Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 2

Book 13. Chapter 2

The Mahabharata In Sanskrit


Book 13

Chapter 2

1

[य]

पितामह महाप्राज्ञ सर्वशास्त्रविशारद

शरुतं मे महद आख्यानम इदं मतिमतां वर

2

भूयस तु शरॊतुम इच्छामि धर्मार्थसहितं नृप

कथ्यमानं तवया किं चित तन मे वयाख्यातुम अर्हसि

3

केन मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः

इत्य एतत सर्वम आचक्ष्व तत्त्वेन मम पार्थिव

4

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

यथा मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः

5

मनॊः परजापते राजन्न इक्ष्वाकुर अभवत सुतः

तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः

6

दशमस तस्य पुत्रस तु दशाश्वॊ नाम भारत

माहिष्मत्याम अभूद राजा धर्म आत्मा सत्यविक्रमः

7

दशाश्वस्य सुतस तव आसीद राजा परमधार्मिकः

सत्ये तपसि दाने च यस्य नित्यं रतं मनः

8

मदिराश्व इति खयातः पृथिव्यां पृथिवीपतिः

धनुर्वेदे च वेदे च निरतॊ यॊ ऽभवत सदा

9

मरिदाश्वस्य पुत्रस तु दयुतिमान नाम पार्थिवः

महाभागॊ महातेजा महासत्त्वॊ महाबलः

10

पुत्रॊ दयुतिमतस तव आसीत सुवीरॊ नाम पार्थिवः

धर्मात्मा कॊशवांश चापि देवराज इवापरः

11

सुवीरस्य तु पुत्रॊ ऽभूत सर्वसंग्राम दुर्जयः

दुर्जयेत्य अभिविख्यातः सर्वशास्त्रविशारदः

12

दुर्जयस्येन्द्र वपुषः पुत्रॊ ऽगनिसदृशद्युतिः

दुर्यॊधनॊ नाम महान राजासीद राजसत्तम

13

तस्येन्द्र समवीर्यस्य संग्रामेष्व अनिवर्तिनः

विषयश च परभावश च तुल्यम एवाभ्यवर्तत

14

रत्नैर धनैश च पशुभिः सस्यैश चापि पृथग्विधैः

नगरं विषयश चास्य परतिपूर्णं तदाभवत

15

न तस्य विषये चाभूत कृपणॊ नापि दुर्गतः

वयाधितॊ वा कृशॊ वापि तस्मिन नाभून नरः कव चित

16

सुदक्षिणॊ मधुरवाग अनसूयुर जितेन्द्रियः

धर्मात्मा चानृशंसश च विक्रान्तॊ ऽथाविकत्थनः

17

यज्वा वदान्यॊ मेधावी बरह्मण्यः सत्यसंगरः

न चावमन्ता दाता च वेदवेदाङ्गपारगः

18

तं नर्मदा देव नदी पुण्या शीतजला शिवा

चकमे पुरुषश्रेष्ठं सवेन भावेन भारत

19

तस्य जज्ञे तदा नद्यां कन्या राजीवलॊचना

नाम्ना सुदर्शना राजन रूपेण च सुदर्शना

20

तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर

दुर्यॊधन सुता यादृग अभवद वरवर्णिनी

21

ताम अग्निश चकमे साक्षाद राजकन्यां सुदर्शनाम

भूत्वा च बराह्मणः साक्षाद वरयाम आस तं नृपम

22

दरिद्रश चासवर्णश च ममायम इति पार्थिवः

न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम

23

ततॊ ऽसय वितते यज्ञे नष्टॊ ऽभूद धव्यवाहनः

ततॊ दुर्यॊधनॊ राजा वाक्यम आहर्त्विजस तदा

24

दुष्कृतं मम किं नु सयाद भवतां वा दविजर्षभाः

येन नाशं जगामाग्निः कृतं कुपुरुषेष्व इव

25

न हय अल्पं दुष्कृतं नॊ ऽसति येनाग्निर नाशम आगतः

भवतां वाथ वा मह्यं तत्त्वेनैतद विमृश्यताम

26

एतद राज्ञॊ वचः शरुत्वा विप्रास ते भरतर्षभ

नियता वाग्यताश चैव पावकं शरणं ययुः

27

तान दर्शयाम आस तदा भगवान हव्यवाहनः

सवं रूपं दीप्तिमत कृत्वा शरदर्कसमद्युतिः

28

ततॊ महात्मा तान आह दहनॊ बराह्मणर्षभान

वरयाम्य आत्मनॊ ऽरथाय दुर्यॊधन सुताम इति

29

ततस ते काल्यम उत्थाय तस्मै राज्ञे नयवेदयन

बराह्मणा विस्मिताः सर्वे यद उक्तं चित्रभानुना

30

ततः स राजा तच छरुत्वा वचनं बरह्मवादिनाम

अवाप्य परमं हर्षं तथेति पराह बुद्धिमान

31

परायाचत नृपः शुल्कं भगवन्तं विभावसुम

नित्यं सांनिध्यम इह ते चित्रभानॊ भवेद इति

तम आह भगवान अग्निर एवम अस्त्व इति पार्थिवम

32

ततः सांनिध्यम अध्यापि माहिष्मत्यां विभावसॊः

दृष्टं हि सहदेवेन दिशॊ विजयता तदा

33

ततस तां समलंकृत्य कन्याम अहत वाससम

ददौ दुर्यॊधनॊ राजा पावकाय महात्मने

34

परतिजग्राह चाग्निस तां राजपुत्रीं सुदर्शनाम

विधिना वेद दृष्टेन वसॊर धाराम इवाध्वरे

35

तस्या रूपेण शीलेन कुलेन वपुषा शरिया

अभवत परीतिमान अग्निर गर्भं तस्यां समादधे

36

तस्यां समभवत पुत्रॊ नाम्नाग्नेयः सुदर्शनः

शिशुर एवाध्यगात सर्वं स च बरह्म सनातनम

37

अथौघवान नाम नृपॊ नृगस्यासीत पितामहः

तस्याप्य ओघवती कन्या पुत्रश चौघरथॊ ऽभवत

38

ताम ओघवान ददौ तस्मै सवयम ओघवतीं सुताम

सुदर्शनाय विदुषे भार्यार्थं देवरूपिणाम

39

स गृहस्थाश्रमरतस तया सह सुदर्शनः

कुरुक्षेत्रे ऽवसद राजन्न ओघवत्या समन्वितः

40

गृहस्थश चावजेष्यामि मृत्युम इत्य एव स परभॊ

परतिज्ञाम अकरॊद धीमान दीप्ततेजा विशां पते

41

ताम अथौघवतीं राजन स पावकसुतॊ ऽबरवीत

अतिथेः परतिकूलं ते न कर्तव्यं कथं चन

42

येन येन च तुष्येत नित्यम एव तवयातिथिः

अप्य आत्मनः परदानेन न ते कार्या विचारणा

43

एतद वरतं मम सदा हृदि संपरिवर्तते

गृहस्थानां हि सुश्रॊणि नातिथेर विद्यते परम

44

परमाणं यदि वामॊरु वचस ते मम शॊभने

इदं वचनम अव्यग्रा हृदि तवं धारयेः सदा

45

निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे

नातिथिस ते ऽवमन्तव्यः परमाणं यद्य अहं तव

46

तम अब्रवीद ओघवती यता मूर्ध्नि कृताञ्जलिः

न मे तवद वचनात किं चिद अकर्तव्यं कथं चन

47

जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम

पृष्ठतॊ ऽनवगमद राजन रन्धान्वेषी तदा सदा

48

इध्मार्थं तु गते तस्मिन्न अग्निपुत्रे सुदर्शने

अतिथिर बराह्मणः शरीमांस ताम आहौघवतीं तदा

49

आतिथ्यं दत्तम इच्छामि तवयाद्य वरवर्णिनि

परमाणं यदि धर्मस ते गृहस्थाश्रमसंमतः

50

इत्य उक्ता तेन विप्रेण राजपुत्री यशस्विनी

विधिना परतिजग्राह वेदॊक्तेन विशां पते

51

आसनं चैव पाद्यं च तस्मै दत्त्वा दविजातये

परॊवाचौघवती विप्रं केनार्थः किं ददामि ते

52

ताम अब्रवीत ततॊ विप्रॊ राजपुत्रीं सुदर्शनाम

तवया ममार्थः कल्याणि निर्विशङ्के तद आचर

53

यदि परमाणं धर्मस ते गृहस्थाश्रमसंमतः

परदानेनात्मनॊ राज्ञि कर्तुम अर्हसि मे परियम

54

तथा संछन्द्यमानॊ ऽनयैर ईप्सितैर नृप कन्यया

नान्यम आत्मप्रदानात स तस्या वव्रे वरं दविजः

55

सा तु राजसुता समृत्वा हर्तुर वचनम आदितः

तथेति लज्जमाना सा तम उवाच दविजर्षभम

56

ततॊ रहः स विप्रर्षिः सा चैवॊपविवेश ह

संस्मृत्य भर्तुर वचनं गृहस्थाश्रमकाङ्क्षिणः

57

अथेध्मान समुपादाय स पावकिर उपागमत

मृत्युना रौद्रभावेन नित्यं बन्धुर इवान्वितः

58

ततस तव आश्रमम आगम्य स पावकसुतस तदा

ताम आजुहावौघवतीं कवासि यातेति चासकृत

59

तस्मै परतिवचः सा तु भर्त्रे न परददौ तदा

कराभ्यां तेन विप्रेण सपृष्टा भर्तृव्रता सती

60

उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर एव च

तूष्णींभूताभवत साध्वी न चॊवाचाथ किं चन

61

अथ तां पुनर एवेदं परॊवाच स सुदर्शनः

कव सा साध्वी कव सा याता गरीयः किम अतॊ मम

62

पतिव्रता सत्यशीला नित्यं चैवार्जवे रता

कथं न परत्युदेत्य अद्य समयमाना यथा पुरा

63

उटजस्थस तु तं विप्रः परत्युवाच सुदर्शनम

अतिथिं विद्धि संप्राप्तं पावके बराह्मणं च माम

64

अनया छन्द्यमानॊ ऽहं भार्यया तव सत्तम

तैस तैर अतिथि सत्कारैर आर्जवे ऽसया दृढं मनः

65

अनेन विधिना सेयं माम अर्चति शुभानना

अनुरूपं यद अत्राद्य तद भवान वक्तुम अर्हति

66

कूटमुद्गर हस्तस तु मृत्युस तं वै समन्वयात

हीनप्रतिज्ञम अत्रैनं वधिष्यामीति चिन्तयन

67

सुदर्शनस तु मनसा कर्मणा चक्षुषा गिरा

तयक्तेर्ष्यस तयक्तमन्युश च समयमानॊ ऽबरवीद इदम

68

सुरतं ते ऽसतु विप्राग्र्य परीतिर हि परमा मम

गृहस्थस्य हि धर्मॊ ऽगर्यः संप्राप्तातिथि पूजनम

69

अतिथिः पूजितॊ यस्य गृहस्थस्य तु गच्छति

नान्यस तस्मात परॊ धर्म इति पराहुर मनीषिणः

70

पराणा हि मम दाराश च यच चान्यद विद्यते वसु

अतिथिभ्यॊ मया देयम इति मे वरतम आहितम

71

निःसंदिग्धं मया वाक्यम एतत ते समुदाहृतम

तेनाहं विप्र सत्येन सवयम आत्मानम आलभे

72

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

बुद्धिर आत्मा मनः कालॊ दिशश चैव गुणा दश

73

नित्यम एते हि पश्यन्ति देहिनां देहसंश्रिताः

सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर

74

यथैषा नानृता वाणी मयाद्य समुदाहृता

तेन सत्येन मां देवाः पालयन्तु दहन्तु वा

75

ततॊ नादः समभवद दिक्षु सर्वासु भारत

असकृत सत्यम इत्य एव नैतन मिथ्येति सर्वशः

76

उटजात तु ततस तस्मान निश्चक्राम स वै दविजः

वपुषा खं च भूमिं च वयाप्य वायुर इवॊद्यतः

77

सवरेण विप्रः शैक्षेण तरीँल लॊकान अनुनादयन

उवाच चैनं धर्मज्ञं पूर्वम आमन्त्र्य नामतः

78

धर्मॊ ऽहम अस्मि भद्रं ते जिज्ञासार्थं तवानघ

पराप्तः सत्यं च ते जञात्वा परीतिर मे परमा तवयि

79

विजितश च तवया मृत्युर यॊ ऽयं तवाम अनुगच्छति

रन्ध्रान्वेषी तव सदा तवया धृत्या वशीकृतः

80

न चास्ति शक्तिस तरैलॊक्ये कस्य चित पुरुषॊत्तम

पतिव्रताम इमां साध्वीं तवॊद्वीक्षितुम अप्य उत

81

रक्षिता तवद गुणैर एषा पतिव्रतगुणैस तथा

अधृष्या यद इयं बरूयात तथा तन नान्यथा भवेत

82

एषा हि तपसा सवेन संयुक्ता बरह्मवादिनी

पावनार्थं च लॊकस्य सरिच्छ्रेष्ठा भविष्यति

83

अर्धेनौघवती नाम तवाम अर्थेनानुयास्यति

शरीरेण महाभागा यॊगॊ हय अस्या वशे सथितः

84

अनया सह लॊकांश च गन्तासि तपसार्जितान

यत्र नावृत्तिम अभ्येति शाश्वतांस तान सनातनान

85

अनेन चैव देहेन लॊकांस तवम अभिपत्स्यसे

निर्जितश च तवया मृत्युर ऐश्वर्यं च तवॊत्तमम

86

पञ्च भूतान्य अतिक्रान्तः सववीर्याच च मनॊ भवः

गृहस्थ धर्मेणानेन कामक्रॊधौ च ते जितौ

87

सनेहॊ रागश च तन्द्री च मॊहॊ दरॊहश च केवलः

तव शुश्रूषया राजन राजपुत्र्या विनिर्जिताः

88

[भ]

शुक्लानां तु सहस्रेण वाजिनां रथम उत्तमम

युक्तं परगृह्य भगवान वयवसायॊ जगाम तम

89

मृत्युर आत्मा च लॊकाश च जिता भूतानि पञ्च च

बुद्धिः कालॊ मनॊ वयॊम कामक्रॊधौ तथैव च

90

तस्माद गृहाश्रमस्थस्य नान्यद दैवतम अस्ति वै

ऋते ऽतिथिं नरव्याघ्र मनसैतद विचारय

91

अतिथिः पूजितॊ यस्य धयायते मनसा शुभम

न तत करतुशतेनापि तुल्यम आहुर मनीषिणः

92

पात्रं तव अतिथिम आसाद्य शीलाढ्यं यॊ न पूजयेत

स दत्त्वा सुकृतं तस्य कषपयेत हय अनर्चितः

93

एतत ते कथितं पुत्र मयाख्यानम अनुत्तमम

यथा हि विजितॊ मृत्युर गृहस्थेन पुराभवत

94

धन्यं यशस्यम आयुष्मद इदम आख्यानम उत्तमम

बुभूषिताभिमन्तव्यं सर्वदुश्चरितापहम

95

य इदं कथयेद विद्वान अहन्य अहनि भारत

सुदर्शनस्य चरितं पुण्याँल लॊकान अवाप्नुयात

1

[y]

pitāmaha mahāprājña sarvaśāstraviśārada

śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara

2

bhūyas tu śrotum icchāmi dharmārthasahitaṃ nṛpa

kathyamānaṃ tvayā kiṃ cit tan me vyākhyātum arhasi

3

kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ

ity etat sarvam ācakṣva tattvena mama pārthiva

4

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

yathā mṛtyur gṛhasthena dharmam āśritya nirjita

5

manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ

tasya putraśataṃ jajñe nṛpateḥ sūryavarcasa

6

daśamas tasya putras tu daśāśvo nāma bhārata

māhiṣmatyām abhūd rājā dharm ātmā satyavikrama

7

daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ

satye tapasi dāne ca yasya nityaṃ rataṃ mana

8

madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ

dhanurvede ca vede ca nirato yo 'bhavat sadā

9

maridāśvasya putras tu dyutimān nāma pārthivaḥ

mahābhāgo mahātejā mahāsattvo mahābala

10

putro dyutimatas tv āsīt suvīro nāma pārthivaḥ

dharmātmā kośavāṃś cāpi devarāja ivāpara

11

suvīrasya tu putro 'bhūt sarvasaṃgrāma durjayaḥ

durjayety abhivikhyātaḥ sarvaśāstraviśārada

12

durjayasyendra vapuṣaḥ putro 'gnisadṛśadyutiḥ

duryodhano nāma mahān rājāsīd rājasattama

13

tasyendra samavīryasya saṃgrāmeṣv anivartinaḥ

viṣayaś ca prabhāvaś ca tulyam evābhyavartata

14

ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pṛthagvidhaiḥ

nagaraṃ viṣayaś cāsya pratipūrṇaṃ tadābhavat

15

na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ

vyādhito vā kṛśo vāpi tasmin nābhūn naraḥ kva cit

16

sudakṣiṇo madhuravāg anasūyur jitendriyaḥ

dharmātmā cānṛśaṃsaś ca vikrānto 'thāvikatthana

17

yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ

na cāvamantā dātā ca vedavedāṅgapāraga

18

taṃ narmadā deva nadī puṇyā śītajalā śivā

cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata

19

tasya jajñe tadā nadyāṃ kanyā rājīvalocanā

nāmnā sudarśanā rājan rūpeṇa ca sudarśanā

20

tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira

duryodhana sutā yādṛg abhavad varavarṇinī

21

tām agniś cakame sākṣād rājakanyāṃ sudarśanām

bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṃ nṛpam

22

daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ

na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām

23

tato 'sya vitate yajñe naṣṭo 'bhūd dhavyavāhanaḥ

tato duryodhano rājā vākyam āhartvijas tadā

24

duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ

yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣv iva

25

na hy alpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ

bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām

26

etad rājño vacaḥ śrutvā viprās te bharatarṣabha

niyatā vāgyatāś caiva pāvakaṃ śaraṇaṃ yayu

27

tān darśayām āsa tadā bhagavān havyavāhanaḥ

svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyuti

28

tato mahātmā tān āha dahano brāhmaṇarṣabhān

varayāmy ātmano 'rthāya duryodhana sutām iti

29

tatas te kālyam utthāya tasmai rājñe nyavedayan

brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā

30

tataḥ sa rājā tac chrutvā vacanaṃ brahmavādinām

avāpya paramaṃ harṣaṃ tatheti prāha buddhimān

31

prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum

nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti

tam āha bhagavān agnir evam astv iti pārthivam

32

tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ

dṛṣṭaṃ hi sahadevena diśo vijayatā tadā

33

tatas tāṃ samalaṃkṛtya kanyām ahata vāsasam

dadau duryodhano rājā pāvakāya mahātmane

34

pratijagrāha cāgnis tāṃ rājaputrīṃ sudarśanām

vidhinā veda dṛṣṭena vasor dhārām ivādhvare

35

tasyā rūpeṇa śīlena kulena vapuṣā śriyā

abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe

36

tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ

śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam

37

athaughavān nāma nṛpo nṛgasyāsīt pitāmahaḥ

tasyāpy oghavatī kanyā putraś caugharatho 'bhavat

38

tām oghavān dadau tasmai svayam oghavatīṃ sutām

sudarśanāya viduṣe bhāryārthaṃ devarūpiṇām

39

sa gṛhasthāśramaratas tayā saha sudarśanaḥ

kurukṣetre 'vasad rājann oghavatyā samanvita

40

gṛhasthaś cāvajeṣyāmi mṛtyum ity eva sa prabho

pratijñām akarod dhīmān dīptatejā viśāṃ pate

41

tām athaughavatīṃ rājan sa pāvakasuto 'bravīt

atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃ cana

42

yena yena ca tuṣyeta nityam eva tvayātithiḥ

apy ātmanaḥ pradānena na te kāryā vicāraṇā

43

etad vrataṃ mama sadā hṛdi saṃparivartate

gṛhasthānāṃ hi suśroṇi nātither vidyate param

44

pramāṇaṃ yadi vāmoru vacas te mama śobhane

idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā

45

niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe

nātithis te 'vamantavyaḥ pramāṇaṃ yady ahaṃ tava

46

tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ

na me tvad vacanāt kiṃ cid akartavyaṃ kathaṃ cana

47

jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam

pṛṣṭhato 'nvagamad rājan randhānveṣī tadā sadā

48

idhmārthaṃ tu gate tasminn agniputre sudarśane

atithir brāhmaṇaḥ śrīmāṃs tām āhaughavatīṃ tadā

49

tithyaṃ dattam icchāmi tvayādya varavarṇini

pramāṇaṃ yadi dharmas te gṛhasthāśramasaṃmata

50

ity uktā tena vipreṇa rājaputrī yaśasvinī

vidhinā pratijagrāha vedoktena viśāṃ pate

51

sanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye

provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te

52

tām abravīt tato vipro rājaputrīṃ sudarśanām

tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara

53

yadi pramāṇaṃ dharmas te gṛhasthāśramasaṃmataḥ

pradānenātmano rājñi kartum arhasi me priyam

54

tathā saṃchandyamāno 'nyair īpsitair nṛpa kanyayā

nānyam ātmapradānāt sa tasyā vavre varaṃ dvija

55

sā tu rājasutā smṛtvā hartur vacanam āditaḥ

tatheti lajjamānā sā tam uvāca dvijarṣabham

56

tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha

saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇa

57

athedhmān samupādāya sa pāvakir upāgamat

mṛtyunā raudrabhāvena nityaṃ bandhur ivānvita

58

tatas tv āśramam āgamya sa pāvakasutas tadā

tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt

59

tasmai prativacaḥ sā tu bhartre na pradadau tadā

karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī

60

ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca

tūṣṇībhūtābhavat sādhvī na covācātha kiṃ cana

61

atha tāṃ punar evedaṃ provāca sa sudarśanaḥ

kva sā sādhvī kva sā yātā garīyaḥ kim ato mama

62

pativratā satyaśīlā nityaṃ caivārjave ratā

kathaṃ na pratyudety adya smayamānā yathā purā

63

uṭajasthas tu taṃ vipraḥ pratyuvāca sudarśanam

atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām

64

anayā chandyamāno 'haṃ bhāryayā tava sattama

tais tair atithi satkārair ārjave 'syā dṛḍhaṃ mana

65

anena vidhinā seyaṃ mām arcati śubhānanā

anurūpaṃ yad atrādya tad bhavān vaktum arhati

66

kūṭamudgara hastas tu mṛtyus taṃ vai samanvayāt

hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan

67

sudarśanas tu manasā karmaṇā cakṣuṣā girā

tyakterṣyas tyaktamanyuś ca smayamāno 'bravīd idam

68

surataṃ te 'stu viprāgrya prītir hi paramā mama

gṛhasthasya hi dharmo 'gryaḥ saṃprāptātithi pūjanam

69

atithiḥ pūjito yasya gṛhasthasya tu gacchati

nānyas tasmāt paro dharma iti prāhur manīṣiṇa

70

prāṇā hi mama dārāś ca yac cānyad vidyate vasu

atithibhyo mayā deyam iti me vratam āhitam

71

niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam

tenāhaṃ vipra satyena svayam ātmānam ālabhe

72

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa

73

nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ

sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara

74

yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā

tena satyena māṃ devāḥ pālayantu dahantu vā

75

tato nādaḥ samabhavad dikṣu sarvāsu bhārata

asakṛt satyam ity eva naitan mithyeti sarvaśa

76

uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ

vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyata

77

svareṇa vipraḥ śaikṣeṇa trīṁl lokān anunādayan

uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmata

78

dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha

prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi

79

vijitaś ca tvayā mṛtyur yo 'yaṃ tvām anugacchati

randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛta

80

na cāsti śaktis trailokye kasya cit puruṣottama

pativratām imāṃ sādhvīṃ tavodvīkṣitum apy uta

81

rakṣitā tvad guṇair eṣā pativrataguṇais tathā

adhṛṣyā yad iyaṃ brūyāt tathā tan nānyathā bhavet

82

eṣā hi tapasā svena saṃyuktā brahmavādinī

pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati

83

ardhenaughavatī nāma tvām arthenānuyāsyati

śarīreṇa mahābhāgā yogo hy asyā vaśe sthita

84

anayā saha lokāṃś ca gantāsi tapasārjitān

yatra nāvṛttim abhyeti śāśvatāṃs tān sanātanān

85

anena caiva dehena lokāṃs tvam abhipatsyase

nirjitaś ca tvayā mṛtyur aiśvaryaṃ ca tavottamam

86

pañca bhūtāny atikrāntaḥ svavīryāc ca mano bhavaḥ

gṛhastha dharmeṇānena kāmakrodhau ca te jitau

87

sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ

tava śuśrūṣayā rājan rājaputryā vinirjitāḥ

88

[bh]

śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam

yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam

89

mṛtyur ātmā ca lokāś ca jitā bhūtāni pañca ca

buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca

90

tasmād gṛhāśramasthasya nānyad daivatam asti vai

ṛte 'tithiṃ naravyāghra manasaitad vicāraya

91

atithiḥ pūjito yasya dhyāyate manasā śubham

na tat kratuśatenāpi tulyam āhur manīṣiṇa

92

pātraṃ tv atithim āsādya śīlāḍhyaṃ yo na pūjayet

sa dattvā sukṛtaṃ tasya kṣapayeta hy anarcita

93

etat te kathitaṃ putra mayākhyānam anuttamam

yathā hi vijito mṛtyur gṛhasthena purābhavat

94

dhanyaṃ yaśasyam āyuṣmad idam ākhyānam uttamam

bubhūṣitābhimantavyaṃ sarvaduścaritāpaham

95

ya idaṃ kathayed vidvān ahany ahani bhārata

sudarśanasya caritaṃ puṇyāṁl lokān avāpnuyāt
king louis xvii france| king luis xviii
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 2