Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 186

Book 3. Chapter 186

The Mahabharata In Sanskrit


Book 3

Chapter 186

1

[वै]

ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम

पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः

2

नैके युगसहस्रान्तास तवया दृष्टा महामुने

न चापीह समः कश चिद आयुषा तव विद्यते

वर्जयित्वा महात्मानं बराह्मणं परमेष्ठिनम

3

अनन्तरिक्षे लॊके ऽसमिन देवदानव वर्जिते

तवम एव परलये विप्र बराह्मणम उपतिष्ठसि

4

परलये चापि निर्वृत्ते परबुद्धे च पितामहे

तवम एव सृज्यमानानि भूतानीह परपश्यसि

5

चतुर्विधानि विप्रर्षे यथावत परमेष्ठिना

वायुभूता दिशः कृत्वा विक्षिप्यापस ततस ततः

6

तवया लॊकगुरुः साक्षात सर्वलॊकपितामहः

आराधितॊ दविजश्रेष्ठ तत्परेण समाधिना

7

तस्मात सर्वान्तकॊ मृत्युर जरा वा देहनाशिनी

न तवा विशति विप्रर्षे परसादात परमेष्ठिनः

8

यदा नैव रविर नाग्निर न वायुर न च चन्द्रमः

नैवान्तरिक्षं नैवॊर्वी शेषं भवति किं चन

9

तस्मिन्न एकार्णवे लॊके नष्टे सथावरजङ्गमे

नष्टे देवासुरगणे समुत्सन्न महॊरगे

10

शयानम अमितात्मानं पद्मे पद्मनिकेतनम

तवम एकः सर्वभूतेशं बरह्माणम उपतिष्ठसि

11

एतत परत्यक्षतः सर्वं पूर्ववृत्तं दविजॊत्तम

तस्माद इच्छामहे शरॊतुं सर्वहेत्व आत्मिकां कथाम

12

अनुभूतं हि बहुशस तवयैकेन दविजॊत्तम

न ते ऽसत्य अविदितं किं चित सर्वलॊकेषु नित्यदा

13

[मार्क]

हन्त ते कथयिष्यामि नमस्कृत्वा सवयम्भुवे

पुरुषाय पुराणाय शाश्वतायाव्ययाय च

14

य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः

एष कर्ता विकर्ता च सर्वभावन भूतकृत

15

अचिन्त्यं महद आश्चर्यं पवित्रम अपि चॊत्तमम

अनादि निधनं भूतं विश्वम अक्षयम अव्ययम

16

एष कर्ता न करियते कारणं चापि पौरुषे

यॊ हय एनं पुरुषं वेत्ति देवा अपि न तं विदुः

17

सर्वम आश्चर्यम एवैतन निर्वृत्तं राजसत्तम

आदितॊ मनुजव्याघ्रकृत्स्नस्य जगतः कषये

18

चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम

तस्य तावच छती संध्या संध्यांशश च ततः परम

19

तरीणि वर्षसहस्राणि तरेया युगम इहॊच्यते

तस्य तावच छती संध्या संध्यांशश च ततः परम

20

तथा वर्षसहस्रे दवे दवापरं परिमाणतः

तस्यापि दविशती संध्या संख्यांशश च ततः परम

21

सहस्रम एकं वर्षाणां ततः कलियुगं समृतम

तस्य वर्षशतं संध्या संध्यांशश च ततः परम

संध्यासंध्यांशयॊस तुल्यं परमाणम उपधारय

22

कषीणे कलियुगे चैव परवर्तति कृतं युगम

एषा दवादश साहस्री युगाख्या परिकीर्तिता

23

एतत सहस्रपर्यन्तम अहर बराह्मम उदाहृतम

विश्वं हि बरह्मभवने सर्वशः परिवर्तते

लॊकानां मनुजव्याघ्रप्रलयं तं विदुर बुधाः

24

अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ

सहस्रान्ते नराः सर्वे परायशॊ ऽनृतवादिनः

25

यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस तथा

वरतप्रति निधिश चैव तस्मिन काले परवर्तते

26

बराह्मणाः शूद्र कर्माणस तथा शूद्रा धनार्जकाः

कषत्रधर्मेण वाप्य अत्र वर्तयन्ति गते युगे

27

निवृत्तयज्ञस्वाध्यायाः पिण्डॊदकविवर्जिताः

बराह्मणाः सर्वभक्षाश च भविष्यन्ति कलौ युगे

28

अजपा बराह्मणास तात शूद्रा जप परायणाः

विपरीते तदा लॊके पूर्वरूपं कषयस्य तत

29

बहवॊ मेच्छ राजानः पृथिव्यां मनुजाधिप

मिथ्यानुशासिनः पापा मृषावादपरायणाः

30

आन्ध्राः शकाः पुलिन्दाश च यवनाश च नराधिपाः

काम्बॊजा और्णिकाः शूद्रास तथाभीरा नरॊत्तम

31

न तदा बराह्मणः कश चित सवधर्मम उपजीवति

कषत्रिया अपि वैश्याश च विकर्मस्था नराधिप

32

अल्पायुषः सवल्प बला अल्पतेजः पराक्रमाः

अल्पदेहाल्प साराश च तथा सत्याल्प भाषिणः

33

बहु शून्या जनपदा मृगव्यालावृता दिशः

युगान्ते समनुप्राप्ते वृथा च बरह्मचारिणः

भॊगादिनस तथा शूद्रा बराह्मणाश चार्यवादिनः

34

युगान्ते मनुजव्याघ्रभवन्ति बहु जन्तवः

न तथा घराणयुक्ताश च सर्वगन्धा विशां पते

रसाश च मनुजव्याघ्रन तथा सवादु यॊगिनः

35

बहु परजा हरस्वदेहाः शीलाचार विवर्जिताः

मुखे भगाः सत्रियॊ राजन भविष्यन्ति युगक्षये

36

अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः

केशशूलाः सत्रियॊ राजन भविष्यन्ति युगक्षये

37

अल्पक्षीरास तथा गावॊ भविष्यन्ति जनाधिप

अल्पपुष्पफलाश चापि पादपा बहु वायसाः

38

बरह्म वध्यावलॊप्तानां तथा मिथ्याभिशंसिनाम

नृपाणां पृथिवीपाल परतिगृह्णन्ति वै दविजाः

39

लॊभमॊहपरीताश च मिथ्या धर्मध्वजावृताः

भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते दविजैर दिशः

40

करभार भयात पुंसॊ गृहस्थाः परिमॊषकाः

मुनिछद्माकृति छन्ना वाणिज्यम उपजीवते

41

मिथ्या च नखरॊमाणि धारयन्ति नरास तदा

अर्थलॊभान नरव्याघ्र वृथा च बरह्मचारिणः

42

आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः

ऐह लौकिकम ईहन्ते मांसशॊणितवर्धनम

43

बहु पाषण्ड संकीर्णाः परान्न गुणवादिनः

आश्रमा मनुजव्याघ्रन भवन्ति युगक्षये

44

यथर्तु वर्षी भगवान न तथा पाकशासनः

न तदा सर्वबीजानि सम्यग रॊहन्ति भारत

अधर्मफलम अत्यर्थं तदा भवति चानघ

45

तथा च पृथिवीपाल यॊ भवेद धर्मसंयुतः

अल्पायुः स हि मन्तव्यॊ न हि धर्मॊ ऽसति कश चन

46

भूयिष्ठं कूटमानैश च पण्यं विक्रीणते जनाः

वणिजश च नरव्याघ्र बहु माया भवन्त्य उत

47

धर्मिष्ठाः परिहीयन्ते पापीयान वर्धते जनः

धर्मस्य बलहानिः सयाद अधर्मश च बली तथा

48

अल्पायुषॊ दरिद्राश च धर्मिष्ठा मानवास तदा

दीर्घायुषः समृद्धाश च विधर्माणॊ युगक्षये

49

अधर्मिष्ठैर उपायैश च परजा वयवहरन्त्य उत

संचयेनापि चाल्पेन भवन्त्य आढ्या मदान्विताः

50

धनं विश्वासतॊ नयस्तं मिथॊ भूयिष्ठशॊ नराः

हर्तुं वयवसिता राजन मायाचार समन्विताः

51

पुरुषादानि सत्त्वानि पक्षिणॊ ऽथ मृगास तथा

नगराणां विहारेषु चैत्येष्व अपि च शेरते

52

सप्त वर्षाष्ट वर्षाश च सत्रियॊ गर्भधरा नृप

दश दवादश वर्षाणां पुंसां पुत्रः परजायते

53

भवन्ति षॊडशे वर्षे नराः पलितिनस तथा

आयुः कषयॊ मनुष्याणां कषिप्रम एव परपद्यते

54

कषीणे युगे महाराज तरुणा वृद्धशीलिनः

तरुणानां च यच छीलं तद वृद्धेषु परजायते

55

विपरीतास तदा नार्यॊ वञ्चयित्वा रहॊ पतीन

वयुच्चरन्त्य अपि दुःशीला दासैः पशुभिर एव च

56

तस्मिन युगसहस्रान्ते संप्राप्ते चायुषः कषये

अनावृष्टिर महाराज जायते बहु वार्षिकी

57

ततस तान्य अल्पसाराणि सत्त्वानि कषुधितानि च

परलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते

58

ततॊ दिनकरैर दीप्तैः सप्तभिर मनुजाधिप

पीयते सलिलं सर्वं समुद्रेषु सरित्सु च

59

यच च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत

सर्वं तद भस्मसाद भूतं दृश्यते भरतर्षभः

60

ततः संवर्तकॊ वह्निर वायुना सह भारत

लॊकम आविशते पूर्वम आदित्यैर उपशॊषितम

61

ततः स पृथिवीं भित्त्वा समाविश्य रसातलम

देवदानव यक्षाणां भयं जनयते महत

62

निर्दहन नागलॊकं च यच च किं चित कषिताव इह

अधस्तात पृथिवीपाल सर्वं नाशयते कषणात

63

ततॊ यॊजनविंशानां सहस्राणि शतानि च

निर्दहत्य अशिवॊ वायुः स च संवर्तकॊ ऽनलः

64

सदेवासुरगन्धर्वं सयक्षॊरग राक्षसम

ततॊ दहति दीप्तः स सर्वम एव जगद विभुः

65

ततॊ गजकुलप्रख्यास तडिन माला विभूषिताः

उत्तिष्ठन्ति महामेघा नभस्य अद्भुतदर्शनाः

66

के चिन नीलॊत्पलश्यामाः के चित कुमुदसंनिभाः

के चित किञ्जल्कसंकाशाः के चित पीताः पयॊधराः

67

के चिद धारिद्र संकाशाः काकाण्डक निभास तथा

के चित कमलपत्राभाः केचिद धिङ्गुलक परभाः

68

के चित पुरवराकाराः के चिद गजकुलॊपमाः

के चिद अञ्जनसंकाशाः के चिन मकरसंस्थिताः

विद्युन्माला पिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः

69

घॊररूपा महाराज घॊरस्वननिनादिताः

ततॊ जलधराः सर्वे वयाप्नुवन्ति नभस्तलम

70

तैर इयं पृथिवी सर्वा सपर्वतवनाकरा

आपूर्यते महाराज सलिलौघपरिप्लुता

71

ततस ते जलदा घॊरा राविणः पुरुषर्षभ

सर्वतः पलावयन्त्य आशु चॊदिताः परमेष्ठिना

72

वर्षमाणा महत तॊयं पूरयन्तॊ वसुंधराम

सुघॊरम अशिवं रौद्रं नाशयन्ति च पावकम

73

ततॊ दवादश वर्षाणि पयॊदास त उपप्लवे

धाराभिः पूरयन्तॊ वै चॊद्यमाना महात्मना

74

ततः समुद्रः सवां वेलाम अतिक्रामति भारत

पर्वताश च विशीर्यन्ते मही चापि विशीर्यते

75

सर्वतः सहसा भरान्तास ते पयॊदा नभस्तलम

संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः

76

ततस तं मारुतं घॊरं सवयम्भूर मनुजाधिप

आदि पद्मालयस्ल देवः पीत्वा सवपिति भारत

77

तस्मिन्न एकार्णवे घॊरे नष्टे सथावरजङ्गमे

नष्टे देवासुरगणे यक्षाराक्षस वर्जिते

78

निर्मनुष्ये महीपाल निःश्वापद महीरुहे

अनन्तरिक्षे लॊके ऽसमिन भरमाम्य एकॊ ऽहम आदृतः

79

एकार्णवे जले घॊरे विचरन पार्थिवॊत्तम

अपश्यन सर्वभूतानि वैक्लव्यम अगमं परम

80

ततः सुदीर्घं गत्वा तु पलवमानॊ नराधिप

शरान्तः कव चिन न शरणं लभाम्य अहम अतन्द्रितः

81

ततः कदा चित पश्यामि तस्मिन सलिलसंप्लवे

नयग्रॊधं सुमहान्तं वै विशालं पृथिवीपते

82

शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप

पर्यङ्के पृथिवीपाल दिव्यास्तरण संस्तृते

83

उपविष्टं महाराज पूर्णेन्दुसदृशाननम

फुल्लपद्मविशालाक्षं बालं पश्यामि भारत

84

ततॊ मे पृथिवीपाल विस्मयः सुमहान अभूत

कथं तव अयं शिशुः शेते लॊके नाशम उपागते

85

तपसा चिन्तयंश चापि तं शिशुं नॊपलक्षये

भूतं भव्यं भविष्यच च जानन्न अपि नराधिप

86

अतसी पुष्पवर्णाभः शरीवत्स कृतलक्षणः

साक्षाल लक्ष्म्या इवावासः स तदा परतिभाति मे

87

ततॊ माम अब्रवीद बालः स पद्मनिभ लॊचनः

शरीवत्स धारी दयुतिमान वाक्यं शरुतिसुखावहम

88

जानामि तवा परिश्रान्तं तात विश्रामकाङ्क्षिणम

मार्कण्डेय इहास्स्व तवं यावद इच्छसि भार्गव

89

अभ्यन्तरं शरीरं मे परविश्य मुनिसत्तम

आस्स्व भॊ विहितॊ वासः परसादस ते कृतॊ मया

90

ततॊ बालेन तेनैवम उक्तस्यासीत तदा मम

निर्वेदॊ जीविते दीर्घे मनुष्यत्व च भारत

91

ततॊ बालेन तेनास्यं सहसा विवृतं कृतम

तस्याहम अवशॊ वक्त्रं दैवयॊगात परवेशितः

92

ततः परविष्टस तत कुक्षिं सहसा मनुजाधिप

सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम

93

गङ्गां शतद्रुं सीतां च यमुनाम अथ कौशिकीम

चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम

94

सिन्धुं चैव विपाशां च नदीं गॊदावरीम अपि

वस्वॊकसारां नलिनीं नर्मदां चैव भारत

95

नदीं ताम्रां च वेण्णां च पुण्यतॊयां शुभावहाम

सुवेणां कृष्णवेणां च इरामां च महानदीम

शॊणं च पुरुषव्याघ्र विशल्यां कम्पुनाम अपि

96

एताश चान्याश च नद्यॊ ऽहं पृथिव्यां या नरॊत्तम

परिक्रामन परपश्यामि तस्य कुक्षौ महात्मनः

97

ततः समुद्रं पश्यामि यादॊगणनिषेवितम

रत्नाकरम अमित्रघ्न निधानं पयसॊ महत

98

ततः पश्यामि गगनं चन्द्रसूर्यविराजितम

जाज्वल्यमानं तेजॊभिः पावकार्क समप्रभैः

पश्यामि च महीं राजन कानकैर उपशॊभिताम

99

यजन्ते हि तदा राजन बराह्मणा बहुभिः सवैः

कषत्रियाश च परवर्तन्ते सर्ववर्णानुरञ्जने

100

वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप

शुश्रूषायां च निरता दविजानां वृषलास तथा

101

ततः परिपतन राजंस तस्य कुक्षौ महात्मनः

हिमवन्तं च पश्यामि हेमकूटं च पर्वतम

102

निषधं चापि पश्यामि शवेतं च रजता चितम

पश्यामि च महीपाल पर्वतं गन्धमादनम

103

मन्दरं मनुजव्याघ्रनीलं चापि महागिरिम

पश्यामि च महाराज मेरुं कनकपर्वतम

104

महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम उत्तमम

मलयं चापि पश्यामि पारियात्रं च पर्वतम

105

एते चान्ये च बहवॊ यावन्तः पृथिवीधराः

तस्यॊदरे मया दृष्टाः सर्वरत्नविभूषिताः

106

सिंहान वयाघ्रान वराहांश च नागांश च मनुजाधिप

पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते

तानि सर्वाण्य अहं तत्र पश्यन पर्यचरं तदा

107

कुक्षौ तस्य नरव्याघ्र परविष्टः संचरन दिशः

शक्रादींश चापि पश्यामि कृत्स्नान देवगणांस तथा

108

गन्धर्वाप्सरसॊ यक्षान ऋषींश चैव महीपते

दैत्यदानव संघांश च ये चान्ये सुरशत्रवः

109

यच च किं चिन मया लॊके दृष्टं सथावरजङ्गमम

तद अपश्यम अहं सर्वं तस्य कुक्षौ महात्मनः

फलाहारः परविचरन कृत्स्नं जगद इदं तदा

110

अन्तः शरीरे तस्याहं वर्षाणाम अधिकं शतम

न च पश्यामि तस्याहम अन्तं देहस्य कुत्र चित

111

सततं धावमानश च चिन्तयानॊ विशां पते

आसादयामि नैतान्तं तस्य राजन महात्मनः

112

ततस तम एव शरणं गतॊ ऽसमि विधिवत तदा

वरेण्यं वरदं देवं मनसा कर्मणैव च

113

ततॊ ऽहं सहसा राजन वायुवेगेन निःसृतः

महात्मानॊ मुखात तस्य विवृतात पुरुषॊत्तम

114

ततस तस्यैव शाखायां नयग्रॊघस्य विशां पते

आस्ते मनुजशार्दूल कृत्स्नम आदाय वै जगत

115

तेनैव बाल वेषेण शरीवत्स कृतलक्षणम

आसीनं तं नरव्याघ्र पश्याम्य अमिततेजसम

116

ततॊ माम अब्रवीद वीर स बालः परहसन्न इव

शरीवत्स धारी दयुतिमान पीतवासा महाद्युतिः

117

अपीदानीं शरीरे ऽसमिन मामके मुनिसत्तम

उषितस तवं सुविश्रान्तॊ मार्कण्डेय बरवीहि मे

118

मुहूर्ताद अथ मे दृष्टिः परादुर्भूता पुनर नवा

यया निर्मुक्तम आत्मानम अपश्यं लब्धचेतसम

119

तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ

सुजातौ मृदु रक्ताभिर अङ्गुलीभिर अलंकृतौ

120

परयतेन मया मूर्ध्ना गृहीत्वा हय अभिवन्दितौ

दृष्ट्वापरिमितं तस्य परभावम अमितौजसः

121

विनयेनाञ्जलिं कृत्वा परयत्नेनॊपगम्य च

दृष्टॊ मया स भूतात्मा देवः कमललॊचनः

122

तम अहं पराञ्जलिर भूत्वा नमस्कृत्येदम अब्रुवम

जञातुम इच्छामि देव तवां मायां चेमां तवॊत्तमाम

123

आस्येनानुप्रविष्टॊ ऽहं शरीरं भगवंस तव

दृष्टवान अखिलाँल लॊकान समस्ताज जठरे तव

124

तव देव शरीरस्था देवदानवराक्षसाः

यक्षगन्धर्वनागाश च जगत सथावरजङ्गमम

125

तवत्प्रसादाच च मे देव समृतिर न परिहीयते

दरुतम अन्तः शरीरे ते सततं परिधावतः

126

इच्छामि पुण्डरीकाक्ष जञातुं तवाहम अनिन्दित

इह भूत्वा शिशुः साक्षात किं भवान अवतिष्ठते

पीत्वा जगद इदं विश्वम एतद आख्यातुम अर्हसि

127

किमर्थं च जगत सर्वं शरीरस्थं तवानघ

कियन्तं च तवया कालम इह सथेयम अरिंदम

128

एतद इच्छामि देवेश शरॊतुं बराह्मण काम्यया

तवत्तः कमलपत्राक्ष विस्तरेण यथातथम

महद धयेतद अचिन्त्यं च यद अहं दृष्टवान परभॊ

129

इत्य उक्तः स मया शरीमान देवदेवॊ महाद्युतिः

सान्त्वयन माम इदं वाक्यम उवाच वदतां वरः

1

[vai]

tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam

papraccha vinayopeto dharmarājo yudhiṣṭhira

2

naike yugasahasrāntās tvayā dṛṣṭā mahāmune

na cāpīha samaḥ kaś cid āyuṣā tava vidyate

varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam

3

anantarikṣe loke 'smin devadānava varjite

tvam eva pralaye vipra brāhmaṇam upatiṣṭhasi

4

pralaye cāpi nirvṛtte prabuddhe ca pitāmahe

tvam eva sṛjyamānāni bhūtānīha prapaśyasi

5

caturvidhāni viprarṣe yathāvat parameṣṭhinā

vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tata

6

tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ

ārādhito dvijaśreṣṭha tatpareṇa samādhinā

7

tasmāt sarvāntako mṛtyur jarā vā dehanāśinī

na tvā viśati viprarṣe prasādāt parameṣṭhina

8

yadā naiva ravir nāgnir na vāyur na ca candramaḥ

naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana

9

tasminn ekārṇave loke naṣṭe sthāvarajaṅgame

naṣṭe devāsuragaṇe samutsanna mahorage

10

ayānam amitātmānaṃ padme padmaniketanam

tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi

11

etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama

tasmād icchāmahe śrotuṃ sarvahetv ātmikāṃ kathām

12

anubhūtaṃ hi bahuśas tvayaikena dvijottama

na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā

13

[mārk]

hanta te kathayiṣyāmi namaskṛtvā svayambhuve

puruṣāya purāṇāya śāśvatāyāvyayāya ca

14

ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ

eṣa kartā vikartā ca sarvabhāvana bhūtakṛt

15

acintyaṃ mahad āścaryaṃ pavitram api cottamam

anādi nidhanaṃ bhūtaṃ viśvam akṣayam avyayam

16

eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe

yo hy enaṃ puruṣaṃ vetti devā api na taṃ vidu

17

sarvam āścaryam evaitan nirvṛttaṃ rājasattama

ādito manujavyāghrakṛtsnasya jagataḥ kṣaye

18

catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam

tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param

19

trīṇi varṣasahasrāṇi treyā yugam ihocyate

tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param

20

tathā varṣasahasre dve dvāparaṃ parimāṇataḥ

tasyāpi dviśatī saṃdhyā saṃkhyāṃśaś ca tataḥ param

21

sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam

tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param

saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya

22

kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam

eṣā dvādaśa sāhasrī yugākhyā parikīrtitā

23

etat sahasraparyantam ahar brāhmam udāhṛtam

viśvaṃ hi brahmabhavane sarvaśaḥ parivartate

lokānāṃ manujavyāghrapralayaṃ taṃ vidur budhāḥ

24

alpāvaśiṣṭe tu tadā yugānte bharatarṣabha

sahasrānte narāḥ sarve prāyaśo 'nṛtavādina

25

yajñapratinidhiḥ pārtha dānapratinidhis tathā

vrataprati nidhiś caiva tasmin kāle pravartate

26

brāhmaṇāḥ śdra karmāṇas tathā śūdrā dhanārjakāḥ

kṣatradharmeṇa vāpy atra vartayanti gate yuge

27

nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ

brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge

28

ajapā brāhmaṇās tāta śūdrā japa parāyaṇāḥ

viparīte tadā loke pūrvarūpaṃ kṣayasya tat

29

bahavo meccha rājānaḥ pṛthivyāṃ manujādhipa

mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ

30

ndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ

kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama

31

na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati

kṣatriyā api vaiśyāś ca vikarmasthā narādhipa

32

alpāyuṣaḥ svalpa balā alpatejaḥ parākramāḥ

alpadehālpa sārāś ca tathā satyālpa bhāṣiṇa

33

bahu śūnyā janapadā mṛgavyālāvṛtā diśaḥ

yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ

bhogādinas tathā śūdrā brāhmaṇāś cāryavādina

34

yugānte manujavyāghrabhavanti bahu jantavaḥ

na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate

rasāś ca manujavyāghrana tathā svādu yogina

35

bahu prajā hrasvadehāḥ śīlācāra vivarjitāḥ

mukhe bhagāḥ striyo rājan bhaviṣyanti yugakṣaye

36

aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ

keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye

37

alpakṣīrās tathā gāvo bhaviṣyanti janādhipa

alpapuṣpaphalāś cāpi pādapā bahu vāyasāḥ

38

brahma vadhyāvaloptānāṃ tathā mithyābhiśaṃsinām

nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ

39

lobhamohaparītāś ca mithyā dharmadhvajāvṛtāḥ

bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśa

40

karabhāra bhayāt puṃso gṛhasthāḥ parimoṣakāḥ

munichadmākṛti channā vāṇijyam upajīvate

41

mithyā ca nakharomāṇi dhārayanti narās tadā

arthalobhān naravyāghra vṛthā ca brahmacāriṇa

42

ā
rameṣu vṛthācārāḥ pānapā gurutalpagāḥ

aiha laukikam īhante māṃsaśoṇitavardhanam

43

bahu pāṣaṇḍa saṃkīrṇāḥ parānna guṇavādina

ā
ramā manujavyāghrana bhavanti yugakṣaye

44

yathartu varṣī bhagavān na tathā pākaśāsanaḥ

na tadā sarvabījāni samyag rohanti bhārata

adharmaphalam atyarthaṃ tadā bhavati cānagha

45

tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ

alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana

46

bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ

vaṇijaś ca naravyāghra bahu māyā bhavanty uta

47

dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ

dharmasya balahāniḥ syād adharmaś ca balī tathā

48

alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā

dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye

49

adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta

saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ

50

dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ

hartuṃ vyavasitā rājan māyācāra samanvitāḥ

51

puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā

nagarāṇāṃ vihāreṣu caityeṣv api ca śerate

52

sapta varṣāṣa varṣāś ca striyo garbhadharā nṛpa

daśa dvādaśa varṣāṇāṃ puṃsāṃ putraḥ prajāyate

53

bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā

āyuḥ kṣayo manuṣyāṇāṃ kṣipram eva prapadyate

54

kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ

taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate

55

viparītās tadā nāryo vañcayitvā raho patīn

vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca

56

tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye

anāvṛṣṭir mahārāja jāyate bahu vārṣikī

57

tatas tāny alpasārāṇi sattvāni kṣudhitāni ca

pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate

58

tato dinakarair dīptaiḥ saptabhir manujādhipa

pīyate salilaṃ sarvaṃ samudreṣu saritsu ca

59

yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata

sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha

60

tataḥ saṃvartako vahnir vāyunā saha bhārata

lokam āviśate pūrvam ādityair upaśoṣitam

61

tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam

devadānava yakṣāṇāṃ bhayaṃ janayate mahat

62

nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha

adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt

63

tato yojanaviṃśānāṃ sahasrāṇi śatāni ca

nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nala

64

sadevāsuragandharvaṃ sayakṣoraga rākṣasam

tato dahati dīptaḥ sa sarvam eva jagad vibhu

65

tato gajakulaprakhyās taḍin mālā vibhūṣitāḥ

uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ

66

ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ

ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ

67

ke cid dhāridra saṃkāśāḥ kākāṇḍaka nibhās tathā

ke cit kamalapatrābhāḥ kecid dhiṅgulaka prabhāḥ

68

ke cit puravarākārāḥ ke cid gajakulopamāḥ

ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ

vidyunmālā pinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ

69

ghorarūpā mahārāja ghorasvananināditāḥ

tato jaladharāḥ sarve vyāpnuvanti nabhastalam

70

tair iyaṃ pṛthivī sarvā saparvatavanākarā

āpūryate mahārāja salilaughapariplutā

71

tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha

sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā

72

varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām

sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam

73

tato dvādaśa varṣāṇi payodās ta upaplave

dhārābhiḥ pūrayanto vai codyamānā mahātmanā

74

tataḥ samudraḥ svāṃ velām atikrāmati bhārata

parvatāś ca viśīryante mahī cāpi viśīryate

75

sarvataḥ sahasā bhrāntās te payodā nabhastalam

saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ

76

tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa

ādi padmālayasl devaḥ pītvā svapiti bhārata

77

tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame

naṣṭe devāsuragaṇe yakṣārākṣasa varjite

78

nirmanuṣye mahīpāla niḥśvāpada mahīruhe

anantarikṣe loke 'smin bhramāmy eko 'ham ādṛta

79

ekārṇave jale ghore vicaran pārthivottama

apaśyan sarvabhūtāni vaiklavyam agamaṃ param

80

tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa

śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandrita

81

tataḥ kadā cit paśyāmi tasmin salilasaṃplave

nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate

82

ś
khāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa

paryaṅke pṛthivīpāla divyāstaraṇa saṃstṛte

83

upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam

phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata

84

tato me pṛthivīpāla vismayaḥ sumahān abhūt

kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate

85

tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye

bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa

86

atasī puṣpavarṇābhaḥ śrīvatsa kṛtalakṣaṇaḥ

sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me

87

tato mām abravīd bālaḥ sa padmanibha locanaḥ

śrīvatsa dhārī dyutimān vākyaṃ śrutisukhāvaham

88

jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam

mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava

89

abhyantaraṃ śarīraṃ me praviśya munisattama

āssva bho vihito vāsaḥ prasādas te kṛto mayā

90

tato bālena tenaivam uktasyāsīt tadā mama

nirvedo jīvite dīrghe manuṣyatva ca bhārata

91

tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam

tasyāham avaśo vaktraṃ daivayogāt praveśita

92

tataḥ praviṣṭas tat kukṣiṃ sahasā manujādhipa

sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm

93

gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm

carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm

94

sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api

vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata

95

nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām

suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm

śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api

96

etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama

parikrāman prapaśyāmi tasya kukṣau mahātmana

97

tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam

ratnākaram amitraghna nidhānaṃ payaso mahat

98

tataḥ paśyāmi gaganaṃ candrasūryavirājitam

jājvalyamānaṃ tejobhiḥ pāvakārka samaprabhaiḥ

paśyāmi ca mahīṃ rājan kānakair upaśobhitām

99

yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ

kṣatriyāś ca pravartante sarvavarṇānurañjane

100

vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa

śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā

101

tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ

himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam

102

niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatā citam

paśyāmi ca mahīpāla parvataṃ gandhamādanam

103

mandaraṃ manujavyāghranīlaṃ cāpi mahāgirim

paśyāmi ca mahārāja meruṃ kanakaparvatam

104

mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam

malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam

105

ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ

tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ

106

siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa

pṛthivyāṃ yāni cānyāni sattvāni jagatīpate

tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā

107

kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ

śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā

108

gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate

daityadānava saṃghāṃś ca ye cānye suraśatrava

109

yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam

tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ

phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā

110

antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam

na ca paśyāmi tasyāham antaṃ dehasya kutra cit

111

satataṃ dhāvamānaś ca cintayāno viśāṃ pate

āsādayāmi naitāntaṃ tasya rājan mahātmana

112

tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā

vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca

113

tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ

mahātmāno mukhāt tasya vivṛtāt puruṣottama

114

tatas tasyaiva śākhāyāṃ nyagroghasya viśāṃ pate

āste manujaśārdūla kṛtsnam ādāya vai jagat

115

tenaiva bāla veṣeṇa śrīvatsa kṛtalakṣaṇam

āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam

116

tato mām abravīd vīra sa bālaḥ prahasann iva

śrīvatsa dhārī dyutimān pītavāsā mahādyuti

117

apīdānīṃ śarīre 'smin māmake munisattama

uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me

118

muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā

yayā nirmuktam ātmānam apaśyaṃ labdhacetasam

119

tasya tāmratalau tāta caraṇau supratiṣṭhitau

sujātau mṛdu raktābhir aṅgulībhir alaṃkṛtau

120

prayatena mayā mūrdhnā gṛhītvā hy abhivanditau

dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasa

121

vinayenāñjaliṃ kṛtvā prayatnenopagamya ca

dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocana

122

tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam

jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām

123

syenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava

dṛṣṭavān akhilāṁl lokān samastāj jaṭhare tava

124

tava deva śarīrasthā devadānavarākṣasāḥ

yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam

125

tvatprasādāc ca me deva smṛtir na parihīyate

drutam antaḥ śarīre te satataṃ paridhāvata

126

icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita

iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate

pītvā jagad idaṃ viśvam etad ākhyātum arhasi

127

kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha

kiyantaṃ ca tvayā kālam iha stheyam ariṃdama

128

etad icchāmi deveśa śrotuṃ brāhmaṇa kāmyayā

tvattaḥ kamalapatrākṣa vistareṇa yathātatham

mahad dhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho

129

ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ

sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ
tone dynamic| american government seventh edition chapter note
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 186