Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 155

Book 3. Chapter 155

The Mahabharata In Sanskrit


Book 3

Chapter 155

1

[वै]

निहते राक्षसे तस्मिन पुनर नारायणाश्रमम

अभ्येत्य राजा कौन्तेयॊ निवासम अकरॊत परभुः

2

स समानीय तान सर्वान भरातॄन इत्य अब्रवीद वचः

दरौपद्या सहितान काले संस्मरन भरातरं जयम

3

समाश चतस्रॊ ऽभिगताः शिवेन चरतां वने

कृतॊद्देशश च बीभत्सुः पञ्चमीम अभितः समाम

4

पराप्य पर्वतराजानं शवेतं शिखरिणां वरम

तत्रापि च कृतॊद्देशः समागमदिदृक्षुभिः

5

कृतश च समयस तेन पार्थेनामित तेजसा

पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि

6

तत्र गाण्डीवधन्वानम अवाप्तास्त्रम अरिंदमम

देवलॊकाद इमं लॊकं दरक्ष्यामः पुनरागतम

7

इत्य उक्त्वा बराह्मणान सर्वान आमन्त्रयत पाण्डवः

कारणं चैव तत तेषाम आचचक्षे तपस्विनाम

8

तम उग्रतपसः परीताः कृत्वा पार्थं परदक्षिणम

बराह्मणास ते ऽनवमॊदन्त शिवेन कुशलेन च

9

सुखॊदर्कम इमं कलेशम अचिराद भरतर्षभ

कषत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि

10

तत तु राजा वचस तेषां परतिगृह्य तपस्विनाम

परतस्थे सह विप्रैस तैर भरातृभिश च परंतपः

11

दरौपद्या सहितः शरीमान हैडिम्बेयादिभिस तथा

राक्षसैर अनुयातश च लॊमशेनाभिरक्षितः

12

कव चिज जगाम पद्भ्यां तु राक्षसैर उह्यते कव चित

तत्र तत्र महातेजा भरातृभिः सह सुव्रतः

13

ततॊ युधिष्ठिरॊ राजा बहून कलेशान विचिन्तयन

सिंहव्याघ्र गजाकीर्णाम उदीचीं परययौ दिशम

14

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम

गन्धमादन पादांश च मेरुं चापि शिलॊच्चयम

15

उपर्य उपरि शैलस्य बह्वीश च सरितः शिवाः

परस्थं हिमवतः पुण्यं ययौ सप्त दशे ऽहनि

16

ददृशुः पाण्डवा राजन गन्धमादनम अन्तिकात

पृष्ठे हिमवतः पुण्ये नानाद्रुमलता युते

17

सलिलावर्त संजातैः पुष्पितैश च महीरुहैः

समावृतं पुण्यतमम आश्रमं वृषपर्वणः

18

तम उपक्रम्य राजर्षिं धर्मात्मानम अरिंदमाः

पाण्डवा वृषपर्वाणम अवन्दन्त गतक्लमाः

19

अभ्यनन्दत स राजर्षिः पुत्रवद भरतर्षभान

पूजिताश चावसंस तत्र सप्तरात्रम अरिंदमाः

20

अष्टमे ऽहनि संप्राप्ते तम ऋषिं लॊकविश्रुतम

आमन्त्र्य वृषपर्वाणं परस्थानं समरॊचयन

21

एकैकशश च तान विप्रान निवेद्य वृषपर्वणे

नयासभूतान यथाकालं बन्धून इव सुसत्कृतान

22

ततस ते वरवस्त्राणि शुभान्य आभरणानि च

नयदधुः पाण्डवास तस्मिन्न आश्रमे वृषपर्वणः

23

अतीतानागते विद्वान कुशलः सर्वधर्मवित

अन्वशासत स धर्मज्ञः पुत्रवद भरतर्षभान

24

ते ऽनुज्ञाता महात्मानः परययुर दिशम उत्तराम

कृष्णया सहिता वीरा बराह्मणैश च महात्मभिः

तान परस्थितान अन्वगच्छद वृषपर्वा महीपतिः

25

उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस तदा

अनुसंसाध्य कौन्तेयान आशीर्भिर अभिनन्द्य च

वृषपर्वा निववृते पन्थानम उपदिश्य च

26

नानामृगगणैर जुष्टं कौन्तेयः सत्यविक्रमः

पदातिर भरातृभिः सार्धं परातिष्ठत युधिष्ठिरः

27

नानाद्रुमनिरॊधेषु वसन्तः शैलसानुषु

पर्वतं विविशुः शवेतं चतुर्थे ऽहनि पाण्डवाः

28

महाभ्रघनसंकाशं सलिलॊपहितं शुभम

मणिकाञ्चनरम्यं च शैलं नाना समुच्छ्रयम

29

ते समासाद्य पन्थानं यथॊक्तं वृषपर्वणा

अनुसस्रुर यथॊद्देशं पश्यन्तॊ विविधान नगान

30

उपर्य उपरि शैलस्य गुहा परमदुर्गमाः

सुदुर्गमांस ते सुबहून सुखेनैवाभिचक्रमुः

31

धौम्यः कृष्णा च पार्थाश च लॊमशश च महान ऋषिः

अगमन सहितास तत्र न कश चिद अवहीयते

32

ते मृगद्विजसंघुष्टं नानाद्विज समाकुलम

शाखामृगगणैश चैव सेवितं सुमनॊहरम

33

पुण्यं पद्मसरॊपेतं सपल्वल महावनम

उपतस्थुर महावीर्या माल्यवन्तं महागिरिम

34

ततः किंपुरुषावासं सिद्धचारणसेवितम

ददृशुर हृष्टरॊमाणः पर्वतं गन्धमादनम

35

विद्याधरानुचरितं किंनरीभिस तथैव च

गजसिंहसमाकीर्णम उदीर्णशरभायुतम

36

उपेतम अन्यैश च तदा मृगैर मृदु निनादिभिः

ते गन्धमादन वनं तन नन्दनवनॊपम

37

मुदिताः पाण्डुतनया मनॊ हृदयनन्दनम

विविशुः करमशॊ वीरा अरण्यं शुभकाननम

38

दरौपदी सहिता वीरास तैश च विप्रैर महात्मभिः

शृण्वन्तः परीतिजननान वल्गून मदकलाञ शुभान

शरॊत्ररम्यान सुमधुराञ शब्दान खग मुखेरितान

39

सर्वर्तुफलभाराढ्यान सर्वर्तुकुसुमॊज्ज्वलान

पश्यन्तः पादपांश चापि फलभार वनामितान

40

आम्रान आम्रातकान फुल्लान नारिकेलान सतिन्दुकान

अजातकांस तथा जीरान दाडिमान बीजपूरकान

41

पनसाँल लिकुचान मॊचान खर्जूरान आम्रवेतसान

पारावतांस तथा कषौद्रान नीपांश चापि मनॊरमान

42

बिल्वान कपित्थाञ जम्बूंश च काश्मरीर बदरीस तथा

लपक्षान उदुम्बर वटान अश्वत्थान कषीरिणस तथा

भल्लातकान आमकलान हरीतकबिभीतकान

43

इङ्गुदान करवीरांश च तिन्दुकांश च महाफलान

एतान अन्यांश च विविधान गन्धमादन सानुषु

44

फलैर अमृतकल्पैस तान आचितान सवादुभिस तरून

तथैव चम्पकाशॊकान केतकान बकुलांस तथा

45

पुंनागान सप्तपर्णांश च कर्णिकारान सकेतकान

पाटलान कुटजान रम्यान मन्दारेन्दीवरांस तथा

46

पारिजातान कॊविदारान देवदारु तरूंस तथा

शालांस तालांस तमालांश च परियालान बकुलांस तथा

शाल्मलीः किंशुकाशॊकां शिंशपांस तरलांस तथा

47

चकॊरैः शतपत्रैश च भृङ्गराजैस तथा शुकैः

कॊकिलैः कलविङ्कैश च हारीतैर जीव जीवकैः

48

परियव्रतैश चातकैश च तथान्यैर विविधैः खगैः

शरॊत्ररम्यं सुमधुरं कूजद्भिश चाप्य अधिष्ठितान

49

सरांसि च विचित्राणि परसन्नसलिलानि च

कुमुदैः पुण्डरीकैश च तथा कॊकनदॊत्पलैः

कह्लारैः कमलैश चैव आचितानि समन्ततः

50

कदम्बैश चक्रवाकैश च कुररैर जलकुक्कुटैः

कारण्डवैः पलवैर हंसैर बकैर मद्गुभिर एव च

एतैश चान्यैश च कीर्णानि समन्ताज जलचारिभिः

51

हृष्टैस तथा तामरस रसासव मदालसैः

पद्मॊदर चयुत रजः किञ्जल्कारुण रञ्जितैः

52

मधुरस्वरैर मधुकरैर विरुतान कमलाकरान

पश्यन्तस ते मनॊरम्यान गन्धमादन सानुषु

53

तथैव पद्मषण्डैश च मण्डितेषु समन्ततः

शिखण्डिनीभिः सहिताँल लता मण्डपकेषु च

मेघतूर्य रवॊद्दाम मदनाकुलितान भृशम

54

कृत्वैव केका मधुरं संगीत मधुरस्वरम

चित्रान कलापान विस्तीर्य सविलासान मदालसान

मयूरान ददृशुश चित्रान नृत्यतॊ वनलासकान

55

कान्ताभिः सहितान अन्यान अपश्यन रमतः सुखम

वल्ली लता संकटेषु कटकेषु सथितांस तथा

56

कांश चिच छकुन जातांश च विटपेषूत्कटान अपि

कलाप रचिताटॊपान विचित्रमुकुटान इव

विवरेषु तरूणां च मुदितान ददृशुश च ते

57

सिन्धुवारान अथॊद्दामान मन्मथस्येव तॊमरान

सुवर्णकुसुमाकीर्णान गिरीणां शिखरेषु च

58

कर्णिकारान विरचितान कर्ण पूरान इवॊत्तमान

अथापश्यन कुरबकान वनराजिषु पुष्पितान

कामवश्यॊत्सुक करान कामस्येव शरॊत्करान

59

तथैव वनराजीनाम उदारान रचितान इव

विराजमानांस ते ऽपश्यंस तिलकांस तिलकान इव

60

तथानङ्ग शराकारान सहकारान मनॊरमान

अपश्यन भरमरारावान मञ्जरीभिर विराजितान

61

हिरण्यसदृशैः पुष्पैर दावाग्निसदृशैर अपि

लॊहितैर अञ्जनाभैश च वैडूर्य ददृशैर अपि

62

तथा शालांस तमालांश च पाटल्यॊ बकुलानि च

माला इव समासक्ताः शैलानां शिखरेषु च

63

एवं करमेण ते वीरा वीक्षमाणाः समन्ततः

गजसंघ समाबाधं सिंहव्याघ्र समायुतम

64

शरभॊन्नाद संघुष्टं नानाराव निनादितम

सर्वर्तुफलपुष्पाढ्यं गन्धमादन सानुषु

65

पीता भास्वरवर्णाभा बभूवुर नरराजयः

नात्र कण्टकिनः के चिन नात्र के चिद अपुष्पिताः

सनिग्धपत्र फला वृक्षा गन्धमादन सानुषु

66

विमलस्फटिकाभानि पाण्डुरछदनैर दविजैः

राजहंसैर उपेतानि सारसाभिरुतानि च

सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु

67

पद्मॊत्पलविचित्राणि सुखस्पर्श जलानि च

गन्धवन्ति च माल्यानि रसवन्ति फलानि च

अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु

68

एते चान्ये च बहवस तत्र काननजा दरुमाः

लताश च विविधाकाराः पत्रपुष्पफलॊच्चयाः

69

युधिष्ठिरस तु तान वृक्षान पश्यमानॊ नगॊत्तमे

भीमसेनम इदं वाक्यम अब्रवीन मधुराक्षरम

70

पश्य भीम शुभान देशान देवाक्रीडान समन्ततः

अमानुष गतिं पराप्ताः संसिद्धाः सम वृकॊदर

71

ललाभिश चैव बह्वीभिः पुष्पिताः पादपॊत्तमाः

संश्लिष्टाः पार्थ शॊभन्ते गन्धमादन सानुषु

72

शिखण्डिनीभिश चरतां सहितानां शिखण्डिनाम

नर्दतां शृणु निर्घॊषं भीम पर्वतसानुषु

73

चकॊराः शतपत्राश च मत्तकॊकिल शारिकाः

पत्रिणः पुष्पितान एतान संश्लिष्यन्ति महाद्रुमान

74

रक्तपीतारुणाः पार्थ पादपाग्र गता दविजाः

परस्परम उदीक्षन्ते बहवॊ जीव जीवकाः

75

हरितारुणवर्णानां शाद्वलानां समन्ततः

सारसाः परतिदृश्यन्ते शैलप्रस्रवणेष्व अपि

76

वदन्ति मधुरा वाचः सर्वभूतमनॊ ऽनुगाः

भृङ्गराजॊपचक्राश च लॊहपृष्ठाश च पत्रिणः

77

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः

एते वैडूर्य वर्णाभं कषॊभयन्ति महत सरः

78

बहुतालसमुत्सेधाः शैलशृङ्गात परिच्युताः

नाना परस्रवणेभ्यश च वारिधाराः पतन्त्य अमूः

79

भास्कराभ परभा भीम शारदाभ्रघनॊपमाः

शॊभयन्ति महाशैलं नाना रजतधातवः

80

कव चिद अञ्जन वर्णाभाः कव चित काञ्चनसंनिभाः

धातवॊ हरितालस्य कवचिद धि गुलकस्य च

81

मनःशिला गुहाश चैव संध्याभ्रनिकरॊपमाः

शशलॊहित वर्णाभाः कव चिद गौरिक धातवः

82

सितासिताभ्र परतिमा बालसूर्यसमप्रभाः

एते बहुविधाः शैलं शॊभयन्ति महाप्रभाः

83

गन्धर्वाः सह कान्ताहिर यथॊक्तं वृषपर्वणा

दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह

84

गीतानां तलतालानां यथा साम्नां च निस्वनः

शरूयते बहुधा भीम सर्वभूतमनॊहरः

85

महागङ्गाम उदीक्षस्व पुण्यां देव नदीं शुभाम

कलहंस गणैर जुष्टाम ऋषिकिंनरसेविताम

86

धातुभिश च सरिद्भिश च किंनरैर मृगपक्षिभिः

गन्धर्वैर अप्सरॊभिश च कानकैश च मनॊरमैः

87

वयालैश च विविधाकारैः शतशीर्षैः समन्ततः

उपेतं पश्य कौन्तेय शैलराजम अरिंदम

88

ते परीतमनसः शूराः पराप्ता गतिम अनुत्तमाम

नातृप्यन पर्ततेन्द्रस्य दर्शनेन परंतपाः

89

उपेतम अथ माल्यैश च फलवद्भिश च पादपैः

आर्ष्टिषेणस्य राजर्षेर आश्रमं ददृशुस तदा

90

ततस तं तीव्रतपसं कृशं धमनि संततम

पारगं सर्वधर्माणाम आर्ष्टिषेणम उपागमन

1

[vai]

nihate rākṣase tasmin punar nārāyaṇāśramam

abhyetya rājā kaunteyo nivāsam akarot prabhu

2

sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ

draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam

3

samāś catasro 'bhigatāḥ śivena caratāṃ vane

kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām

4

prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam

tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhi

5

kṛtaś ca samayas tena pārthenāmita tejasā

pañcavarṣāṇi vatsyāmi vidyārthīti purā mayi

6

tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam

devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam

7

ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ

kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām

8

tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam

brāhmaṇās te 'nvamodanta śivena kuśalena ca

9

sukhodarkam imaṃ kleśam acirād bharatarṣabha

kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi

10

tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām

pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapa

11

draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā

rākṣasair anuyātaś ca lomaśenābhirakṣita

12

kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit

tatra tatra mahātejā bhrātṛbhiḥ saha suvrata

13

tato yudhiṣṭhiro rājā bahūn kleśān vicintayan

siṃhavyāghra gajākīrṇām udīcīṃ prayayau diśam

14

avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam

gandhamādana pādāṃś ca meruṃ cāpi śiloccayam

15

upary upari śailasya bahvīś ca saritaḥ śivāḥ

prasthaṃ himavataḥ puṇyaṃ yayau sapta daśe 'hani

16

dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt

pṛṣṭhe himavataḥ puṇye nānādrumalatā yute

17

salilāvarta saṃjātaiḥ puṣpitaiś ca mahīruhaiḥ

samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇa

18

tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ

pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ

19

abhyanandat sa rājarṣiḥ putravad bharatarṣabhān

pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ

20

aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam

āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan

21

ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe

nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān

22

tatas te varavastrāṇi śubhāny ābharaṇāni ca

nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇa

23

atītānāgate vidvān kuśalaḥ sarvadharmavit

anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān

24

te 'nujñātā mahātmānaḥ prayayur diśam uttarām

kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ

tān prasthitān anvagacchad vṛṣaparvā mahīpati

25

upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā

anusaṃsādhya kaunteyān āśīrbhir abhinandya ca

vṛṣaparvā nivavṛte panthānam upadiśya ca

26

nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ

padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhira

27

nānādrumanirodheṣu vasantaḥ śailasānuṣu

parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ

28

mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham

maṇikāñcanaramyaṃ ca śailaṃ nānā samucchrayam

29

te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā

anusasrur yathoddeśaṃ paśyanto vividhān nagān

30

upary upari śailasya guhā paramadurgamāḥ

sudurgamāṃs te subahūn sukhenaivābhicakramu

31

dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ

agaman sahitās tatra na kaś cid avahīyate

32

te mṛgadvijasaṃghuṣṭaṃ nānādvija samākulam

śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam

33

puṇyaṃ padmasaropetaṃ sapalvala mahāvanam

upatasthur mahāvīryā mālyavantaṃ mahāgirim

34

tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam

dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam

35

vidyādharānucaritaṃ kiṃnarībhis tathaiva ca

gajasiṃhasamākīrṇam udīrṇaśarabhāyutam

36

upetam anyaiś ca tadā mṛgair mṛdu ninādibhiḥ

te gandhamādana vanaṃ tan nandanavanopama

37

muditāḥ pāṇḍutanayā mano hṛdayanandanam

viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam

38

draupadī sahitā vīrās taiś ca viprair mahātmabhi

śṛ
vantaḥ prītijananān valgūn madakalāñ śubhān

śrotraramyān sumadhurāñ śabdān khaga mukheritān

39

sarvartuphalabhārāḍhyān sarvartukusumojjvalān

paśyantaḥ pādapāṃś cāpi phalabhāra vanāmitān

40

mrān āmrātakān phullān nārikelān satindukān

ajātakāṃs tathā jīrān dāḍimān bījapūrakān

41

panasāṁl likucān mocān kharjūrān āmravetasān

pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān

42

bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā

lpakṣān udumbara vaṭān aśvatthān kṣīriṇas tathā

bhallātakān āmakalān harītakabibhītakān

43

iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān

etān anyāṃś ca vividhān gandhamādana sānuṣu

44

phalair amṛtakalpais tān ācitān svādubhis tarūn

tathaiva campakāśokān ketakān bakulāṃs tathā

45

puṃnāgān saptaparṇāṃś ca karṇikārān saketakān

pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā

46

pārijātān kovidārān devadāru tarūṃs tathā

ś
lāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā

ś
lmalīḥ kiṃśukāśokāṃ śiṃśapāṃs taralāṃs tathā

47

cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ

kokilaiḥ kalaviṅkaiś ca hārītair jīva jīvakai

48

priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ

śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān

49

sarāṃsi ca vicitrāṇi prasannasalilāni ca

kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ

kahlāraiḥ kamalaiś caiva ācitāni samantata

50

kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ

kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca

etaiś cānyaiś ca kīrṇāni samantāj jalacāribhi

51

hṛṣṭais tathā tāmarasa rasāsava madālasaiḥ

padmodara cyuta rajaḥ kiñjalkāruṇa rañjitai

52

madhurasvarair madhukarair virutān kamalākarān

paśyantas te manoramyān gandhamādana sānuṣu

53

tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ

śikhaṇḍinībhiḥ sahitāṁl latā maṇḍapakeṣu ca

meghatūrya ravoddāma madanākulitān bhṛśam

54

kṛtvaiva kekā madhuraṃ saṃgīta madhurasvaram

citrān kalāpān vistīrya savilāsān madālasān

mayūrān dadṛśuś citrān nṛtyato vanalāsakān

55

kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham

vallī latā saṃkaṭeṣu kaṭakeṣu sthitāṃs tathā

56

kāṃś cic chakuna jātāṃś ca viṭapeṣūtkaṭān api

kalāpa racitāṭopān vicitramukuṭān iva

vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te

57

sindhuvārān athoddāmān manmathasyeva tomarān

suvarṇakusumākīrṇān girīṇāṃ ikhareṣu ca

58

karṇikārān viracitān karṇa pūrān ivottamān

athāpaśyan kurabakān vanarājiṣu puṣpitān

kāmavaśyotsuka karān kāmasyeva śarotkarān

59

tathaiva vanarājīnām udārān racitān iva

virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva

60

tathānaṅga śarākārān sahakārān manoramān

apaśyan bhramarārāvān mañjarībhir virājitān

61

hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api

lohitair añjanābhaiś ca vaiḍūrya dadṛśair api

62

tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca

mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca

63

evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ

gajasaṃgha samābādhaṃ siṃhavyāghra samāyutam

64

arabhonnāda saṃghuṣṭaṃ nānārāva nināditam

sarvartuphalapuṣpāḍhyaṃ gandhamādana sānuṣu

65

pītā bhāsvaravarṇābhā babhūvur nararājayaḥ

nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ

snigdhapatra phalā vṛkṣā gandhamādana sānuṣu

66

vimalasphaṭikābhāni pāṇḍurachadanair dvijaiḥ

rājahaṃsair upetāni sārasābhirutāni ca

sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu

67

padmotpalavicitrāṇi sukhasparśa jalāni ca

gandhavanti ca mālyāni rasavanti phalāni ca

atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu

68

ete cānye ca bahavas tatra kānanajā drumāḥ

latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ

69

yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame

bhīmasenam idaṃ vākyam abravīn madhurākṣaram

70

paśya bhīma śubhān deśān devākrīḍān samantataḥ

amānuṣa gatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara

71

lalābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ

saṃśliṣṭāḥ pārtha śobhante gandhamādana sānuṣu

72

ikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām

nardatāṃ śṛu nirghoṣaṃ bhīma parvatasānuṣu

73

cakorāḥ śatapatrāś ca mattakokila śārikāḥ

patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān

74

raktapītāruṇāḥ pārtha pādapāgra gatā dvijāḥ

parasparam udīkṣante bahavo jīva jīvakāḥ

75

haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ

sārasāḥ pratidṛśyante śailaprasravaṇeṣv api

76

vadanti madhurā vācaḥ sarvabhūtamano 'nugāḥ

bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇa

77

caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ

ete vaiḍūrya varṇābhaṃ kṣobhayanti mahat sara

78

bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ

nānā prasravaṇebhyaś ca vāridhārāḥ patanty amūḥ

79

bhāskarābha prabhā bhīma śāradābhraghanopamāḥ

obhayanti mahāśailaṃ nānā rajatadhātava

80

kva cid añjana varṇābhāḥ kva cit kāñcanasaṃnibhāḥ

dhātavo haritālasya kvacid dhi gulakasya ca

81

manaḥśilā guhāś caiva saṃdhyābhranikaropamāḥ

aśalohita varṇābhāḥ kva cid gaurika dhātava

82

sitāsitābhra pratimā bālasūryasamaprabhāḥ

ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ

83

gandharvāḥ saha kāntāhir yathoktaṃ vṛṣaparvaṇā

dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha

84

gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ

śrūyate bahudhā bhīma sarvabhūtamanohara

85

mahāgaṅgām udīkṣasva puṇyāṃ deva nadīṃ śubhām

kalahaṃsa gaṇair juṣṭām ṛṣikiṃnarasevitām

86

dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ

gandharvair apsarobhiś ca kānakaiś ca manoramai

87

vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ

upetaṃ paśya kaunteya śailarājam ariṃdama

88

te prītamanasaḥ śūrāḥ prāptā gatim anuttamām

nātṛpyan partatendrasya darśanena paraṃtapāḥ

89

upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ

ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā

90

tatas taṃ tīvratapasaṃ kṛśaṃ dhamani saṃtatam

pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman
new testament luke chapter 5 catholic| new testament luke chapter 5 catholic
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 155