Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 49

Book 12. Chapter 49

The Mahabharata In Sanskrit


Book 12

Chapter 49

1

[वासुदेव]

शृणु कौन्तेय रामस्य मया यावत परिश्रुतम

महर्षीणां कथयतां कारणं तस्य जन्म च

2

यथा च जामदग्न्येन कॊटिशः कषत्रिया हताः

उद्भूता राजवंशेषु ये भूयॊ भारते हताः

3

जह्नॊर अजह्नुस तनयॊ बल्लवस तस्य चात्मजः

कुशिकॊ नाम धर्मज्ञस तस्य पुत्रॊ महीपतिः

4

उग्रं तपः समातिष्ठत सहस्राक्षसमॊ भुवि

पुत्रं लभेयम अजितं तरिलॊकेश्वरम इत्य उत

5

तम उग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः

समर्थः पुत्र जनने सवयम एवैत्य भारत

6

पुत्रत्वम अगमद राजंस तस्य लॊकेश्वरेश्वरः

गाधिर नामाभवत पुत्रः कौशिकः पाकशासनः

7

तस्य कन्याभवद राजन नाम्ना सत्यवती परभॊ

तां गाधिः कवि पुत्राय स ऋचीकाय ददौ परभुः

8

ततः परीतस तु कौन्तेय भार्गवः कुरुनन्दन

पुत्रार्थे शरपयाम आस चरुं गाधेस तथैव च

9

आहूय चाह तां भार्याम ऋचीकॊ भार्गवस तदा

उपयॊज्यश चरुर अयं तवया मात्राप्य अयं तव

10

तस्या जनिष्यते पुत्रॊ दीप्तिमान कषत्रियर्षभः

अजय्यः कषत्रियैर लॊके कषत्रियर्षभ सूदनः

11

तवापि पुत्रं कल्याणि धृतिमन्तं तपॊऽनवितम

शमात्मकं दविजश्रेष्ठं चरुर एष विधास्यति

12

इत्य एवम उक्त्वा तां भार्याम ऋचीकॊ भृगुनन्दनः

तपस्य अभिरतॊ धीमाञ जगामारण्यम एव ह

13

एतस्मिन्न एव काले तु तीर्थयात्रा परॊ नृपः

गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं परति

14

चरुद्वयं गृहीत्वा तु राजन सत्यवती तदा

भर्तुर वाक्याद अथाव्यग्रा मात्रे हृष्टा नयवेदयत

15

माता तु तस्याः कौन्तेय दुहित्रे सवं चरुं ददौ

तस्याश चरुम अथाज्ञातम आत्मसंस्थं चकार ह

16

अथ सत्यवती गर्भं कषत्रियान्तकरं तदा

धारयाम आस दीप्तेन वपुषा घॊरदर्शनम

17

ताम ऋचीकस तदा दृष्ट्वा धयानयॊगेन वै ततः

अब्रवीद राजशार्दूल सवां भार्यां वरवर्णिनीम

18

मात्रासि वयंसिता भद्रे चरुव्यत्यास हेतुना

जनिष्यते हि ते पुत्रः करूरकर्मा महाबलः

19

जनिष्यते हि ते भराता बरह्मभूतस तपॊधनः

विश्वं हि बरह्म तपसा मया तत्र समर्पितम

20

सैवम उक्ता महाभागा भर्त्रा सत्यवती तदा

पपात शिरसा तस्मै वेपन्ती चाब्रवीद इदम

21

नार्हॊ ऽसि भगवन्न अद्य वक्तुम एवंविधं वचः

बराह्मणापसदं पुत्रं पराप्स्यसीति महामुने

22

[रचीक]

नैष संकल्पितः कामॊ मया भद्रे तथा तवयि

उग्रकर्मा भवेत पुत्रश चरुर माता च कारणम

23

[सव्यवती]

इच्छँल लॊकान अपि मुने सृजेथाः किं पुनर मम

शमात्मकम ऋजुं पुत्रं लभेयं जपतां वर

24

[रचीक]

नॊक्तपूर्वं मया भद्रे सवैरेष्व अप्य अनृतं वचः

किम उताग्निं समाधाय मन्त्रवच चरुसाधने

25

[सत्यवती]

कामम एवं भवेत पौत्रॊ ममेह तव चैव ह

शमात्मकम ऋजुं पुत्रं लभेयं जपतां वर

26

[रचीक]

पुत्रे नास्ति विशेषॊ मे पौत्रे वा वरवर्णिनि

यथा तवयॊक्तं तु वचस तथा भद्रे भविष्यति

27

[वासुदेव]

ततः सत्यवती पुत्रं जनयाम आस भार्गवम

तपस्य अभिरतं शान्तं जमदग्निं शमात्मकम

28

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः

पराप बरह्मर्षिसमितं विश्वेन बरह्मणा युतम

29

आर्चीकॊ जनयाम आस जमदग्निं सुदारुणम

सव्र विद्यान्त गं शरेष्ठं धनुर्वेदे च पारगम

रामं कषत्रिय हन्तारं परदीप्तम इव पावकम

30

एतस्मिन्न एव काले तु कृतवीर्यात्म जॊ बली

अर्जुनॊ नाम तेजस्वी कषत्रियॊ हैहयान्वयः

31

ददाह पृथिवीं सर्वां सप्त दवीपां स पत्तनाम

सवबाह्वस्त्रबलैनाजौ धर्मेण परमेण च

32

तृषितेन स कौरव्य भिक्षितश चित्रभानुना

सहस्रबाहुर विक्रान्तः परादाद भिक्षाम अथाग्नये

33

गरामान पुराणि घॊषांश च पत्तनानि च वीर्यवान

जज्वाल तस्य बाणैस तु चित्रभानुर दिधक्षया

34

स तस्य पुरुषेन्द्रस्य परभावेन महातपाः

ददाह कार्तवीर्यस्य शैलान अथ वनानि च

35

स शून्यम आश्रमारण्यं वरुणस्यात्म जस्य तत

ददाह पवनेनेद्धश चित्रभानुः स हैहयः

36

आपवस तं ततॊ रॊषाच छशापार्जुनम अच्युत

दग्धे ऽऽशरमे महाराज कार्तवीर्येण वीर्यवान

37

तवया न वर्जितं मॊहाद यस्माद वनम इदं मम

दग्धं तस्माद रणे रामॊ बाहूंस ते छेत्स्यते ऽरजुन

38

अर्जुनस तु महाराज बली नित्यं शमात्मकः

बरह्मण्यश च शरण्यश च दाता शूरश च भारत

39

तस्य पुत्राः सुबलिनः शापेनासन पितुर वधे

निमित्तम अवलिप्ता वै नृशंसाश चैव नित्यदा

40

जमदग्निधेन्वास ते वत्सम आनिन्युर भरतर्षभ

अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः

41

ततॊ ऽरजुनस्य बाहूंस तु छित्त्वा वै पौरुषान्वितः

तं रुवन्तं ततॊ वत्सं जामदग्न्यः सवम आश्रमम

परत्यानयत राजेन्द्र तेषाम अन्तःपुरात परभुः

42

अर्जुनस्य सुतास ते तु संभूयाबुद्धयस तदा

गत्वाश्रमम असंबुद्धं जमदग्नेर महात्मनः

43

अपातयन्त भल्लाग्रैः शिरः कायान नराधिप

समित कुशार्थं रामस्य निर्गतस्य महात्मनः

44

ततः पितृवधामर्षाद रामः परममन्युमान

निःक्षत्रियां परतिश्रुत्य महीं शस्त्रम अगृह्णत

45

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान

विक्रम्य निजघानाशु पुत्रान पौत्रांश च सर्वशः

46

स हैहय सहस्राणि हत्वा परममन्युमान

चकार भार्गवॊ राजन महीं शॊणितकर्दमाम

47

स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम

कृपया परयाविष्टॊ वनम एव जगाम ह

48

ततॊ वर्षसहस्रेषु समतीतेषु केषु चित

कषॊभं संप्राप्तवांस तीव्रं परकृत्या कॊपनः परभुः

49

विश्वामितस्य पौत्रस तु रैभ्य पुत्रॊ महातपाः

परावसुर महाराज कषिप्त्वाह जनसंसदि

50

ये ते ययाति पतने यज्ञे सन्तः समागताः

परतर्दनप्रभृतयॊ राम किं कषत्रिया न ते

51

मिथ्याप्रतिज्ञॊ राम तवं कत्थसे जनसंसदि

भयात कषत्रिय वीराणां पर्वतं समुपाश्रितः

52

स पुनः कषत्रिय शतैः पृथिवीम अनुसंतताम

परावसॊस तदा शरुत्वा शस्त्रं जग्राह भार्गवः

53

ततॊ ये कषत्रिया राजञ शतशस तेन जीविताः

ते विवृद्धा महावीर्याः पृथिवीपतयॊ ऽभवन

54

स पुनस ताञ जघानाशु बालान अपि नराधिप

गर्भस्थैस तु मही वयाप्ता पुनर एवाभवत तदा

55

जातं जातं स गर्भं तु पुनर एव जघान ह

अरक्षंश च सुतान कांश चित तदा कषत्रिय यॊषितः

56

तरिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां परभुः

दक्षिणाम अश्वमेधान्ते कश्यपायाददत ततः

57

कषत्रियाणां तु शेषार्थं करेणॊद्दिश्य कश्यपः

सरुक परग्रह वता राजञ शरीमान वाक्यम अथाब्रवीत

58

गच्छ पारं समुद्रस्य दक्षिणस्य महामुने

न ते मद्विषये राम वस्तव्यम इह कर्हि चित

59

ततः शूर्पारकं देशं सागरस तस्य निर्ममे

संत्रासाज जामदग्न्यस्य सॊ ऽपरान्तं महीतलम

60

कश्यपस तु महाराज परतिगृह्य महीम इमाम

कृत्वा बराह्मण संस्थां वै परविवेश महावनम

61

ततः शूद्राश च वैश्याश च यथा सवैर अप्रचारिणः

अवर्तन्त दविजाग्र्याणां दारेषु भरतर्षभ

62

अराजके जीवलॊके दुर्बला बलवत्तरैः

बाध्यन्ते न च वित्तेषु परभुत्वम इह कस्य चित

63

ततः कालेन पृथिवी परविवेश रसातलम

अरक्ष्यमाणा विधिवत कषत्रियैर धर्मरक्षिभिः

64

ऊरुणा धारयाम आस कश्यपः पृथिवीं ततः

निमज्जन्तीं तदा राजंस तेनॊर्वीति मही समृता

65

रक्षिणश च समुद्दिश्य परायाचत पृथिवी तदा

परसाद्य कश्यपं देवी कषत्रियान बाहुशालिनः

66

सन्ति बरह्मन मया गुप्ता नृषु कषत्रिय पुंगवाः

हैहयानां कुले जातास ते संरक्षन्तु मां मुने

67

अस्ति पौरव दायादॊ विडूरथ सुतः परभॊ

ऋक्षैः संवर्धितॊ विप्र ऋक्षवत्य एव पर्वते

68

तथानुकम्पमानेन यज्वनाथामितौजसा

पराशरेण दायादः सौदासस्याभिरक्षितः

69

सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद धि सः

सर्वकर्मेत्य अभिख्यातः स मां रक्षतु पार्थिव

70

शिबेः पुत्रॊ महातेजा गॊपतिर नाम नामतः

वने संरक्षितॊ गॊभिः सॊ ऽभिरक्षतु मां मुने

71

परतर्दनस्य पुत्रस तु वत्सॊ नाम महायशाः

वत्सैः संवर्धितॊ गॊष्ठे स मां रक्षतु पार्थिवः

72

दधि वाहन पौत्रस तु पुत्रॊ दिवि रथस्य ह

अङ्गः स गौतमेनापि गङ्गाकूले ऽभिरक्षितः

73

बृहद्रथॊ महाबाहुर भुवि भूतिपुरस्कृतः

गॊलाङ्गूलैर महाभागॊ गृध्रकूटे ऽभिरक्षितः

74

मरुत्तस्यान्ववाये तु कषत्रियास तुर्वसॊस तरयः

मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः

75

एते कषत्रिय दायादास तत्र तत्र परिश्रुताः

सम्यङ माम अभिरक्षन्तु ततः सथास्यामि निश्चला

76

एतेषां पितरश चैव तथैव च पितामहाः

मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा

77

तेषाम अपचितिश चैव मया कार्या न संशयः

न हय अहं कामये नित्यम अविक्रान्तेन रक्षणम

78

ततः पृथिव्या निर्दिष्टांस तान समानीय कश्यपः

अभ्यषिञ्चन महीपालान कषत्रियान वीर्यसंमतान

79

तेषां पुत्राश च पौत्राश च येषां वंशाः परतिष्ठिताः

एवम एतत पुरावृत्तं यन मां पृच्छसि पाण्डव

80

[व]

एवं बरुवन्न एव यदुप्रविरॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम

रथेन तेनाशु ययौ यथार्कॊ; विशन परभाभिर भगवांस तरिलॊकम

1

[vāsudeva]

śṛ
u kaunteya rāmasya mayā yāvat pariśrutam

maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca

2

yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ

udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ

3

jahnor ajahnus tanayo ballavas tasya cātmajaḥ

kuśiko nāma dharmajñas tasya putro mahīpati

4

ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi

putraṃ labheyam ajitaṃ trilokeśvaram ity uta

5

tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ

samarthaḥ putra janane svayam evaitya bhārata

6

putratvam agamad rājaṃs tasya lokeśvareśvaraḥ

gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsana

7

tasya kanyābhavad rājan nāmnā satyavatī prabho

tāṃ gādhiḥ kavi putrāya sa ṛcīkāya dadau prabhu

8

tataḥ prītas tu kaunteya bhārgavaḥ kurunandana

putrārthe śrapayām āsa caruṃ gādhes tathaiva ca

9

hūya cāha tāṃ bhāryām ṛcīko bhārgavas tadā

upayojyaś carur ayaṃ tvayā mātrāpy ayaṃ tava

10

tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ

ajayyaḥ kṣatriyair loke kṣatriyarṣabha sūdana

11

tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam

śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati

12

ity evam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ

tapasy abhirato dhīmāñ jagāmāraṇyam eva ha

13

etasminn eva kāle tu tīrthayātrā paro nṛpaḥ

gādhiḥ sadāraḥ saṃprāpta ṛcīkasyāśramaṃ prati

14

carudvayaṃ gṛhītvā tu rājan satyavatī tadā

bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat

15

mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau

tasyāś carum athājñātam ātmasaṃsthaṃ cakāra ha

16

atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā

dhārayām āsa dīptena vapuṣā ghoradarśanam

17

tām ṛcīkas tadā dṛṣṭvā dhyānayogena vai tataḥ

abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm

18

mātrāsi vyaṃsitā bhadre caruvyatyāsa hetunā

janiṣyate hi te putraḥ krūrakarmā mahābala

19

janiṣyate hi te bhrātā brahmabhūtas tapodhanaḥ

viśvaṃ hi brahma tapasā mayā tatra samarpitam

20

saivam uktā mahābhāgā bhartrā satyavatī tadā

papāta śirasā tasmai vepantī cābravīd idam

21

nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ

brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune

22

[rcīka]

naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi

ugrakarmā bhavet putraś carur mātā ca kāraṇam

23

[savyavatī]

icchaṁl lokān api mune sṛjethāḥ kiṃ punar mama

śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara

24

[rcīka]

noktapūrvaṃ mayā bhadre svaireṣv apy anṛtaṃ vacaḥ

kim utāgniṃ samādhāya mantravac carusādhane

25

[satyavatī]

kāmam evaṃ bhavet pautro mameha tava caiva ha

śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara

26

[rcīka]

putre nāsti viśeṣo me pautre vā varavarṇini

yathā tvayoktaṃ tu vacas tathā bhadre bhaviṣyati

27

[vāsudeva]

tataḥ satyavatī putraṃ janayām āsa bhārgavam

tapasy abhirataṃ śāntaṃ jamadagniṃ śamātmakam

28

viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ

prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam

29

rcīko janayām āsa jamadagniṃ sudāruṇam

savra vidyānta gaṃ śreṣṭhaṃ dhanurvede ca pāragam

rāmaṃ kṣatriya hantāraṃ pradīptam iva pāvakam

30

etasminn eva kāle tu kṛtavīryātma jo balī

arjuno nāma tejasvī kṣatriyo haihayānvaya

31

dadāha pṛthivīṃ sarvāṃ sapta dvīpāṃ sa pattanām

svabāhvastrabalainājau dharmeṇa parameṇa ca

32

tṛṣitena sa kauravya bhikṣitaś citrabhānunā

sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye

33

grāmān purāṇi ghoṣāṃś ca pattanāni ca vīryavān

jajvāla tasya bāṇais tu citrabhānur didhakṣayā

34

sa tasya puruṣendrasya prabhāvena mahātapāḥ

dadāha kārtavīryasya śailān atha vanāni ca

35

sa śūnyam āśramāraṇyaṃ varuṇasyātma jasya tat

dadāha pavaneneddhaś citrabhānuḥ sa haihaya

36

pavas taṃ tato roṣāc chaśāpārjunam acyuta

dagdhe 'śrame mahārāja kārtavīryeṇa vīryavān

37

tvayā na varjitaṃ mohād yasmād vanam idaṃ mama

dagdhaṃ tasmād raṇe rāmo bāhūṃs te chetsyate 'rjuna

38

arjunas tu mahārāja balī nityaṃ śamātmakaḥ

brahmaṇyaś ca śaraṇyaś ca dātā śūraś ca bhārata

39

tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe

nimittam avaliptā vai nṛśaṃsāś caiva nityadā

40

jamadagnidhenvās te vatsam āninyur bharatarṣabha

ajñātaṃ kārtavīryasya haihayendrasya dhīmata

41

tato 'rjunasya bāhūṃs tu chittvā vai pauruṣānvitaḥ

taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam

pratyānayata rājendra teṣām antaḥpurāt prabhu

42

arjunasya sutās te tu saṃbhūyābuddhayas tadā

gatvāśramam asaṃbuddhaṃ jamadagner mahātmana

43

apātayanta bhallāgraiḥ śiraḥ kāyān narādhipa

samit kuśārthaṃ rāmasya nirgatasya mahātmana

44

tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān

niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata

45

tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān

vikramya nijaghānāśu putrān pautrāṃś ca sarvaśa

46

sa haihaya sahasrāṇi hatvā paramamanyumān

cakāra bhārgavo rājan mahīṃ śoṇitakardamām

47

sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm

kṛpayā parayāviṣṭo vanam eva jagāma ha

48

tato varṣasahasreṣu samatīteṣu keṣu cit

kṣobhaṃ saṃprāptavāṃs tīvraṃ prakṛtyā kopanaḥ prabhu

49

viśvāmitasya pautras tu raibhya putro mahātapāḥ

parāvasur mahārāja kṣiptvāha janasaṃsadi

50

ye te yayāti patane yajñe santaḥ samāgatāḥ

pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te

51

mithyāpratijño rāma tvaṃ katthase janasaṃsadi

bhayāt kṣatriya vīrāṇāṃ parvataṃ samupāśrita

52

sa punaḥ kṣatriya śataiḥ pṛthivīm anusaṃtatām

parāvasos tadā śrutvā śastraṃ jagrāha bhārgava

53

tato ye kṣatriyā rājañ śataśas tena jīvitāḥ

te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan

54

sa punas tāñ jaghānāśu bālān api narādhipa

garbhasthais tu mahī vyāptā punar evābhavat tadā

55

jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha

arakṣaṃś ca sutān kāṃś cit tadā kṣatriya yoṣita

56

triḥ saptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ

dakṣiṇām aśvamedhānte kaśyapāyādadat tata

57

kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ

sruk pragraha vatā rājañ śrīmān vākyam athābravīt

58

gaccha pāraṃ samudrasya dakṣiṇasya mahāmune

na te madviṣaye rāma vastavyam iha karhi cit

59

tataḥ śūrpārakaṃ deśaṃ sāgaras tasya nirmame

saṃtrāsāj jāmadagnyasya so 'parāntaṃ mahītalam

60

kaśyapas tu mahārāja pratigṛhya mahīm imām

kṛtvā brāhmaṇa saṃsthāṃ vai praviveśa mahāvanam

61

tataḥ śūdrāś ca vaiśyāś ca yathā svair apracāriṇaḥ

avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha

62

arājake jīvaloke durbalā balavattaraiḥ

bādhyante na ca vitteṣu prabhutvam iha kasya cit

63

tataḥ kālena pṛthivī praviveśa rasātalam

arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhi

64

ruṇā dhārayām āsa kaśyapaḥ pṛthivīṃ tataḥ

nimajjantīṃ tadā rājaṃs tenorvīti mahī smṛtā

65

rakṣiṇaś ca samuddiśya prāyācat pṛthivī tadā

prasādya kaśyapaṃ devī kṣatriyān bāhuśālina

66

santi brahman mayā guptā nṛṣu kṣatriya puṃgavāḥ

haihayānāṃ kule jātās te saṃrakṣantu māṃ mune

67

asti paurava dāyādo viḍūratha sutaḥ prabho

ṛkṣaiḥ saṃvardhito vipra ṛkṣavaty eva parvate

68

tathānukampamānena yajvanāthāmitaujasā

parāśareṇa dāyādaḥ saudāsasyābhirakṣita

69

sarvakarmāṇi kurute tasyarṣeḥ śūdravad dhi saḥ

sarvakarmety abhikhyātaḥ sa māṃ rakṣatu pārthiva

70

ibeḥ putro mahātejā gopatir nāma nāmataḥ

vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune

71

pratardanasya putras tu vatso nāma mahāyaśāḥ

vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthiva

72

dadhi vāhana pautras tu putro divi rathasya ha

aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣita

73

bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ

golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣita

74

maruttasyānvavāye tu kṣatriyās turvasos trayaḥ

marutpatisamā vīrye samudreṇābhirakṣitāḥ

75

ete kṣatriya dāyādās tatra tatra pariśrutāḥ

samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā

76

eteṣāṃ pitaraś caiva tathaiva ca pitāmahāḥ

madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā

77

teṣām apacitiś caiva mayā kāryā na saṃśayaḥ

na hy ahaṃ kāmaye nityam avikrāntena rakṣaṇam

78

tataḥ pṛthivyā nirdiṣṭās tān samānīya kaśyapaḥ

abhyaṣiñcan mahīpālān kṣatriyān vīryasaṃmatān

79

teṣāṃ putrāś ca pautrāś ca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ

evam etat purāvṛttaṃ yan māṃ pṛcchasi pāṇḍava

80

[v]

evaṃ bruvann eva yadupraviro; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham

rathena tenāśu yayau yathārko; viśan prabhābhir bhagavāṃs trilokam
karna parva mahabharata| karna parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 49