Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 80

Book 3. Chapter 80

The Mahabharata In Sanskrit


Book 3

Chapter 80

1

[व]

धनंजयॊत्सुकास ते तु वने तस्मिन महारथाः

नयवसन्त महाभागा दरौपद्या सह पाण्डवाः

2

अथापश्यन महात्मानं देवर्षिं तत्र नारदम

दीप्यमानं शरिया बराह्म्या दीप्ताग्निसमतेजसम

3

स तैः परिवृतः शरीमान भरातृभिः कुरुसत्तमः

विबभाव अतिदीप्तौजॊ देवैर इव शतक्रतुः

4

यथा च वेदान सावित्री याज्ञसेनी तथा सती

न जहौ धर्मतः पार्थान मेरुम अर्कप्रभा यथा

5

परतिगृह्य तु तां पूजां नारदॊ भगवान ऋषिः

आश्वासयद धर्मसुतं युक्तरूपम इवानघ

6

उवाच च महात्मानं धर्मराजं युधिष्ठिरम

बरूहि धर्मभृतां शरेष्ठ केनार्थः किं ददामि ते

7

अथ धर्मसुतॊ राजा परणम्य भरातृभिः सह

उवाच पराञ्जलिर वाक्यं नारदं देव संमितम

8

तवयि तुष्टे महाभाग सर्वलॊकाभिपूजिते

कृतम इत्य एव मन्ये ऽहं परसादात तव सुव्रत

9

यदि तव अहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ

संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम अर्हसि

10

परदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः

किं फलं तस्य कार्त्स्न्येन तद बरह्मन वक्तुम अर्हसि

11

[न]

शृणु राजन्न अवहितॊ यथा भीष्मेण भारत

पुलस्त्यस्य सकाशाद वै सर्वम एतद उपश्रुतम

12

पुरा भागीरथी तीरे भीष्मॊ धर्मभृतां वरः

पित्र्यं वरतं समास्थाय नयवसन मुनिवत तदा

13

शुभे देशे महाराज पुण्ये देवर्षिसेविते

गङ्गा दवारे महातेजॊ देवगन्धर्वसेविते

14

स पितॄंस तर्पयाम आस देवांश च परमद्युतिः

ऋषींश च तॊषयाम आस विधिदृष्टेन कर्मणा

15

कस्य चित तव अथ कालस्य जपन्न एव महातपाः

ददर्शाद्भुतसंकाशं पुलस्त्यम ऋषिसत्तमम

16

स तं दृष्ट्वॊग्र तपसं दीप्यमानम इव शरिया

परहर्षम अतुलं लेभे विस्मयं च परं ययौ

17

उपस्थितं महाराज पूजयाम आस भारत

भीष्मॊ धर्मभृतां शरेष्ठॊ विधिदृष्टेन कर्मणा

18

शिरसा चार्घ्यम आदाय शुचिः परयत मानसः

नाम संकीर्तयाम आस तस्मिन बरह्मर्षिसत्तमे

19

भीष्मॊ ऽहम अस्मि भद्रं ते दासॊ ऽसमि तव सुव्रत

तव संदर्शनाद एव मुक्तॊ ऽहं सर्वकिल्बिषैः

20

एवम उक्त्वा महाराज भीष्मॊ धर्मभृतां वरः

वाग्यतः पराञ्जलिर भूत्वा तूष्णीम आसीद युधिष्ठिर

21

तं दृष्ट्वा नियमेनाथ सवाध्यायाम्नाय कर्शितम

भीष्मं कुरु कुलश्रेष्ठं मुनिः परीतमनाभवत

22

[पुलस्त्य]

अनेन तव धर्मज्ञ परश्रयेण दमेन च

सत्येन च महाभाग तुष्टॊ ऽसमि तव सर्वशः

23

यस्येदृशस ते धर्मॊ ऽयं पितृभक्त्याश्रितॊ ऽनघ

तेन पश्यसि मां पुत्र परीतिश चापि मम तवयि

24

अमॊघदर्शी भीष्माहं बरूहि किं करवाणि ते

यद वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ

25

[भ]

परीते तवयि महाभाग सर्वलॊकाभिपूजिते

कृतम इत्य एव मन्ये ऽहं यद अहं दृष्टवान परभुम

26

यदि तव अहम अनुग्राह्यस तव धर्मभृतां वर

वक्ष्यामि हृत्स्थं संदेहं तन मे तवं वक्तुम अर्हसि

27

अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः

तम अहं शरॊतुम इच्छामि पृथक संकीर्तितं तवया

28

परदक्षिणं यः पृथिवीं करॊत्य अमितविक्रम

किं फलं तस्य विप्रर्षे तन मे बरूहि तपॊधन

29

[प]

हन्त ते ऽहं परवक्ष्यामि यद ऋषीणां परायणम

तद एकाग्रमनास तात शृणु तीर्थेषु यत फलम

30

यस्य हस्तौ च पादौ च मनश चैव सुसंयतम

विद्या तपश च कीर्तिश च स तीर्थफलम अश्नुते

31

परतिग्रहाद उपावृत्तः संतुष्टॊ नियतः शुचिः

अहं कारनिवृत्तिश च स तीर्थफलम अश्नुते

32

अकल्ककॊ निरारम्भॊ लघ्व आहारॊ जितेन्द्रियः

विमुक्तः सर्वदॊषैर यः स तीर्थफलम अश्नुते

33

अक्रॊधनश च राजेन्द्र सत्यशीलॊ दृढव्रतः

आत्मॊपमश च भूतेषु स तीर्थफलम अश्नुते

34

ऋषिभिः करतवः परॊक्ता वेदेष्व इह यथाक्रमम

फलं चैव यथातत्त्वं परेत्य चेह च सर्वशः

35

न ते शक्या दरिद्रेण यज्ञाः पराप्तुं महीपते

बहूपकरणा यज्ञा नाना संभारविस्तराः

36

पराप्यन्ते पार्थिवैर एते समृद्धैर वा नरैः कव चित

नार्थान्य ऊनॊपकरणैर एकात्मभिर असंहतैः

37

यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं नरेश्वर

तुल्यॊ यज्ञफलैः पुण्यैस तं निबॊध युधां वर

38

ऋषीणां परमं गुह्यम इदं भरतसत्तम

तीर्थाभिगमनं पुण्यं यज्ञैर अपि विशिष्यते

39

अनुपॊष्य तरिरात्राणि तीर्थान्य अनभिगम्य च

अदत्त्वा काञ्चनं गाश च दरिद्रॊ नाम जायते

40

अग्निष्टॊमादिभिर यज्ञैर इष्ट्वा विपुलदक्षिणैः

न तत फलम अवाप्नॊति तीर्थाभिगमनेन यत

41

नृलॊके देवदेवस्य तीर्थं तरैलॊक्यविश्रुतम

पुष्करं नाम विख्यातं महाभागः समाविशेत

42

दशकॊटिसहस्राणि तीर्थानां वै महीपते

सांनिध्यं पुष्करे येषां तरिसंध्यं कुरुनन्दन

43

आदित्या वसवॊ रुद्राः साध्याश च स मरुद्गणाः

गन्धर्वाप्सरसश चैव नित्यं संनिहिता विभॊ

44

यत्र देवास तपस तप्त्वा दैत्या बरह्मर्षयस तथा

दिव्ययॊगा महाराज पुण्येन महतान्विताः

45

मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः

पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते

46

तस्मिंस तीर्थे महाभाग नित्यम एव पिता महः

उवास परमप्रीतॊ देवदानव संम्मतः

47

पुष्करेषु महाभाग देवाः सर्षिपुरॊगमाः

सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः

48

तत्राभिषेकं यः कुर्यात पितृदेवार्चने रतः

अश्वमेधं दशगुणं परवदन्ति मनीषिणः

49

अप्य एकं भॊजयेद विप्रं पुष्करारण्यम आश्रितः

तेनासौ कर्मणा भीष्म परेत्य चेह च मॊदते

50

शाकमूलफलैर वापि येन वर्तयते सवयम

तद वै दद्याद बराह्मणाय शरद्धावान अनसूयकः

तेनैव पराप्नुयात पराज्ञॊ हयमेध फलं नरः

51

बराह्मणः कषत्रियॊ वैश्यः शूद्रॊ वा राजसत्तम

न वियॊनिं वरजन्त्य एते सनातास तीर्थे महात्मनः

52

कार्तिक्यां तु विशेषेण यॊ ऽभिगच्छेत पुष्करम

फलं तत्राक्षयं तस्य वर्धते भरतर्षभ

53

सायंप्रातः समरेद यस तु पुष्कराणि कृताञ्जलिः

उपस्पृष्टं भवेत तेन सर्वतीर्थेषु भारत

पराप्नुयाच च नरॊ लॊकान बरह्मणः सदने ऽकषयान

54

जन्मप्रभृति यत पापं सत्रियॊ वा पुरुषस्य वा

पुष्करे सनातमात्रस्य सर्वम एव परणश्यति

55

यथा सुराणां सर्वेषाम आदिस तु मधुसूदनः

तथैव पुष्करं राजंस तीर्थानाम आदिर उच्यते

56

उष्य दवादश वर्षाणि पुष्करे नियतः शुचिः

करतून सर्वान अवाप्नॊति बरह्मलॊकं च गच्छति

57

यस तु वर्षशतं पूर्णम अग्निहॊत्रम उपासते

कार्तिकीं वा वसेद एकां पुष्करे समम एव तत

58

पुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः

दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम

59

उष्य दवादश रात्रं तु नियतॊ नियताशनः

परदक्षिणम उपावृत्तॊ जम्बू मार्गं समाविशेत

60

जम्बू मार्गं समाविश्य देवर्षिपितृसेवितम

अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति

61

तत्रॊष्य रजनीः पञ्च षष्ठ कालक्षमी नरः

न दुर्गतिम अवाप्नॊति सिद्धिं पराप्नॊति चॊत्तमाम

62

जम्बू मार्गाद उपावृत्तॊ गच्छेत तण्डुलिकाश्रमम

न दुर्गतिम अवाप्नॊति सवर्गलॊके च पूज्यते

63

अगस्य सर आसाद्य पितृदेवार्चने रतः

तरिरात्रॊपॊषितॊ राजन्न अग्निष्टॊम फलं लभेत

64

शाकवृत्तिः फलैर वापि कौमारं विन्दते पदम

कण्वाश्रमं समासाद्य शरीजुष्टं लॊकपूजितम

65

धर्मारण्यं हि तत पुण्यम आद्यं च भरतर्षभ

यत्र परविष्टमात्रॊ वै पापेभ्यॊ विप्रमुच्यते

66

अर्चयित्वा पितॄन देवान नियतॊ नियताशनः

सर्वकामसमृद्धस्य यज्ञस्य फलम अश्नुते

67

परदक्षिणं ततः कृत्वा ययाति पतनं वरजेत

हयमेधस्य यज्ञस्य फलं पराप्नॊति तत्र वै

68

महाकालं ततॊ गच्छेन नियतॊ नियताशनः

कॊटितीर्थम उपस्पृश्य हयमेध फलं लभेत

69

ततॊ गच्छेत धर्मज्ञ पुण्यस्थानम उमापतेः

नाम्ना भद्र वटं नाम तरिषु लॊकेषु विश्रुतम

70

तत्राभिगम्य चेशानं गॊसहस्रफलं लभेत

महादेव परसादाच च गाणपत्यम अवाप्नुयात

71

नर्मदाम अथ चासाद्य नदीं तरैलॊक्यविश्रुताम

तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत

72

दक्षिणं सिन्धुम आसाद्य बरह्म चारी जितेन्द्रियः

अग्निष्टॊमम अवाप्नॊति विमानं चाधिरॊहति

73

चर्मण्वतीं समासाद्य नियतॊ नियताशनः

रन्ति देवाभ्यनुज्ञातॊ अग्निष्टॊम फलं लभेत

74

ततॊ गच्छेत धर्मज्ञ हिमवत्सुतम अर्बुदम

पृथिव्यां यत्र वै छिद्रं पूर्वम आसीद युधिष्ठिर

75

तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः

तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत

76

पिङ्गा तीर्थम उपस्पृश्य बरह्म चारी जितेन्द्रियः

कपिलानां नरव्याघ्र शतस्य फलम अश्नुते

77

ततॊ गच्छेत धर्मज्ञ परभासं लॊकविश्रुतम

यत्र संनिहितॊ नित्यं सवयम एव हुताशनः

देवतानां मुखं वीर अनलॊ ऽनिलसारथिः

78

तस्मिंस तीर्थवरे सनात्वा शुचिः परयत मानसः

अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः

79

ततॊ गत्वा सरस्वत्याः सागरस्य च संगमे

गॊसहस्रफलं पराप्य सवर्गलॊके महीयते

दीप्यमानॊ ऽगनिवन नित्यं परभया भरतर्षभ

80

तरिरात्रम उषितस तत्र तर्पयेत पितृदेवताः

परभासते यथा सॊमॊ अश्वमेधं च विन्दति

81

वरदानं ततॊ गच्छेत तीर्थं भरतसत्तम

विष्णॊर दुर्वाससा यत्र वरॊ दत्तॊ युधिष्ठिर

82

वरदाने नरः सनात्वा गॊसहस्रफलं लभेत

ततॊ दवारवतीं गच्छेन नियतॊ नियताशनः

पिण्डारके नरः सनात्वा लभेद बहुसुवर्णकम

83

तस्मिंस तीर्थे महाभाग पद्मलक्षणलक्षिताः

अद्यापि मुद्रा दृश्यन्ते तद अद्भुतम अरिंदम

84

तरिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन

महादेवस्य सांनिध्यं तत्रैव भरतर्षभ

85

सागरस्य च सिन्धॊश च संगमं पराप्य भारत

तीर्थे सलिलराजस्य सनात्वा परयत मानसः

86

तर्पयित्वा पितॄन देवान ऋषींश च भरतर्षभ

पराप्नॊति वारुणं लॊकं दीप्यमानः सवतेजसा

87

शङ्कुकर्णेश्वरं देवम अर्चयित्वा युधिष्ठिर

अश्वमेधं दशगुणं परवदन्ति मनीषिणः

88

परदक्षिणम उपावृत्य गच्छेत भरतर्षभ

तीर्थं कुरु वरश्रेष्ठ तरिषु लॊकेषु विश्रुतम

दृमीति नाम्ना विख्यातं सर्वपापप्रमॊचनम

89

यत्र बरह्मादयॊ देवा उपासन्ते महेश्वरम

तत्र सनात्वार्चयित्वा च रुद्रं देवगणैर वृतम

जन्मप्रभृति पापानि कृतानि नुदते नरः

90

दृमी चात्र नरश्रेष्ठ सर्वदेवैर अभिष्टुता

तत्र सनात्वा नरव्याघ्र हयमेधम अवाप्नुयात

91

जित्वा यत्र महाप्राज्ञ विष्णुना परभ विष्णुना

पुरा शौचं कृतं राजन हत्वा दैवतकण्टकान

92

ततॊ गच्छेत धर्मज्ञ वसॊर धाराम अभिष्टुताम

गमनाद एव तस्यां हि हयमेधम अवाप्नुयात

93

सनात्वा कुरु वरश्रेष्ठ परयतात्मा तु मानवः

तर्प्य देवान पितॄंश चैव विष्णुलॊके महीयते

94

तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ

तत्र सनात्वा च पीत्वा च वसूनां संमतॊ भवेत

95

सिन्धूत्तमम इति खयातं सर्वपापप्रणाशनम

तत्र सनात्वा नरश्रेष्ठ लभेद बहुसुवर्णकम

96

बरह्म तुङ्गं समासाद्य शुचिः परयत मानसः

बरह्मलॊकम अवाप्नॊति सुकृती विरजा नरः

97

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम

तत्र सनात्वा नरः कषिप्रं शक्र लॊकम अवाप्नुयात

98

रेणुकायाश च तत्रैव तीर्थं देव निषेवितम

तत्र सनात्वा भवेद विप्रॊ विमलश चन्द्रमा यथा

99

अथ पञ्चनदं गत्वा नियतॊ नियताशनः

पञ्च यज्ञान अवाप्नॊति करमशॊ ये ऽनुकीर्तिताः

100

ततॊ गच्छेत धर्मज्ञ भीमायाः सथानम उत्तमम

तत्र सनात्वा तु यॊन्यां वै नरॊ भरतसत्तम

101

देव्याः पुत्रॊ भवेद राजंस तप्तकुण्डलविग्रहः

गवां शतसहस्रस्य फलं चैवाप्नुयान महत

102

गिरिमुञ्जं समासाद्य तरिषु लॊकेषु विश्रुतम

पिता महं नमस्कृत्य गॊसहस्रफलं लभेत

103

ततॊ गच्छेत धर्मज्ञ विमलं तीर्थम उत्तमम

अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः

104

तत्र सनात्वा नरश्रेष्ठ वाजपेयम अवाप्नुयात

सर्वपापविशुद्धात्मा गच्छेच च परमां गतिम

105

ततॊ गच्छेत मलदां तरिषु लॊकेषु विश्रुताम

पश्चिमायां तु संध्यायाम उपस्पृश्य यथाविधि

106

चरुं नरेन्द्र सप्तार्चेर यथाशक्ति निवेदयेत

पितॄणाम अक्षयं दानं परवदन्ति मनीषिणः

107

गवां शतसहस्रेण राजसूय शतेन च

अश्वमेध सहस्रेण शरेयान सप्तार्चिषश चरुः

108

ततॊ निवृत्तॊ राजेन्द्र वस्त्रा पदम अथाविशेत

अभिगम्य महादेवम अश्वमेध फलं लभेत

109

मणिमन्तं समासाद्य बरह्म चारी समाहितः

एकरात्रॊषितॊ राजन्न अग्निष्टॊम फलं लभेत

110

अथ गच्छेत राजेन्द्र देविकां लॊकविश्रुताम

परसूतिर यत्र विप्राणां शरूयते भरतर्षभ

111

तरिशूलपाणेः सथानं च तरिषु लॊकेषु विश्रुतम

देविकायां नरः सनात्वा समभ्यर्च्य महेश्वरम

112

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ

सर्वकामसमृद्धस्य यज्ञस्य लभते फलम

113

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम

तत्र सनात्वा नरः कषिप्रं सिद्धिम आप्नॊति भारत

114

यजनं याजनं गत्वा तथैव बरह्म वालुकाम

पुष्पन्यास उपस्पृश्य न शॊचेन मरणं ततः

115

अर्धयॊजनविस्तारां पञ्चयॊजनम आयताम

एतावद देविकाम आहुः पुण्यां देवर्षिसेविताम

116

ततॊ गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम

यत्र बरह्मादयॊ देवाः सिद्धाश च परमर्षयः

दीर्घसत्रम उपासन्ते दक्षिणाभिर यतव्रताः

117

गमनाद एव राजेन्द्र दीर्घसत्रम अरिंदम

राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः

118

ततॊ विनशनं गच्छेन नियतॊ नियताशनः

गच्छत्य अन्तर्हिता यत्र मरु पृष्ठे सरस्वती

चमसे च शिवॊद्भेदे नागॊद्भेदे च दृश्यते

119

सनात्वा च चमसॊद्भेदे अग्निष्टॊम फलं लभेत

शिवॊद्भेदे नरः सनात्वा गॊसहस्रफलं लभेत

120

नागॊद्भेदे नरः सनात्वा नागलॊकम अवाप्नुयात

शशयानं च राजेन्द्र तीर्थम आसाद्य दुर्लभम

शशरूपप्रतिछन्नाः पुष्करा यत्र भारत

121

सरस्वत्यां महाराज अनु संवत्सरं हि ते

सनायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा

122

तत्र सनात्वा नरव्याघ्र दयॊतते शशिवत सदा

गॊसहस्रपलं चैव पराप्नुयाद भरतर्षभ

123

कुमार कॊटिम आसाद्य नियतः कुरुनन्दन

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

गवामयम अवाप्नॊति कुलं चैव समुद्धरेत

124

ततॊ गच्छेत धर्मज्ञ रुद्र कॊटिं समाहितः

पुरा यत्र महाराज ऋषिकॊटिः समाहिता

परहर्षेण च संविष्टा देव दर्शनकाङ्क्षया

125

अहं पूर्वम अहं पूर्वं दरक्ष्यामि वृषभध्वजम

एवं संप्रस्थिता राजन्न ऋषयः किल भारत

126

ततॊ यॊगेष्वरेणापि यॊगम आस्थाय भूपते

तेषां मन्युप्रणाशार्थम ऋषीणां भावितात्मनाम

127

सृष्टा कॊटिस तु रुद्राणाम ऋषीणाम अग्रतः सथिता

मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक

128

तेषां तुष्टॊ महादेव ऋषीणाम उग्रतेजसाम

भक्त्या परमया राजन वरं तेषां परदिष्टवान

अद्य परभृति युष्माकं धर्मवृद्धिर भविष्यति

129

तत्र सनात्वा नरव्याघ्र रुद्र कॊट्यां नरः शुचिः

अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत

130

ततॊ गच्छेत राजेन्द्र संगमं लॊकविश्रुतम

सरस्वत्या महापुण्यम उपासन्ते जनार्दनम

131

यत्र बरह्मादयॊ देवा ऋषयः सिद्धचारणाः

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम

132

तत्र सनात्वा नरव्याघ्र विन्देद बहुसुवर्णकम

सर्वपापविशुद्धात्मा बरह्मलॊकं च गच्छति

133

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप

सत्रावसानम आसाद्य गॊसहस्रफलं लभेत

1

[v]

dhanaṃjayotsukās te tu vane tasmin mahārathāḥ

nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ

2

athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam

dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam

3

sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ

vibabhāv atidīptaujo devair iva śatakratu

4

yathā ca vedān sāvitrī yājñasenī tathā satī

na jahau dharmataḥ pārthān merum arkaprabhā yathā

5

pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣi

ā
vāsayad dharmasutaṃ yuktarūpam ivānagha

6

uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram

brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te

7

atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha

uvāca prāñjalir vākyaṃ nāradaṃ deva saṃmitam

8

tvayi tuṣṭe mahābhāga sarvalokābhipūjite

kṛtam ity eva manye 'haṃ prasādāt tava suvrata

9

yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha

saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi

10

pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ

kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi

11

[n]

śṛ
u rājann avahito yathā bhīṣmeṇa bhārata

pulastyasya sakāśād vai sarvam etad upaśrutam

12

purā bhāgīrathī tīre bhīṣmo dharmabhṛtāṃ varaḥ

pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā

13

ubhe deśe mahārāja puṇye devarṣisevite

gaṅgā dvāre mahātejo devagandharvasevite

14

sa pitṝṃs tarpayām āsa devāṃś ca paramadyuti

ṛṣīṃś
ca toṣayām āsa vidhidṛṣṭena karmaṇā

15

kasya cit tv atha kālasya japann eva mahātapāḥ

dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam

16

sa taṃ dṛṣṭvogra tapasaṃ dīpyamānam iva śriyā

praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau

17

upasthitaṃ mahārāja pūjayām āsa bhārata

bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā

18

irasā cārghyam ādāya śuciḥ prayata mānasaḥ

nāma saṃkīrtayām āsa tasmin brahmarṣisattame

19

bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata

tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣai

20

evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ

vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira

21

taṃ dṛṣṭvā niyamenātha svādhyāyāmnāya karśitam

bhīṣmaṃ kuru kulaśreṣṭhaṃ muniḥ prītamanābhavat

22

[pulastya]

anena tava dharmajña praśrayeṇa damena ca

satyena ca mahābhāga tuṣṭo 'smi tava sarvaśa

23

yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha

tena paśyasi māṃ putra prītiś cāpi mama tvayi

24

amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te

yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha

25

[bh]

prīte tvayi mahābhāga sarvalokābhipūjite

kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum

26

yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara

vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi

27

asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ

tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā

28

pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama

kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana

29

[p]

hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam

tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam

30

yasya hastau ca pādau ca manaś caiva susaṃyatam

vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute

31

pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ

ahaṃ kāranivṛttiś ca sa tīrthaphalam aśnute

32

akalkako nirārambho laghv āhāro jitendriyaḥ

vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute

33

akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ

ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute

34

ibhiḥ kratavaḥ proktā vedeṣv iha yathākramam

phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśa

35

na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate

bahūpakaraṇā yajñā nānā saṃbhāravistarāḥ

36

prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit

nārthāny ūnopakaraṇair ekātmabhir asaṃhatai

37

yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara

tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara

38

ṛṣīṇāṃ
paramaṃ guhyam idaṃ bharatasattama

tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate

39

anupoṣya trirātrāṇi tīrthāny anabhigamya ca

adattvā kāñcanaṃ gāś ca daridro nāma jāyate

40

agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ

na tat phalam avāpnoti tīrthābhigamanena yat

41

nṛloke devadevasya tīrthaṃ trailokyaviśrutam

puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet

42

daśakoṭisahasrāṇi tīrthānāṃ vai mahīpate

sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana

43

dityā vasavo rudrāḥ sādhyāś ca sa marudgaṇāḥ

gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho

44

yatra devās tapas taptvā daityā brahmarṣayas tathā

divyayogā mahārāja puṇyena mahatānvitāḥ

45

manasāpy abhikāmasya puṣkarāṇi manasvinaḥ

pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate

46

tasmiṃs tīrthe mahābhāga nityam eva pitā mahaḥ

uvāsa paramaprīto devadānava saṃmmata

47

puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ

siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ

48

tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ

aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇa

49

apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ

tenāsau karmaṇā bhīṣma pretya ceha ca modate

50

ś
kamūlaphalair vāpi yena vartayate svayam

tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ

tenaiva prāpnuyāt prājño hayamedha phalaṃ nara

51

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama

na viyoniṃ vrajanty ete snātās tīrthe mahātmana

52

kārtikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram

phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha

53

sāyaṃprātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ

upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata

prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān

54

janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā

puṣkare snātamātrasya sarvam eva praṇaśyati

55

yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ

tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate

56

uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ

kratūn sarvān avāpnoti brahmalokaṃ ca gacchati

57

yas tu varṣaśataṃ pūrṇam agnihotram upāsate

kārtikīṃ vā vased ekāṃ puṣkare samam eva tat

58

puṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ

duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram

59

uṣya dvādaśa rātraṃ tu niyato niyatāśanaḥ

pradakṣiṇam upāvṛtto jambū mārgaṃ samāviśet

60

jambū mārgaṃ samāviśya devarṣipitṛsevitam

aśvamedham avāpnoti viṣṇulokaṃ ca gacchati

61

tatroṣya rajanīḥ pañca ṣaṣṭha kālakṣamī naraḥ

na durgatim avāpnoti siddhiṃ prāpnoti cottamām

62

jambū mārgād upāvṛtto gacchet taṇḍulikāśramam

na durgatim avāpnoti svargaloke ca pūjyate

63

agasya sara āsādya pitṛdevārcane rataḥ

trirātropoṣito rājann agniṣṭoma phalaṃ labhet

64

ś
kavṛttiḥ phalair vāpi kaumāraṃ vindate padam

kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam

65

dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha

yatra praviṣṭamātro vai pāpebhyo vipramucyate

66

arcayitvā pitṝn devān niyato niyatāśanaḥ

sarvakāmasamṛddhasya yajñasya phalam aśnute

67

pradakṣiṇaṃ tataḥ kṛtvā yayāti patanaṃ vrajet

hayamedhasya yajñasya phalaṃ prāpnoti tatra vai

68

mahākālaṃ tato gacchen niyato niyatāśanaḥ

koṭitīrtham upaspṛśya hayamedha phalaṃ labhet

69

tato gaccheta dharmajña puṇyasthānam umāpateḥ

nāmnā bhadra vaṭaṃ nāma triṣu lokeṣu viśrutam

70

tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet

mahādeva prasādāc ca gāṇapatyam avāpnuyāt

71

narmadām atha cāsādya nadīṃ trailokyaviśrutām

tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet

72

dakṣiṇaṃ sindhum āsādya brahma cārī jitendriyaḥ

agniṣṭomam avāpnoti vimānaṃ cādhirohati

73

carmaṇvatīṃ samāsādya niyato niyatāśanaḥ

ranti devābhyanujñāto agniṣṭoma phalaṃ labhet

74

tato gaccheta dharmajña himavatsutam arbudam

pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira

75

tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ

tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet

76

piṅgā tīrtham upaspṛśya brahma cārī jitendriyaḥ

kapilānāṃ naravyāghra śatasya phalam aśnute

77

tato gaccheta dharmajña prabhāsaṃ lokaviśrutam

yatra saṃnihito nityaṃ svayam eva hutāśanaḥ

devatānāṃ mukhaṃ vīra analo 'nilasārathi

78

tasmiṃs tīrthavare snātvā śuciḥ prayata mānasaḥ

agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānava

79

tato gatvā sarasvatyāḥ sāgarasya ca saṃgame

gosahasraphalaṃ prāpya svargaloke mahīyate

dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha

80

trirātram uṣitas tatra tarpayet pitṛdevatāḥ

prabhāsate yathā somo aśvamedhaṃ ca vindati

81

varadānaṃ tato gacchet tīrthaṃ bharatasattama

viṣṇor durvāsasā yatra varo datto yudhiṣṭhira

82

varadāne naraḥ snātvā gosahasraphalaṃ labhet

tato dvāravatīṃ gacchen niyato niyatāśanaḥ

piṇḍārake naraḥ snātvā labhed bahusuvarṇakam

83

tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ

adyāpi mudrā dṛśyante tad adbhutam ariṃdama

84

triśūlāṅkāni padmāni dṛśyante kurunandana

mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha

85

sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata

tīrthe salilarājasya snātvā prayata mānasa

86

tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha

prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā

87

aṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira

aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇa

88

pradakṣiṇam upāvṛtya gaccheta bharatarṣabha

tīrthaṃ kuru varaśreṣṭha triṣu lokeṣu viśrutam

dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam

89

yatra brahmādayo devā upāsante maheśvaram

tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam

janmaprabhṛti pāpāni kṛtāni nudate nara

90

dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā

tatra snātvā naravyāghra hayamedham avāpnuyāt

91

jitvā yatra mahāprājña viṣṇunā prabha viṣṇunā

purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān

92

tato gaccheta dharmajña vasor dhārām abhiṣṭutām

gamanād eva tasyāṃ hi hayamedham avāpnuyāt

93

snātvā kuru varaśreṣṭha prayatātmā tu mānavaḥ

tarpya devān pitṝṃś caiva viṣṇuloke mahīyate

94

tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha

tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet

95

sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam

tatra snātvā naraśreṣṭha labhed bahusuvarṇakam

96

brahma tuṅgaṃ samāsādya śuciḥ prayata mānasaḥ

brahmalokam avāpnoti sukṛtī virajā nara

97

kumārikāṇāṃ akrasya tīrthaṃ siddhaniṣevitam

tatra snātvā naraḥ kṣipraṃ śakra lokam avāpnuyāt

98

reṇukāyāś ca tatraiva tīrthaṃ deva niṣevitam

tatra snātvā bhaved vipro vimalaś candramā yathā

99

atha pañcanadaṃ gatvā niyato niyatāśanaḥ

pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ

100

tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam

tatra snātvā tu yonyāṃ vai naro bharatasattama

101

devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ

gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat

102

girimuñjaṃ samāsādya triṣu lokeṣu viśrutam

pitā mahaṃ namaskṛtya gosahasraphalaṃ labhet

103

tato gaccheta dharmajña vimalaṃ tīrtham uttamam

adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ

104

tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt

sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim

105

tato gaccheta maladāṃ triṣu lokeṣu viśrutām

paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi

106

caruṃ narendra saptārcer yathāśakti nivedayet

pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇa

107

gavāṃ śatasahasreṇa rājasūya śatena ca

aśvamedha sahasreṇa śreyān saptārciṣaś caru

108

tato nivṛtto rājendra vastrā padam athāviśet

abhigamya mahādevam aśvamedha phalaṃ labhet

109

maṇimantaṃ samāsādya brahma cārī samāhitaḥ

ekarātroṣito rājann agniṣṭoma phalaṃ labhet

110

atha gaccheta rājendra devikāṃ lokaviśrutām

prasūtir yatra viprāṇāṃ rūyate bharatarṣabha

111

triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam

devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram

112

yathāśakti caruṃ tatra nivedya bharatarṣabha

sarvakāmasamṛddhasya yajñasya labhate phalam

113

kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam

tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata

114

yajanaṃ yājanaṃ gatvā tathaiva brahma vālukām

puṣpanyāsa upaspṛśya na śocen maraṇaṃ tata

115

ardhayojanavistārāṃ pañcayojanam āyatām

etāvad devikām āhuḥ puṇyāṃ devarṣisevitām

116

tato gaccheta dharmajña dīrghasatraṃ yathākramam

yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ

dīrghasatram upāsante dakṣiṇābhir yatavratāḥ

117

gamanād eva rājendra dīrghasatram ariṃdama

rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānava

118

tato vinaśanaṃ gacchen niyato niyatāśanaḥ

gacchaty antarhitā yatra maru pṛṣṭhe sarasvatī

camase ca śivodbhede nāgodbhede ca dṛśyate

119

snātvā ca camasodbhede agniṣṭoma phalaṃ labhet

śivodbhede naraḥ snātvā gosahasraphalaṃ labhet

120

nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt

śaśayānaṃ ca rājendra tīrtham āsādya durlabham

śaśarūpapratichannāḥ puṣkarā yatra bhārata

121

sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te

snāyante bharataśreṣṭha vṛttāṃ vai kārtikīṃ sadā

122

tatra snātvā naravyāghra dyotate śaśivat sadā

gosahasrapalaṃ caiva prāpnuyād bharatarṣabha

123

kumāra koṭim āsādya niyataḥ kurunandana

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ

gavāmayam avāpnoti kulaṃ caiva samuddharet

124

tato gaccheta dharmajña rudra koṭiṃ samāhitaḥ

purā yatra mahārāja ṛṣikoṭiḥ samāhitā

praharṣeṇa ca saṃviṣṭā deva darśanakāṅkṣayā

125

ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam

evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata

126

tato yogeṣvareṇāpi yogam āsthāya bhūpate

teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām

127

sṛṣṭā koṭis tu rudrāṇām ṛṣīṇm agrataḥ sthitā

mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak

128

teṣāṃ tuṣṭo mahādeva ṛṣīṇm ugratejasām

bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān

adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati

129

tatra snātvā naravyāghra rudra koṭyāṃ naraḥ śuciḥ

aśvamedham avāpnoti kulaṃ caiva samuddharet

130

tato gaccheta rājendra saṃgamaṃ lokaviśrutam

sarasvatyā mahāpuṇyam upāsante janārdanam

131

yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ

abhigacchanti rājendra caitraśuklacaturdaśīm

132

tatra snātvā naravyāghra vinded bahusuvarṇakam

sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati

133

ṛṣīṇāṃ
yatra satrāṇi samāptāni narādhipa

satrāvasānam āsādya gosahasraphalaṃ labhet
birds of fairy tale| and the kwakiutl
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 80