Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 83

Book 3. Chapter 83

The Mahabharata In Sanskrit


Book 3

Chapter 83

1

[पुलस्त्य]

अथ संध्यां समासाद्य संवेद्यं तीर्थम उत्तमम

उपस्पृश्य नरॊ विद्वान भवेन नास्त्य अत्र संशयः

2

रामस्य च परसादेन तीर्थं राजन कृतं पुरा

तल लॊहित्यं समासाद्य विन्द्याद बहुसुवर्णकम

3

करतॊयां समासाद्य तरिरात्रॊपॊषितॊ नरः

अश्वमेधम अवाप्नॊति कृते पैतामहे विधौ

4

गङ्गायास तव अथ राजेन्द्र सागरस्य च संगमे

अश्वमेधं दशगुणं परवदन्ति मनीषिणः

5

गङ्गायास तव अपरं दवीपं पराप्य यः सनाति भारत

तरिरात्रॊपॊषितॊ राजन सर्वकामान अवाप्नुयात

6

ततॊ वैतरणीं गत्वा नदीं पापप्रमॊचनीम

विरजं तीर्थम आसाद्य विराजति यथा शशी

7

परभवेच च कुले पुण्ये सर्वपापं वयपॊहति

गॊसहस्रफलं लब्ध्वा पुनाति च कुलं नरः

8

शॊणस्य जयॊतिरथ्याश च संगमे निवसञ शुचिः

तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत

9

शॊणस्य नर्मदायाश च परभवे कुरुनन्दन

वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत

10

ऋषभं तीर्थम आसाद्य कॊशलायां नराधिप

वाजपेयम अवाप्नॊति तरिरात्रॊपॊषितॊ नरः

11

कॊशलायां समासाद्य कालतीर्थ उपस्पृशेत

वृशभैकादश फलं लभते नात्र संशयः

12

पुष्पवत्याम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः

गॊसहस्रफलं विन्द्यात कुलं चैव समुद्धरेत

13

ततॊ बदरिका तीर्थे सनात्वा परयत मानसः

दीर्घम आयुर अवाप्नॊति सवर्गलॊकं च गच्छति

14

ततॊ महेन्द्रम आसाद्य जामदग्न्य निषेवितम

राम तीर्थे नरः सनात्वा वाजिमेधफलं लभेत

15

मतङ्गस्य तु केदारस तत्रैव कुरुनन्दन

तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत

16

शरीपर्वतं समासाद्य नदीतीर उपस्पृशेत

अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति

17

शरीपर्वते महादेवॊ देव्या सह महाद्युतिः

नयवसत परमप्रीतॊ बरह्मा च तरिदशैर वृतः

18

तत्र देव हरदे सनात्वा शुचिः परयत मानसः

अश्वमेधम अवाप्नॊति परां सिद्धिं च गच्छति

19

ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम

वाजपेयम अवाप्नॊति नाकपृष्ठे च मॊदते

20

ततॊ गच्छेत कावेरीं वृताम अप्सरसां गणैः

तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत

21

ततस तीरे समुद्रस्य कन्या तीर्थ उपस्पृशेत

तत्रॊपस्पृश्य राजेन्द्र सर्वपापैः परमुच्यते

22

अथ गॊकर्णम आसाद्य तरिषु लॊकेषु विश्रुतम

समुद्रमध्ये राजेन्द्र सर्वलॊकनमस्कृतम

23

यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः

भूतयक्षपिशाचाश च किंनराः स महॊरगाः

24

सिद्धचारणगन्धर्वा मानुषाः पन्नगास तथा

सरितः सागराः शैला उपासन्त उमा पतिम

25

तत्रेशानं समभ्यर्च्य तरिरात्रॊपॊषितॊ नरः

दशाश्वमेधम आप्नॊति गाणपत्यं च विन्दति

उष्य दवादश रात्रं तु कृतात्मा भवते नरः

26

तत एव तु गायत्र्याः सथानं तरैलॊक्यविश्रुतम

तरिरात्रम उषितस तत्र गॊसहस्रफलं लभेत

27

निदर्शनं च परत्यक्षं बराह्मणानां नराधिप

गायत्रीं पठते यस तु यॊनिसंकरजस तथा

गाथा वा गीतिका वापि तस्य संपद्यते नृप

28

संवर्तस्य तु विप्रर्षेर वापीम आसाद्य दुर्लभाम

रूपस्य भागी भवति सुभगश चैव जायते

29

ततॊ वेण्णां समासाद्य तर्पयेत पितृदेवताः

मयूरहंससंयुक्तं विमानं लभते नरः

30

ततॊ गॊदावरीं पराप्य नित्यं सिद्धनिषेविताम

गवाम अयम अवाप्नॊति वासुकेर लॊकम आप्नुयात

31

वेण्णायाः संगमे सनात्वा वाजपेयफलं लभेत

वरदा संगमे सनात्वा गॊसहस्रफलं लभेत

32

बरह्म सथानं समासाद्य तरिरात्रम उषितॊ नरः

गॊसहस्रफलं विन्देत सवर्गलॊकं च गच्छति

33

कुशप्लवनम आसाद्य बरह्म चारी समाहितः

तरिरात्रम उषितः सनात्वा अश्वमेध फलं लभेत

34

ततॊ देव हरदे रम्ये कृष्ण वेण्णा जलॊद्भवे

जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप

35

यत्र करतुशतैर इष्ट्वा देवराजॊ दिवं गतः

अग्निष्टॊम शतं विन्देद गमनाद एव भारत

36

सर्वदेव हरदे सनात्वा गॊसहस्रफलं लभेत

जातिमात्रह्रदे सनात्वा भवेज जातिस्मरॊ नरः

37

ततॊ ऽवाप्य महापुण्यां पयॊष्णीं सरितां वराम

पितृदेवार्चन रतॊ गॊसहस्रफलं लभेत

38

दण्डकारण्यम आसाद्य महाराज उपस्पृशेत

गॊसहस्रफलं तत्र सनातमात्रस्य भारत

39

शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनाः

न दुर्गतिम अवाप्नॊति पुनाति च कुलं नरः

40

ततः शूर्पारकं गच्छेज जामदग्न्य निषेवितम

राम तीर्थे नरः सनात्वा विन्द्याद बहुसुवर्णकम

41

सप्त गॊदावरे सनात्वा नियतॊ नियताशनः

महत पुण्यम अवाप्नॊति देवलॊकं च गच्छति

42

ततॊ देवपथं गच्छेन नियतॊ नियताशनः

देव सत्रस्य यत पुण्यं तद अवाप्नॊति मानवः

43

तुङ्गकारण्यम आसाद्य बरह्म चारी जितेन्द्रियः

वेदान अध्यापयत तत्र ऋषिः सारस्वतः पुरा

44

तत्र वेदान परनष्टांस तु मुनेर अङ्गिरसः सुतः

उपविष्टॊ महर्षीणाम उत्तरीयेषु भारत

45

ओंकारेण यथान्यायं सम्यग उच्चारितेन च

येन यत पूर्वम अभ्यस्तं तत तस्य समुपस्थितम

46

ऋषयस तत्र देवाश च वरुणॊ ऽगनिः परजापतिः

हरिर नारायणॊ देवॊ महादेवस तथैव च

47

पिता महश च भगवान देवैः सह महाद्युतिः

भृगुं नियॊजयाम आस याजनार्थे महाद्युतिम

48

ततः सचक्रे भगवान ऋषीणां विधिवत तदा

सर्वेषां पुनर आधानं विधिदृष्टेन कर्मणा

49

आज्यभागेन वै तत्र तर्पितास तु यथाविधि

देवास तरिभुवणं याता ऋषयश च यथासुखम

50

तद अरण्यं परविष्टस्य तुङ्गकं राजसत्तम

पापं परणश्यते सर्वं सत्रियॊ वा पुरुषस्य वा

51

तत्र मासं वसेद धीरॊ नियतॊ नियताशनः

बरह्मलॊकं वरजेद राजन पुनीते च कुलं नरः

52

मेधाविकं समासाद्य पितॄन देवांश च तर्पयेत

अग्निष्टॊमम अवाप्नॊति समृतिं मेधां च विन्दति

53

ततः कालंजरं गत्वा पर्वतं लॊकविश्रुतम

तत्र देव हरदे सनात्वा गॊसहस्रफलं लभेत

54

आत्मानं साधयेत तत्र गिरौ कालंजरे नृप

सवर्गलॊके महीयेत नरॊ नास्त्य अत्र संशयः

55

ततॊ गिरिवरश्रेष्ठे चित्रकूटे विशां पते

मन्दाकिनीं समासाद्य नदीं पापप्रमॊचिनीम

56

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः

अश्वमेधम अवाप्नॊति गतिं च परमां वरजेत

57

ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम

यत्र देवॊ महासेनॊ नित्यं संनिहितॊ नृपः

58

पुमांस तत्र नरश्रेष्ठ गमनाद एव सिध्यति

कॊटितीर्थे नरः सनात्वा गॊसहस्रफलं लभेत

59

परदक्षिणम उपावृत्य जयेष्ठस्थानं वरजेन नरः

अभिगम्य महादेवं विराजति यथा शशी

60

तत्र कूपॊ महाराज विश्रुतॊ भरतर्षभ

समुद्रास तत्र चत्वारॊ निवसन्ति युधिष्ठिर

61

तत्रॊपस्पृश्य राजेन्द्र कृत्वा चापि परदक्षिणम

नियतात्मा नरः पूतॊ गच्छेत परमां गतिम

62

ततॊ गच्छेत कुरुश्रेष्ठ शृङ्गवेर पुरं महत

यत्र तीर्णॊ महाराज रामॊ दाशरथिः पुरा

63

गङ्गायां तु नरः सनात्वा बरह्म चारी समाहितः

विधूतपाप्मा भवति वाजपेयं च विन्दति

64

अभिगम्य महादेवम अभ्यर्च्य च नराधिप

परदक्षिणम उपावृत्य गाणपत्यम अवाप्नुयात

65

ततॊ गच्छेत राजेन्द्र परयागम ऋषिसंस्तुतम

यत्र बरह्मादयॊ देवा दिशश च स दिग ईश्वराः

66

लॊकपालाश च साध्याश च नैरृताः पितरस तथा

सनत कुमार परमुखास तथैव परमर्षयः

67

अङ्गिरः परमुखाश चैव तथा बरह्मर्षयॊ ऽपरे

तथा नागाः सुपर्णाश च सिद्धाश चक्रचरास तथा

68

सरितः सागराश चैव गन्धर्वाप्सरसस तथा

हरिश च भगवान आस्ते परजापतिपुरस्कृतः

69

तत्र तरीण्य अग्निकुण्डानि येषां मध्ये च जाह्नवी

परयागाद अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता

70

तपनस्य सुता तत्र तरिषु लॊकेषु विश्रुता

यमुना गङ्गया सार्धं संगता लॊकपावनी

71

गङ्गायमुनयॊर मद्यं पृथिव्या जघनं समृतम

परयागं जघनस्यान्तम उपस्थम ऋषयॊ विदुः

72

परयागं स परतिष्ठानं कम्बलाश्वतरौ तथा

तीर्थं भॊगवती चैव वेदी परॊक्ता परजापतेः

73

तत्र वेदाश च यज्ञाश च मूर्तिमन्तॊ युधिष्ठिर

परजापतिम उपासन्ते ऋषयश च महाव्रताः

यजन्ते करतुभिर देवास तथा चक्रचरा नृप

74

ततः पुण्यतमं नास्ति तरिषु लॊकेषु भारत

परयागः सर्वतीर्थेभ्यः परभवत्य अधिकं विभॊ

75

शरवणात तस्य तीर्थस्य नाम संकीर्तनाद अपि

मृत्तिका लम्भनाद वापि नरः पापात परमुच्यते

76

तत्राभिषेकं यः कुर्यात संगमे संशितव्रतः

पुण्यं सफलम आप्नॊति राजसूयाश्वमेधयॊः

77

एषा यजन भूमिर हि देवानाम अपि सत्कृता

तत्र दत्तं सूक्ष्मम अपि महद भवति भारत

78

न वेद वचनात तात न लॊकवचनाद अपि

मतिर उत्क्रमणीया ते परयागमरणं परति

79

दश तीर्थसहस्राणि षष्टिकॊट्त्यस तथापराः

येषां सांनिध्यम अत्रैव कीर्तितं कुरुनन्दन

80

चातुर्वेदे च यत पुण्यं सत्यवादिषु चैव यत

सनात एव तदाप्नॊति गङ्गा यमुन संगमे

81

तत्र भॊगवती नाम वासुकेस तीर्थम उत्तमम

तत्राभिषेकं यः कुर्यात सॊ ऽशवमेधम अवाप्नुयात

82

तत्र हंसप्रपतनं तीर्थं तरैलॊक्यविश्रुतम

दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन

83

यत्र गङ्गा महाराज स देशस तत तपॊवनम

सिद्धक्षेत्रं तु तज जञेयं गङ्गातीरसमाश्रितम

84

इदं सत्यं दविजातीनां साधूनाम आत्मजस्य च

सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य च

85

इदं धर्म्यम इदं पुण्यम इदं मेध्यम इदं सुखम

इदं सवर्ग्यम इदं रम्यम इदं पावनम उत्तमम

86

महर्षीणाम इदं गुह्यं सर्पपापप्रमॊचनम

अधीत्य दविजमध्ये च निर्मलत्वम अवाप्नुयात

87

यश चेदं शृणुयान नित्यं तीर्थपुण्यं सदा शुचिः

जातीः स समरते बह्वीर नाकपृष्ठे च मॊदते

88

गम्यान्य अपि च तीर्थानि कीर्तितान्य अगमानि च

मनसा तानि गच्छेत सर्वतीर्थसमीक्षया

89

एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः

ऋषिभिर देवकल्पैश च शरितानि सुकृतैषिभिः

90

एवं तवम अपि कौरव्य विधिनानेन सुव्रत

वरज तीर्थानि नियतः पुण्यं पुण्येन वर्धते

91

भावितैः कारणैः पूर्वम आस्तिक्याच छरुति दर्शनात

पराप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः

92

नाव्रतॊ नाकृतात्मा च नाशुचिर न च तस्करः

सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः

93

तवया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना

पितरस तारितास तात सर्वे च परपिता महाः

94

पिता मह पुरॊगाश च देवाः सर्षिगणा नृप

तव धर्मेण धर्मज्ञ नित्यम एवाभितॊषिताः

95

अवाप्स्यसि च लॊकान वै वसूनां वासवॊपम

कीर्तिं च महतीं भीष्म पराप्स्यसे भुवि शाश्वतीम

96

[नारद]

एवम उक्त्वाभ्यनुज्ञाप्य पुलस्त्यॊ भगवान ऋषिः

परीतः परीतेन मनसा तत्रैवान्तरधीयते

97

भीष्मश च कुरुशार्दूल शास्त्रतत्त्वार्थ दर्शिवान

पुलस्त्यवचनाच चैव पृथिवीम अनुचक्रमे

98

अनेन विधिना यस तु पृथिवीं संचरिष्यति

अश्वमेध शतस्याग्र्यं फलं परेत्य स भॊक्ष्यते

99

अतश चाष्ट गुणं पार्थ पराप्स्यसे धर्मम उत्तमम

नेता च तवम ऋषीन यस्मात तेन ते ऽषट गुणं फलम

100

रक्षॊगणावकीर्णानि तीर्थान्य एतानि भारत

न गतिर विद्यते ऽनयस्य तवाम ऋते कुरुनन्दन

101

इदं देवर्षिचरितं सर्वतीर्थार्थ संश्रितम

यः पठेत कल्यम उत्थाय सर्वपापैः परमुच्यते

102

ऋषिमुख्याः सदा यत्र वाल्मीकिस तव अथ काश्यपः

आत्रेयस तव अथ कौण्डिन्यॊ विश्वा मित्रॊ ऽथ गौतमः

103

असितॊ देवलश चैव मार्कण्डेयॊ ऽथ गालवः

भरद वाजॊ वसिष्ठश च मुनिर उद्दालकस तथा

104

शौनकः सह पुत्रेण वयासश च जपतां वरः

दुर्वासाश च मुनिश्रेष्ठॊ गालवश च महातपः

105

एते ऋषिवराः सर्वे तवत्प्रतीक्षास तपॊधनाः

एभिः सह महाराज तीर्थान्य एतान्य अनुव्रज

106

एष वै लॊमशॊ नाम देवर्षिर अमितद्युतिः

समेष्यति तवया चैव तेन सार्धम अनुव्रज

107

मया च सहधर्मज्ञ तीर्थान्य एतान्य अनुव्रज

पराप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः

108

यथा ययातिर धर्मात्मा यथा राजा पुरूरवः

तथा तवं कुरुशार्दूल सवेन धर्मेण शॊभसे

109

यथा भगीरथॊ राजा यथा रामश च विश्रुतः

तथा तवं सर्वराजभ्यॊ भराजसे रश्मिवान इव

110

यथा मनुर यथेक्ष्वाकुर यथा पूरुर महायशाः

यथा वैन्यॊ महातेजास तथा तवम अपि विश्रुतः

111

यथा च वृत्रहा सर्वान सपत्नान निर्दहत पुरा

तथा शत्रुक्षयं कृत्वा परजास तवं पालयिष्यसि

112

सवधर्मविजिताम उर्वीं पराप्य राजीवलॊचन

खयातिं यास्यसि धर्मेण कार्तवीर्यार्जुनॊ यथा

113

[व]

एवम आश्वास्य राजानं नारदॊ भगवान ऋषिः

अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत

114

युधिष्ठिरॊ ऽपि धर्मात्मा तम एवार्थं विचिन्तयन

तीर्थयात्राश्रयं पुण्यम ऋषीणां परत्यवेदयत

1

[pulastya]

atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam

upaspṛśya naro vidvān bhaven nāsty atra saṃśaya

2

rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā

tal lohityaṃ samāsādya vindyād bahusuvarṇakam

3

karatoyāṃ samāsādya trirātropoṣito naraḥ

aśvamedham avāpnoti kṛte paitāmahe vidhau

4

gaṅgāyās tv atha rājendra sāgarasya ca saṃgame

aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇa

5

gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata

trirātropoṣito rājan sarvakāmān avāpnuyāt

6

tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm

virajaṃ tīrtham āsādya virājati yathā śaśī

7

prabhavec ca kule puṇye sarvapāpaṃ vyapohati

gosahasraphalaṃ labdhvā punāti ca kulaṃ nara

8

oṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ

tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet

9

oṇasya narmadāyāś ca prabhave kurunandana

vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet

10

abhaṃ tīrtham āsādya kośalāyāṃ narādhipa

vājapeyam avāpnoti trirātropoṣito nara

11

kośalāyāṃ samāsādya kālatīrtha upaspṛśet

vṛśabhaikādaśa phalaṃ labhate nātra saṃśaya

12

puṣpavatyām upaspṛśya trirātropoṣito naraḥ

gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet

13

tato badarikā tīrthe snātvā prayata mānasaḥ

dīrgham āyur avāpnoti svargalokaṃ ca gacchati

14

tato mahendram āsādya jāmadagnya niṣevitam

rāma tīrthe naraḥ snātvā vājimedhaphalaṃ labhet

15

mataṅgasya tu kedāras tatraiva kurunandana

tatra snātvā naro rājan gosahasraphalaṃ labhet

16

rīparvataṃ samāsādya nadītīra upaspṛśet

aśvamedham avāpnoti svargalokaṃ ca gacchati

17

rīparvate mahādevo devyā saha mahādyutiḥ

nyavasat paramaprīto brahmā ca tridaśair vṛta

18

tatra deva hrade snātvā śuciḥ prayata mānasaḥ

aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati

19

abhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam

vājapeyam avāpnoti nākapṛṣṭhe ca modate

20

tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ

tatra snātvā naro rājan gosahasraphalaṃ labhet

21

tatas tīre samudrasya kanyā tīrtha upaspṛśet

tatropaspṛśya rājendra sarvapāpaiḥ pramucyate

22

atha gokarṇam āsādya triṣu lokeṣu viśrutam

samudramadhye rājendra sarvalokanamaskṛtam

23

yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ

bhūtayakṣapiśācāś ca kiṃnarāḥ sa mahoragāḥ

24

siddhacāraṇagandharvā mānuṣāḥ pannagās tathā

saritaḥ sāgarāḥ śailā upāsanta umā patim

25

tatreśānaṃ samabhyarcya trirātropoṣito naraḥ

daśāśvamedham āpnoti gāṇapatyaṃ ca vindati

uṣya dvādaśa rātraṃ tu kṛtātmā bhavate nara

26

tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam

trirātram uṣitas tatra gosahasraphalaṃ labhet

27

nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa

gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā

gāthā vā gītikā vāpi tasya saṃpadyate nṛpa

28

saṃvartasya tu viprarṣer vāpīm āsādya durlabhām

rūpasya bhāgī bhavati subhagaś caiva jāyate

29

tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ

mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate nara

30

tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām

gavām ayam avāpnoti vāsuker lokam āpnuyāt

31

veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet

varadā saṃgame snātvā gosahasraphalaṃ labhet

32

brahma sthānaṃ samāsādya trirātram uṣito naraḥ

gosahasraphalaṃ vindet svargalokaṃ ca gacchati

33

kuśaplavanam āsādya brahma cārī samāhitaḥ

trirātram uṣitaḥ snātvā aśvamedha phalaṃ labhet

34

tato deva hrade ramye kṛṣṇa veṇṇā jalodbhave

jātimātrahrade caiva tathā kanyāśrame nṛpa

35

yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ

agniṣṭoma śataṃ vinded gamanād eva bhārata

36

sarvadeva hrade snātvā gosahasraphalaṃ labhet

jātimātrahrade snātvā bhavej jātismaro nara

37

tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām

pitṛdevārcana rato gosahasraphalaṃ labhet

38

daṇḍakāraṇyam āsādya mahārāja upaspṛśet

gosahasraphalaṃ tatra snātamātrasya bhārata

39

arabhaṅgāśramaṃ gatvā śukasya ca mahātmanāḥ

na durgatim avāpnoti punāti ca kulaṃ nara

40

tataḥ śūrpārakaṃ gacchej jāmadagnya niṣevitam

rāma tīrthe naraḥ snātvā vindyād bahusuvarṇakam

41

sapta godāvare snātvā niyato niyatāśanaḥ

mahat puṇyam avāpnoti devalokaṃ ca gacchati

42

tato devapathaṃ gacchen niyato niyatāśanaḥ

deva satrasya yat puṇyaṃ tad avāpnoti mānava

43

tuṅgakāraṇyam āsādya brahma cārī jitendriyaḥ

vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā

44

tatra vedān pranaṣṭās tu muner aṅgirasaḥ sutaḥ

upaviṣṭo maharṣīṇām uttarīyeṣu bhārata

45

oṃkāreṇa yathānyāyaṃ samyag uccāritena ca

yena yat pūrvam abhyastaṃ tat tasya samupasthitam

46

ayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ

harir nārāyaṇo devo mahādevas tathaiva ca

47

pitā mahaś ca bhagavān devaiḥ saha mahādyutiḥ

bhṛguṃ niyojayām āsa yājanārthe mahādyutim

48

tataḥ sacakre bhagavān ṛṣīṇāṃ vidhivat tadā

sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā

49

jyabhāgena vai tatra tarpitās tu yathāvidhi

devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham

50

tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama

pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā

51

tatra māsaṃ vased dhīro niyato niyatāśanaḥ

brahmalokaṃ vrajed rājan punīte ca kulaṃ nara

52

medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet

agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati

53

tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam

tatra deva hrade snātvā gosahasraphalaṃ labhet

54

tmānaṃ sādhayet tatra girau kālaṃjare nṛpa

svargaloke mahīyeta naro nāsty atra saṃśaya

55

tato girivaraśreṣṭhe citrakūṭe viśāṃ pate

mandākinīṃ samāsādya nadīṃ pāpapramocinīm

56

tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ

aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet

57

tato gaccheta rājendra bhartṛsthānam anuttamam

yatra devo mahāseno nityaṃ saṃnihito nṛpa

58

pumāṃs tatra naraśreṣṭha gamanād eva sidhyati

koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet

59

pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ

abhigamya mahādevaṃ virājati yathā śaśī

60

tatra kūpo mahārāja viśruto bharatarṣabha

samudrās tatra catvāro nivasanti yudhiṣṭhira

61

tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam

niyatātmā naraḥ pūto gaccheta paramāṃ gatim

62

tato gacchet kuruśreṣṭha śṛṅgavera puraṃ mahat

yatra tīrṇo mahārāja rāmo dāśarathiḥ purā

63

gaṅgāyāṃ tu naraḥ snātvā brahma cārī samāhitaḥ

vidhūtapāpmā bhavati vājapeyaṃ ca vindati

64

abhigamya mahādevam abhyarcya ca narādhipa

pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt

65

tato gaccheta rājendra prayāgam ṛṣisaṃstutam

yatra brahmādayo devā diśaś ca sa dig īśvarāḥ

66

lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā

sanat kumāra pramukhās tathaiva paramarṣaya

67

aṅgiraḥ pramukhāś caiva tathā brahmarṣayo 'pare

tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā

68

saritaḥ sāgarāś caiva gandharvāpsarasas tathā

hariś ca bhagavān āste prajāpatipuraskṛta

69

tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī

prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā

70

tapanasya sutā tatra triṣu lokeṣu viśrutā

yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī

71

gaṅgāyamunayor madyaṃ pṛthivyā jaghanaṃ smṛtam

prayāgaṃ jaghanasyāntam upastham ṛṣayo vidu

72

prayāgaṃ sa pratiṣṭhānaṃ kambalāśvatarau tathā

tīrthaṃ bhogavatī caiva vedī proktā prajāpate

73

tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira

prajāpatim upāsante ṛṣayaś ca mahāvratāḥ

yajante kratubhir devās tathā cakracarā nṛpa

74

tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata

prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho

75

ravaṇāt tasya tīrthasya nāma saṃkīrtanād api

mṛttikā lambhanād vāpi naraḥ pāpāt pramucyate

76

tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ

puṇyaṃ saphalam āpnoti rājasūyāśvamedhayo

77

eṣā yajana bhūmir hi devānām api satkṛtā

tatra dattaṃ sūkṣmam api mahad bhavati bhārata

78

na veda vacanāt tāta na lokavacanād api

matir utkramaṇīyā te prayāgamaraṇaṃ prati

79

daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ

yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana

80

cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat

snāta eva tadāpnoti gaṅgā yamuna saṃgame

81

tatra bhogavatī nāma vāsukes tīrtham uttamam

tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt

82

tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam

daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana

83

yatra gaṅgā mahārāja sa deśas tat tapovanam

siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam

84

idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca

suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca

85

idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham

idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam

86

maharṣīṇām idaṃ guhyaṃ sarpapāpapramocanam

adhītya dvijamadhye ca nirmalatvam avāpnuyāt

87

yaś cedaṃ śṛuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ

jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate

88

gamyāny api ca tīrthāni kīrtitāny agamāni ca

manasā tāni gaccheta sarvatīrthasamīkṣayā

89

etāni vasubhiḥ sādhyair ādityair marud aśvibhi

ibhir devakalpaiś ca śritāni sukṛtaiṣibhi

90

evaṃ tvam api kauravya vidhinānena suvrata

vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate

91

bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chruti darśanāt

prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhi

92

nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ

snāti tīrtheṣu kauravya na ca vakramatir nara

93

tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā

pitaras tāritās tāta sarve ca prapitā mahāḥ

94

pitā maha purogāś ca devāḥ sarṣigaṇā nṛpa

tava dharmeṇa dharmajña nityam evābhitoṣitāḥ

95

avāpsyasi ca lokān vai vasūnāṃ vāsavopama

kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm

96

[nārada]

evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ

prītaḥ prītena manasā tatraivāntaradhīyate

97

bhīṣmaś ca kuruśārdūla śāstratattvārtha darśivān

pulastyavacanāc caiva pṛthivīm anucakrame

98

anena vidhinā yas tu pṛthivīṃ saṃcariṣyati

aśvamedha śatasyāgryaṃ phalaṃ pretya sa bhokṣyate

99

ataś cāṣṭa guṇaṃ pārtha prāpsyase dharmam uttamam

netā ca tvam ṛṣīn yasmāt tena te 'ṣṭa guṇaṃ phalam

100

rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata

na gatir vidyate 'nyasya tvām ṛte kurunandana

101

idaṃ devarṣicaritaṃ sarvatīrthārtha saṃśritam

yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate

102

imukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ

ātreyas tv atha kauṇḍinyo viśvā mitro 'tha gautama

103

asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ

bharad vājo vasiṣṭhaś ca munir uddālakas tathā

104

aunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ

durvāsāś ca muniśreṣṭho gālavaś ca mahātapa

105

ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ

ebhiḥ saha mahārāja tīrthāny etāny anuvraja

106

eṣa vai lomaśo nāma devarṣir amitadyutiḥ

sameṣyati tvayā caiva tena sārdham anuvraja

107

mayā ca sahadharmajña tīrthāny etāny anuvraja

prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣa

108

yathā yayātir dharmātmā yathā rājā purūravaḥ

tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase

109

yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ

tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva

110

yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ

yathā vainyo mahātejās tathā tvam api viśruta

111

yathā ca vṛtrahā sarvān sapatnān nirdahat purā

tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi

112

svadharmavijitām urvīṃ prāpya rājīvalocana

khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā

113

[v]

evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ

anujñāpya mahātmānaṃ tatraivāntaradhīyata

114

yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan

tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat
t dionysius the areopagite| dionysius the areopagite
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 83