Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 29

Book 5. Chapter 29

The Mahabharata In Sanskrit


Book 5

Chapter 29

1

[व]

अविनाशं संजय पाण्डवानाम; इच्छाम्य अहं भूतिम एषां परियं च

तथा राज्ञॊ धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम

2

कामॊ हि मे संजय नित्यम एव; नान्यद बरूयां तान परति शाम्यतेति

राज्ञश च हि परियम एतच छृणॊमि; मन्ये चैतत पाण्डवानां समर्थम

3

सुदुष्करश चात्र शमॊ हि नूनं; परदर्शितः संजय पाण्डवेन

यस्मिन गृद्धॊ धृतराष्ट्रः सपुत्रः; कस्माद एषां कलहॊ नात्र मूर्च्छेत

4

तत्त्वं धर्मं विचरन संजयेह; मत्तश च जानासि युधिष्ठिराच च

अथॊ कस्मात संजय पाण्डवस्य; उत्साहिनः पूरयतः सवकर्म

यथाख्यातम आवसतः कुटुम्बं; पुराकल्पात साधु विलॊपम आत्थ

5

अस्मिन विधौ वर्तमाने यथावद; उच्चावचा मतयॊ बराह्मणानाम

कर्मणाहुः सिद्दिम एके परत्र; हित्वा कर्म विद्यया सिद्धिम एके

नाभुञ्जानॊ भक्ष्यभॊज्यस्य तृप्येद; विद्वान अपीह विदितं बराह्मणानाम

6

या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम

तत्रेह वै दृष्टफलं तु कर्म; पीत्वॊदकं शाम्यति तृष्णयार्तः

7

सॊ ऽयं विधिर विहितः कर्मणैव; तद वर्तते संजय तत्र कर्म

तत्र यॊ ऽनयत कर्मणः साधु मन्येन; मॊघं तस्य लपितं दुर्बलस्य

8

कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह पलवते मातरिश्वा

अहॊरात्रे विदधत कर्मणैव; अतन्द्रितॊ नित्यम उदेति सूर्यः

9

मासार्ध मादान अथ नक्षत्रयॊगान; अतन्द्रितश चन्द्रमा अभ्युपैति

अतन्द्रितॊ दहते जातवेदाः; समिध्यमानः कर्म कुर्वन परजाभ्यः

10

अतन्द्रिता भारम इमं महान्तं; बिभर्ति देवी पृथिवी बलेन

अतन्द्रिताः शीघ्रम अपॊ वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः

11

अतन्द्रितॊ वर्षति भूरि तेजाः; संनादयन्न अन्तरिक्षं दिवं च

अतन्द्रितॊ बरह्मचर्यं चचार; शरेष्ठत्वम इच्छन बलभिद देवतानाम

12

हित्वा सुखं मनसश च परियाणि; तेन शक्रः कर्मणा शरैष्ठ्यम आप

सत्यं धर्मपालयन्न अप्रमत्तॊ; दमं तितिक्षां समतां परियं च

एतानि सर्वाण्य उपसेवमानॊ; देवराज्यं मघवान पराप मुख्यम

13

बृहस्पतिर बरह्मचर्यं चचार; समाहितः संशितात्मा यथावत

हित्वा सुखं परतिरुध्येन्द्रियाणि; तेन देवानाम अगमद गौरवं सः

14

नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवॊ ऽथापि विश्वे

यमॊ राजा वैश्रवणः कुबेरॊ; गन्धर्वयक्षाप्सरसश च शुभ्राः

बरह्मचर्यं वेदविद याः करियाश च; निषेवमाणा मुनयॊ ऽमुत्र भान्ति

15

जानन्न इमं सर्वलॊकस्य धर्मं; बराह्मणानां कषत्रियाणां विशां च

स कस्मात तवं जानतां जञानवान सन; वयायच्छसे संजय कौरवार्थे

16

आम्नायेषु नित्यसंयॊगम अस्य; तथाश्वमेधे राजसूये च विद्धि

संपूज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश च भूयः

17

ते चेद इमे कौरवाणाम उपायम; अधिगच्छेयुर अवधेनैव पार्थाः

धर्मत्राणं पुण्यम एषां कृतं सयाद; आर्ये वृत्रे भीमसेनं निगृह्य

18

ते चेत पित्र्ये कर्मणि वर्तमाना; आपद्येरन दिष्ट वशेन मृत्युम

यथाशक्त्या पूरयन्तः सवकर्म; तद अप्य एषां निधनं सयात परशस्तम

19

उताहॊ तवं मन्यसे सर्वम एव; राज्ञां युद्धे वर्तते धर्मतन्त्रम

अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचम इमां शृणॊमि

20

चातुर्वर्ण्यस्य परथमं विभागम; अवेक्ष्य तवं संजय सवं च कर्म

निशम्याथॊ पाण्डवानां सवकर्म; परशंस वा निन्द वा या मतिस ते

21

अधीयीत बराह्मणॊ ऽथॊ यजेत; दद्याद इयात तीर्थमुख्यानि चैव

अध्यापयेद याजयेच चापि याज्यान; परतिग्रहान वा विदितान परतीच्छेत

22

तथा राजन्यॊ रक्षणं वै परजानां; कृत्वा धर्मेणाप्रमत्तॊ ऽथ दत्त्वा

यज्ञैर इष्ट्वा सर्ववेदान अधीत्य; दारान कृत्वा पुण्यकृद आवसेद गृहान

23

वैश्यॊ ऽधीत्य कृषिगॊरक्ष पुण्यैर; वित्तं चिन्वन पालयन्न अप्रमत्तः

परियं कुर्वन बराह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृद आवसेद गृहान

24

परिचर्या वन्दनं बराह्मणानां; नाधीयीत परतिषिद्धॊ ऽसय यज्ञः

नित्यॊत्थितॊ भूतये ऽतन्द्रितः सयाद; एष समृतः शूद्र धर्मः पुराणः

25

एतान राजा पालयन्न अप्रमत्तॊ; नियॊजयन सर्ववर्णान सवधर्मे

अकामात्मा समवृत्तिः परजासु; नाधार्मिकान अनुरुध्येत कामान

26

शरेयांस तस्माद यदि विद्येत कश चिद; अभिज्ञातः सर्वधर्मॊपपन्नः

स तं दुष्टम अनुशिष्यात परजानन; न चेद गृध्येद इति तस्मिन न साधु

27

यदा गृध्येत परभूमिं नृशंसॊ; विधिप्रकॊपाद बलम आददानः

अतॊ राज्ञां भविता युद्धम एतत; तत्र जातं वर्म शस्त्रं धनुश च

इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश च

28

सतेनॊ हरेद यत्र धनं हय अदृष्टः; परसह्य वा यत्र हरेत दृष्टः

उभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक तवं धृतराष्ट्रस्य पुत्रे

यॊ ऽयं लॊभान मन्यते धर्मम एतं; यम इच्छते मनुवशानुगामी

29

भागः पुनः पाण्डवानां निविष्टस; तं नॊ ऽकस्माद आददीरन परे वै

अस्मिन पदे युद्यतां नॊ वधॊ ऽपि; शलघ्यः पित्र्यः परराज्याद विशिष्टः

एतान धर्मान कौरवाणां पुराणान; आचक्षीथाः संजय राज्यमध्ये

30

ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः

इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम

31

परियां भार्यां दरौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तॊपपन्नाम

यद उपेक्षन्त कुरवॊ भीष्म मुख्याः; कामानुगेनॊपरुद्धां रुदन्तीम

32

तं चेत तदा ते स कुमार वृद्धा; अवारयिष्यन कुरवः समेताः

मम परियं धृतराष्ट्रॊ ऽकरिष्यत; पुत्राणां च कृतम अस्याभविष्यत

33

दुःशासनः परातिलॊम्यान निनाय; सभामध्ये शवशुराणां च कृष्णाम

सा तत्र नीता करुणान्य अवॊचन; नान्यं कषत्तुर नाथम अदृष्टकं चित

34

कार्पण्याद एव सहितास तत्र राज्ञॊ; नाशक्नुवन परतिवक्तुं सभायाम

एकः कषत्ता धर्म्यम अर्थं बरुवाणॊ; धर्मं बुद्ध्वा परत्युवाचाल्प बुद्धिम

35

अनुक्त्वा तवं धर्मम एवं सभायाम; अथेच्छसे पाण्डवस्यॊपदेष्टुम

कृष्णा तव एतत कर्म चकार शुद्धं; सुदुष्करं तद धि सभां समेत्य

येन कृच्छ्रात पाण्डवान उज्जहार; तथात्मानं नौर इव सागरौघात

36

यत्राब्रवीत सूतपुत्रः सभायां; कृष्णां सथितां शवशुराणां समीपे

न ते गतिर विद्यते याज्ञसेनि; परपद्येदानीं धार्तराष्ट्रस्य वेश्म

पराजितास ते पतयॊ न सन्ति; पतिं चान्यं भामिनि तवं वृणीष्व

37

यॊ बीभत्सॊर हृदये परौढ आसीद; अस्थि परच्छिन मर्मघाती सुघॊरः

कर्णाच्छरॊ वान्मयस तिग्मतेजाः; परतिष्ठितॊ हृदये फल्गुनस्य

38

कृष्णाजिनानि परिधित समानान; दुःशासनः कटुकान्य अभ्यभाषत

एते सर्वे षण्ढतिला विनष्टाः; कषयं गता नरकं दीर्घकालम

39

गान्धारराजः शकुनिर निकृत्या; यद अब्रवीद दयूतकाले स पार्थान

पराजितॊ नकुलः किं तवास्ति; कृष्णया तवं दीव्य वै याज्ञसेन्या

40

जानासि तवं संजय सर्वम एतद; दयूते ऽवाच्यं वाक्यम एवं यथॊक्तम

सवयं तव अहं परार्थये तत्र गन्तुं; समाधातुं कार्यम एतद विपन्नम

41

अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणाम अथ चेच चरेयम

पुण्यं च मे सयाच चरितं महॊदयं; मुच्येरंश च कुरवॊ मृत्युपाशात

42

अपि वाचं भाषमाणस्य काव्यां; धर्मारामाम अर्थवतीम अहिंस्राम

अवेक्षेरन धार्तराष्ट्राः समक्षं; मां च पराप्तं कुरवः पूजयेयुः

43

अतॊ ऽनयथा रथिना फल्गुनेन; भीमेन चैवाहव दंशितेन

परासिक्तान धार्तराष्ट्रांस तु विद्धि; परदह्यमानान कर्मणा सवेन मन्दान

44

पराजितान पाण्डवेयांस तु वाचॊ; रौद्ररूपा भाषते धार्तराष्ट्रः

गदाहस्तॊ भीमसेनॊ ऽपरमत्तॊ; दुर्यॊधनं समारयित्वा हि काले

45

सुयॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः

दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी

46

युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः

माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं तव अहं बरह्म च बराह्मणाश च

47

वनं राजा धृतराष्ट्रः सपुत्रॊ; वयाघ्रा वने संजय पाण्डवेयाः

मा वनं छिन्धि स वयाघ्रं मा वयाघ्रान नीनशॊ वनात

48

निर्वनॊ वध्यते वयाघ्रॊ निर्व्याघ्रं छिद्यते वनम

तस्माद वयाघ्रॊ वनं रक्षेद वनं वयाघ्रं च पालयेत

49

लता धर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः

न लता वर्धते जातु अनाश्रित्य महाद्रुमम

50

सथिताः शुश्रूषितुं पार्थाः सथिता यॊद्धुम अरिंदमाः

यत्कृत्यं धृतराष्ट्रस्य तत करॊतु नराधिपः

51

सथिताः शमे महात्मानः पाण्डवा धर्मचारिणः

यॊधाः समृद्धास तद विद्वन नाचक्षीथा यथातथम

1

[v]

avināśaṃ saṃjaya pāṇḍavānām; icchāmy ahaṃ bhūtim eṣāṃ priyaṃ ca

tathā rājño dhṛtarāṣṭrasya sūta; sadāśaṃse bahuputrasya vṛddhim

2

kāmo hi me saṃjaya nityam eva; nānyad brūyāṃ tān prati śāmyateti

rājñaś ca hi priyam etac chṛṇomi; manye caitat pāṇḍavānāṃ samartham

3

suduṣkaraś cātra śamo hi nūnaṃ; pradarśitaḥ saṃjaya pāṇḍavena

yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ; kasmād eṣāṃ kalaho nātra mūrcchet

4

tattvaṃ dharmaṃ vicaran saṃjayeha; mattaś ca jānāsi yudhiṣṭhirāc ca

atho kasmāt saṃjaya pāṇḍavasya; utsāhinaḥ pūrayataḥ svakarma

yathākhyātam āvasataḥ kuṭumbaṃ; purākalpāt sādhu vilopam āttha

5

asmin vidhau vartamāne yathāvad; uccāvacā matayo brāhmaṇānām

karmaṇāhuḥ siddim eke paratra; hitvā karma vidyayā siddhim eke

nābhuñjāno bhakṣyabhojyasya tṛpyed; vidvān apīha viditaṃ brāhmaṇānām

6

yā vai vidyāḥ sādhayantīha karma; tāsāṃ phalaṃ vidyate netarāsām

tatreha vai dṛṣṭaphalaṃ tu karma; pītvodakaṃ śāmyati tṛṣṇayārta

7

so 'yaṃ vidhir vihitaḥ karmaṇaiva; tad vartate saṃjaya tatra karma

tatra yo 'nyat karmaṇaḥ sādhu manyen; moghaṃ tasya lapitaṃ durbalasya

8

karmaṇāmī bhānti devāḥ paratra; karmaṇaiveha plavate mātariśvā

ahorātre vidadhat karmaṇaiva; atandrito nityam udeti sūrya

9

māsārdha mādān atha nakṣatrayogān; atandritaś candramā abhyupaiti

atandrito dahate jātavedāḥ; samidhyamānaḥ karma kurvan prajābhya

10

atandritā bhāram imaṃ mahāntaṃ; bibharti devī pṛthivī balena

atandritāḥ śīghram apo vahanti; saṃtarpayantyaḥ sarvabhūtāni nadya

11

atandrito varṣati bhūri tejāḥ; saṃnādayann antarikṣaṃ divaṃ ca

atandrito brahmacaryaṃ cacāra; śreṣṭhatvam icchan balabhid devatānām

12

hitvā sukhaṃ manasaś ca priyāṇi; tena śakraḥ karmaṇā śraiṣṭhyam āpa

satyaṃ dharmapālayann apramatto; damaṃ titikṣāṃ samatāṃ priyaṃ ca

etāni sarvāṇy upasevamāno; devarājyaṃ maghavān prāpa mukhyam

13

bṛhaspatir brahmacaryaṃ cacāra; samāhitaḥ saṃśitātmā yathāvat

hitvā sukhaṃ pratirudhyendriyāṇi; tena devānām agamad gauravaṃ sa

14

nakṣatrāṇi karmaṇāmutra bhānti; rudrādityā vasavo 'thāpi viśve

yamo rājā vaiśravaṇaḥ kubero; gandharvayakṣāpsarasaś ca śubhrāḥ

brahmacaryaṃ vedavid yāḥ kriyāś ca; niṣevamāṇā munayo 'mutra bhānti

15

jānann imaṃ sarvalokasya dharmaṃ; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca

sa kasmāt tvaṃ jānatāṃ jñānavān san; vyāyacchase saṃjaya kauravārthe

16

mnāyeṣu nityasaṃyogam asya; tathāśvamedhe rājasūye ca viddhi

saṃpūjyate dhanuṣā varmaṇā ca; hastatrāṇai rathaśastraiś ca bhūya

17

te ced ime kauravāṇām upāyam; adhigaccheyur avadhenaiva pārthāḥ

dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād; ārye vṛtre bhīmasenaṃ nigṛhya

18

te cet pitrye karmaṇi vartamānā; āpadyeran diṣṭa vaśena mṛtyum

yathāśaktyā pūrayantaḥ svakarma; tad apy eṣāṃ nidhanaṃ syāt praśastam

19

utāho tvaṃ manyase sarvam eva; rājñāṃ yuddhe vartate dharmatantram

ayuddhe vā vartate dharmatantraṃ; tathaiva te vācam imāṃ śṛomi

20

cāturvarṇyasya prathamaṃ vibhāgam; avekṣya tvaṃ saṃjaya svaṃ ca karma

niśamyātho pāṇḍavānāṃ svakarma; praśaṃsa vā ninda vā yā matis te

21

adhīyīta brāhmaṇo 'tho yajeta; dadyād iyāt tīrthamukhyāni caiva

adhyāpayed yājayec cāpi yājyān; pratigrahān vā viditān pratīcchet

22

tathā rājanyo rakṣaṇaṃ vai prajānāṃ; kṛtvā dharmeṇāpramatto 'tha dattvā

yajñair iṣṭvā sarvavedān adhītya; dārān kṛtvā puṇyakṛd āvased gṛhān

23

vaiśyo 'dhītya kṛṣigorakṣa puṇyair; vittaṃ cinvan pālayann apramattaḥ

priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ; dharmaśīlaḥ puṇyakṛd āvased gṛhān

24

paricaryā vandanaṃ brāhmaṇānāṃ; nādhīyīta pratiṣiddho 'sya yajñaḥ

nityotthito bhūtaye 'tandritaḥ syād; eṣa smṛtaḥ śūdra dharmaḥ purāṇa

25

etān rājā pālayann apramatto; niyojayan sarvavarṇān svadharme

akāmātmā samavṛttiḥ prajāsu; nādhārmikān anurudhyeta kāmān

26

reyāṃs tasmād yadi vidyeta kaś cid; abhijñātaḥ sarvadharmopapannaḥ

sa taṃ duṣṭam anuśiṣyāt prajānan; na ced gṛdhyed iti tasmin na sādhu

27

yadā gṛdhyet parabhūmiṃ nṛśaṃso; vidhiprakopād balam ādadānaḥ

ato rājñāṃ bhavitā yuddham etat; tatra jātaṃ varma śastraṃ dhanuś ca

indreṇedaṃ dasyuvadhāya karma; utpāditaṃ varma śastraṃ dhanuś ca

28

steno hared yatra dhanaṃ hy adṛṣṭaḥ; prasahya vā yatra hareta dṛṣṭaḥ

ubhau garhyau bhavataḥ saṃjayaitau; kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre

yo 'yaṃ lobhān manyate dharmam etaṃ; yam icchate manuvaśānugāmī

29

bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas; taṃ no 'kasmād ādadīran pare vai

asmin pade yudyatāṃ no vadho 'pi; ślaghyaḥ pitryaḥ pararājyād viśiṣṭaḥ

etān dharmān kauravāṇāṃ purāṇān; ācakṣīthāḥ saṃjaya rājyamadhye

30

ye te mandā mṛtyuvaśābhipannāḥ; samānītā dhārtarāṣṭreṇa mūḍhāḥ

idaṃ punaḥ karma pāpīya eva; sabhāmadhye paśya vṛttaṃ kurūṇām

31

priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ; yaśasvinīṃ śīlavṛttopapannām

yad upekṣanta kuravo bhīṣma mukhyāḥ; kāmānugenoparuddhāṃ rudantīm

32

taṃ cet tadā te sa kumāra vṛddhā; avārayiṣyan kuravaḥ sametāḥ

mama priyaṃ dhṛtarāṣṭro 'kariṣyat; putrāṇāṃ ca kṛtam asyābhaviṣyat

33

duḥśāsanaḥ prātilomyān nināya; sabhāmadhye śvaśurāṇāṃ ca kṛṣṇm

sā tatra nītā karuṇāny avocan; nānyaṃ kṣattur nātham adṛṣṭakaṃ cit

34

kārpaṇyād eva sahitās tatra rājño; nāśaknuvan prativaktuṃ sabhāyām

ekaḥ kṣattā dharmyam arthaṃ bruvāṇo; dharmaṃ buddhvā pratyuvācālpa buddhim

35

anuktvā tvaṃ dharmam evaṃ sabhāyām; athecchase pāṇḍavasyopadeṣṭum

kṛṣṇā tv etat karma cakāra śuddhaṃ; suduṣkaraṃ tad dhi sabhāṃ sametya

yena kṛcchrāt pāṇḍavān ujjahāra; tathātmānaṃ naur iva sāgaraughāt

36

yatrābravīt sūtaputraḥ sabhāyāṃ; kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe

na te gatir vidyate yājñaseni; prapadyedānīṃ dhārtarāṣṭrasya veśma

parājitās te patayo na santi; patiṃ cānyaṃ bhāmini tvaṃ vṛṇīva

37

yo bībhatsor hṛdaye prauḍha āsīd; asthi pracchin marmaghātī sughoraḥ

karṇāccharo vānmayas tigmatejāḥ; pratiṣṭhito hṛdaye phalgunasya

38

kṛṣṇjināni paridhit samānān; duḥśāsanaḥ kaṭukāny abhyabhāṣat

ete sarve ṣaṇḍhatilā vinaṣṭāḥ; kṣayaṃ gatā narakaṃ dīrghakālam

39

gāndhārarājaḥ śakunir nikṛtyā; yad abravīd dyūtakāle sa pārthān

parājito nakulaḥ kiṃ tavāsti; kṛṣṇayā tvaṃ dīvya vai yājñasenyā

40

jānāsi tvaṃ saṃjaya sarvam etad; dyūte 'vācyaṃ vākyam evaṃ yathoktam

svayaṃ tv ahaṃ prārthaye tatra gantuṃ; samādhātuṃ kāryam etad vipannam

41

ahāpayitvā yadi pāṇḍavārthaṃ; śamaṃ kurūṇām atha cec careyam

puṇyaṃ ca me syāc caritaṃ mahodayaṃ; mucyeraṃś ca kuravo mṛtyupāśāt

42

api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām

avekṣeran dhārtarāṣṭrāḥ samakṣaṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyu

43

ato 'nyathā rathinā phalgunena; bhīmena caivāhava daṃśitena

parāsiktān dhārtarāṣṭrāṃs tu viddhi; pradahyamānān karmaṇā svena mandān

44

parājitān pāṇḍaveyāṃs tu vāco; raudrarūpā bhāṣate dhārtarāṣṭraḥ

gadāhasto bhīmaseno 'pramatto; duryodhanaṃ smārayitvā hi kāle

45

suyodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ

duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī

46

yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ

mādrīputrau puṣpaphale samṛddhe; mūlaṃ tv ahaṃ brahma ca brāhmaṇāś ca

47

vanaṃ rājā dhṛtarāṣṭraḥ saputro; vyāghrā vane saṃjaya pāṇḍaveyāḥ

mā vanaṃ chindhi sa vyāghraṃ mā vyāghrān nīnaśo vanāt

48

nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam

tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet

49

latā dharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ

na latā vardhate jātu anāśritya mahādrumam

50

sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ

yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipa

51

sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ

yodhāḥ samṛddhās tad vidvan nācakṣīthā yathātatham
banquet invocations prayer| gadelica
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 29