Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 1

Book 13. Chapter 1

The Mahabharata In Sanskrit


Book 13 Chapter 1

1

[य]

शमॊ बहुविधाकारः सूक्ष्म उक्तः पितामह

न च मे हृदये शान्तिर अस्ति कृत्वेदम ईदृशम

2

अस्मिन अर्थे बहुविधा शान्तिर उक्ता तवयानघ

सवकृते का नु शान्तिः सयाच छमाद बहुविधाद अपि

3

शराचित शरीरं हि तीव्रव्रणम उदीक्ष्य च

शमं नॊपलभे वीर दुष्कृतान्य एव चिन्तयन

4

रुधिरेणावसिक्ताङ्गं परस्रवन्तं यथाचलम

तवां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्व इवाम्बुजम

5

अतः कष्टतरं किं नु मत्कृते यत पितामहः

इमाम अवस्थां गमितः परत्यमित्रै रणाजिरे

तथैवान्ये नृपतयः सह पुत्राः स बान्धवाः

6

वयं हि धार्तराष्ट्राश च कालमन्युवशानुगाः

कृत्वेदं निन्दितं कर्म पराप्स्यामः कां गतिं नृप

7

अहं तव हय अन्तकरः सुहृद वधकरस तथा

न शान्तिम अधिगच्छामि पश्यंस तवां दुःखितं कषितौ

8

[ब]

परतन्त्रं कथं हेतुम आत्मानम अनुपश्यसि

कर्मण्य अस्मिन महाभाग सूक्ष्मं हय एतद अतीन्द्रियम

9

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

संवादं मृत्युगौतम्यॊः काललुब्धक पन्नगैः

10

गौतमी नाम कौन्तेय सथविरा शम संयुता

सर्पेण दष्टं सवं पुत्रम अपश्यद गतचेतनम

11

अथ तं सनायु पाशेन बद्ध्वा सर्पम अमर्षितः

लुब्धकॊ ऽरजुनकॊ नाम गौतम्याः समुपानयत

12

तां चाब्रवीद अयं ते सपुत्रहा पन्नगाधमः

बरूहि कषिप्रं महाभागे वध्यतां केन हेतुना

13

अग्नौ परक्षिप्यताम एष चछिद्यतां खण्डशॊ ऽपि वा

न हय अयं बालहा पापश चिरं जीवितुम अर्हति

14

[गौतमी]

विसृजैनम अबुद्धिस तवं न वध्यॊ ऽरजुनक तवया

कॊ हय आत्मानं गुरुं कुर्यात पराप्तव्ये सति चिन्तयन

15

पलवन्ते धर्मलघवॊ लॊके ऽमभसि यथा परलाः

मज्जन्ति पापगुरवः शस्त्रं सकन्नम इवॊदके

16

न चामृत्युर भविता वै हते ऽसमिन; कॊ वात्ययः सयाद अहते ऽसमिञ जनस्य

अस्यॊत्सर्गे पराणयुक्तस्य जन्तॊर; मृत्यॊर लॊकं कॊ नु गच्छेद अनन्तम

17

[लुब्धक]

जानाम्य एवं नेह गुणाणुन जञाः; सर्वे नियुक्ता गुरवॊ वै भवन्ति

सवस्थस्यैते तूपदेशा भवन्ति; तस्मात कषुद्रं सर्पम एनं हनिष्ये

18

समीप्सन्तः कालयॊगं तयजन्ति; सद्यः शुचं तव अर्थविदस तयजन्ति

शरेयः कषयः शॊचतां नित्यशॊ हि; तस्मात तयाज्यं जहि शॊकं हते ऽसमिन

19

[ग]

न चैवार्तिर विद्यते ऽसमद्विधानां; धर्मारामः सततं सज्जनॊ हि

नित्यायस्तॊ बाल जनॊ न चास्ति; धर्मॊ हय एष परभवाम्य अस्य नाहम

20

न बराह्मणानां कॊपॊ ऽसति कुतः कॊपाच च यातना

मार्दवात कषम्यतां साधॊ मुच्यताम एष पन्नगः

21

[ल]

हत्वा लाभः शरेय एवाव्ययं सयात; सद्यॊ लाभॊ बलवद्भिः परशस्तः

कालाल लाभॊ यस तु सद्यॊ भवेत; हते शरेयः कुत्सिते तवेदृशे सयात

22

[ग]

कार्थ पराप्तिर गृह्य शत्रुं निहत्य; का वा शान्तिः पराप्य शत्रुं नम उक्त्वा

कस्मात सौम्य भुजगे न कषमेयं; मॊक्षं वा किं कारणं नास्य कुर्याम

23

[ल]

अस्माद एकस्माद बहवॊ रक्षितव्या; नैकॊ बहुभ्यॊ गौतमि रक्षितव्यः

कृतागसं धर्मविदस तयजन्ति; सरीसृपं पापम इमं जहि तवम

24

[ज]

नास्मिन हते पन्नगे पुत्रकॊ मे; संप्राप्स्यते लुब्धक जीवितं वै

गुणं चान्यं नास्य वधे परपश्ये; तस्मात सर्पं लुब्धक मुञ्च जीवम

25

[ल]

वृत्रं हत्वा देवराट शरेष्ठ भाग्भाग वै; यज्ञं हत्वा भागम अवाप चैव

शूली देवॊ देव वृत्तं कुरु तवं; कषिप्रं सर्पं जहि मा भूद विशङ्का

26

[भ]

असकृत परॊच्यमानापि गौतमी भुजगं परति

लुब्धकेन महाभागा पापे नैवाकरॊन मतिम

27

ईषद उच्छ्वसमानस तु कृच्छ्रात संस्तभ्य पन्नगः

उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः

28

कॊ नव अर्जुनक दॊषॊ ऽतर विद्यते मम बालिश

अस्वतन्त्रं हि मां मृत्युर विवशं यद अचूचुदत

29

तस्यायं वचनाद दष्टॊ न कॊपेन न काम्यया

तस्य तक किल्बिषं लुब्ध विद्यते यदि किल्बिषम

30

[ल]

यद्य अन्यवशगेनेदं कृतं ते पन्नगाशुभम

कारणं वै तवम अप्य अत्र तस्मात तवम अपि किल्बिषी

31

मृत पात्रस्य करियायां हि दण्डचक्रादयॊ यथा

कारणत्वे परकल्प्यन्ते तथा तवम अपि पन्नग

32

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग

आत्मानं कारणं हय अत्र तवम आख्यासि भुजंगम

33

[सर्प]

सर्व एते हय अस्ववशा दण्डचक्रादयॊ यथा

तथाहम अपि तस्मान मे नैष हेतुर मतस तव

34

अथ वा मतम एतत ते ते ऽपय अन्यॊन्यप्रयॊजकाः

कार्यकारण संदेहॊ भवत्य अन्यॊन्यचॊदनात

35

एवं सति न दॊषॊ मे नास्मि वध्यॊ न किल्बिषी

किल्बिषं समवाये सयान मन्यसे यदि किल्बिषम

36

[ल]

कारणं यदि न सयाद वै न कर्ता सयास तवम अप्य उत

विनाशे कारणं तवं च तस्माद वध्यॊ ऽसि मे मतः

37

असत्य अपि कृते कार्ये नेह पन्नगलिप्यते

तस्मान नात्रैव हेतुः सयाद वध्यः किं बहु भाषसे

38

[सर्प]

कार्याभावे करिया न सयात सत्य असत्य अपि कारणे

तस्मात तवम अस्मिन हेतौ मे वाच्यॊ हेतुर विशेषतः

39

यद्य अहं कारणत्वेन मतॊ लुब्धक तत्त्वतः

अन्यः परयॊगे सयाद अत्र किल्बिषी जन्तु नाशने

40

[ल]

वध्यस तवं मम दुर्बुद्धे बाल घाती नृशंसकृत

भाषसे किं बहु पुनर वध्यः सन पन्नगाधम

41

[सर्प]

यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः

न फलं पराप्नुवन्त्य अत्र परलॊके तथा हय अहम

42

[भ]

तथा बरुवति तस्मिंस तु पन्नगे मृत्युचॊदिते

आजगाम ततॊ मृत्युः पन्नगं चाब्रवीद इदम

43

कालेनाहं परणुदितः पन्नगत्वाम अचूचुदम

विनाशहेतुर नास्य तवम अहं वा पराणिनः शिशॊः

44

यथा वायुर जलधरान विकर्षति ततस ततः

तद्वज जलदवत सर्पकालस्याहं वशानुगः

45

सात्त्विका राजसाश चैव तामसा ये च के चन

भावाः कालात्मकाः सर्वे परवर्तन्ते हि जन्तुषु

46

जङ्गमाः सथावराश चैव दिवि वा यदि वा भुवि

सर्वे कालात्मकाः सर्पकालात्मकम इदं जगत

47

परवृत्तयश च या लॊके तथैव च निवृत्तयः

तासां विकृतयॊ याश च सर्वं कालात्मकं समृतम

48

आदित्यश चन्द्रमा विष्णुर आपॊ वायुः शतक्रतुः

अग्निः खं पृथिवी मित्र ओषध्यॊ वसवस तथा

49

सरितः सगराश चैव भावाभावौ च पन्नग

सर्वे कालेन सृज्यन्ते हरियन्ते च तथा पुनः

50

एवं जञात्वा कथं मां तवं स दॊषं सर्पमन्यसे

अथ चैवं गते दॊषॊ मयि तवम अपि दॊषवान

51

[सर्प]

निर्दॊषं दॊषवन्तं वा न तवा मृत्यॊर बरवीम्य अहम

तवयाहं चॊदित इति बरवीम्य एतावद एव तु

52

यदि काले तु दॊषॊ ऽसति यदि तत्रापि नेष्यते

दॊषॊ नैव परीक्ष्यॊ मे न हय अत्राधिकृता वयम

53

निर्मॊक्षस तव अस्य दॊषस्य मया कार्यॊ यथातथा

मृत्यॊ विदॊषः सयाम एव यथा तन मे परयॊजनम

54

[भ]

सर्पॊ ऽथार्जुनकं पराह शरुतं ते मृत्युभाषितम

नानागसं मां पाशेन संतापयितुम अर्हसि

55

[ल]

मृत्यॊः शरुतं मे वचनं तव चैव भुजंगम

नैव तावद विदॊषत्वं भवति तवयि पन्नग

56

मृत्युस तवं चैव हेतुर हि जन्तॊर अस्य विनाशने

उभयं कारणं मन्ये न कारणम अकारणम

57

धिन मृत्युं च दुरात्मानं करूरं दुःखकरं सताम

सवां चैवाहं वधिष्यामि पापं पापस्य कारणम

58

[मृत्यु]

विवशौ कालवशगाव आवां तद दिष्ट कारिणौ

नावां दॊषेण गन्तव्यौ यदि सम्यक परपश्यसि

59

[ल]

युवाम उभौ कालवशौ यदि वै मृत्युपन्नगौ

हर्षक्रॊधौ कथं सयाताम एतद इच्छामि वेदितुम

60

[मृत्यु]

याः काश चिद इह चेष्टाः सयुः सर्वाः कालप्रचॊदिताः

पूर्वम एवैतद उक्तं हि मया लुब्धक कालतः

61

तस्माद उभौ कालवशाव आवां तद दिष्ट कारिणौ

नावां दॊषेण गन्तव्यौ तवया लुब्धक कर्हि चित

62

[भ]

अथॊपगम्य कालस तु तस्मिन धर्मार्थसंशये

अब्रवीत पन्नगं मृत्युं लुब्धम अर्जुनकं च तम

63

[काल]

नैवाहं नाप्य अयं मृत्युर नायं लुब्धक पन्नगः

किल्बिषी जन्तु मरणे न वयं हि परयॊजकाः

64

अकरॊद यद अयं कर्म तन नॊ ऽरजुनक चॊदकम

परणाश हेतुर नान्यॊ ऽसय वध्यते ऽयं सवकर्मणा

65

यद अनेन कृतं कर्म तेनायं निधनं गतः

विनाशहेतुः कर्मास्य सर्वे कर्म वशा वयम

66

कर्म दायादवाँल लॊकः कर्म संबन्ध लक्षणः

कर्माणि चॊदयन्तीह यथान्यायं तथा वयम

67

यथा मृत पिण्डतः कर्ता कुरुते यद यद इच्छति

एवम आत्मकृतं कर्म मानवः परतिपद्यते

68

यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम

तथा कर्म च कर्ता च संबद्धाव आत्मकर्मभिः

69

एवं नाहं न वै मृत्युर न सर्पॊ न तथा भवान

न चेयं बराह्मणी वृद्धा शिशुर एवात्र कारणम

70

तस्मिंस तथा बरुवाणे तु बराह्मणी गौतमी नृप

सवकर्म परत्ययाँल लॊकान मत्वार्जुनकम अब्रवीत

71

नैव कालॊ न भुजगॊ न मृत्युर इह कारणम

सवकर्मभिर अयं बालः कालेन निधनं गतः

72

मया च तत कृतं कर्म येनायं मे मृतः सुतः

यातु कालस तथा मृत्युर मुञ्चार्जुनक पन्नगम

73

[भ]

ततॊ यथागतं जग्मुर मृत्युः कालॊ ऽथ पन्नगः

अभूद विरॊषॊ ऽरजुनकॊ विशॊका चैव गौतमी

74

एतच छरुत्वा शमं गच्छ मा भूश चिन्तापरॊ नृप

सवकर्म परत्ययाँल लॊकांस तरीन विद्धि मनुजर्षभ

75

न तु तवया कृतं पार्थ नापि दुर्यॊधनेन वै

कालेन तत कृतं विद्धि विहिता येन पार्थिवाः

76

[व]

इत्य एतद वचनं शरुत्वा बभूव विगतज्वरः

युधिष्ठिरॊ महातेजाः पप्रच्छेदं च धर्मवित

1

[y]

śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha

na ca me hṛdaye śāntir asti kṛtvedam īdṛśam

2

asmin arthe bahuvidhā śāntir uktā tvayānagha

svakṛte kā nu śāntiḥ syāc chamād bahuvidhād api

3

arācita śarīraṃ hi tīvravraṇam udīkṣya ca

śamaṃ nopalabhe vīra duṣkṛtāny eva cintayan

4

rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam

tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujam

5

ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ

imām avasthāṃ gamitaḥ pratyamitrai raṇājire

tathaivānye nṛpatayaḥ saha putrāḥ sa bāndhavāḥ

6

vayaṃ hi dhārtarāṣṭrāś ca kālamanyuvaśānugāḥ

kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa

7

ahaṃ tava hy antakaraḥ suhṛd vadhakaras tathā

na śāntim adhigacchāmi paśyaṃs tvāṃ duḥkhitaṃ kṣitau

8

[b]

paratantraṃ kathaṃ hetum ātmānam anupaśyasi

karmaṇy asmin mahābhāga sūkṣmaṃ hy etad atīndriyam

9

atrāpy udāharantīmam itihāsaṃ purātanam

saṃvādaṃ mṛtyugautamyoḥ kālalubdhaka pannagai

10

gautamī nāma kaunteya sthavirā śama saṃyutā

sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam

11

atha taṃ snāyu pāśena baddhvā sarpam amarṣitaḥ

lubdhako 'rjunako nāma gautamyāḥ samupānayat

12

tāṃ cābravīd ayaṃ te saputrahā pannagādhamaḥ

brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā

13

agnau prakṣipyatām eṣa cchidyatāṃ khaṇḍaśo 'pi vā

na hy ayaṃ bālahā pāpaś ciraṃ jīvitum arhati

14

[gautamī]

visṛjainam abuddhis tvaṃ na vadhyo 'rjunaka tvayā

ko hy ātmānaṃ guruṃ kuryāt prāptavye sati cintayan

15

plavante dharmalaghavo loke 'mbhasi yathā pralāḥ

majjanti pāpaguravaḥ śastraṃ skannam ivodake

16

na cāmṛtyur bhavitā vai hate 'smin; ko vātyayaḥ syād ahate 'smiñ janasya

asyotsarge prāṇayuktasya jantor; mṛtyor lokaṃ ko nu gacched anantam

17

[lubdhaka]

jānāmy evaṃ neha guṇāṇuna jñāḥ; sarve niyuktā guravo vai bhavanti

svasthasyaite tūpadeśā bhavanti; tasmāt kṣudraṃ sarpam enaṃ haniṣye

18

samīpsantaḥ kālayogaṃ tyajanti; sadyaḥ śucaṃ tv arthavidas tyajanti

śreyaḥ kṣayaḥ śocatāṃ nityaśo hi; tasmāt tyājyaṃ jahi śokaṃ hate 'smin

19

[g]

na caivārtir vidyate 'smadvidhānāṃ; dharmārāmaḥ satataṃ sajjano hi

nityāyasto bāla jano na cāsti; dharmo hy eṣa prabhavāmy asya nāham

20

na brāhmaṇānāṃ kopo 'sti kutaḥ kopāc ca yātanā

mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannaga

21

[l]

hatvā lābhaḥ śreya evāvyayaṃ syāt; sadyo lābho balavadbhiḥ praśastaḥ

kālāl lābho yas tu sadyo bhaveta; hate śreyaḥ kutsite tvedṛśe syāt

22

[g]

kārtha prāptir gṛhya śatruṃ nihatya; kā vā śāntiḥ prāpya śatruṃ nam uktvā

kasmāt saumya bhujage na kṣameyaṃ; mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām

23

[l]

asmād ekasmād bahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ

kṛtāgasaṃ dharmavidas tyajanti; sarīsṛpaṃ pāpam imaṃ jahi tvam

24

[j]

nāsmin hate pannage putrako me; saṃprāpsyate lubdhaka jīvitaṃ vai

guṇaṃ cānyaṃ nāsya vadhe prapaśye; tasmāt sarpaṃ lubdhaka muñca jīvam

25

[l]

vṛtraṃ hatvā devarāṭ śreṣṭha bhāgbhāg vai; yajñaṃ hatvā bhāgam avāpa caiva

śūlī devo deva vṛttaṃ kuru tvaṃ; kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā

26

[bh]

asakṛt procyamānāpi gautamī bhujagaṃ prati

lubdhakena mahābhāgā pāpe naivākaron matim

27

ī
ad ucchvasamānas tu kṛcchrāt saṃstabhya pannagaḥ

utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍita

28

ko nv arjunaka doṣo 'tra vidyate mama bāliśa

asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat

29

tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā

tasya tak kilbiṣaṃ lubdha vidyate yadi kilbiṣam

30

[l]

yady anyavaśagenedaṃ kṛtaṃ te pannagāśubham

kāraṇaṃ vai tvam apy atra tasmāt tvam api kilbiṣī

31

mṛt pātrasya kriyāyāṃ hi daṇḍacakrādayo yathā

kāraṇatve prakalpyante tathā tvam api pannaga

32

kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga

ātmānaṃ kāraṇaṃ hy atra tvam ākhyāsi bhujaṃgama

33

[sarpa]

sarva ete hy asvavaśā daṇḍacakrādayo yathā

tathāham api tasmān me naiṣa hetur matas tava

34

atha vā matam etat te te 'py anyonyaprayojakāḥ

kāryakāraṇa saṃdeho bhavaty anyonyacodanāt

35

evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī

kilbiṣaṃ samavāye syān manyase yadi kilbiṣam

36

[l]

kāraṇaṃ yadi na syād vai na kartā syās tvam apy uta

vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mata

37

asaty api kṛte kārye neha pannagalipyate

tasmān nātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase

38

[sarpa]

kāryābhāve kriyā na syāt saty asaty api kāraṇe

tasmāt tvam asmin hetau me vācyo hetur viśeṣata

39

yady ahaṃ kāraṇatvena mato lubdhaka tattvataḥ

anyaḥ prayoge syād atra kilbiṣī jantu nāśane

40

[l]

vadhyas tvaṃ mama durbuddhe bāla ghātī nṛśaṃsakṛt

bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama

41

[sarpa]

yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ

na phalaṃ prāpnuvanty atra paraloke tathā hy aham

42

[bh]

tathā bruvati tasmiṃs tu pannage mṛtyucodite

ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam

43

kālenāhaṃ praṇuditaḥ pannagatvām acūcudam

vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśo

44

yathā vāyur jaladharān vikarṣati tatas tataḥ

tadvaj jaladavat sarpakālasyāhaṃ vaśānuga

45

sāttvikā rājasāś caiva tāmasā ye ca ke cana

bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu

46

jaṅgamāḥ sthāvarāś caiva divi vā yadi vā bhuvi

sarve kālātmakāḥ sarpakālātmakam idaṃ jagat

47

pravṛttayaś ca yā loke tathaiva ca nivṛttayaḥ

tāsāṃ vikṛtayo yāś ca sarvaṃ kālātmakaṃ smṛtam

48

dityaś candramā viṣṇur āpo vāyuḥ śatakratuḥ

agniḥ khaṃ pṛthivī mitra oṣadhyo vasavas tathā

49

saritaḥ sagarāś caiva bhāvābhāvau ca pannaga

sarve kālena sṛjyante hriyante ca tathā puna

50

evaṃ jñātvā kathaṃ māṃ tvaṃ sa doṣaṃ sarpamanyase

atha caivaṃ gate doṣo mayi tvam api doṣavān

51

[sarpa]

nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyor bravīmy aham

tvayāhaṃ codita iti bravīmy etāvad eva tu

52

yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate

doṣo naiva parīkṣyo me na hy atrādhikṛtā vayam

53

nirmokṣas tv asya doṣasya mayā kāryo yathātathā

mṛtyo vidoṣaḥ syām eva yathā tan me prayojanam

54

[bh]

sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam

nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi

55

[l]

mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama

naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga

56

mṛtyus tvaṃ caiva hetur hi jantor asya vināśane

ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam

57

dhin mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām

svāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam

58

[mṛtyu]

vivaśau kālavaśagāv āvāṃ tad diṣṭa kāriṇau

nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi

59

[l]

yuvām ubhau kālavaśau yadi vai mṛtyupannagau

harṣakrodhau kathaṃ syātām etad icchāmi veditum

60

[mṛtyu]

yāḥ kāś cid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ

pūrvam evaitad uktaṃ hi mayā lubdhaka kālata

61

tasmād ubhau kālavaśāv āvāṃ tad diṣṭa kāriṇau

nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhi cit

62

[bh]

athopagamya kālas tu tasmin dharmārthasaṃśaye

abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam

63

[kāla]

naivāhaṃ nāpy ayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ

kilbiṣī jantu maraṇe na vayaṃ hi prayojakāḥ

64

akarod yad ayaṃ karma tan no 'rjunaka codakam

praṇāśa hetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā

65

yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ

vināśahetuḥ karmāsya sarve karma vaśā vayam

66

karma dāyādavāṁl lokaḥ karma saṃbandha lakṣaṇaḥ

karmāṇi codayantīha yathānyāyaṃ tathā vayam

67

yathā mṛt piṇḍataḥ kartā kurute yad yad icchati

evam ātmakṛtaṃ karma mānavaḥ pratipadyate

68

yathā chāyātapau nityaṃ susaṃbaddhau nirantaram

tathā karma ca kartā ca saṃbaddhāv ātmakarmabhi

69

evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān

na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam

70

tasmiṃs tathā bruvāṇe tu brāhmaṇī gautamī nṛpa

svakarma pratyayāṁl lokān matvārjunakam abravīt

71

naiva kālo na bhujago na mṛtyur iha kāraṇam

svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gata

72

mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ

yātu kālas tathā mṛtyur muñcārjunaka pannagam

73

[bh]

tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ

abhūd viroṣo 'rjunako viśokā caiva gautamī

74

etac chrutvā śamaṃ gaccha mā bhūś cintāparo nṛpa

svakarma pratyayāṁl lokāṃs trīn viddhi manujarṣabha

75

na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai

kālena tat kṛtaṃ viddhi vihitā yena pārthivāḥ

76

[v]

ity etad vacanaṃ śrutvā babhūva vigatajvaraḥ

yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit
the magus book review| the magus book review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 1