Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 105

Book 13. Chapter 105

The Mahabharata In Sanskrit


Book 13

Chapter 105

1

[य]

एकॊ लॊकः सुकृतिनां सर्वे तव आहॊ पितामह

उत तत्रापि नानात्वं तन मे बरूहि पितामह

2

[भ]

कर्मभिः पार्थ नानात्वं लॊकानां यान्ति मानवाः

पुण्यान पुण्यकृतॊ यान्ति पापान पापकृतॊ जनाः

3

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

गौतमस्य मुनेस तात संवादं वासवस्य च

4

बराह्मणॊ गौतमः कश चिन मृदुर दान्तॊ जितेन्द्रियः

महावने हस्तिशिशुं परिद्यूनम अमातृकम

5

तं दृष्ट्वा जीवयाम आस सानुक्रॊशॊ धृतव्रतः

स तु दीर्घेण कालेन बभूवातिबलॊ महान

6

तं परभिन्नं महानागं परस्रुतं सर्वतॊ मदम

धृतराष्ट्रस्य रूपेण शक्रॊ जग्राह हस्तिनम

7

हरियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः

अभ्यभाषत राजानं धृतराष्ट्रं महातपाः

8

मा मे हार्षीर हस्तिनं पुत्रम एनं; दुःखात पुष्टं धृतराष्ट्राकृतज्ञ

मित्रं सतां सप्त पदं वदन्ति; मित्रद्रॊहॊ नैव राजन सपृशेत तवाम

9

इध्मॊदक परदातारं शून्यपालकम आश्रमे

विनीतम आचार्य कुले सुयुक्तं गुरु कर्मणि

10

शिष्टं दान्तं कृतज्ञं च परियं च सततं मम

न मे विक्रॊशतॊ राजन हर्तुम अर्हसि कुञ्जरम

11

[धृ]

गवां सहस्रं भवते ददामि; दासी शतं निष्कशतानि पञ्च

अन्यच च वित्तं विविधं महर्षे; किं बराह्मणस्येह गजेन कृत्यम

12

[ग]

तवाम एव गावॊ ऽभि भवन्तु राजन; दास्यः स निष्का विविधं च रत्नम

अन्यच च वित्तं विविधं नरेन्द्र; किं बराह्मणस्येह धनेन कृत्यम

13

[धृ]

बराह्मणानां हस्तिभिर नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र

सवं वाहनं नयतॊ नास्त्य अधर्मॊ; नागश्रेष्ठाद गौतमास्मान निवर्त

14

[ग]

यत्र परेतॊ नन्दति पुण्यकर्मा; यत्र परेतः शॊचति पापकर्मा

वैवस्वतस्य सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये

15

[धृ]

ये निष्क्रिया नास्तिकाः शरद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः

यमस्य ते यातनां पराप्नुवन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र

16

[ग]

वैवस्वती संयमनी जनानां; यत्रानृतं नॊच्यते यत्र सत्यम

यत्राबला बलिनं यातयन्ति; तत्र तवाहं हस्तिनं यातयिष्ये

17

[धृ]

जयेष्ठां सवसारं पितरं मातरं च; गुरुं यथा मानयन्तश चरन्ति

तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

18

[ग]

मन्दाकिनी वैश्रवणस्य राज्ञॊ; महाभॊगा भॊगि जनप्रवेश्या

गन्धर्वयक्षैर अप्सरॊभिश च जुष्टा; तत्र तवाहं हस्तिनं यातयिष्ये

19

[धृ]

अतिथिव्रताः सुव्रता ये जना वै; परतिश्रयं ददति बराह्मणेभ्यः

शिष्टाशिनः संविभज्याश्रितांश च; मन्दाकिनीं ते ऽपि विभूषयन्ति

20

[ग]

मेरॊर उग्रे यद वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम

सुदर्शना यत्र जम्बूर विशाला; तत्र तवाहं हस्तिनं यातयिष्ये

21

[धृ]

ये बराह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः

ये ऽधीयन्ते सेतिहासं पुराणं; मध्व आहुत्या जुह्वति च दविजेभ्यः

22

तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

यद विद्यते विदितं सथानम अस्ति; तद बरूहि तवं तवरितॊ हय एष यामि

23

[ग]

सुपुष्पितं किंनरराजजुष्टं; परियं वनं नन्दनं नारदस्य

गन्धर्वाणाम अप्सरसां च सद्म; तत्र तवाहं हस्तिनं यातयिष्ये

24

[धृ]

ये नृत्तगीतकुशला जनाः सदा; हय अयाचमानाः सहिताश चरन्ति

तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

25

[ग]

यत्रॊत्तराः कुरवॊ भान्ति रम्या; देवैः सार्धं मॊदमाना नरेन्द्र

यत्राग्नियौनाश च वसन्ति विप्रा; हय अयॊनयः पर्वत यॊनयश च

26

यत्र शक्रॊ वर्षति सर्वकामान; यत्र सत्रियः कामचाराश चचरन्ति

यत्र चेर्ष्या नास्ति नारी नराणां; तत्र तवाहं हस्तिनं यातयिष्ये

27

[धृ]

ये सर्वभूतेषु निवृत्तकामा; अमांसादा नयस्तदण्डाश चरन्ति

न हिंषन्ति सथावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः

28

निराशिषॊ निर्ममॊ वीतरागा; लाभालाभे तुल्यनिन्दा परशंसाः

तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

29

[ग]

ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशॊकाः

सॊमस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये

30

[धृ]

ये दानशीला न परतिगृह्णते सदा; न चाप्य अर्थान आददते परेभ्यः

येषाम अदेयम अर्हते नास्ति किं चित; सर्वातिथ्याः सुप्रसादा जनाश च

31

ये कषन्तारॊ नाभिजल्पन्ति चान्याञ; शक्ता भूत्वा सततं पुण्यशीलाः

तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

32

[ग]

ततः परं भान्ति लॊकाः सनातना; विरजसॊ वितमस्का विशॊकाः

आदित्यस्य सुमहान्तः सुवृत्तास; तत्र तवाहं हस्तिनं यातयिष्ये

33

[धृ]

सवाध्यायशीला गुरुशुश्रूषणे रतास; तपस्विनः सुव्रताः सत्यसंधाः

आचार्याणाम अप्रतिकूल भाषिणॊ; नित्यॊत्थिता गुरु कर्म सवचॊद्याः

34

तथाविधानाम एष लॊकॊ महर्षे; विशुद्धानां भावितवान्मतीनाम

सत्ये सथितानां वेद विदां महात्मनां; परं गन्ता धृतराष्ट्रॊ न तत्र

35

[ग]

ततः परे भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा विशॊकाः

वरुणस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये

36

[धृ]

चातुर्मास्यैर ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं पराप्नुवन्ति

ये चाग्निहॊत्रं जुह्वति शरद्दधाना; यथान्यायं तरीणि वर्षाणि विप्राः

37

सवदारिणां धर्मधुरे महात्मनां; यथॊचिते वर्त्मनि सुस्थितानाम

धर्मात्मनाम उद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रॊ न तत्र

38

[ग]

इन्द्रस्य लॊका विरजा विशॊका; दुरन्वयाः काङ्क्षिता मानवानाम

तस्याहं ते भवने भूरि तेजसॊ; राजन्न इमं हस्तिनं यातयिष्ये

39

शतवर्ष जीवी यश च शूरॊ मनुष्यॊ; वेद धयायी यश च यज्वाप्रमत्तः

एते सर्वे शक्र लॊकं वरजन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र

40

[ग]

पराजापत्याः सन्ति लॊका महान्तॊ; नाकस्य पृष्ठे पुष्लका वीतशॊकाः

मनीषिताः सर्वलॊकॊद्भवानां; तत्र तवाहं हस्तिनं यातयिष्ये

41

[धृ]

ये राजानॊ राजसूयाभिषिक्ता; धर्मात्मानॊ रक्षितारः परजानाम

ये चाश्वमेधावभृथाप्लुताङ्गास; तेषां लॊका धृतराष्ट्रॊ न तत्र

42

[ग]

ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशॊकाः

तस्मिन्न अहं दुर्लभे तवाप्रधृष्ये; गवां लॊके हस्तिनं यातयिष्ये

43

[धृ]

यॊ गॊसहस्री शतदः समां समां; यॊ गॊशती दश दद्याच च शक्त्याः

तथा दशभ्यॊ यश च दद्याद इहैकां; पञ्चभ्यॊ वा दानशीलस तथैकम

44

ये जीर्यन्ते बरह्मचर्येण विप्रा; बराह्मीं वाचं परिरक्षन्ति चैव

मनस्विनस तीर्थयात्रा परायणास; ते तत्र मॊदन्ति गवां विमाने

45

परभासं मानसं पुण्यं पुष्कराणि महत सरः

पुण्यं च नैमिषं तीर्थं बाहुदां करतॊयिनीम

46

गवां गय शिरश चैव विपाशां सथूलवालुकाम

तूष्णीं गङ्गां दश गङ्गां महाह्रदम अथापि च

47

गौतमीं कौशिकीं पाकां महात्मानॊ धृतव्रताः

सरस्वती दृषद्वत्यौ यमुनां ये परयान्ति च

48

तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः

परयान्ति पुण्यगन्धाढ्या धृतराष्ट्रॊ न तत्र वै

49

[ग]

यत्र शीतभयं नास्ति न चॊष्ण भयम अण्व अपि

न कषुत्पिपासे न गलानिर न दुःखं न सुखं तथा

50

न दवेष्यॊ न परियः कश चिन न बन्धुर न रिपुस तथा

न जरामरणे वापि न पुण्यं न च पातकम

51

तस्मिन विरजसि सफीते परज्ञा सत्त्वव्यवस्थिते

सवयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति

52

[धृ]

निर्मुक्ताः सर्वसङ्गेभ्यॊ कृतात्मानॊ यतव्रताः

अध्यात्मयॊगसंस्थाने युक्ताः सवर्गगतिं गताः

53

ते बरह्मभवनं पुण्यं पराप्नुवन्तीह सात्त्विकाः

न तत्र धृतराष्ट्रस ते शक्यॊ दरष्टुं महामुने

54

[ग]

रथन्तरं यत्र बृहच च गीयते; यत्र वेदी पुण्डरीकैः सतृणॊति

यत्रॊपयाति हरिभिः सॊमपीथी; तत्र तवाहं हस्तिनं यातयिष्ये

55

बुध्यामि तवां वृत्रहणं शतक्रतुं; वयतिक्रमन्तं भुवनानि विश्वा

कच चिन न वाचा वृजिनं कदा चिद; अकार्षं ते मनसॊ ऽभिषङ्गात

56

[षक्र]

यस्माद इमं लॊकपथं परजानाम; अन्वागमं पदवादे गजस्य

तस्माद भवान परणतं मानुशास्तु; बरवीषि यत तत करवाणि सर्वम

57

[ग]

शवेतं करेणुं मम पुत्र नागं; यं मे ऽहार्षीर दशवर्षाणि बालम

यॊ मे वने वसतॊ ऽभूद दवितीयस; तम एव मे देहि सुरेन्द्र नागम

58

[षक्र]

अयं सुतस ते दविजमुख्यनागश; चाघ्रायते तवाम अभिवीक्षमाणः

पादौ च ते नासिकयॊपजिघ्रते; शरेयॊ मम धयाहि नमश च ते ऽसतु

59

[ग]

शिवं सदैवेह सुरेन्द्र तुभ्यं; धयायामि पूजां च सदा परयुञ्जे

ममापि तवं शक्र शिवं ददस्व; तवया दत्तं परतिगृह्णामि नागम

60

[षक्र]

येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम

तेषां तवयैकेन महात्मनास्मि; बुद्धस तस्मात परीतिमांस ते ऽहम अद्य

61

हन्तैहि बराह्मण कषिप्रं सह पुत्रेण हस्तिना

पराप्नुहि तवं शुभाँल लॊकान अह्नाय च चिराय च

62

[भ]

स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना

दिवम आचक्रमे वज्री सद्भिः सह दुरासदम

1

[y]

eko lokaḥ sukṛtināṃ sarve tv āho pitāmaha

uta tatrāpi nānātvaṃ tan me brūhi pitāmaha

2

[bh]

karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ

puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ

3

atrāpy udāharantīmam itihāsaṃ purātanam

gautamasya munes tāta saṃvādaṃ vāsavasya ca

4

brāhmaṇo gautamaḥ kaś cin mṛdur dānto jitendriyaḥ

mahāvane hastiśiśuṃ paridyūnam amātṛkam

5

taṃ dṛṣṭvā jīvayām āsa sānukrośo dhṛtavrataḥ

sa tu dīrgheṇa kālena babhūvātibalo mahān

6

taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam

dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam

7

hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ

abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ

8

mā me hārṣīr hastinaṃ putram enaṃ; duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña

mitraṃ satāṃ sapta padaṃ vadanti; mitradroho naiva rājan spṛśet tvām

9

idhmodaka pradātāraṃ śūnyapālakam āśrame

vinītam ācārya kule suyuktaṃ guru karmaṇi

10

iṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama

na me vikrośato rājan hartum arhasi kuñjaram

11

[dhṛ]

gavāṃ sahasraṃ bhavate dadāmi; dāsī śataṃ niṣkaśatāni pañca

anyac ca vittaṃ vividhaṃ maharṣe; kiṃ brāhmaṇasyeha gajena kṛtyam

12

[g]

tvām eva gāvo 'bhi bhavantu rājan; dāsyaḥ sa niṣkā vividhaṃ ca ratnam

anyac ca vittaṃ vividhaṃ narendra; kiṃ brāhmaṇasyeha dhanena kṛtyam

13

[dhṛ]

brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ; rājanyānāṃ nāgakulāni vipra

svaṃ vāhanaṃ nayato nāsty adharmo; nāgaśreṣṭhād gautamāsmān nivarta

14

[g]

yatra preto nandati puṇyakarmā; yatra pretaḥ śocati pāpakarmā

vaivasvatasya sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye

15

[dhṛ]

ye niṣkriyā nāstikāḥ śraddadhānāḥ; pāpātmāna indriyārthe niviṣṭāḥ

yamasya te yātanāṃ prāpnuvanti; paraṃ gantā dhṛtarāṣṭro na tatra

16

[g]

vaivasvatī saṃyamanī janānāṃ; yatrānṛtaṃ nocyate yatra satyam

yatrābalā balinaṃ yātayanti; tatra tvāhaṃ hastinaṃ yātayiṣye

17

[dhṛ]

jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca; guruṃ yathā mānayantaś caranti

tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra

18

[g]

mandākinī vaiśravaṇasya rājño; mahābhogā bhogi janapraveśyā

gandharvayakṣair apsarobhiś ca juṣṭā; tatra tvāhaṃ hastinaṃ yātayiṣye

19

[dhṛ]

atithivratāḥ suvratā ye janā vai; pratiśrayaṃ dadati brāhmaṇebhyaḥ

śiṣṭāśinaḥ saṃvibhajyāśritāṃś ca; mandākinīṃ te 'pi vibhūṣayanti

20

[g]

meror ugre yad vanaṃ bhāti ramyaṃ; supuṣpitaṃ kiṃnaragītajuṣṭam

sudarśanā yatra jambūr viśālā; tatra tvāhaṃ hastinaṃ yātayiṣye

21

[dhṛ]

ye brāhmaṇā mṛdavaḥ satyaśīlā; bahuśrutāḥ sarvabhūtābhirāmāḥ

ye 'dhīyante setihāsaṃ purāṇaṃ; madhv āhutyā juhvati ca dvijebhya

22

tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra

yad vidyate viditaṃ sthānam asti; tad brūhi tvaṃ tvarito hy eṣa yāmi

23

[g]

supuṣpitaṃ kiṃnararājajuṣṭaṃ; priyaṃ vanaṃ nandanaṃ nāradasya

gandharvāṇām apsarasāṃ ca sadma; tatra tvāhaṃ hastinaṃ yātayiṣye

24

[dhṛ]

ye nṛttagītakuśalā janāḥ sadā; hy ayācamānāḥ sahitāś caranti

tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra

25

[g]

yatrottarāḥ kuravo bhānti ramyā; devaiḥ sārdhaṃ modamānā narendra

yatrāgniyaunāś ca vasanti viprā; hy ayonayaḥ parvata yonayaś ca

26

yatra śakro varṣati sarvakāmān; yatra striyaḥ kāmacārāś cacaranti

yatra cerṣyā nāsti nārī narāṇāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye

27

[dhṛ]

ye sarvabhūteṣu nivṛttakāmā; amāṃsādā nyastadaṇḍāś caranti

na hiṃṣanti sthāvaraṃ jaṅgamaṃ ca; bhūtānāṃ ye sarvabhūtātmabhūtāḥ

28

nirāśiṣo nirmamo vītarāgā; lābhālābhe tulyanindā praśaṃsāḥ

tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra

29

[g]

tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā nirmalā vītaśokāḥ

somasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye

30

[dhṛ]

ye dānaśīlā na pratigṛhṇate sadā; na cāpy arthān ādadate parebhyaḥ

yeṣām adeyam arhate nāsti kiṃ cit; sarvātithyāḥ suprasādā janāś ca

31

ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ puṇyaśīlāḥ

tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra

32

[g]

tataḥ paraṃ bhānti lokāḥ sanātanā; virajaso vitamaskā viśokāḥ

dityasya sumahāntaḥ suvṛttās; tatra tvāhaṃ hastinaṃ yātayiṣye

33

[dhṛ]

svādhyāyaśīlā guruśuśrūṣaṇe ratās; tapasvinaḥ suvratāḥ satyasaṃdhāḥ

cāryāṇām apratikūla bhāṣiṇo; nityotthitā guru karma svacodyāḥ

34

tathāvidhānām eṣa loko maharṣe; viśuddhānāṃ bhāvitavānmatīnām

satye sthitānāṃ veda vidāṃ mahātmanāṃ; paraṃ gantā dhṛtarāṣṭro na tatra

35

[g]

tataḥ pare bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā viśokāḥ

varuṇasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye

36

[dhṛ]

cāturmāsyair ye yajante janāḥ sadā; tatheṣṭīnāṃ daśaśataṃ prāpnuvanti

ye cāgnihotraṃ juhvati śraddadhānā; yathānyāyaṃ trīṇi varṣāṇi viprāḥ

37

svadāriṇāṃ dharmadhure mahātmanāṃ; yathocite vartmani susthitānām

dharmātmanām udvahatāṃ gatiṃ tāṃ; paraṃ gantā dhṛtarāṣṭro na tatra

38

[g]

indrasya lokā virajā viśokā; duranvayāḥ kāṅkṣitā mānavānām

tasyāhaṃ te bhavane bhūri tejaso; rājann imaṃ hastinaṃ yātayiṣye

39

atavarṣa jīvī yaś ca śūro manuṣyo; veda dhyāyī yaś ca yajvāpramattaḥ

ete sarve śakra lokaṃ vrajanti; paraṃ gantā dhṛtarāṣṭro na tatra

40

[g]

prājāpatyāḥ santi lokā mahānto; nākasya pṛṣṭhe puṣlakā vītaśokāḥ

manīṣitāḥ sarvalokodbhavānāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye

41

[dhṛ]

ye rājāno rājasūyābhiṣiktā; dharmātmāno rakṣitāraḥ prajānām

ye cāśvamedhāvabhṛthāplutāṅgās; teṣāṃ lokā dhṛtarāṣṭro na tatra

42

[g]

tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā vītaśokāḥ

tasminn ahaṃ durlabhe tvāpradhṛṣye; gavāṃ loke hastinaṃ yātayiṣye

43

[dhṛ]

yo gosahasrī śatadaḥ samāṃ samāṃ; yo gośatī daśa dadyāc ca śaktyāḥ

tathā daśabhyo yaś ca dadyād ihaikāṃ; pañcabhyo vā dānaśīlas tathaikam

44

ye jīryante brahmacaryeṇa viprā; brāhmīṃ vācaṃ parirakṣanti caiva

manasvinas tīrthayātrā parāyaṇās; te tatra modanti gavāṃ vimāne

45

prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ

puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm

46

gavāṃ gaya śiraś caiva vipāśāṃ sthūlavālukām

tūṣṇīṃ gaṅgāṃ daśa gaṅgāṃ mahāhradam athāpi ca

47

gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ

sarasvatī dṛṣadvatyau yamunāṃ ye prayānti ca

48

tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ

prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai

49

[g]

yatra śītabhayaṃ nāsti na coṣṇa bhayam aṇv api

na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā

50

na dveṣyo na priyaḥ kaś cin na bandhur na ripus tathā

na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam

51

tasmin virajasi sphīte prajñā sattvavyavasthite

svayambhubhavane puṇye hastinaṃ me yatiṣyati

52

[dhṛ]

nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ

adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ

53

te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ

na tatra dhṛtarāṣṭras te śakyo draṣṭuṃ mahāmune

54

[g]

rathantaraṃ yatra bṛhac ca gīyate; yatra vedī puṇḍarīkaiḥ stṛṇoti

yatropayāti haribhiḥ somapīthī; tatra tvāhaṃ hastinaṃ yātayiṣye

55

budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ; vyatikramantaṃ bhuvanāni viśvā

kac cin na vācā vṛjinaṃ kadā cid; akārṣaṃ te manaso 'bhiṣaṅgāt

56

[
akra]

yasmād imaṃ lokapathaṃ prajānām; anvāgamaṃ padavāde gajasya

tasmād bhavān praṇataṃ mānuśāstu; bravīṣi yat tat karavāṇi sarvam

57

[g]

śvetaṃ kareṇuṃ mama putra nāgaṃ; yaṃ me 'hārṣīr daśavarṣāṇi bālam

yo me vane vasato 'bhūd dvitīyas; tam eva me dehi surendra nāgam

58

[
akra]

ayaṃ sutas te dvijamukhyanāgaś; cāghrāyate tvām abhivīkṣamāṇaḥ

pādau ca te nāsikayopajighrate; śreyo mama dhyāhi namaś ca te 'stu

59

[g]

śivaṃ sadaiveha surendra tubhyaṃ; dhyāyāmi pūjāṃ ca sadā prayuñje

mamāpi tvaṃ śakra śivaṃ dadasva; tvayā dattaṃ pratigṛhṇāmi nāgam

60

[
akra]

yeṣāṃ vedā nihitā vai guhāyāṃ; manīṣiṇāṃ sattvavatāṃ mahātmanām

teṣāṃ tvayaikena mahātmanāsmi; buddhas tasmāt prītimāṃs te 'ham adya

61

hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā

prāpnuhi tvaṃ śubhāṁl lokān ahnāya ca cirāya ca

62

[bh]

sa gautamaṃ puraskṛtya saha putreṇa hastinā

divam ācakrame vajrī sadbhiḥ saha durāsadam
appendices appendix| what are mythical monster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 105