nṛpa

155

saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ

anyonyaguṇayuktasya kaḥ kena guṇato 'dhika

156

teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate

yena yat sidhyate kāryaṃ tat prādhānyāya kalpate

157

saptāṅgaś cāpi saṃghātas trayaś cānye nṛpottama

saṃbhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat

158

yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet

sa tuṣyed daśa bhāgena tatas tv anyo daśāvarai

159

nāsty asādhāraṇo rājā nāsti rājyam arājakam

rājye 'sati kuto dharmo dharme 'sati kutaḥ param

160

yo 'py atra paramo dharmaḥ pavitraṃ rājarājyayoḥ

pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate

161

sāham etāni karmāṇi rājyaduḥkhāni maithila

samarthā śataśo vaktum atha vāpi sahasraśa

162

svadehe nābhiṣaṅgo me kutaḥ paraparigrahe

na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi

163

nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañca śikhāc chrutaḥ

sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścaya

164

tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ

chattrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa

165

rutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam

atha vā śrutasaṃkāśaṃ śrutam anyac chrutaṃ tvayā

166

athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi

abhiṣaṅgāvarodhābhyāṃ baddhas tvaṃ prākṛto mayā

167

sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā

kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvata

168

niyamo hy eṣa dharmeṣu yatīnāṃ śūnyavāsitā

ś
nyam āvāsayantyā ca mayā kiṃ kasya dūsitam

169

na pānibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha

na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa

170

kule mahati jātena hrīmatā dīrghadarśinā

naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam

171

brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ

tvaṃ cātha gurur apy eṣām evam anyonyagauravam

172

tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā

strīpuṃso samavāyo 'yaṃ tvayā vācyo na saṃsadi

173

yathā puṣkara parṇasthaṃ jalaṃ tatparṇasaṃsthitam

tiṣṭhaty aspṛśatī tadvattvayi vatsyāmi maithila

174

yadi vāpy aspṛśantyā me sparśaṃ jānāsi kaṃ cana

jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā

175

sa gārhasthyāc cyutaś ca tvaṃ mokṣaṃ nāvāpya durvidam

ubhayor antarāle ca vartase mokṣavātika

176

na hi muktasya muktena jñasyaikatva pṛthaktvayoḥ

bhāvābhāva samāyoge jāyate varṇasaṃkara

177

varṇāśramapṛthaktve ca dṛṣṭrthasyāpṛthaktvinaḥ

nānyad anyad iti jñātvā nānyad anyat pravartate

178

pānau kundaṃ tathā kunde payaḥ payasi makṣikāḥ

ā
ritāśraya yogena pṛthaktvenāśrayā vayam

179

na tu kunde payo bhāvaḥ payaś cāpi na makṣikāḥ

svayam evāśrayanty ete bhāvā na tu parāśrayam

180

pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca

parasparapṛthaktvāc ca kathaṃ te varṇasaṃkara

181

nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā

tava rājan savarṇāsmi śuddhayonir aviplutā

182

pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ

kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām

183

droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ

mama sattreṣu pūrveṣāṃ citā maghavatā saha

184

sāhaṃ tasmin kule jātā bhartary asati madvidhe

vinītā mokṣadharmeṣu carāmy ekā munivratam

185

nāsmi sattra praticchannā na parasvābhimāninī

na dharmasaṃkarakarī svadharme 'smi dhṛtavratā

186

nāsthirā svapratijñāyāṃ nāsamīkṣya pravādinī

nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa

187

mokṣe te bhavitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī

tava mokṣasya cāpy asya jijñāsārtham ihāgatā

188

na vargasthā bravīmy etat svapakṣa parapakṣayoḥ

mukto na mucyate yaś ca śānto yaś ca na śāmyati

189

yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset

tathā hi tvac charīre 'sminn imāṃ vatsyāmi śarvatīm

190

sāham āsanadānena vāg ātithyena cārcitā

suptā suśaraṇā prītā śvo gamiṣyāmimaithila

191

ity etāni sa vākyāni hetumanty arthavanti ca

śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param
parable of the sower chapter| the parable of the pharisee and tax collector chapter 18 verse
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 308