Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 112

Book 13. Chapter 112

The Mahabharata In Sanskrit


Book 13

Chapter 112

1

[य]

पितामह महाबाहॊ सर्वशास्त्रविशारद

शरॊतुम इच्छामि मर्त्यानां संसारविधुम उत्तमम

2

केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि

पराप्नुवन्त्य उत्तमं सवर्गं कथं च नरकं नृप

3

मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः

परयान्त्य अमुं लॊकम इतः कॊ वै तान अनुगच्छति

4

[भ]

असाव आयाति भगवान बृहस्पतिर उदारधीः

पृच्छैनं सुमहाभागम एतद गुह्यं सनातनम

5

नैतद अन्येन शक्यं हि वक्तुं केन चिद अद्य वै

वक्ता बृहस्पतिसमॊ न हय अन्यॊ विद्यते कव चित

6

[व]

तयॊः संवदतॊर एवं पार्थ गाङ्गेययॊस तदा

आजगाम विशुद्धात्मा भगवान स बृहस्पतिः

7

ततॊ राजा समुत्थाय धृतराष्ट्र पुरॊगमः

पूजाम अनुपमां चक्रे सर्वे ते च सभा सदः

8

ततॊ धर्मसुतॊ राजा भगवन्तं बृहस्पतिम

उपगम्य यथान्यायं परश्नं पप्रच्छ सुव्रतः

9

[य]

भगवन सव धर्मज्ञ सर्वशास्त्रविशारद

मर्त्यस्य कः सहायॊ वै पिता माता सुतॊ गुरुः

10

मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः

गच्छन्त्य अमुत्र लॊकं वै क एनम अनुगच्छति

11

[ब]

एकः परसूतॊ राजेन्द्र जन्तुर एकॊ विनश्यति

एकस तरति दुर्गाणि गच्छत्य एकश च दुर्गतिम

12

असहायः पिता माता तथा भराता सुतॊ गुरुः

जञातिसंबन्धिवर्गश च मित्रवर्गस तथैव च

13

मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः

मुहूर्तम उपतिष्ठन्ति ततॊ यान्ति पराङ्मुखाः

तैस तच छरीरम उत्सृष्टं धर्म एकॊ ऽनुगच्छति

14

तस्माद धर्मः सहायार्थे सेवितव्यः सदा नृभिः

पराणी धर्मसमायुक्तॊ नरकायॊपपद्यते

15

तस्मान नयायागतैर अर्थैर धर्मं सेवेत पण्डितः

धर्म एकॊ मनुष्याणां सहायः पारलौकिकः

16

लॊभान मॊहाद अनुक्रॊशाद भयाद वाप्य अबहुश्रुतः

नरः करॊत्य अकार्याणि परार्थे लॊभमॊहितः

17

धर्मश चार्थश च कामश च तरितयं जीविते फलम

एतत तरयम अवाप्तव्यम अधर्मपरिवर्जितम

18

[य]

शरुतं भगवतॊ वाक्यं धर्मयुक्तं परं हितम

शरीरविचयं जञातुं बुद्धिस तु मम जायते

19

मृतं शरीररहितं सूक्ष्मम अव्यक्ततां गतम

अचक्षुर विषयं पराप्तं कथं धर्मॊ ऽनुगच्छति

20

[ब]

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

बुद्धिर आत्मा च सहिता धर्मं पश्यन्ति नित्यदा

21

पराणिनाम इह सर्वेषां साक्षिभूतानि चानिशम

एतैश च स ह धर्मॊ ऽपि तं जीवम अनुगच्छति

22

तवग अस्थि मांसं शुक्रं च शॊणितं च महामते

शरीरं वर्जयन्त्य एते जीवितेन विवर्जितम

23

ततॊ धर्मसमायुक्तः स जीवः सुखम एधते

इह लॊके परे चैव किं भूयः कथयामि ते

24

[य]

अनुदर्शितं भगवता यथा धर्मॊ ऽनुगच्छति

एतत तु जञातुम इच्छामि कथं रेतः परवर्तते

25

[ब]

अन्नम अश्नन्ति ये देवाः शरीरस्था नरेश्वर

पृथिवी वायुर आकाशम आपॊ जयॊतिर मनस तथा

26

ततस तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु

मनःषष्ठेषु शुद्धात्मन रेतः संपद्यते महत

27

ततॊ गर्भः संभवति सत्रीपुंसॊः पार्थ संगमे

एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि

28

[य]

आख्यातम एतद भवता गर्भः संजायते यथा

यथा जातस तु पुरुषः परपद्यति तद उच्यताम

29

[ब]

आसन्न मात्रः सततं तैर भूतैर अभिभूयते

विप्रमुक्तश च तैर भूतैः पुनर यात्य अपरां गतिम

स तु भूतसमायुक्तः पराप्नुते जीव एव ह

30

ततॊ ऽसय कर्म पश्यन्ति शुभं वा यदि वाशुभम

देवताः पञ्च भूतस्थाः किं भूयः शरॊतुम इच्छसि

31

[य]

तवग अस्थि मांसम उत्सृज्य तैश च भूतैर विवर्जितः

जीवः स भगवान कवस्थः सुखदुःखे समश्नुते

32

[ब]

जीवॊ धर्मसमायुक्तः शीघ्रं रेतस्त्वम आगतः

सत्रीणां पुष्पं समासाद्य सूते कालेन भारत

33

यमस्य पुरुषैः कलेशं यमस्य पुरुषैर वधम

दुःखं संसारचक्रं च नरः कलेशं च विन्दति

34

इह लॊके च स पराणी जन्मप्रभृति पार्थिव

सवकृतं कर्म वै भुङ्क्ते धर्मस्य फलम आश्रितः

35

यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते

ततः स पुरुषॊ भूत्वा सेवते नित्यदा सुखम

36

अथान्तरा तु धर्मस्य अधर्मम उपसेवते

सुखस्यानन्तरं दुःखं स जीवॊ ऽपय अधिगच्छति

37

अधर्मेण समायुक्तॊ यमस्य विषयं गतः

महद दुःखं समासाद्य तिर्यग्यॊनौ परजायते

38

कर्मणा येन येनेह यस्यां यॊनौ परजायते

जीवॊ मॊहसमायुक्तस तन मे निगदतः शृणु

39

यद एतद उच्यते शास्त्रे सेतिहासे सच छन्दसि

यमस्य विषयं घॊरं मर्त्यॊ लॊकः परपद्यते

40

अधीत्य चतुरॊ वेदान दविजॊ मॊहसमन्वितः

पतितात परतिगृह्याथ खरयॊनौ परजायते

41

खरॊ जीवति वर्षाणि दश पञ्च च भारत

खरॊ मृतॊ बलीवर्दः सप्त वर्षाणि जीवति

42

बलीवर्दॊ मृतश चापि जायते बरह्मराक्षसः

बरह्मरक्षस तु तरीन मासांस ततॊ जायति बराह्मणः

43

पतितं याजयित्वा तु कृमियॊनौ परजायते

तत्र जीवति वर्षाणि दश पञ्च च भारत

44

कृमिभावात परमुक्तस तु ततॊ जायति गर्दभः

गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः

शवा वर्षम एकं भवति ततॊ जायति मानवः

45

उपाध्यायस्य यः पापं शिष्यः कुर्याद अबुद्धिमान

स जीव इह संसारांस तरीन आप्नॊति न संशयः

46

पराक शवा भवति राजेन्द्र ततः करव्यात ततः खरः

ततः परेतः परिक्लिष्टः पश्चाज जायति बराह्मणः

47

मनसापि गुरॊर भार्यां यः शिष्यॊ याति पापकृत

सॊ ऽधमान याति संसारान अधर्मेणेह चेतसा

48

शवयॊनौ तु स संभूतस तरीणि वर्षाणि जीवति

तत्रापि निधनं पराप्तः कृमियॊनौ परजायते

49

कृमिभावम अनुप्राप्तॊ वर्षम एकं स जीवति

ततस तु निधनं पराप्य बरह्मयॊनौ परजायते

50

यदि पुत्रसमं शिष्यं गुरुर हन्याद अकारणे

आत्मनः कामकारेण सॊ ऽपि हंसः परजायते

51

पितरं मातरं वापि यस तु पुत्रॊ ऽवमन्यते

सॊ ऽपि राजन मृतॊ जन्तुः पूर्वं जायति गर्दभः

52

खरॊ जीवति मासांस तु दश शवा च चतुर्दश

बिडालः सप्त मासांस तु ततॊ जायति मानवः

53

माता पितरम आक्रुश्य सारिकः संप्रजायते

ताडयित्वा तु ताव एव जायते कच्छपॊ नृप

54

कच्छपॊ दशवर्षाणि तरीणि वर्षाणि शक्यकः

वयालॊ भूत्वा तु षण मासांस ततॊ जायति मानुषः

55

भर्तृपिण्डम उपाश्नन यॊ राजद्विष्टानि सेवते

सॊ ऽपि मॊहसमापन्नॊ मृतॊ जायति वानरः

56

वानरॊ दशवर्षाणि तरीणि वर्षाणि मूषकः

शवा भूत्वा चाथ षण मासांस ततॊ जायति मानुषः

57

नयासापहर्ता तु नरॊ यमस्य विषयं गतः

संसाराणां शतं गत्वा कृमियॊनौ परजायते

58

तत्र जीवति वर्षाणि दश पञ्च च भारत

दुष्कृतस्य कषयं गत्वा ततॊ जायति मानुषः

59

असूयकॊ नरश चापि मृतॊ जायति शार्ङ्गकः

विश्वासहर्ता तु नरॊ मीनॊ जायति दुर्मतिः

60

भूत्वा मीनॊ ऽषट वर्षाणि मृगॊ जायति भारत

मृगस तु चतुरॊ मासांस ततश छागः परजायते

61

छागस तु निधनं पराप्य पूर्णे संवत्सरे ततः

कीटः संजायते जन्तुस ततॊ जायति मानुषः

62

धान्यान यवांस तिलान माषान कुलत्थान सर्षपांश चणान

कलायान अथ मुद्गांश च गॊधूमान अतसीस तथा

63

सस्यस्यान्यस्य हर्ता च मॊहाज जन्तुर अचेतनः

स जायते महाराज मूषकॊ निरपत्रपः

64

ततः परेत्य महाराज पुनर जायति सूकरः

सूकरॊ जातमात्रस तु रॊगेण मरियते नृप

65

शवा ततॊ जायते मूढः कर्मणा तेन पार्थिव

शवा भूत्वा पञ्चवर्षाणि ततॊ जायति मानुषः

66

परदाराभिमर्शं तु कृत्वा जायति वै वृकः

शवा सृगालस ततॊ गृध्रॊ वयालः कङ्कॊ बकस तथा

67

भरातुर भार्यां तु दुर्बुद्धिर यॊ धर्षयति मॊहितः

पुंस्कॊलिकत्वम आप्नॊति सॊ ऽपि संवत्सरं नृप

68

सखिभार्यां गुरॊर भार्यां राजभार्यां तथैव च

परधर्षयित्वा कामाद यॊ मृतॊ जायति सूकरः

69

सूकरः पञ्चवर्षाणि पञ्चवर्षाणि शवाविधः

पिपीलकस तु षण मासान कीटः सयान मासम एव च

एतान आसाद्य संसारान कृमियॊनौ परजायते

70

तत्र जीवति मासांस तु कृमियॊनौ तरयॊ दश

ततॊ ऽधर्मक्षयं कृत्वा पुनर जायति मानुषः

71

उपस्थिते विवाहे तु दाने यज्ञे ऽपि वाभिभॊ

मॊहात करॊति यॊ विघ्नं स मृतॊ जायते कृमिः

72

कृमिर जीवति वर्षाणि दश पञ्च च भारत

अधर्मस्य कषयं कृत्वा ततॊ जायति मानुषः

73

पूर्वं दत्त्वा तु यः कन्यां दवितीये संप्रयच्छति

सॊ ऽपि राजन मृतॊ जन्तुः कृमियॊनौ परजायते

74

तत्र जीवति वर्षाणि तरयॊदश युधिष्ठिर

अधर्मसंक्षये युक्तस ततॊ जायति मानुषः

75

देवकार्यम उपाकृत्य पितृकार्यम अथापि च

अनिर्वाप्य समश्नन वै ततॊ जायति वायसः

76

वायसॊ दशवर्षाणि ततॊ जायति कुक्कुटः

जायते लवकश चापि मासं तस्मात तु मानुषः

77

जयेष्ठं पितृसमं चापि भरातरं यॊ ऽवमन्यते

सॊ ऽपि मृत्युम उपागम्य करौञ्चयॊनौ परजायते

78

करौञ्चॊ जीवति मासांस तु दश दवौ सप्त पञ्च च

ततॊ निधनम आपन्नॊ मानुषत्वम उपाश्नुते

79

वृषलॊ बराह्मणी गत्वा कृमियॊनौ परजायते

तत्रापत्यं समुत्पाद्य ततॊ जायति मूषकः

80

कृतघ्नस तु मृतॊ राजन यमस्य विषयं गतः

यमस्य विषये करुद्धैर वधं पराप्नॊति दारुणम

81

पट्टिसं मुद्गरं शूलम अग्निकुम्भं च दारुणम

असि पत्रवनं घॊरं वालुकां कूटशाल्मलीम

82

एताश चान्याश च बह्वीः स यमस्य विषयं गतः

यातनाः पराप्य तत्रॊग्रास ततॊ वध्यति भारत

83

संसारचक्रम आसाद्य कृमियॊनौ परजायते

कृमिर भवति वर्षाणि दश पञ्च च भारत

ततॊ गर्भं समासाद्य तत्रैव मरियते शिशुः

84

ततॊ गर्भशतैर जन्तुर बहुभिः संप्रजायते

संसारांश च बहून गत्वा ततस तिर्यक परजायते

85

मृतॊ दुःखम अनुप्राप्य बहुवर्षगणान इह

अपुनर्भाव संयुक्तस ततः कूर्मः परजायते

86

अशस्त्रं पुरुषं हत्वा स शस्त्रः पुरुषाधमः

अर्थार्थी यदि वा वैरी स मृतॊ जायते खरः

87

खरॊ जीवति वर्षे दवे ततः शास्तेण वध्यते

स मृतॊ मृगयॊनौ तु नित्यॊद्विग्नॊ ऽभिजायते

88

मृगॊ वध्यति शस्त्रेण गते संवत्सरे तु सः

हतॊ मृगस ततॊ मीनः सॊ ऽपि जालेन बध्यते

89

मासे चतुर्थे संप्राप्ते शवापदः संप्रजायते

शवापदॊ दशवर्षाणि दवीपी वर्षाणि पञ्च च

90

ततस तु निधनं पराप्तः कालपर्याय चॊदितः

अधर्मस्य कषयं कृत्वा ततॊ जायति मानुषः

91

सत्रियं हत्वा तु दुर्बुद्धिर यमस्य विषयं गतः

बहून कलेशान समासाद्य संसारांश चैव विंशतिम

92

ततः पश्चान महाराज कृमियॊनौ परजायते

कृमिर विंशतिवर्षाणि भूत्वा जायति मानुषः

93

भॊजनं चॊरयित्वा तु मक्षिका जायते नरः

मक्षिका संह वशगॊ बहून मासान भवत्य उत

ततः पापक्षयं कृत्वा मानुषत्वम अवाप्नुते

94

वाद्यं हृत्वा तु पुरुषॊ मशकः संप्रजायते

तथा पिण्याक संमिश्रम अशनं चॊरयेन नरः

स जायते बभ्रु समॊ दारुणॊ मूषकॊ नरः

95

लवणं चॊरयित्वा तु चीरी वाकः परजायते

दधि हृत्वा बकश चापि पलवॊ मत्स्यान असंस्कृतान

96

चॊरयित्वा पयश चापि बलाका संप्रजायते

यस तु चॊरयते तैलं तैलपायी परजायते

चॊरयित्वा तु दुर्बुद्धिर मधु दंशः परजायते

97

अयॊ हृत्वा तु दुर्बुद्धिर वायसॊ जायते नरः

पायसं चॊरयित्वा तु तित्तिरित्वम अवाप्नुते

98

हृत्वा पैष्टम अपूपं च कुम्भॊलूकः परजायते

फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः

99

कांस्यं हृत्वा तु दुर्बुद्धिर हारीतॊ जायते नरः

राजतं भाजनं हृत्वा कपॊतः संप्रजायते

100

हृत्वा तु काञ्चनं भाण्डं कृमियॊनौ परजायते

करौञ्चः कार्पासिकं हृत्वा मृतॊ जायति मानवः

101

चॊरयित्वा नरः पट्टं तव आविकं वापि भारत

कषौमं च वस्त्रम आदाय शशॊ जन्तुः परजायते

102

वर्णान हृत्वा तु पुरुषॊ मृतॊ जायति बर्हिणः

हृत्वा रक्तानि वस्त्राणि जायते जीव जीविकः

103

वर्णकादींस तथा गन्धांश चॊरयित्वा तु मानवः

छुच्छुन्दरित्वम आप्नॊति राजँल लॊभपरायणः

104

विश्वासेन तु निक्षिप्तं यॊ निह्नवति मानवः

स गतासुर नरस तादृङ मत्स्ययॊनौ परजायते

105

मत्स्ययॊनिम अनुप्राप्य मृतॊ जायति मानुषः

मानुषत्वम अनुप्राप्य कषीणायुर उपपद्यते

106

पापानि तु नरः कृत्वा तिर्यग जायति भारत

न चात्मनः परमाणं ते धर्मं जानन्ति किं चन

107

ये पापानि नराः कृत्वा निरस्यन्ति वरतैः सदा

सुखदुःखसमायुक्ता वयाधितास ते भवन्त्य उत

108

असंवासाः परजायन्ते मलेच्छाश चापि न संशयः

नराः पापसमाचारा लॊभमॊहसमन्विताः

109

वर्जयन्ति च पापानि जन्मप्रभृति ये नराः

अरॊगा रूपवन्तस ते धनिनश च भवन्त्य उत

110

सत्रियॊ ऽपय एतेन कल्पेन कृत्वा पापम अवाप्नुयुः

एतेषाम एव जन्तूनां पत्नीत्वम उपयान्ति ताः

111

परस्वहरणे दॊषाः सर्व एव परकीर्तिताः

एतद वै लेश मात्रेण कथितं ते मयानघ

अपरस्मिन कथा यॊगे भूयः शरॊष्यसि भारत

112

एतन मया महाराज बरह्मणॊ वदतः पुरा

सुरर्षीणां शरुतं मध्ये पृष्टश चापि यथातथम

113

मयापि तव कार्त्स्न्येन यथावद अनुवर्णितम

एतच छरुत्वा महाराज धर्मे कुरु मनः सदा

1

[y]

pitāmaha mahābāho sarvaśāstraviśārada

śrotum icchāmi martyānāṃ saṃsāravidhum uttamam

2

kena vṛttena rājendra vartamānā narā yudhi

prāpnuvanty uttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa

3

mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭa samaṃ janāḥ

prayānty amuṃ lokam itaḥ ko vai tān anugacchati

4

[bh]

asāv āyāti bhagavān bṛhaspatir udāradhīḥ

pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam

5

naitad anyena śakyaṃ hi vaktuṃ kena cid adya vai

vaktā bṛhaspatisamo na hy anyo vidyate kva cit

6

[v]

tayoḥ saṃvadator evaṃ pārtha gāṅgeyayos tadā

ājagāma viśuddhātmā bhagavān sa bṛhaspati

7

tato rājā samutthāya dhṛtarāṣṭra purogamaḥ

pūjām anupamāṃ cakre sarve te ca sabhā sada

8

tato dharmasuto rājā bhagavantaṃ bṛhaspatim

upagamya yathānyāyaṃ praśnaṃ papraccha suvrata

9

[y]

bhagavan sava dharmajña sarvaśāstraviśārada

martyasya kaḥ sahāyo vai pitā mātā suto guru

10

mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭa samaṃ janāḥ

gacchanty amutra lokaṃ vai ka enam anugacchati

11

[b]

ekaḥ prasūto rājendra jantur eko vinaśyati

ekas tarati durgāṇi gacchaty ekaś ca durgatim

12

asahāyaḥ pitā mātā tathā bhrātā suto guruḥ

jñātisaṃbandhivargaś ca mitravargas tathaiva ca

13

mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭa samaṃ janāḥ

muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ

tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati

14

tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ

prāṇī dharmasamāyukto narakāyopapadyate

15

tasmān nyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ

dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukika

16

lobhān mohād anukrośād bhayād vāpy abahuśrutaḥ

naraḥ karoty akāryāṇi parārthe lobhamohita

17

dharmaś cārthaś ca kāmaś ca tritayaṃ jīvite phalam

etat trayam avāptavyam adharmaparivarjitam

18

[y]

śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam

śarīravicayaṃ jñātuṃ buddhis tu mama jāyate

19

mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam

acakṣur viṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati

20

[b]

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā

21

prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam

etaiś ca sa ha dharmo 'pi taṃ jīvam anugacchati

22

tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate

śarīraṃ varjayanty ete jīvitena vivarjitam

23

tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate

iha loke pare caiva kiṃ bhūyaḥ kathayāmi te

24

[y]

anudarśitaṃ bhagavatā yathā dharmo 'nugacchati

etat tu jñātum icchāmi kathaṃ retaḥ pravartate

25

[b]

annam aśnanti ye devāḥ śarīrasthā nareśvara

pṛthivī vāyur ākāśam āpo jyotir manas tathā

26

tatas tṛpteṣu rājendra teṣu bhūteṣu pañcasu

manaḥṣaṣṭheṣu śuddhātman retaḥ saṃpadyate mahat

27

tato garbhaḥ saṃbhavati strīpuṃsoḥ pārtha saṃgame

etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi

28

[y]

ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā

yathā jātas tu puruṣaḥ prapadyati tad ucyatām

29

[b]

āsanna mātraḥ satataṃ tair bhūtair abhibhūyate

vipramuktaś ca tair bhūtaiḥ punar yāty aparāṃ gatim

sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha

30

tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham

devatāḥ pañca bhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi

31

[y]

tvag asthi māṃsam utsṛjya taiś ca bhūtair vivarjitaḥ

jīvaḥ sa bhagavān kvasthaḥ sukhaduḥkhe samaśnute

32

[b]

jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ

strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata

33

yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham

duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati

34

iha loke ca sa prāṇī janmaprabhṛti pārthiva

svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśrita

35

yadi dharmaṃ yathāśakti janmaprabhṛti sevate

tataḥ sa puruṣo bhūtvā sevate nityadā sukham

36

athāntarā tu dharmasya adharmam upasevate

sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati

37

adharmeṇa samāyukto yamasya viṣayaṃ gataḥ

mahad duḥkhaṃ samāsādya tiryagyonau prajāyate

38

karmaṇā yena yeneha yasyāṃ yonau prajāyate

jīvo mohasamāyuktas tan me nigadataḥ śṛu

39

yad etad ucyate śāstre setihāse sac chandasi

yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate

40

adhītya caturo vedān dvijo mohasamanvitaḥ

patitāt pratigṛhyātha kharayonau prajāyate

41

kharo jīvati varṣāṇi daśa pañca ca bhārata

kharo mṛto balīvardaḥ sapta varṣāṇi jīvati

42

balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ

brahmarakṣas tu trīn māsāṃs tato jāyati brāhmaṇa

43

patitaṃ yājayitvā tu kṛmiyonau prajāyate

tatra jīvati varṣāṇi daśa pañca ca bhārata

44

kṛmibhāvāt pramuktas tu tato jāyati gardabhaḥ

gardabhaḥ pañcavarṣāṇi pañcavarṣāṇi sūkaraḥ

śvā varṣam ekaṃ bhavati tato jāyati mānava

45

upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān

sa jīva iha saṃsārāṃs trīn āpnoti na saṃśaya

46

prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ

tataḥ pretaḥ parikliṣṭaḥ paścāj jāyati brāhmaṇa

47

manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt

so 'dhamān yāti saṃsārān adharmeṇeha cetasā

48

vayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati

tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate

49

kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati

tatas tu nidhanaṃ prāpya brahmayonau prajāyate

50

yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe

ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate

51

pitaraṃ mātaraṃ vāpi yas tu putro 'vamanyate

so 'pi rājan mṛto jantuḥ pūrvaṃ jāyati gardabha

52

kharo jīvati māsāṃs tu daśa śvā ca caturdaśa

biḍālaḥ sapta māsāṃs tu tato jāyati mānava

53

mātā pitaram ākruśya sārikaḥ saṃprajāyate

tāḍayitvā tu tāv eva jāyate kacchapo nṛpa

54

kacchapo daśavarṣāṇi trīṇi varṣāṇi śakyakaḥ

vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyati mānuṣa

55

bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate

so 'pi mohasamāpanno mṛto jāyati vānara

56

vānaro daśavarṣāṇi trīṇi varṣāṇi mūṣakaḥ

śvā bhūtvā cātha ṣaṇ māsāṃs tato jāyati mānuṣa

57

nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ

saṃsārāṇāṃ ataṃ gatvā kṛmiyonau prajāyate

58

tatra jīvati varṣāṇi daśa pañca ca bhārata

duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣa

59

asūyako naraś cāpi mṛto jāyati śārṅgakaḥ

viśvāsahartā tu naro mīno jāyati durmati

60

bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata

mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate

61

chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ

kīṭaḥ saṃjāyate jantus tato jāyati mānuṣa

62

dhānyān yavāṃs tilān māṣān kulatthān sarṣapāṃś caṇān

kalāyān atha mudgāṃś ca godhūmān atasīs tathā

63

sasyasyānyasya hartā ca mohāj jantur acetanaḥ

sa jāyate mahārāja mūṣako nirapatrapa

64

tataḥ pretya mahārāja punar jāyati sūkaraḥ

sūkaro jātamātras tu rogeṇa mriyate nṛpa

65

vā tato jāyate mūḍhaḥ karmaṇā tena pārthiva

śvā bhūtvā pañcavarṣāṇi tato jāyati mānuṣa

66

paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ

śvā sṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā

67

bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ

puṃskolikatvam āpnoti so 'pi saṃvatsaraṃ nṛpa

68

sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca

pradharṣayitvā kāmād yo mṛto jāyati sūkara

69

sūkaraḥ pañcavarṣāṇi pañcavarṣāṇi śvāvidhaḥ

pipīlakas tu ṣaṇ māsān kīṭaḥ syān māsam eva ca

etān āsādya saṃsārān kṛmiyonau prajāyate

70

tatra jīvati māsāṃs tu kṛmiyonau trayo daśa

tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣa

71

upasthite vivāhe tu dāne yajñe 'pi vābhibho

mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmi

72

kṛmir jīvati varṣāṇi daśa pañca ca bhārata

adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣa

73

pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye saṃprayacchati

so 'pi rājan mṛto jantuḥ kṛmiyonau prajāyate

74

tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira

adharmasaṃkṣaye yuktas tato jāyati mānuṣa

75

devakāryam upākṛtya pitṛkāryam athāpi ca

anirvāpya samaśnan vai tato jāyati vāyasa

76

vāyaso daśavarṣāṇi tato jāyati kukkuṭaḥ

jāyate lavakaś cāpi māsaṃ tasmāt tu mānuṣa

77

jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate

so 'pi mṛtyum upāgamya krauñcayonau prajāyate

78

krauñco jīvati māsāṃs tu daśa dvau sapta pañca ca

tato nidhanam āpanno mānuṣatvam upāśnute

79

vṛṣalo brāhmaṇī gatvā kṛmiyonau prajāyate

tatrāpatyaṃ samutpādya tato jāyati mūṣaka

80

kṛtaghnas tu mṛto rājan yamasya viṣayaṃ gataḥ

yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam

81

paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam

asi patravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm

82

etāś cānyāś ca bahvīḥ sa yamasya viṣayaṃ gataḥ

yātanāḥ prāpya tatrogrās tato vadhyati bhārata

83

saṃsāracakram āsādya kṛmiyonau prajāyate

kṛmir bhavati varṣāṇi daśa pañca ca bhārata

tato garbhaṃ samāsādya tatraiva mriyate śiśu

84

tato garbhaśatair jantur bahubhiḥ saṃprajāyate

saṃsārāṃś ca bahūn gatvā tatas tiryak prajāyate

85

mṛto duḥkham anuprāpya bahuvarṣagaṇān iha

apunarbhāva saṃyuktas tataḥ kūrmaḥ prajāyate

86

aśastraṃ puruṣaṃ hatvā sa śastraḥ puruṣādhamaḥ

arthārthī yadi vā vairī sa mṛto jāyate khara

87

kharo jīvati varṣe dve tataḥ śāsteṇa vadhyate

sa mṛto mṛgayonau tu nityodvigno 'bhijāyate

88

mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ

hato mṛgas tato mīnaḥ so 'pi jālena badhyate

89

māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate

śvāpado daśavarṣāṇi dvīpī varṣāṇi pañca ca

90

tatas tu nidhanaṃ prāptaḥ kālaparyāya coditaḥ

adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣa

91

striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ

bahūn kleśān samāsādya saṃsārāṃś caiva viṃśatim

92

tataḥ paścān mahārāja kṛmiyonau prajāyate

kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣa

93

bhojanaṃ corayitvā tu makṣikā jāyate naraḥ

makṣikā saṃha vaśago bahūn māsān bhavaty uta

tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute

94

vādyaṃ hṛtvā tu puruṣo maśakaḥ saṃprajāyate

tathā piṇyāka saṃmiśram aśanaṃ corayen naraḥ

sa jāyate babhru samo dāruṇo mūṣako nara

95

lavaṇaṃ corayitvā tu cīrī vākaḥ prajāyate

dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān

96

corayitvā payaś cāpi balākā saṃprajāyate

yas tu corayate tailaṃ tailapāyī prajāyate

corayitvā tu durbuddhir madhu daṃśaḥ prajāyate

97

ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ

pāyasaṃ corayitvā tu tittiritvam avāpnute

98

hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate

phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlika

99

kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ

rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate

100

hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate

krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānava

101

corayitvā naraḥ paṭṭaṃ tv āvikaṃ vāpi bhārata

kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate

102

varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ

hṛtvā raktāni vastrāṇi jāyate jīva jīvika

103

varṇakādīṃs tathā gandhāṃś corayitvā tu mānavaḥ

chucchundaritvam āpnoti rājaṁl lobhaparāyaṇa

104

viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ

sa gatāsur naras tādṛṅ matsyayonau prajāyate

105

matsyayonim anuprāpya mṛto jāyati mānuṣaḥ

mānuṣatvam anuprāpya kṣīṇāyur upapadyate

106

pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata

na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃ cana

107

ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā

sukhaduḥkhasamāyuktā vyādhitās te bhavanty uta

108

asaṃvāsāḥ prajāyante mlecchāś cāpi na saṃśayaḥ

narāḥ pāpasamācārā lobhamohasamanvitāḥ

109

varjayanti ca pāpāni janmaprabhṛti ye narāḥ

arogā rūpavantas te dhaninaś ca bhavanty uta

110

striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ

eteṣām eva jantūnāṃ patnītvam upayānti tāḥ

111

parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ

etad vai leśa mātreṇa kathitaṃ te mayānagha

aparasmin kathā yoge bhūyaḥ śroṣyasi bhārata

112

etan mayā mahārāja brahmaṇo vadataḥ purā

surarṣīṇāṃ rutaṃ madhye pṛṣṭaś cāpi yathātatham

113

mayāpi tava kārtsnyena yathāvad anuvarṇitam

etac chrutvā mahārāja dharme kuru manaḥ sadā
luiseno indians food| luiseno indians history
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 112