Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 61

Book 13. Chapter 61

The Mahabharata In Sanskrit


Book 13

Chapter 61

1

[य]

इदं देयम इदं देयम इतीयं शरुतिचॊदना

बहु देयाश च राजानः किं सविद देयम अनुत्तमम

2

[भ]

अति दानानि सर्वाणि पृथिवी दानम उच्यते

अचला हय अक्षया भूमिर दॊग्ध्री कामान अनुत्तमान

3

दॊग्ध्री वासांसि रत्नानि पशून वरीहि यवांस तथा

भूमिदः सर्वभूतेषु शाश्वतीर एधते समाः

4

यावद भूमेर आयुर इह तावद भूमिद एधते

न भूमिदानाद अस्तीह परं किं चिद युधिष्ठिर

5

अप्य अल्पं परददुः पूर्वे पृथिव्या इति नः शरुतम

भूमिम एते ददुः सर्वे ये भूमिं भुञ्जते जनाः

6

सवकर्मैवॊपजीवन्ति नरा इह परत्र च

भूमिर भूतिर महादेवी दातारं कुरुते परियम

7

य एतां दक्षिणां दद्याद अक्षयां पृथिवीपतिः

पुनर नरत्वं संप्राप्य भवेत स पृथिवीपतिः

8

यथा दानं तथा भॊग इति धर्मेषु निश्चयः

संग्रामे वा तनुं जह्याद दद्याद वा पृथिवीम इमाम

9

इत्य एतां कषत्रबन्धूनां वदन्ति परम आशिषम

पुनाति दत्ता पृथिवी दातारम इति शुश्रुम

10

अपि पापसमाचारं बरह्मघ्नम अपि वानृतम

सैव पापं पावयति सैव पापात परमॊचयेत

11

अपि पापकृतां राज्ञां परतिगृह्णन्ति साधवः

पृथिवीं नान्यद इच्छन्ति पावनं जननी यथा

12

नामास्याः परिय दत्तेति गुह्यं देव्याः सनातनम

दानं वाप्य अथ वा जञानं नाम्नॊ ऽसयाः परमं परियम

तस्पात पराप्यैव पृथिवीं दद्याद विप्राय पार्थिवः

13

नाभूमि पतिना भूमिर अधिष्ठेया कथं चन

न वा पात्रेण वा गूहेद अन्तर्धानेन वा चरेत

ये चान्ये भूमिम इच्छेयुः कुर्युर एवम असंशयम

14

यः साधॊर भूमिम आदत्ते न भूमिं विन्दते तु सः

भूमिं तु दत्त्वा साधुभ्यॊ विन्दते भूमिम एव हि

परेत्येह च स धर्मात्मा संप्राप्नॊति महद यशः

15

यस्य विप्रानुशासन्ति साधॊर भूमिं सदैव हि

न तस्य शत्रवॊ राजन परशासन्ति वसुंधराम

16

यत किं चित पुरुषः पापं कुरुते वृत्ति कर्शितः

अपि गॊचर्म मात्रेण भूमिदानेन पूयते

17

ये ऽपि संकीर्ण कर्माणॊ राजानॊ रौद्रकर्मिणः

तेभ्यः पवित्रम आख्येयं भूमिदानम अनुत्तमम

18

अल्पान्तरम इदं शश्वत पुराणा मेनिरे जनाः

यॊ यजेद अश्वमेधेन दद्याद वा साधवे महीम

19

अपि चेत सुकृतं कृत्वा शङ्केरन्न अपि पण्डिताः

अशक्यम एकम एवैतद भीमि दानम अनुत्तमम

20

सुवर्णं रजतं वस्त्रं मणिमुक्ता वसूनि च

सर्वम एतन महाप्राज्ञ ददाति वसुधां ददत

21

तपॊयज्ञः शरुतं शीलम अलॊभः सत्यसंधता

गुरु दैवतपूजा च नातिवर्तन्ति भूमिदम

22

भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः

बरह्मलॊकगताः सिद्धा नातिक्रामन्ति भूमिदम

23

यथा जनित्री कषीरेण सवपुत्रं भरते सदा

अनुगृह्णाति दातारं तथा सर्वरसैर मही

24

मृत्यॊर वै किंकरॊ दण्डस तापॊ वह्नेः सुदारुणः

घॊराश च वारुणाः पाशा नॊपसर्पन्ति भूमिदम

25

पितॄंश च पितृलॊकस्थान देवलॊके च देवताः

संतर्पयति शान्तात्मा यॊ ददाति वसुंधराम

26

कृशाय मिर्यमाणाय वृत्ति मलानाय सीदते

भूमिं वृत्ति करीं दत्त्वा सत्री भवति मानवः

27

यथा धावति गौर वत्सं कषीरम अभ्युत्सृजन्त्य उत

एवम एव महाभाग भूमिर भवति भूमिदम

28

हलकृष्टां महीं दत्त्वा स बीजां सफलाम अपि

उदीर्णं वापि शरणं तथा भवति कामदः

29

बराह्मणं वृत्तसंपन्नम आहिताग्निं शुचिव्रतम

नरः परतिग्राह्य महीं न याति यमसादनम

यथा चन्द्रमसॊ वृद्धिर अहन्य अहनि जायते

30

तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते

31

अत्र गाथा भूमिगीताः कीर्तयन्ति पुरा विदः

याः शरुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै

32

माम एवादत्त मां दत्तमां दत्त्वा माम अवाप्स्यथ

अस्मिँल लॊके परे चैव ततश चाजनने पुनः

33

य इमां वयाहृतिं वेद बराह्मणॊ बरह्म संश्रितः

शराद्धस्य हूयमानस्य बरह्मभूयं स गच्छति

34

कृत्यानाम अभिशस्तानां दुरिष्ट शमनं महत

परायश्चित्तम अहं कृत्वा पुनात्य उभयतॊ दश

35

पुनाति य इदं वेद वेद चाहं तथैव च

परकृतिः सर्वभूतानां भूमिर वै शाश्वती मता

36

अभिषिच्यैव नृपतिं शरावयेद इमम आगमम

यथा शरुत्वा महीं दद्यान नादद्यात साधुतश च ताम

37

सॊ ऽयं कृत्स्नॊ बराह्मणार्थॊ राजार्थश चाप्य असंशयम

राजा हि धर्मकुशलः परथमं भूतिलक्षणम

38

अथ येषाम अधर्मज्ञॊ राजा भवति नास्तिकः

न ते सुखं परबुध्यन्ते न सुखं परस्वपन्ति च

39

सदा भवन्ति चॊद्विग्नास तस्य दुश्चरितैर नराः

यॊगक्षेमा हि बहवॊ राष्ट्रं नास्याविशन्ति तत

40

अथ येषां पुनः पराज्ञॊ राजा भवति धार्मिकः

सुखं ते परतिबुध्यन्ते सुसुखं परस्वपन्ति च

41

तस्य राज्ञः शुभैर आर्यैः कर्मभिर निर्वृताः परजाः

यॊगक्षेमेण वृष्ट्या च विवर्धन्ते सवकर्मभिः

42

स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत

स दाता स च विक्रान्तॊ यॊ ददाति वसुंधराम

43

आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः

ददन्ति वसुधां सफीतां ये वेदविदुषि दविजे

44

यथा बीजानि रॊहन्ति परकीर्णानि महीतले

तथा कामाः पररॊहन्ति भूमिदानसमार्जिताः

45

आदित्यॊ वरुणॊ विष्णुर बरह्मा सॊमॊ हुताशनः

शूलपाणिश च भगवान परतिनन्दन्ति भूमिदम

46

भूमौ जायन्ति पुरुषा भूमौ निष्ठां वरजन्ति च

चतुर्विधॊ हि लॊकॊ ऽयं यॊ ऽयं भूमिगुणात्मकः

47

एषा माता पिता चैव जगतः पृथिवीपते

नानया सदृशं भूतं किं चिद अस्ति जनाधिप

48

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर

49

इष्ट्वा करतुशतेनाथ महता दक्षिणावता

मघवा वाग विदां शरेष्ठं पप्रच्छेदं बृहस्पतिम

50

भगवन केन दानेन सवर्गतः सुखम एधते

यद अक्षयं महार्घं च तद बरूहि वदतां वर

51

इत्य उक्तः स सुरेन्द्रेण ततॊ देवपुरॊहितः

बृहस्पतिर महातेजाः परत्युवाच शतक्रतुम

52

सुवर्णदानं गॊदानं भूमिदानं च वृत्रहन

ददद एतान महाप्राज्ञः सर्वपापैः परमुच्यते

53

न भूमिदानाद देवेन्द्र परं किं चिद इति परभॊ

विशिष्टम इति मन्यामि यथा पराहुर मनीषिणः

54

ये शूरा निहता युद्धे सवर्याता दानगृद्धिनः

सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम

55

भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः

बरह्मलॊकगताः शूरा नातिक्रामन्ति भूमिदम

56

पञ्च पूर्वादि पुरुषाः षट च ये वसुधां गताः

एकादश ददद भूमिं परित्रातीह मानवः

57

रत्नॊपकीर्णां वसुधां यॊ ददाति पुरंदर

स मुक्तः सर्वकलुषैः सवर्गलॊके महीयते

58

महीं सफीतां ददद राजा सर्वकामगुणान्विताम

राजाधिराजॊ भवति तद धि दानम अनुत्तमम

59

सर्वकामसमायुक्तां काश्यपीं यः परयच्छति

सर्वभूतानि मन्यन्ते मां ददातीति वासव

60

सर्वकामदुघां धेनुं सर्वकामपुरॊगमाम

ददाति यः सहस्राक्ष सस्वर्गं याति मानवः

61

मधु सर्पिः परवाहिन्यः पयॊ दधि वहास तथा

सरितस तर्पयन्तीह सुरेन्द्र वसुधा परदम

62

भूमिप्रदानान नृपतिर मुच्यते राजकिल्बिषात

न हि भूमिप्रदानेन दानम अन्यद विशिष्यते

63

ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम

तं जनाः कथयन्तीह यावद धरति गौर इयम

64

पुण्याम ऋद्धरसां भूमिं यॊ ददाति पुरंदर

न तस्य लॊकाः कषीयन्ते भूमिदानगुणार्जिताः

65

सर्वथा पार्थिवेनेह सततं भूतिम इच्छता

भूर देया विधिवच छक्र पात्रे सुखम अभीप्सता

66

अपि कृत्वा नरः पापं भूमिं दत्त्वा दविजातये

समुत्सृजति तत पापं जीर्णां तवचम इवॊरगः

67

सागरान सरितः शैलान काननानि च सर्वशः

सर्वम एतन नरः शक्र ददाति वसुधां ददत

68

तडागान्य उदपानानि सरॊतांसिच सरांसि च

सनेहान सर्वरसांश चैव ददाति वसुधां ददत

69

ओषधीः कषीरसंपन्ना नगान पुष्पफलान्वितान

काननॊपल शैलांश च ददाति वसुधां ददत

70

अग्निष्टॊमप्रभृतिभिर इष्ट्वा च सवाप्तदक्षिणैः

न तत फलम अवाप्नॊति भूमिदानाद यद अश्नुते

71

दाता दशानुगृह्णाति दश हन्ति तथा कषिपन

पूर्वदत्तां हरन भूमिं नरकायॊपगच्छति

72

न ददाति परतिश्रुत्य दत्त्वा वा हरते तु यः

स बद्धॊवारुणैः पाशैस तप्यते मृत्युशासनात

73

आहिताग्निं सदा यज्ञं कृश भृत्यं परियातिथिम

ये भरन्ति दविजश्रेष्ठं नॊपसर्पन्ति ते यमम

74

बराह्मणेष्व ऋण भूतं सयात पार्थिवस्य पुरंदर

इतरेषां तु वर्णानां तारयेत कृश दुर्बलान

75

नाच्छिन्द्यात सर्शितां भूमिं परेण तरिदशादिप

बराह्मणाय सुरश्रेष्ठ कृश भृत्याय कश चन

76

अथाश्रु पतितं तेषां दीनानाम अवसीदताम

बराह्मणानां हृते कषेत्रे हन्यात तरिपुरुषं कुलम

77

भूमिपालं चयुतं राष्ट्राद यस तु संस्थापयेत पुनः

तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते

78

इक्षुभिः संततां भूमिं यवगॊधूमसंकुलाम

गॊऽशववाहन संपूर्णां बाहुवीर्यसमार्जिताम

79

निधिगर्भां ददद भूमिं सर्वरत्नपरिच्छदाम

अक्षयाँल लभते लॊकान भूमिसत्रं हि तस्य तत

80

विधूय कलुषं सर्वं विरजाः संमतः सताम

लॊके महीयते सद्भिर यॊ ददाति वसुंधराम

81

यथाप्सु पतितः शक्र तैलबिन्दुर विसर्पति

तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति

82

ये रणाग्रे महीपालाः शूराः समितिशॊभनाः

वध्यन्ते ऽभिमुखाः शक्र बरह्मलॊकं वरजन्ति ते

83

नृत्यगीतपरा नार्यॊ दिव्यमाल्यविभूषिताः

उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि

84

मॊदते च सुखं सवर्गे देवगन्धर्वपूजितः

यॊ ददाति महीं सम्यग विधिनेह दविजातये

85

शतम अप्सरसश चैव दिव्यमाल्यविभूषिताः

उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम

86

शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः

भूमिप्रदानात पुष्पाणि हिरण्यनिचयास तथा

87

आज्ञा सदा परतिहता जयशब्दॊ भवत्य अथ

भूमिदानस्य पुष्पाणि फलं सवर्गः पुरंदर

88

हिरण्यपुष्पाश चौषध्यः कुश काञ्चनशाड्वलाः

अमृतप्रसवां भूमिं पराप्नॊति पुरुषॊ ददत

89

नास्ति भूमिसमं दानं नास्ति मातृसमॊ गुरुः

नास्ति सत्यसमॊ धर्मॊ नास्ति दानसमॊ निधिः

90

एतद आङ्गिरसाच छरुत्वा वासवॊ वसुधाम इमाम

वसु रत्नसमाकीर्णां ददाव आङ्गिरसे तदा

91

य इमं शरावयेच छराद्धे भूमिदानस्य संस्तवम

न तस्य रक्षसां भागॊ नासुराणां भवत्य उत

92

अक्षयं च भवेद दत्तं पितृभ्यस तन न संशयः

तस्माच छराद्धेष्व इदं विप्र भुञ्जतः शरावयेद दविजान

93

इत्य एत सर्वदानानां शरेष्ठम उक्तं तवानघ

मया भरतशार्दूल किं भूयः शरॊतुम इच्छसि

1

[y]

idaṃ deyam idaṃ deyam itīyaṃ śruticodanā

bahu deyāś ca rājānaḥ kiṃ svid deyam anuttamam

2

[bh]

ati dānāni sarvāṇi pṛthivī dānam ucyate

acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān

3

dogdhrī vāsāṃsi ratnāni paśūn vrīhi yavāṃs tathā

bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ

4

yāvad bhūmer āyur iha tāvad bhūmida edhate

na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira

5

apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam

bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ

6

svakarmaivopajīvanti narā iha paratra ca

bhūmir bhūtir mahādevī dātāraṃ kurute priyam

7

ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ

punar naratvaṃ saṃprāpya bhavet sa pṛthivīpati

8

yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ

saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām

9

ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam

punāti dattā pṛthivī dātāram iti śuśruma

10

api pāpasamācāraṃ brahmaghnam api vānṛtam

saiva pāpaṃ pāvayati saiva pāpāt pramocayet

11

api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ

pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā

12

nāmāsyāḥ priya datteti guhyaṃ devyāḥ sanātanam

dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam

taspāt prāpyaiva pṛthivīṃ dadyād viprāya pārthiva

13

nābhūmi patinā bhūmir adhiṣṭheyā kathaṃ cana

na vā pātreṇa vā gūhed antardhānena vā caret

ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam

14

yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ

bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi

pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśa

15

yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi

na tasya śatravo rājan praśāsanti vasuṃdharām

16

yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛtti karśitaḥ

api gocarma mātreṇa bhūmidānena pūyate

17

ye 'pi saṃkīrṇa karmāṇo rājāno raudrakarmiṇaḥ

tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam

18

alpāntaram idaṃ śaśvat purāṇā menire janāḥ

yo yajed aśvamedhena dadyād vā sādhave mahīm

19

api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ

aśakyam ekam evaitad bhīmi dānam anuttamam

20

suvarṇaṃ rajataṃ vastraṃ maṇimuktā vasūni ca

sarvam etan mahāprājña dadāti vasudhāṃ dadat

21

tapoyajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā

guru daivatapūjā ca nātivartanti bhūmidam

22

bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ

brahmalokagatāḥ siddhā nātikrāmanti bhūmidam

23

yathā janitrī kṣīreṇa svaputraṃ bharate sadā

anugṛhṇāti dātāraṃ tathā sarvarasair mahī

24

mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ

ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam

25

pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ

saṃtarpayati śāntātmā yo dadāti vasuṃdharām

26

kṛśāya miryamāṇāya vṛtti mlānāya sīdate

bhūmiṃ vṛtti karīṃ dattvā satrī bhavati mānava

27

yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta

evam eva mahābhāga bhūmir bhavati bhūmidam

28

halakṛṣṭāṃ mahīṃ dattvā sa bījāṃ saphalām api

udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmada

29

brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam

naraḥ pratigrāhya mahīṃ na yāti yamasādanam

yathā candramaso vṛddhir ahany ahani jāyate

30

tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate

31

atra gāthā bhūmigītāḥ kīrtayanti purā vidaḥ

yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai

32

mām evādatta māṃ dattamāṃ dattvā mām avāpsyatha

asmiṁl loke pare caiva tataś cājanane puna

33

ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahma saṃśritaḥ

śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati

34

kṛtyānām abhiśastānāṃ duriṣṭa śamanaṃ mahat

prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa

35

punāti ya idaṃ veda veda cāhaṃ tathaiva ca

prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā

36

abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam

yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām

37

so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam

rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam

38

atha yeṣām adharmajño rājā bhavati nāstikaḥ

na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca

39

sadā bhavanti codvignās tasya duścaritair narāḥ

yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat

40

atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ

sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca

41

tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ

yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhi

42

sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt

sa dātā sa ca vikrānto yo dadāti vasuṃdharām

43

dityā iva dīpyante tejasā bhuvi mānavāḥ

dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije

44

yathā bījāni rohanti prakīrṇāni mahītale

tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ

45

dityo varuṇo viṣṇur brahmā somo hutāśana

ś
lapāṇiś ca bhagavān pratinandanti bhūmidam

46

bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca

caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmaka

47

eṣā mātā pitā caiva jagataḥ pṛthivīpate

nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa

48

atrāpy udāharantīmam itihāsaṃ purātanam

bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira

49

iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā

maghavā vāg vidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim

50

bhagavan kena dānena svargataḥ sukham edhate

yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara

51

ity uktaḥ sa surendreṇa tato devapurohitaḥ

bṛhaspatir mahātejāḥ pratyuvāca śatakratum

52

suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan

dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate

53

na bhūmidānād devendra paraṃ kiṃ cid iti prabho

viśiṣṭam iti manyāmi yathā prāhur manīṣiṇa

54

ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ

sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam

55

bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ

brahmalokagatāḥ śūrā nātikrāmanti bhūmidam

56

pañca pūrvādi puruṣāḥ aṭ ca ye vasudhāṃ gatāḥ

ekādaśa dadad bhūmiṃ paritrātīha mānava

57

ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara

sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate

58

mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām

rājādhirājo bhavati tad dhi dānam anuttamam

59

sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati

sarvabhūtāni manyante māṃ dadātīti vāsava

60

sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām

dadāti yaḥ sahasrākṣa sasvargaṃ yāti mānava

61

madhu sarpiḥ pravāhinyaḥ payo dadhi vahās tathā

saritas tarpayantīha surendra vasudhā pradam

62

bhūmipradānān nṛpatir mucyate rājakilbiṣāt

na hi bhūmipradānena dānam anyad viśiṣyate

63

dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām

taṃ janāḥ kathayantīha yāvad dharati gaur iyam

64

puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara

na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ

65

sarvathā pārthiveneha satataṃ bhūtim icchatā

bhūr deyā vidhivac chakra pātre sukham abhīpsatā

66

api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye

samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoraga

67

sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ

sarvam etan naraḥ śakra dadāti vasudhāṃ dadat

68

taḍāgāny udapānāni srotāṃsica sarāṃsi ca

snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat

69

oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān

kānanopala śailāṃś ca dadāti vasudhāṃ dadat

70

agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ

na tat phalam avāpnoti bhūmidānād yad aśnute

71

dātā daśānugṛhṇāti daśa hanti tathā kṣipan

pūrvadattāṃ haran bhūmiṃ narakāyopagacchati

72

na dadāti pratiśrutya dattvā vā harate tu yaḥ

sa baddhovāruṇaiḥ pāśais tapyate mṛtyuśāsanāt

73

hitāgniṃ sadā yajñaṃ kṛśa bhṛtyaṃ priyātithim

ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam

74

brāhmaṇeṣv ṛṇa bhūtaṃ syāt pārthivasya puraṃdara

itareṣāṃ tu varṇānāṃ tārayet kṛśa durbalān

75

nācchindyāt sarśitāṃ bhūmiṃ pareṇa tridaśādipa

brāhmaṇāya suraśreṣṭha kṛśa bhṛtyāya kaś cana

76

athāśru patitaṃ teṣāṃ dīnānām avasīdatām

brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam

77

bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ

tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate

78

ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām

go'śvavāhana saṃpūrṇāṃ bāhuvīryasamārjitām

79

nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām

akṣayāṁl labhate lokān bhūmisatraṃ hi tasya tat

80

vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām

loke mahīyate sadbhir yo dadāti vasuṃdharām

81

yathāpsu patitaḥ śakra tailabindur visarpati

tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati

82

ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ

vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te

83

nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ

upatiṣṭhanti devendra sadā bhūmipradaṃ divi

84

modate ca sukhaṃ svarge devagandharvapūjitaḥ

yo dadāti mahīṃ samyag vidhineha dvijātaye

85

atam apsarasaś caiva divyamālyavibhūṣitāḥ

upatiṣṭhanti devendra sadā bhūmipradaṃ naram

86

aṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ

bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā

87

jñā sadā pratihatā jayaśabdo bhavaty atha

bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara

88

hiraṇyapuṣpāś cauṣadhyaḥ kuśa kāñcanaśāḍvalāḥ

amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat

89

nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ

nāsti satyasamo dharmo nāsti dānasamo nidhi

90

etad āṅgirasāc chrutvā vāsavo vasudhām imām

vasu ratnasamākīrṇāṃ dadāv āṅgirase tadā

91

ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam

na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta

92

akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ

tasmāc chrāddheṣv idaṃ vipra bhuñjataḥ śrāvayed dvijān

93

ity eta sarvadānānāṃ śreṣṭham uktaṃ tavānagha

mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi
polyglot bible review| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 61