Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 107

Book 13. Chapter 107

The Mahabharata In Sanskrit


Book 13

Chapter 107

1

[य]

शतायुर उक्तः पुरुषः शतवीर्यश च वैदिके

कस्मान मरियन्ते पुरुषा बाला अपि पितामह

2

आयुष्मान केन भवति सवल्पायुर वापि मानवः

केन वा लभते कीर्तिं केन वा लभते शरियम

3

तपसा बरह्मचर्येण जपैर हॊमैस तथौषधैः

जन्मना यदि वाचारात तन मे बरूहि पितामह

4

[भ]

अत्र ते वर्तयिष्यामि यन मां तवम अनुपृच्छसि

अल्पायुर येन भवति दीर्घायुर वापि मानवः

5

येन वा लभते कीर्तिं येन वा लभते शरियम

यथा च वर्तन पुरुषः शरेयसा संप्रयुज्यते

6

आचाराल लभते हयायुर आचाराल लभते शरियम

आचारात कीर्तिम आप्नॊति पुरुषः परेत्य चेह च

7

दुराचारॊ हि पुरुषॊ नेहायुर विन्दते महत

तरसन्ति यस्माद भूतानि तथा परिभवन्ति च

8

तस्मात कुर्याद इहाचारं य इच्छेद भूतिम आत्मनः

अपि पापशरीरस्य आचारॊ हन्त्य अलक्षणम

9

आचार लक्षणॊ धर्मः सन्तश चाचार लक्षणाः

साधूनां च यथावृत्तम एतद आचार लक्षणम

10

अप्य अदृष्टं शरुतं वापि पुरुषं धर्मचारिणम

भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते परियम

11

ये नास्तिका निष्क्रियाश च गुरु शास्त्रातिलङ्घिनः

अधर्मज्ञा दुराचारास ते भवन्ति गतायुषः

12

विशीला भिन्नमर्यादा नित्यं संकीर्ण मैथुनाः

अल्पायुषॊ भवन्तीह नरा निरयगामिनः

13

सर्वलक्षणहीनॊ ऽपि समुदाचारवान नरः

शरद्दधानॊ ऽनसूयुश च शतं वर्षाणि जीवति

14

अक्रॊधनः सत्यवादी भूतानाम अविहिंसकः

अनसूयुर अजिह्मश च शतं वर्षाणि जीवति

15

लॊष्ट मर्दी तृणच छेदी नखखादी च यॊ नरः

नित्यॊच्छिष्टः संकुसुकॊ नेहायुर विन्दते महत

16

बराह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत

उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः

17

एवम एवापरां संध्यां समुपासीत वाग्यतः

नेक्षेतादित्यम उद्यन्तं नास्तं यान्तं कदा चन

18

ऋषयॊ दीर्घसंध्यत्वाद दीर्घम आयुर अवाप्नुवन

तस्मात तिष्ठेत सदा पूर्वां पश्चिमां चैव वाग्यतः

19

ये च पूर्वाम उपासन्ते दविजाः संध्यां न पश्चिमाम

सर्वांस तान धार्मिकॊ राजा शूद्र कर्माणि कारयेत

20

परदारा न गन्तव्याः सर्ववर्णेषु कर्हि चित

न हीदृशम अनायुष्यं लॊके किं चन विद्यते

यादृशं पुरुषस्येह परदारॊपसेवनम

21

परसाधनं च केशानाम अञ्जनं दन्तधावनम

पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम

22

पुरीष मूत्रे नॊदीक्षेन नाधितिष्ठेत कदा चन

उदक्यया च संभाषां न कुर्वीत कदा चन

23

नॊत्सृजेत पुरीषं च कषेत्रे गरामस्य चान्तिके

उभे मूत्र पुरीषे तु नाप्सु कुर्यात कदा चन

24

पराङ्मुखॊ नित्यम अश्नीयाद वाग्यतॊ ऽननम अकुत्सयन

परस्कन्दयेच च मनसा भुक्त्वा चाग्निम उपस्पृशेत

25

आयुष्यं पराङ्मुखॊ भुङ्क्ते यशस्यं दक्षिणामुखः

धन्यं पश्चान मुखॊ भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः

26

नाधितिष्ठेत तुषाञ जातु केशभस्म कपालिकाः

अन्यस्य चाप्य उपस्थानं दूरतः परिवर्जयेत

27

शान्ति हॊमांश च कुर्वीत सावित्राणि च कारयेत

निषण्णश चापि खादेत न तु गच्छन कथं चन

28

मूत्रं न तिष्ठता कार्यं न भस्मनि न गॊव्रजे

29

आर्द्र पादस तु भुञ्जीत नार्द्र पादस तु संविशेत

आर्द्र पादस तु भुञ्जानॊ वर्षाणां जीवते शतम

30

तरीणि तेजांसि नॊच्छिष्ट आलभेत कदा चन

अगिं गां बराह्मणं चैव तथास्यायुर न रिष्यते

31

तरीणि तेजांसि नॊच्छिष्ट उदीक्षेत कदा चन

सूर्या चन्द्रमसौ चैव नक्षताणि च सर्वशः

32

ऊर्ध्वं पराणा हय उत्क्रामन्ति यूनः सथविर आयति

परत्युत्थानाभिवादाभ्यां पुनस तान परतिपद्यते

33

अभिवादयेत वृद्धांश च आसनं चैव दापयेत

कृताञ्जलिर उपासीत गच्छन्तं पृष्ठतॊ ऽनवियात

34

न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत

नैकवस्त्रेण भॊक्तव्यं न नग्नः सनातुम अर्हति

सवप्तव्यं नैव नग्नेन न चॊच्छिष्टॊ ऽपि संविशेत

35

उच्छिष्टॊ न सपृशेच छीर्षं सर्वे पराणास तदाश्रयाः

केशग्रहान परहारांश च शिरस्य एतान विवर्जयेत

36

न पाणिभ्याम उभाभ्यां च कण्डूयेज जातु वैश इरः

न चाभीक्ष्णं शिरः सनायात तथास्यायुर न रिष्यते

37

शिरःस्नातश च तैलेन नाङ्गं किं चिद उपस्पृशेत

तिलपिष्टं न चाश्नीयात तथायुर विन्दते महत

38

नाध्यापयेत तथॊच्छिष्टॊ नाधीयीत कदा चन

वाते च पूति गन्धे च मनसापि न चिन्तयेत

39

अत्र गाथा यमॊद्गीताः कीर्तयन्ति पुरा विदः

आयुर अस्य निकृन्तामि परजाम अस्याददे तथा

40

य उच्छिष्टः परवदति सवाध्यायं चाधिगच्छति

यश चानध्याय काले ऽपि मॊहाद अभ्यस्यति दविजः

तस्माद युक्तॊ ऽपय अनध्याये नाधीयीत कदा चन

41

परत्य आदित्यं परत्य अनिलं परति गां च परति दविजान

ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः

42

उभे मूत्र पुरीषे तु दिवा कुर्याद उदङ्मुखः

दक्षिणाभिमुखॊ रात्रौ तथास्यायुर न रिष्यते

43

तरीन कृशान नावजानीयाद दीर्घम आयुर जिजीविषुः

बराह्मणं कषत्रियं सर्पं सर्वे हय आशीविषास तरयः

44

दहत्य आशीविषः करुद्धॊ यावत पश्यति चक्षुषा

कषत्रियॊ ऽपि दहेत करुद्धॊ यावत सपृशति तेजसा

45

बराह्मणस तु कुलं हन्याद धयानेनावेक्षितेन च

तस्माद एतत तरयं यत्नाद उपसेवेत पण्डितः

46

गुरुणा वैरनिर्बन्धॊ न कर्तव्यः कदा चन

अनुमान्यः परसाद्यश च गुरुः करुद्धॊ युधिष्ठिर

47

सम्यङ मिथ्या परवृत्ते ऽपि वर्तितव्यं गुराव इह

गुरु निन्दा दहत्य आयुर मनुष्याणां न संशयः

48

दूराद आवसथान मूत्रं दूरात पादावसेचनम

उच्छिष्टॊत्सर्जनं चैव दूरे कार्यं हितैषिणा

49

नातिकल्पं नातिसायं न च मध्यं दिने सथिते

नाज्ञातैः सह गच्छेत नैकॊ न वृषलैः सह

50

पन्था देयॊ बराह्मणाय गॊभ्यॊ राजस्य एव च

वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च

51

परदक्षिणं च कुर्वीत परिज्ञातान वनस्पतीन

चतुष्पथान परकुर्वीत सर्वान एव परदक्षिणान

52

मध्यं दिने निशाकाले मध्यरात्रे च सर्वदा

चतुष्पथान न सेवेत उभे संध्ये तथैव च

53

उपानहौ च वस्त्रं च धृतम अन्यैर न धारयेत

बरह्म चारी च नित्यं सयात पादं पादेन नाक्रमेत

54

अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः

अष्टम्यां सर्वपक्षाणां बरह्म चारी सदा भवेत

55

वृथा मांसं न खादेत पृष्ठमांसं तथैव च

आक्रॊशं परिवादं च पैशुन्यं च विवर्जयेत

56

नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत

ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम

57

वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रात्र्यहानि

परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु

58

रॊहते सायकैर विद्धं वनं परशुना हतम

वाचा दुरुक्तं बीभत्सं न संरॊहति वाक कषतम

59

हीनाङ्गान अतिरिक्ताङ्गान विद्या हीनान वयॊ ऽधिकान

रूपद्रविण हीनांश च सत्त्वहीनांश च नाक्षिपेत

60

नास्तिक्यं वेद निन्दां च देवतानां च कुत्सनम

दवेषस्तम्भाभिमानांश च तैक्ष्ण्यं च परिवर्जयेत

61

परस्य दण्डं नॊद्यच्छेत करॊद्धॊ नैनं निपातयेत

अन्यत्र पुत्राच छिष्याद वा शिक्षार्थं ताडनं समृतम

62

न बराह्मणान परिवदेन नक्षत्राणि न निर्दिशेत

तिथिं पक्षस्य न बरूयात तथास्यायुर न रिष्यते

63

कृत्वा मूत्र पुरीषे तु रथ्याम आक्रम्य वा पुनः

पादप्रक्षालनं कुर्यात सवाध्याये भॊजने तथा

64

तरीणि देवाः पवित्राणि बराह्मणानाम अकल्पयन

अदृष्टम अद्भिर निर्णिक्तं यच च वाचा परशस्यते

65

संयावं कृसरं मांसं शष्कुली पायसं तथा

आत्मार्थं न परकर्तव्यं देवार्थं तु परकल्पयेत

66

नित्यम अग्निं परिचरेद भिक्षां दद्याच च नित्यदा

वाग्यतॊ दन्तकाष्ठं च नित्यम एव समाचरेत

न चाभ्युदित शायी सयात परायश्चित्ती तथा भवेत

67

माता पितरम उत्थाय पूर्वम एवाभिवादयेत

आचार्यम अथ वाप्य एनं तथायुर विन्दते महत

68

वर्जयेद दन्तकाष्टानि वर्जनीयानि नित्यशः

भक्षयेच छास्त्र दृष्टानि पर्वस्व अपि च वर्जयेत

69

उदङ्मुखश च सततं शौचं कुर्यात समाहितः

70

अकृत्वा देवता पूजां नान्यं गच्छेत कदा चन

अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम

71

अवलॊक्यॊ न चादर्शॊ मलिनॊ बुद्धिमत्तरैः

न चाज्ञातां सत्रियं गच्छेद गर्भिणीं वा कदा चन

72

उदक्शिरा न सवपेत तथा परत्यक्शिरा न च

पराक्शिरास तु सवपेद विद्वान अथ वा दक्षिणा शिराः

73

न भग्ने नावदीर्णे वा शयने परस्वपेत च

नान्तर्धाने न संयुक्ते न च तिर्यक कदा चन

74

न नग्नः कर्हि चित सनायान न निशायां कदा चन

सनात्वा च नावमृज्येत गात्राणि सुविचक्षणः

75

न चानुलिम्पेद अस्नात्वा सनात्वा वासॊ न निर्धुनेत

आर्द्र एव तु वासांसि नित्यं सेवेत मानवः

सरजश च नावकर्षेत न बहिर धारयेत च

76

रक्तमाल्यं न धार्यं सयाच छुक्लं धार्यं तु पण्डितैः

वर्जयित्वा तु कमलं तथा कुवलयं विभॊ

77

रक्तं शिरसि धार्यं तु तथा वानेयम इत्य अपि

काञ्चनी चैव या माला न सा दुष्यति कर्हि चित

सनातस्य वर्णकं नित्यम आर्द्रं दद्याद विशां पते

78

विपर्ययं न कुर्वीत वाससॊ बुद्धिमान नरः

तथा नान्यधृतं धार्यं न चापदशम एव च

79

अन्यद एव भवेद वासः शयनीये नरॊत्तम

अन्यद रथ्यासु देवानाम अर्चायाम अन्यद एव हि

80

परियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च

पृथग एवानुलिम्पेत केसरेण च बुद्धिमान

81

उपवासं च कुर्वीत सनातः शुचिर अलंकृतः

पर्वकालेषु सर्वेषु बरह्म चारी सदा भवेत

82

नालीढया परिहतं भक्षयीत कदा चन

तथा नॊद्धृत साराणि पेक्षतां नाप्रदाय च

83

न संनिकृष्टॊ मेधावी नाशुचिर न च सत्सु च

परतिषिद्धान न धर्मेषु भक्षान भुञ्जीत पृष्ठतः

84

पिप्पलं च वटं चैव शणशाकं तथैव च

उदुम्बरं न खादेच च भवार्थी पुरुषॊत्तमः

85

आजं गव्यं च यन मांसं मायूरं चैव वर्जयेत

वर्जयेच छुष्क मांसं च तथा पर्युषितं च यत

86

न पाणौ लवणं विद्वान पराश्नीयान न च रात्रिषु

दधि सक्तून न भुञ्जीत वृथा मांसं च वर्जयेत

87

वालेन तु न भुञ्जीत परश्राद्धं तथैव च

सायंप्रातश च भुञ्जीत नान्तराले समाहितः

88

वाग्यतॊ नैकवस्त्रश च नासंविष्टः कदा चन

भूमौ सदैव नाश्नीयान नानासीनॊ न शब्दवत

89

तॊयपूर्वं परदायान्नम अतिथिभ्यॊ विशां पते

पश्चाद भुञ्जीत मेधावी न चाप्य अन्यमना नरः

90

समानम एकपङ्क्त्यां तु भॊज्यम अन्नं नरेश्वर

विषं हालाहलं भुङ्क्ते यॊ ऽपरदाय सुहृज्जने

91

पानीयं पायसं सर्पिर दधि सक्तु मधून्य अपि

निरस्य शेषम एतेषां न परदेयं तु कस्य चित

92

भुञ्जानॊ मनुजव्याघ्रनैव शङ्कां समाचरेत

दधि चाप्य अनुपानं वै न कर्तव्यं भवार्थिना

93

आचम्य चैव हस्तेन परिस्राव्य तथॊदकम

अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत

94

पाणिं मूर्ध्नि समाधाय सपृष्ट्वा चाग्निं समाहितः

जञातिश्रैष्ठ्यम अवाप्नॊति परयॊग कुशलॊ नरः

95

अद्भिः पराणान समालभ्य नाभिं पाणितलेन च

सपृशंश चैव परतिष्ठेत न चाप्य आर्द्रेण पाणिना

96

अङ्गुष्ठस्यान्तराले च बराह्मं तीर्थम उदाहृतम

कनिष्ठिकायाःपश्चात तु देव तीर्थम इहॊच्यते

97

अङ्गुष्ठस्य च यन मध्यं परदेशिन्याश च भारत

तेन पित्र्याणि कुर्वीत सपृष्ट्वापॊ नयायतस तथा

98

परापवादं न बरूयान नाप्रियं च कदा चन

न मनुः कश चिद उत्पाद्यः पुरुषेण भवार्थिना

99

पतितैस तु कथां नेच्छेद दर्शनं चापि वर्जयेत

संसर्गं च न गच्छेत तथायुर विन्दते महत

100

न दिवा मैथुनं गच्छेन न कन्यां न च बन्धकीम

न चास्नातां सत्रियं गच्छेत तथायुर विन्दते महत

101

सवे सवे तीर्थे समाचम्य कार्ये समुपकल्पिते

तरिः पीत्वापॊ दविः परमृज्य कृतशौचॊ भवेन नरः

102

इन्द्रियाणि सकृत सपृश्य तरिर अभ्युक्ष्य च मानवः

कुर्वीत पित्र्यं दैवं च वेद दृष्टेन कर्मणा

103

बराह्मणार्थे च यच छौचं तच च मे शृणु कौरव

परवृत्तं च हितं चॊक्त्वा भॊजनाद्य अन्तयॊस तथा

104

सर्वशौचेषु बराह्मेण तीर्थेन समुपस्पृशेत

निष्ठीव्य तु तथा कषुत्वा सपृश्यापॊ हि शुचिर भवेत

105

वृद्धॊ जञातिस तथा मित्रं दरिद्रॊ यॊ भवेद अपि

गृहे वासयितव्यास ते धन्यम आयुष्यम एव च

106

गृहे पारावता धन्याः शुकाश च सहसारिकाः

गृहेष्व एते न पापाय तथा वै तैलपायिकाः

107

उद्दीपकाश च गृध्राश च कपॊता भरमरास तथा

निविशेयुर यदा तत्र शान्तिम एव तदाचरेत

108

अमङ्गल्यानि चैतानि तथाक्रॊशॊ महात्मनाम

महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित

109

अगम्याश च न गच्छेत राजपत्नीः सखीस तथा

वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर

110

बन्धूनां बराह्मणानां च तथा शारणिकस्य च

संबन्धिनां च राजेन्द्र तथायुर विन्दते महत

111

बराह्मण सथपतिभ्यां च निर्मितं यन निवेशनम

तद आवसेत सदा पराज्ञॊ भवार्थी मनुजेश्वर

112

संध्यायां न सवपेद राजन विद्यां न च समाचरेत

न भुञ्जीत च मेधावी तथायुर विन्दते महत

113

नक्तं न कुर्यात पित्र्याणि भुक्त्वा चैव परसाधनम

पानीयस्य करिया नक्तं न कार्या भूतिम इच्छता

114

वर्जनीयाश च वै नित्यं सक्तवॊ निशि भारत

शेषाणि चावदातानि पानीयं चैव भॊजने

115

सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत

दविजच छेदं न कुर्वीत भुक्त्वा नच समाचरेत

116

महाकुलप्रसूतां च परशस्तां लक्षणैस तथा

वयःस्थां च महाप्राज्ञ कन्याम आवॊढुम अर्हति

117

अपत्यम उत्पाद्य ततः परतिष्ठाप्य कुलं तथा

पुत्राः परदेया जञानेषु कुलधर्मेषु भारत

118

कन्या चॊत्पाद्य दातव्या कुलपुत्राय धीमते

पुत्रा निवेश्याश च कुलाद भृत्या लभ्याश च भारत

119

शिरःस्नातॊ ऽथ कुर्वीत दैवं पित्र्यम अथापि च

नक्षत्रे न च कुर्वीत यस्मिञ जातॊ भवेन नरः

न परॊष्ठपदयॊः कार्यं तथाग्नेये च भारत

120

दारुणेषु च सर्वेषु परत्यहं च विवर्जयेत

जयॊतिषे यानि चॊक्तानि तानि सर्वाणि वर्जयेत

121

पराङ्मुखः शमश्रुकर्माणि कारयेत समाहितः

उदङ्मुखॊ वा राजेन्द्र तथायुर विन्दते महत

122

परिवादं न च बरूयात परेषाम आत्मनस तथा

परिवादॊ न धर्माय परॊच्यते भरतर्षभ

123

वर्जयेद वयङ्गिनीं नारीं तथा कन्यां नरॊत्तम

समार्षां वयङ्गितां चैव मातुः सवकुलजां तथा

124

वृद्धां परव्रजितां चैव तथैव च पतिव्रताम

तथातिकृष्ण वर्णां च वर्णॊत्कृष्टां च वर्जयेत

125

अयॊनिं च वियॊनिं च न गच्छेत विचक्षणः

पिङ्गलां कुष्ठिनीं नारीं न तवम आवॊढुम अर्हसि

126

अपस्मारि कुले जातां निहीनां चैव वर्जयेत

शवित्रिणां च कुले जातां तरयाणां मनुजेश्वर

127

लक्षणैर अन्विता या च परशस्ता या च लक्षणैः

मनॊज्ञा दर्शनीया च तां भवान वॊढुम अर्हति

128

महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर

अवरा पतिता चैव न गराह्या भूतिम इच्छता

129

अग्नीन उत्पाद्य यत्नेन करियाः सुविहिताश च याः

वेदेषु बराह्मणैः परॊक्तास ताश च सर्वाः समाचरेत

130

न चेर्ष्या सत्रीषु कर्तव्या दारा रक्ष्याश च सर्वशः

अनायुष्या भवेद ईर्ष्या तस्माद ईर्ष्यां विवर्जयेत

131

अनायुष्यॊ दिवा सवप्नस तथाभ्युदित शायिता

परातर निशायां च तथा ये चॊच्छिष्टाः सवपन्ति वै

132

पारदार्यम अनायुष्यं नापितॊच्च्छिष्टता तथा

यत्नतॊ वै न कर्तव्यम अभ्यासश चैव भारत

133

संध्यां न भुञ्जेन न सनायान न पुरीषं समुत्सृजेत

परयतश च भवेत तस्यां न च किं चित समाचरेत

134

बराह्मणान पूजयेच चापि तथा सनात्वा नराधिप

देवांश च परणमेत सनातॊ गुरूंश चाप्य अभिवादयेत

135

अनिमन्त्रितॊ न गच्छेत यज्ञं गच्छेत तु दर्शकः

अनिमन्त्रिते हय अनायुष्यं गमनं तत्र भारत

136

न चैकेन परिव्राज्यं न गन्तव्य तथा निशि

अनागतायां संध्यायां पश्चिमायां गृहे वसेत

137

मातुः पितुर गुरूणां च कार्यम एवानुशासनम

हितं वाप्य अहितं वापि न विचार्यं नरर्षभ

138

धनुर्वेदे च वेदे च यत्नः कार्यॊ नराधिप

हस्तिपृष्ठे ऽशवपृष्ठे च रथचर्यासु चैव ह

यत्नवान भव राजेन्द्र यत्नवान सुखम एधते

139

अप्रधृष्यश च शत्रूणां भृत्यानां सवजनस्य च

परजापालनयुक्तश च न कषतिं लभते कव चित

140

युक्तिशास्त्रं च ते जञेयं शब्दशास्त्रं च भारत

गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप

141

पुराणम इतिहासाश च तथाख्यानानि यानि च

महात्मनां च चरितं शरॊतव्यं नित्यम एव ते

142

पत्नीं रजस्वलां चैव नाभिगच्छेन न चाह्वयेत

सनातां चतुर्थे दिवसे रात्रौ गच्छेद विचक्षणः

143

पञ्चमे दिवसे नारी षष्ठे ऽहनि पुमान भवेत

एतेन विधिना पत्नीम उपगच्छेत पण्डितः

144

जञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः

यष्टव्यं च यथाशक्ति यज्ञैर विविधदक्षिणैः

अत ऊर्ध्वम अरण्यं च सेवितव्यं नराधिप

145

एष ते लक्षणॊद्देश आयुष्याणां परकीर्तितः

शेषस तरैविद्य वृद्धेभ्यः परत्याहार्यॊ युधिष्ठिर

146

आचारॊ भूतिजनन आचारः कीर्तिवर्धनः

आचाराद वर्धते हय आयुर आचारॊ हन्त्य अलक्षणम

147

आगमानां हि सर्वेषाम आचारः शरेष्ठ उच्यते

आचार परभवॊ धर्मॊ धर्माद आयुर विवर्धते

148

एतद यशस्यम आयुष्यं सवर्ग्यं सवस्त्ययनं महत

अनुकम्पता सर्ववर्णान बरह्मणा समुदाहृतम

1

[y]

śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike

kasmān mriyante puruṣā bālā api pitāmaha

2

yuṣmān kena bhavati svalpāyur vāpi mānavaḥ

kena vā labhate kīrtiṃ kena vā labhate śriyam

3

tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ

janmanā yadi vācārāt tan me brūhi pitāmaha

4

[bh]

atra te vartayiṣyāmi yan māṃ tvam anupṛcchasi

alpāyur yena bhavati dīrghāyur vāpi mānava

5

yena vā labhate kīrtiṃ yena vā labhate śriyam

yathā ca vartan puruṣaḥ śreyasā saṃprayujyate

6

cārāl labhate hyāyur ācārāl labhate śriyam

ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca

7

durācāro hi puruṣo nehāyur vindate mahat

trasanti yasmād bhūtāni tathā paribhavanti ca

8

tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ

api pāpaśarīrasya ācāro hanty alakṣaṇam

9

cāra lakṣaṇo dharmaḥ santaś cācāra lakṣaṇāḥ

sādhūnāṃ ca yathāvṛttam etad ācāra lakṣaṇam

10

apy adṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam

bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam

11

ye nāstikā niṣkriyāś ca guru śāstrātilaṅghinaḥ

adharmajñā durācārās te bhavanti gatāyuṣa

12

viśīlā bhinnamaryādā nityaṃ saṃkīrṇa maithunāḥ

alpāyuṣo bhavantīha narā nirayagāmina

13

sarvalakṣaṇahīno 'pi samudācāravān naraḥ

śraddadhāno 'nasūyuś ca śataṃ varṣāṇi jīvati

14

akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ

anasūyur ajihmaś ca śataṃ varṣāṇi jīvati

15

loṣṭa mardī tṛṇac chedī nakhakhādī ca yo naraḥ

nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat

16

brāhme muhūrte budhyeta dharmārthau cānucintayet

utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjali

17

evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ

nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadā cana

18

ayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan

tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyata

19

ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām

sarvāṃs tān dhārmiko rājā śūdra karmāṇi kārayet

20

paradārā na gantavyāḥ sarvavarṇeṣu karhi cit

na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate

yādṛśaṃ puruṣasyeha paradāropasevanam

21

prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam

pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam

22

purīṣa mūtre nodīkṣen nādhitiṣṭhet kadā cana

udakyayā ca saṃbhāṣāṃ na kurvīta kadā cana

23

notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike

ubhe mūtra purīṣe tu nāpsu kuryāt kadā cana

24

prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan

praskandayec ca manasā bhuktvā cāgnim upaspṛśet

25

yuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ

dhanyaṃ paścān mukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukha

26

nādhitiṣṭhet tuṣāñ jātu keśabhasma kapālikāḥ

anyasya cāpy upasthānaṃ dūrataḥ parivarjayet

27

ś
nti homāṃś ca kurvīta sāvitrāṇi ca kārayet

niṣaṇṇaś cāpi khādeta na tu gacchan kathaṃ cana

28

mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje

29

rdra pādas tu bhuñjīta nārdra pādas tu saṃviśet

ārdra pādas tu bhuñjāno varṣāṇāṃ jīvate śatam

30

trīṇi tejāṃsi nocchiṣṭa ālabheta kadā cana

agiṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate

31

trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadā cana

sūryā candramasau caiva nakṣatāṇi ca sarvaśa

32

rdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati

pratyutthānābhivādābhyāṃ punas tān pratipadyate

33

abhivādayeta vṛddhāṃś ca āsanaṃ caiva dāpayet

kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt

34

na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet

naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati

svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet

35

ucchiṣṭo na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ

keśagrahān prahārāṃś ca śirasy etān vivarjayet

36

na pāṇibhyām ubhābhyāṃ ca kaṇḍūyej jātu vaiś iraḥ

na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate

37

iraḥsnātaś ca tailena nāṅgaṃ kiṃ cid upaspṛśet

tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat

38

nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana

vāte ca pūti gandhe ca manasāpi na cintayet

39

atra gāthā yamodgītāḥ kīrtayanti purā vidaḥ

āyur asya nikṛntāmi prajām asyādade tathā

40

ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati

yaś cānadhyāya kāle 'pi mohād abhyasyati dvijaḥ

tasmād yukto 'py anadhyāye nādhīyīta kadā cana

41

praty ādityaṃ praty anilaṃ prati gāṃ ca prati dvijān

ye mehanti ca panthānaṃ te bhavanti gatāyuṣa

42

ubhe mūtra purīṣe tu divā kuryād udaṅmukhaḥ

dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate

43

trīn kṛśān nāvajānīyād dīrgham āyur jijīviṣuḥ

brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hy āśīviṣās traya

44

dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā

kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā

45

brāhmaṇas tu kulaṃ hanyād dhyānenāvekṣitena ca

tasmād etat trayaṃ yatnād upaseveta paṇḍita

46

guruṇā vairanirbandho na kartavyaḥ kadā cana

anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira

47

samyaṅ mithyā pravṛtte 'pi vartitavyaṃ gurāv iha

guru nindā dahaty āyur manuṣyāṇāṃ na saṃśaya

48

dūrād āvasathān mūtraṃ dūrāt pādāvasecanam

ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā

49

nātikalpaṃ nātisāyaṃ na ca madhyaṃ dine sthite

nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha

50

panthā deyo brāhmaṇāya gobhyo rājasya eva ca

vṛddhāya bhārataptāya garbhiṇyai durbalāya ca

51

pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn

catuṣpathān prakurvīta sarvān eva pradakṣiṇān

52

madhyaṃ dine niśākāle madhyarātre ca sarvadā

catuṣpathān na seveta ubhe saṃdhye tathaiva ca

53

upānahau ca vastraṃ ca dhṛtam anyair na dhārayet

brahma cārī ca nityaṃ syāt pādaṃ pādena nākramet

54

amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ

aṣṭamyāṃ sarvapakṣāṇāṃ brahma cārī sadā bhavet

55

vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca

ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet

56

nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta

yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām

57

vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni

parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu

58

rohate sāyakair viddhaṃ vanaṃ paraśunā hatam

vācā duruktaṃ bībhatsaṃ na saṃrohati vāk kṣatam

59

hīnāṅgān atiriktāṅgān vidyā hīnān vayo 'dhikān

rūpadraviṇa hīnāṃś ca sattvahīnāṃś ca nākṣipet

60

nāstikyaṃ veda nindāṃ ca devatānāṃ ca kutsanam

dveṣastambhābhimānāṃś ca taikṣṇyaṃ ca parivarjayet

61

parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet

anyatra putrāc chiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam

62

na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet

tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate

63

kṛtvā mūtra purīṣe tu rathyām ākramya vā punaḥ

pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā

64

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan

adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate

65

saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā

ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet

66

nityam agniṃ paricared bhikṣāṃ dadyāc ca nityadā

vāgyato dantakāṣṭhaṃ ca nityam eva samācaret

na cābhyudita śāyī syāt prāyaścittī tathā bhavet

67

mātā pitaram utthāya pūrvam evābhivādayet

ācāryam atha vāpy enaṃ tathāyur vindate mahat

68

varjayed dantakāṣṭāni varjanīyāni nityaśaḥ

bhakṣayec chāstra dṛṣṭni parvasv api ca varjayet

69

udaṅmukhaś ca satataṃ śaucaṃ kuryāt samāhita

70

akṛtvā devatā pūjāṃ nānyaṃ gacchet kadā cana

anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam

71

avalokyo na cādarśo malino buddhimattaraiḥ

na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadā cana

72

udakśirā na svapeta tathā pratyakśirā na ca

prākśirās tu svaped vidvān atha vā dakṣiṇā śirāḥ

73

na bhagne nāvadīrṇe vā śayane prasvapeta ca

nāntardhāne na saṃyukte na ca tiryak kadā cana

74

na nagnaḥ karhi cit snāyān na niśāyāṃ kadā cana

snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇa

75

na cānulimped asnātvā snātvā vāso na nirdhunet

ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ

srajaś ca nāvakarṣeta na bahir dhārayeta ca

76

raktamālyaṃ na dhāryaṃ syāc chuklaṃ dhāryaṃ tu paṇḍitaiḥ

varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho

77

raktaṃ śirasi dhāryaṃ tu tathā vāneyam ity api

kāñcanī caiva yā mālā na sā duṣyati karhi cit

snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate

78

viparyayaṃ na kurvīta vāsaso buddhimān naraḥ

tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca

79

anyad eva bhaved vāsaḥ śayanīye narottama

anyad rathyāsu devānām arcāyām anyad eva hi

80

priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca

pṛthag evānulimpeta kesareṇa ca buddhimān

81

upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ

parvakāleṣu sarveṣu brahma cārī sadā bhavet

82

nālīḍhayā parihataṃ bhakṣayīta kadā cana

tathā noddhṛta sārāṇi pekṣatāṃ nāpradāya ca

83

na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca

pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pṛṣṭhata

84

pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca

udumbaraṃ na khādec ca bhavārthī puruṣottama

85

jaṃ gavyaṃ ca yan māṃsaṃ māyūraṃ caiva varjayet

varjayec chuṣka māṃsaṃ ca tathā paryuṣitaṃ ca yat

86

na pāṇau lavaṇaṃ vidvān prāśnīyān na ca rātriṣu

dadhi saktūn na bhuñjīta vṛthā māṃsaṃ ca varjayet

87

vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca

sāyaṃprātaś ca bhuñjīta nāntarāle samāhita

88

vāgyato naikavastraś ca nāsaṃviṣṭaḥ kadā cana

bhūmau sadaiva nāśnīyān nānāsīno na śabdavat

89

toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate

paścād bhuñjīta medhāvī na cāpy anyamanā nara

90

samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara

viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane

91

pānīyaṃ pāyasaṃ sarpir dadhi saktu madhūny api

nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasya cit

92

bhuñjāno manujavyāghranaiva śaṅkāṃ samācaret

dadhi cāpy anupānaṃ vai na kartavyaṃ bhavārthinā

93

camya caiva hastena parisrāvya tathodakam

aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet

94

pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ

jñātiśraiṣṭhyam avāpnoti prayoga kuśalo nara

95

adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca

spṛśaṃś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā

96

aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam

kaniṣṭhikāyāḥpaścāt tu deva tīrtham ihocyate

97

aṅguṣṭhasya ca yan madhyaṃ pradeśinyāś ca bhārata

tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatas tathā

98

parāpavādaṃ na brūyān nāpriyaṃ ca kadā cana

na manuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā

99

patitais tu kathāṃ necched darśanaṃ cāpi varjayet

saṃsargaṃ ca na gaccheta tathāyur vindate mahat

100

na divā maithunaṃ gacchen na kanyāṃ na ca bandhakīm

na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat

101

sve sve tīrthe samācamya kārye samupakalpite

triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven nara

102

indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ

kurvīta pitryaṃ daivaṃ ca veda dṛṣṭena karmaṇā

103

brāhmaṇārthe ca yac chaucaṃ tac ca me śṛṇu kaurava

pravṛttaṃ ca hitaṃ coktvā bhojanādy antayos tathā

104

sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet

niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet

105

vṛddho jñātis tathā mitraṃ daridro yo bhaved api

gṛhe vāsayitavyās te dhanyam āyuṣyam eva ca

106

gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ

gṛheṣv ete na pāpāya tathā vai tailapāyikāḥ

107

uddīpakāś ca gṛdhrāś ca kapotā bhramarās tathā

niviśeyur yadā tatra śāntim eva tadācaret

108

amaṅgalyāni caitāni tathākrośo mahātmanām

mahātmanāṃ ca guhyāni na vaktavyāni karhi cit

109

agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā

vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira

110

bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca

saṃbandhināṃ ca rājendra tathāyur vindate mahat

111

brāhmaṇa sthapatibhyāṃ ca nirmitaṃ yan niveśanam

tad āvaset sadā prājño bhavārthī manujeśvara

112

saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret

na bhuñjīta ca medhāvī tathāyur vindate mahat

113

naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam

pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā

114

varjanīyāś ca vai nityaṃ saktavo niśi bhārata

śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane

115

sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret

dvijac chedaṃ na kurvīta bhuktvā naca samācaret

116

mahākulaprasūtāṃ ca praśastāṃ lakṣaṇais tathā

vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati

117

apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā

putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata

118

kanyā cotpādya dātavyā kulaputrāya dhīmate

putrā niveśyāś ca kulād bhṛtyā labhyāś ca bhārata

119

iraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca

nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ

na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata

120

dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet

jyotiṣe yāni coktāni tāni sarvāṇi varjayet

121

prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ

udaṅmukho vā rājendra tathāyur vindate mahat

122

parivādaṃ na ca brūyāt pareṣām ātmanas tathā

parivādo na dharmāya procyate bharatarṣabha

123

varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama

samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā

124

vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām

tathātikṛṣṇa varṇāṃ ca varṇotkṛṣṭāṃ ca varjayet

125

ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ

piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi

126

apasmāri kule jātāṃ nihīnāṃ caiva varjayet

śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara

127

lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ

manojñā darśanīyā ca tāṃ bhavān voḍhum arhati

128

mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira

avarā patitā caiva na grāhyā bhūtim icchatā

129

agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ

vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret

130

na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ

anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet

131

anāyuṣyo divā svapnas tathābhyudita śāyitā

prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai

132

pāradāryam anāyuṣyaṃ nāpitoccchiṣṭatā tathā

yatnato vai na kartavyam abhyāsaś caiva bhārata

133

saṃdhyāṃ na bhuñjen na snāyān na purīṣaṃ samutsṛjet

prayataś ca bhavet tasyāṃ na ca kiṃ cit samācaret

134

brāhmaṇān pūjayec cāpi tathā snātvā narādhipa

devāṃś ca praṇamet snāto gurūṃś cāpy abhivādayet

135

animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ

animantrite hy anāyuṣyaṃ gamanaṃ tatra bhārata

136

na caikena parivrājyaṃ na gantavya tathā niśi

anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset

137

mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam

hitaṃ vāpy ahitaṃ vāpi na vicāryaṃ nararṣabha

138

dhanurvede ca vede ca yatnaḥ kāryo narādhipa

hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha

yatnavān bhava rājendra yatnavān sukham edhate

139

apradhṛṣyaś ca śatrūṇāṃ bhṛtyānāṃ svajanasya ca

prajāpālanayuktaś ca na kṣatiṃ labhate kva cit

140

yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata

gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa

141

purāṇam itihāsāś ca tathākhyānāni yāni ca

mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te

142

patnīṃ rajasvalāṃ caiva nābhigacchen na cāhvayet

snātāṃ caturthe divase rātrau gacched vicakṣaṇa

143

pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet

etena vidhinā patnīm upagaccheta paṇḍita

144

jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ

yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ

ata ūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa

145

eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ

śeṣas traividya vṛddhebhyaḥ pratyāhāryo yudhiṣṭhira

146

cāro bhūtijanana ācāraḥ kīrtivardhanaḥ

ācārād vardhate hy āyur ācāro hanty alakṣaṇam

147

gamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate

ācāra prabhavo dharmo dharmād āyur vivardhate

148

etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat

anukampatā sarvavarṇān brahmaṇā samudāhṛtam
kalevala finnish| kalevala finnish
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 107