Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 335

Book 12. Chapter 335

The Mahabharata In Sanskrit


Book 12

Chapter 335

1

[जनमेजय]

शरुतं भगवतस तस्य माहात्म्यं परमात्मनः

जन्म धर्मगृहे चैव नरनारायणात्मकम

महावराह सृष्टा च पिण्डॊत्पत्तिः पुरातनी

2

परवृत्तौ च निवृत्तौ च यॊ यथा परिकल्पितः

स तथा नः शरुतॊ बरह्मन कथ्यमानस तवयानघ

3

यच च तत कथितं पूर्वं तवया हयशिरॊ महत

हव्यकव्य भुजॊ विष्णॊर उदक पूर्वे महॊदधौ

तच च दृष्टं भगवता बरह्मणा परमेष्ठिना

4

किं तद उत्पादितं पूर्वं हरिणा लॊकधारिणा

रूपं परभावमहताम अपूर्वं धीमतां वर

5

दृष्ट्वा हि विबुधश्रेष्ठम अपूर्वम अमितौजसम

तद अश्वशिरसं पुण्यं बरह्मा किम अकरॊन मुने

6

एतन नः संशयं बरह्मन पुराणज्ञानसंभवम

कथयस्वॊत्तम मते महापुरुष निर्मितम

पाविताः सम तवया बरह्मन पुण्यां कथयतां कथाम

7

[वैषम्पायन]

कथयिष्यामि ते सर्वं पुराणं वेद संमितम

जगौ तद भगवान वयासॊ राज्ञॊ धर्मसुतस्य वै

8

शरुत्वाश्वशिरसॊ मूर्तिं देवस्य हरि मेधसः

उत्पन्न संशयॊ राजा तम एव समचॊदयत

9

[युधिस्थिर]

यत तद दर्शितवान बरह्मा देवं हयशिरॊ धरम

किमर्थं तत समभवद वपुर देवॊपकल्पितम

10

[वयास]

यत किं चिद इह लॊके वै देहबद्धं विशां पते

सर्वं पञ्चभिर आविष्टं भूतैर ईश्वर बुद्धिजैः

11

ईश्वरॊ हि जगत सरष्टा परभुर नारायणॊ विरात

भूतान्तर आत्मा वरदः सगुणॊ निर्गुणॊ ऽपि च

भूतप्रलयम अव्यक्तं शृणुष्व नृपसत्तम

12

धरण्याम अथ लीनायाम अप्सु चैकार्णवे पुरा

जयॊतिर भूते जले चापि लीने जयॊतिषि चानिले

13

वायौ चाकाशसंलीने आकाशे च मनॊऽनुगे

वयक्ते मनसि संलीने वयक्ते चाव्यक्ततां गते

14

अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च

तम एवाभवत सर्वं न पराज्ञायत किं चन

15

तमसॊ बरह्म संभूतं तमॊ मूलम ऋतात्मकम

तद विश्वभावसंज्ञान्तं पौरुषीं तनुम आस्थितम

16

सॊ ऽनिरुद्ध इति परॊक्तस तत परधानं परचक्षते

तद अव्यक्तम इति जञेयं तरिगुणं नृपसत्तम

17

विद्या सहायवान देवॊ विष्वक्सेनॊ हरिः परभुः

अप्स्व एव शयनं चक्रे निद्रा यॊगम उपागतः

जगतश चिन्तयन सृष्टिं चित्रा बहुगुणॊद्भवाम

18

तस्य चिन्तयतः सृष्टिं महान आत्मगुणः समृतः

अहंकारस ततॊ जातॊ बरह्मा शुभचतुर्मुखः

हिरण्यगर्भॊ भगवान सर्वलॊकपितामहः

19

पद्मे ऽनिरुद्धात संभूतस तदा पद्मनिभेक्षणः

सहस्रपत्रे दयुतिमान उपविष्टः सनातनः

20

ददृशे ऽदभुतसंकाशे लॊकान आपॊ मयान परभुः

सत्त्वस्थः परमेष्ठी स ततॊ भूतगणान सृजत

21

पूर्वम एव च पद्मस्य पत्रे सूर्यांसु सप्रभे

नारायण कृतौ बिन्दुव अपाम आस्तां गुणॊत्तरौ

22

ताव अपश्यत स भगवान अनादि निधनॊ ऽचयुतः

एकस तत्राभवद बिन्दुर मध्व आभॊ रुचिरप्रभः

23

स तामसॊ मधुर जातस तदा नारायणाज्ञया

कथिनस तव अपरॊ बिन्दुः कैतभॊ राजसस तु सः

24

ताव अभ्यधावतां शरेष्ठौ तमॊ रज गुणान्वितौ

बलबन्तौ गदाहस्तौ पद्मनालानुसारिणौ

25

ददृशाते ऽरविन्दस्थं बरह्माणम अमितप्रभम

सृजन्तं परथमं वेदांश चतुरश चारु विग्रहान

26

ततॊ विग्रहवन्तौ तौ वेदान दृष्ट्वासुरॊत्तमौ

सहसा जगृहतुर वेदान बरह्मणः पश्यतस तदा

27

अथ तौ दानव शरेष्ठौ वेदान गृह्य सनातनान

रसां विविशतुस तूर्णम उदक पूर्वे महॊदधौ

28

ततॊ हृतेषु वेदेषु बरह्मा कश्मलम आविशत

ततॊ वचनम ईशानं पराह वेदैर विनाकृतः

29

वेदा मे परमं चक्षुर वेदा मे परमं बलम

वेदा मे परमं धाम वेदा मे बरह्म चॊत्तमम

30

मम वेदा हृताः सर्वे दानवाभ्यां बलाद इतः

अन्धकारा हि मे लॊका जाता वेदैर विनाकृताः

वेदान ऋते हि किं कुर्यां लॊकान वै सरष्टुम उद्यतः

31

अहॊ बत महद दुःखं वेद नाशनजं मम

पराप्तं दुनॊति हृदयं तीव्रशॊकाय रन्धयन

32

कॊ हि शॊकार्णवे मग्नं माम इतॊ ऽदय समुद्धरेत

वेदांस तान आनयेन नस्तान कस्य चाहं परियॊ भवे

33

इत्य एवं भासमानस्य बरह्मणॊ नृपसत्तम

हरेः सतॊत्रार्थम उद्भूता बुद्धिर बुद्धिमतां वर

ततॊ जगौ परं जप्यं साञ्जलि परग्रहः परभुः

34

नमस ते बरह्म हृदयनमस ते मम पूर्वज

लॊकाद य भुवन शरेष्ठ सांख्ययॊगनिधे विभॊ

35

वयक्ताव्यक्त कराचिन्त्य कषेमं पन्थानम आस्थित

विश्वभुक सर्वभूतानाम अन्तरात्मन्न अयॊनिज

36

अहं परसादजस तुभ्यं लॊकधाम्ने सवयम्भुवे

तवत्तॊ मे मानसं जन्म परथमं दविज पूजितम

37

चाक्षुषं वै दवितीयं मे जन्म चासीत पुरातनम

तवत्प्रसादाच च मे जन्म तृतीयं वाचिकं महत

38

तवत्तः शरवणजं चापि चतुर्थं जन्म मे विभॊ

नासिक्यं चापि मे जन्म तवत्तः पञ्चमम उच्यते

39

अन्दजं चापि मे जन्म तवत्तः सस्थं विनिर्मितम

इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ

40

सर्गे सर्गे हय अहं पुत्रस तव तरिगुण वर्जितः

परथितः पुन्दरीकाक्ष परधानगुणकल्पितः

41

तवम ईश्वर सवभावश च सवयम्भूः पुरुषॊत्तमः

तवया विनिर्मितॊ ऽहं वै वेद चक्षुर वयॊतिगः

42

ते मे वेदा हृताश चक्षुर अन्धॊ जातॊ ऽसमि जागृहि

ददस्व चक्षुषी मह्यं परियॊ ऽहं ते परियॊ ऽसि मे

43

एवं सतुतः स भगवान पुरुषः सर्वतॊ मुखः

जहौ निद्राम अथ तदा वेद कार्यार्थम उद्यतः

ऐश्वरेण परयॊगेण दवितीयां तनुम आस्थितः

44

सुनासिकेन कायेन भूत्वा चन्द्रप्रभस तदा

कृत्वा हयशिरः शुभ्रं वेदानाम आलयं परभुः

45

तस्य मूर्धा समभवद दयैः सनक्षत्र तारका

केशाश चास्याभवन दीर्घा रवेर अंशुसमप्रभाः

46

कर्णावकाश पाताले ललातं भूतधारिणी

गङ्गा सरस्वती पुण्या भरुवाव आस्तां महानदी

47

चक्षुषी सॊमसूर्यौ ते नासा संध्या पुनः समृता

ओंकारस तव अथ संस्कारॊ विद्युज्जिह्वा च निर्मिता

48

दन्ताश च पितरॊ राजन सॊमपा इति विश्रुताः

गॊलॊकॊ बरह्मलॊकश च ओष्ठाव आस्तां महात्मनः

गरीवा चास्याभवद राजन कालरात्रिर गुणॊत्तरा

49

एतद धयशिरः कृत्वा नाना मूर्तिभिर आवृतम

अन्तर्दधे स विश्वेशॊ विवेश च रसां परभुः

50

रसां पुनः परविष्टश च यॊगं परमम आस्थितः

शैक्षं सवरं समास्थाय ओम इति परसृजत सवरम

51

सस्वरः सानुनादी च सर्वगः सनिग्ध एव च

बभूवान्तर्मही भूतः सर्वभूतगुणॊदितः

52

ततस ताव असुरौ कृत्वा वेदान समयबन्धनान

रसातले विनिक्षिप्य यतः शब्दस ततॊ दरुतौ

53

एतस्मिन्न अन्तरे राजन देवॊ हयशिरॊधरः

जग्राह वेदान अखिलान रसातल गतान हरिः

परादाच च बरह्मणे भूयस ततः सवां परकृतिं गतः

54

सथापयित्वा हयशिरश उदक पूर्वे महॊदधौ

वेदानाम आलयश चापि बभूवाश्वशिरास ततः

55

अथ किं चिद अपश्यन्तौ दानवौ मधु कैतभौ

पुनर आजग्मतुस तत्र वेगितौ पस्यतां च तौ

यत्र वेदा विनिक्षिप्तास तत सथानं शून्यम एव च

56

तत उत्तमम आस्थाय वेगं बलवतां वरौ

पुनर उत्तस्थतुः शीघ्रं रसानाम आलयात तदा

ददृशाते च पुरुषं तम एवादि करं परभुम

57

शवेतं चन्द्र विशुद्धाभम अनिरुद्ध तनौ सथितम

भूयॊ ऽपय अमितविक्रान्तं निद्रा यॊगम उपागतम

58

आत्मप्रमाण रचिते अपाम उपरि कल्पिते

शयने नागभॊगाद्ये जवालामालासमावृते

59

निष्कल्मसेन सत्त्वेन संपन्नं रुचिरप्रभम

तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम अमुञ्चताम

60

ऊचतुश च समाविष्टौ रजसा तमसा च तौ

अयं स पुरुषः शवेतः शेते निद्राम उपागतः

61

अनेन नूनं वेदानां कृतम आहरणं रसात

कस्यैष कॊ नु खल्व एष किं च सवपिति भॊगवान

62

इत्य उच्चारित वाक्यौ तौ बॊधयाम आसतुर हरिम

युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषॊत्तमः

63

निरीक्ष्य चासुरेन्द्रौ तौ ततॊ युद्धे मनॊ दधे

अथ युद्धं समभवत तयॊर नारायणस्य च

64

रजस तमॊ विष्ट तनू ताव उभौ मधु कैतभौ

बरह्मणॊपचितिं कुर्वञ जघान मधुसूदनः

65

ततस तयॊर वधेनाशु वेदापहरणेन च

शॊकापनयनं चक्रे बरह्मणः पुरुषॊत्तमः

66

ततः परिवृतॊ बरह्मा हतारिर वेद सत्कृतः

निर्ममे स तदा लॊकान कृत्स्नान सथावरजङ्गमान

67

दत्त्वा पितामहायाग्र्यां बुद्धिं लॊकविसर्गिकीम

तत्रैवान्तर्दधे देवॊ यत एवागतॊ हरिः

68

तौ दानवौ हरिर हत्वा कृत्वा हयशिरस तनुम

पुनः परवृत्ति धर्मार्थं ताम एव विदधे तनुम

69

एवम एष महाभागॊ बभूवाश्वशिरा हरिः

पौराणम एतद आख्यातं रूपं वरदम ऐश्वरम

70

यॊ हय एतद बराह्मणॊ नित्यं शृणुयाद धारयेत वा

न तस्याध्ययनं नाशम उपगच्छेत कदा चन

71

आराध्य तपसॊग्रेण देवं हर शिरॊधरम

पञ्चालेन करमः पराप्तॊ रामेण पथि देशिते

72

एतद धयशिरॊ राजन्न आख्यानं तव कीर्तितम

पुराणं वेद समितं यन मां तवं परिपृच्छसि

73

यां याम इच्छेत तनुं देवः कर्तुं कार्यविधौ कव चित

तां तां कुर्याद विकुर्वाणः सवयम आत्मानम आत्मना

74

एष वेद निधिः शरीमान एष वै तपसॊ निधिः

एष यॊगश च सांख्यं च बरह्म चाग्र्यं हरिर विभुः

75

नारायण परा वेदा यज्ञा नारायणात्मकाः

तपॊ नारायण परं नारायण परा गतिः

76

नारायण परं सत्यम ऋतं नारायणात्मकम

नारायण परॊ धर्मः पुनर आवृत्ति दुर्लभः

77

परवृत्ति लक्षणश चैव धर्मॊ नारायणात्मकः

नारायणात्मकॊ गन्धॊ भूमौ शरेष्ठतमः समृतः

78

अपां चैव गुणॊ राजन रसॊ नारायणात्मकः

जयॊतिषां च गुणॊ रूपं समृतं नारायणात्मकम

79

नारायणात्मकश चापि सपर्शॊ वायुगुणः समृतः

नारायणात्मकश चापि शब्द आकाशसंभवः

80

मनश चापि ततॊ भूतम अव्यक्तगुण लक्षणम

नारायण परः कालॊ जयॊतिषाम अयनं च यत

81

नारायण परा कीर्तिः शरीश च लक्ष्मीश च देवताः

नारायण परं सांख्यं यॊगॊ नारायणात्मकः

82

कारणं पुरुषॊ येषां परधानं चापि कारणम

सवभावश चैव कर्माणि दैवं येषां च कारणम

83

पञ्च कारणसंख्यातॊ निष्ठा सर्वत्र वै हरिः

तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतॊ मुखैः

84

तत्त्वम एकॊ मया यॊगी हरिर नारायणः परभुः

सब्रह्मकानां लॊकानाम ऋषीणां च महात्मनाम

85

सांख्यानां यॊगिनां चापि यतीनाम आत्मवेदिनाम

मनीसितं विजानाति केशवॊ न तु तस्य ते

86

ये के चित सर्वलॊकेषु दैवं पित्र्यं च कुर्वते

दानानि च परयच्छन्ति तप्यन्ति च तपॊ महत

87

सर्वेषाम आश्रयॊ विष्णुर ऐश्वरं विधिम आस्थितः

सर्वभूतकृतावासॊ वासुदेवेति चॊच्यते

88

अयं हि नित्यः परमॊ महर्षिर; महाविभूतिर गुणवान निर्गुणाख्यः

गुणैश च संयॊगम उपैति शीघ्रं; कालॊ यथर्ताव ऋतुसंप्रयुक्तः

89

नैवास्य विन्दन्ति गतिं महात्मनॊ; न चागतिं कश चिद इहानुपस्यति

जञानात्मकाः संयमिनॊ महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम

1

[janamejaya]

śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ

janma dharmagṛhe caiva naranārāyaṇātmakam

mahāvarāha sṛṣṭā ca piṇḍotpattiḥ purātanī

2

pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ

sa tathā naḥ śruto brahman kathyamānas tvayānagha

3

yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat

havyakavya bhujo viṣṇor udak pūrve mahodadhau

tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā

4

kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā

rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara

5

dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam

tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune

6

etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam

kathayasvottama mate mahāpuruṣa nirmitam

pāvitāḥ sma tvayā brahman puṇyāṃ kathayatāṃ kathām

7

[vaiṣampāyana]

kathayiṣyāmi te sarvaṃ purāṇaṃ veda saṃmitam

jagau tad bhagavān vyāso rājño dharmasutasya vai

8

rutvāśvaśiraso mūrtiṃ devasya hari medhasaḥ

utpanna saṃśayo rājā tam eva samacodayat

9

[yudhisthira]

yat tad darśitavān brahmā devaṃ hayaśiro dharam

kimarthaṃ tat samabhavad vapur devopakalpitam

10

[vyāsa]

yat kiṃ cid iha loke vai dehabaddhaṃ viśāṃ pate

sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvara buddhijai

11

ī
varo hi jagat sraṣṭā prabhur nārāyaṇo virāt

bhūtāntar ātmā varadaḥ saguṇo nirguṇo 'pi ca

bhūtapralayam avyaktaṃ śṛuṣva nṛpasattama

12

dharaṇyām atha līnāyām apsu caikārṇave purā

jyotir bhūte jale cāpi līne jyotiṣi cānile

13

vāyau cākāśasaṃlīne ākāśe ca mano'nuge

vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate

14

avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca

tama evābhavat sarvaṃ na prājñāyata kiṃ cana

15

tamaso brahma saṃbhūtaṃ tamo mūlam ṛtātmakam

tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam

16

so 'niruddha iti proktas tat pradhānaṃ pracakṣate

tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama

17

vidyā sahāyavān devo viṣvakseno hariḥ prabhuḥ

apsv eva śayanaṃ cakre nidrā yogam upāgataḥ

jagataś cintayan sṛṣṭiṃ citrā bahuguṇodbhavām

18

tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ

ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ

hiraṇyagarbho bhagavān sarvalokapitāmaha

19

padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ

sahasrapatre dyutimān upaviṣṭaḥ sanātana

20

dadṛśe 'dbhutasaṃkāśe lokān āpo mayān prabhuḥ

sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat

21

pūrvam eva ca padmasya patre sūryāṃsu saprabhe

nārāyaṇa kṛtau binduv apām āstāṃ guṇottarau

22

tāv apaśyat sa bhagavān anādi nidhano 'cyutaḥ

ekas tatrābhavad bindur madhv ābho ruciraprabha

23

sa tāmaso madhur jātas tadā nārāyaṇājñayā

kathinas tv aparo binduḥ kaitabho rājasas tu sa

24

tāv abhyadhāvatāṃ śreṣṭhau tamo raja guṇānvitau

balabantau gadāhastau padmanālānusāriṇau

25

dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham

sṛjantaṃ prathamaṃ vedāṃś caturaś cāru vigrahān

26

tato vigrahavantau tau vedān dṛṣṭvāsurottamau

sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā

27

atha tau dānava śreṣṭhau vedān gṛhya sanātanān

rasāṃ viviśatus tūrṇam udak pūrve mahodadhau

28

tato hṛteṣu vedeṣu brahmā kaśmalam āviśat

tato vacanam īśānaṃ prāha vedair vinākṛta

29

vedā me paramaṃ cakṣur vedā me paramaṃ balam

vedā me paramaṃ dhāma vedā me brahma cottamam

30

mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ

andhakārā hi me lokā jātā vedair vinākṛtāḥ

vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyata

31

aho bata mahad duḥkhaṃ veda nāśanajaṃ mama

prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan

32

ko hi śokārṇave magnaṃ mām ito 'dya samuddharet

vedāṃs tān ānayen nastān kasya cāhaṃ priyo bhave

33

ity evaṃ bhāsamānasya brahmaṇo nṛpasattama

hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara

tato jagau paraṃ japyaṃ sāñjali pragrahaḥ prabhu

34

namas te brahma hṛdayanamas te mama pūrvaja

lokād ya bhuvana śreṣṭha sāṃkhyayoganidhe vibho

35

vyaktāvyakta karācintya kṣemaṃ panthānam āsthita

viśvabhuk sarvabhūtānām antarātmann ayonija

36

ahaṃ prasādajas tubhyaṃ lokadhāmne svayambhuve

tvatto me mānasaṃ janma prathamaṃ dvija pūjitam

37

cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam

tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat

38

tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho

nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate

39

andajaṃ cāpi me janma tvattaḥ sasthaṃ vinirmitam

idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha

40

sarge sarge hy ahaṃ putras tava triguṇa varjitaḥ

prathitaḥ pundarīkākṣa pradhānaguṇakalpita

41

tvam īśvara svabhāvaś ca svayambhūḥ puruṣottamaḥ

tvayā vinirmito 'haṃ vai veda cakṣur vayotiga

42

te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi

dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me

43

evaṃ stutaḥ sa bhagavān puruṣaḥ sarvato mukhaḥ

jahau nidrām atha tadā veda kāryārtham udyataḥ

aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthita

44

sunāsikena kāyena bhūtvā candraprabhas tadā

kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhu

45

tasya mūrdhā samabhavad dyaiḥ sanakṣatra tārakā

keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ

46

karṇāvakāśa pātāle lalātaṃ bhūtadhāriṇī

gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī

47

cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā

oṃkāras tv atha saṃskāro vidyujjihvā ca nirmitā

48

dantāś ca pitaro rājan somapā iti viśrutāḥ

goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ

grīvā cāsyābhavad rājan kālarātrir guṇottarā

49

etad dhayaśiraḥ kṛtvā nānā mūrtibhir āvṛtam

antardadhe sa viśveśo viveśa ca rasāṃ prabhu

50

rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ

śaikṣaṃ svaraṃ samāsthāya om iti prasṛjat svaram

51

sasvaraḥ sānunādī ca sarvagaḥ snigdha eva ca

babhūvāntarmahī bhūtaḥ sarvabhūtaguṇodita

52

tatas tāv asurau kṛtvā vedān samayabandhanān

rasātale vinikṣipya yataḥ śabdas tato drutau

53

etasminn antare rājan devo hayaśirodharaḥ

jagrāha vedān akhilān rasātala gatān hariḥ

prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gata

54

sthāpayitvā hayaśiraś udak pūrve mahodadhau

vedānām ālayaś cāpi babhūvāśvaśirās tata

55

atha kiṃ cid apaśyantau dānavau madhu kaitabhau

punar ājagmatus tatra vegitau pasyatāṃ ca tau

yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca

56

tata uttamam āsthāya vegaṃ balavatāṃ varau

punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā

dadṛśāte ca puruṣaṃ tam evādi karaṃ prabhum

57

vetaṃ candra viśuddhābham aniruddha tanau sthitam

bhūyo 'py amitavikrāntaṃ nidrā yogam upāgatam

58

tmapramāṇa racite apām upari kalpite

śayane nāgabhogādye jvālāmālāsamāvṛte

59

niṣkalmasena sattvena saṃpannaṃ ruciraprabham

taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām

60

catuś ca samāviṣṭau rajasā tamasā ca tau

ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgata

61

anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt

kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān

62

ity uccārita vākyau tau bodhayām āsatur harim

yuddhārthinau tu vijñāya vibuddhaḥ puruṣottama

63

nirīkṣya cāsurendrau tau tato yuddhe mano dadhe

atha yuddhaṃ samabhavat tayor nārāyaṇasya ca

64

rajas tamo viṣṭa tanū tāv ubhau madhu kaitabhau

brahmaṇopacitiṃ kurvañ jaghāna madhusūdana

65

tatas tayor vadhenāśu vedāpaharaṇena ca

śokāpanayanaṃ cakre brahmaṇaḥ puruṣottama

66

tataḥ parivṛto brahmā hatārir veda satkṛtaḥ

nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān

67

dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm

tatraivāntardadhe devo yata evāgato hari

68

tau dānavau harir hatvā kṛtvā hayaśiras tanum

punaḥ pravṛtti dharmārthaṃ tām eva vidadhe tanum

69

evam eṣa mahābhāgo babhūvāśvaśirā hariḥ

paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram

70

yo hy etad brāhmaṇo nityaṃ śṛuyād dhārayeta vā

na tasyādhyayanaṃ nāśam upagacchet kadā cana

71

rādhya tapasogreṇa devaṃ hara śirodharam

pañcālena kramaḥ prāpto rāmeṇa pathi deśite

72

etad dhayaśiro rājann ākhyānaṃ tava kīrtitam

purāṇaṃ veda samitaṃ yan māṃ tvaṃ paripṛcchasi

73

yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kva cit

tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā

74

eṣa veda nidhiḥ śrīmān eṣa vai tapaso nidhiḥ

eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhu

75

nārāyaṇa parā vedā yajñā nārāyaṇātmakāḥ

tapo nārāyaṇa paraṃ nārāyaṇa parā gati

76

nārāyaṇa paraṃ satyam ṛtaṃ nārāyaṇātmakam

nārāyaṇa paro dharmaḥ punar āvṛtti durlabha

77

pravṛtti lakṣaṇaś caiva dharmo nārāyaṇātmakaḥ

nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛta

78

apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ

jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam

79

nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ

nārāyaṇātmakaś cāpi śabda ākāśasaṃbhava

80

manaś cāpi tato bhūtam avyaktaguṇa lakṣaṇam

nārāyaṇa paraḥ kālo jyotiṣām ayanaṃ ca yat

81

nārāyaṇa parā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ

nārāyaṇa paraṃ sāṃkhyaṃ yogo nārāyaṇātmaka

82

kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam

svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam

83

pañca kāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ

tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvato mukhai

84

tattvam eko mayā yogī harir nārāyaṇaḥ prabhuḥ

sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām

85

sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām

manīsitaṃ vijānāti keśavo na tu tasya te

86

ye ke cit sarvalokeṣu daivaṃ pitryaṃ ca kurvate

dānāni ca prayacchanti tapyanti ca tapo mahat

87

sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ

sarvabhūtakṛtāvāso vāsudeveti cocyate

88

ayaṃ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ

guṇaiś ca saṃyogam upaiti śīghraṃ; kālo yathartāv ṛtusaṃprayukta

89

naivāsya vindanti gatiṃ mahātmano; na cāgatiṃ kaś cid ihānupasyati

jñānātmakāḥ saṃyamino maharṣayaḥ; paśyanti nityaṃ puruṣaṃ guṇādhikam
the child ballad| william wordsworth ballad
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 335