Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 47

Book 5. Chapter 47

The Mahabharata In Sanskrit


Book 5

Chapter 47

1

[धृ]

पृच्छामि तवां संजय राजमध्ये; किम अब्रवीद वाक्यम अदीनसत्त्वः

धनंजयस तात युधां परणेता; दुरात्मनां जीवितच्छिन महात्मा

2

दुर्यॊधनॊ वाचम इमां शृणॊतु; यद अब्रवीद अर्जुनॊ यॊत्स्यमानः

युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य

3

अन्वत्रस्तॊ बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः

अवॊचन मां यॊत्स्यमानः किरीटी; मध्ये बरूया धार्तराष्ट्रं कुरूणाम

4

ये वै राजानः पाण्डवायॊधनाय; समानीताः शृण्वतां चापि तेषाम

यथा समग्रं वचनं मयॊक्तं; सहामात्यं शरावयेथा नृपं तम

5

यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे

तथाशृण्वन पाण्डवाः सृञ्जयाश च; किरीटिना वाचम उक्तां समर्थाम

6

इत्य अब्रवीद अर्जुनॊ यॊत्स्यमानॊ; गाण्डीवधन्वा लॊहितपद्मनेत्रः

न चेद राज्यं मुञ्चति धार्तराष्ट्रॊ; युधिष्ठिरस्याजमीढस्य राज्ञः

अस्ति नूनं कर्मकृतं पुरस्ताद; अनिर्विष्टं पापकं धार्तराष्ट्रैः

7

येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव

शैनेयेन धरुवम आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च

युधिष्ठिरेणेन्द्र कल्पेन चैव; यॊ ऽपध्यानान निर्दहेद गां दिवं च

8

तैश चेद युद्धं मन्यते धार्तराष्ट्रॊ; निर्वृत्तॊ ऽरथः सकलः पाण्डवानाम

मा तत कार्षीः पाण्डवार्थाय हेतॊर; उपैहि युद्धं यदि मन्यसे तवम

9

यां तां वने दुःखशय्याम उवास; परव्राजितः पाण्डवॊ धर्मचारी

आशिष्यते दुःखतराम अनर्थाम; अन्त्यां शय्यां धार्तराष्ट्रः परासुः

10

हरिया जञानेन तपसा दमेन; करॊधेनाथॊ धर्मगुप्त्या धनेन

अन्याय वृताः कुरुपाण्डवेयान; अध्यातिष्ठद धार्तराष्ट्रॊ दुरात्मा

11

मायॊपधः परणिधानार्जवाभ्यां; तपॊ दमाभ्यां धर्मगुप्त्या बलेन

सत्यं बरुवन परीतियुक्त्यानृतेन; तितिक्षमाणः कलिश्यमानॊ ऽतिवेलम

12

यदा जयेष्ठः पाण्डवः संशितात्मा; करॊधं यत तं वर्षपूगान सुघॊरम

अवस्रष्टा कुरुषूद्वृत्त चेतास; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

13

कृष्ण वर्त्मेव जवलितः समिद्धॊ; यथा दहेत कक्षम अग्निर निदाघे

एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः करॊधदीप्तॊ ऽनुवीक्ष्य

14

यद्या दरष्टा भीमसेनं रणस्थं; गदाहस्तं करॊधविषं वमन्तम

दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

15

महासिंहॊ गाव इव परविश्य; गदापाणिर धार्तराष्ट्रान उपेत्य

यदा भीमॊ भीमरूपॊ निहन्ता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

16

महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी

सकृद रथेन परतियाद रथौघान; पदातिसंघान गदयाभिनिघ्नन

17

सैन्यान अनेकांस तरसा विमृद्नन; यदा कषेप्ता धार्तराष्ट्रस्य सैन्यम

छिन्दन वनं परशुनेव शूरस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

18

तृणप्रायं जवलनेनेव दग्धं; गरामं यथा धार्तराष्ट्रः समीक्ष्य

पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं सवं बलौघम

19

हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं परायशॊ ऽधृष्ट यॊधम

शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

20

उपासङ्गाद उद्धरन दक्षिणेन; परःशतान नकुलश चित्रयॊधी

यदा रथाग्र्यॊ रथिनः परचेता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

21

सुखॊचितॊ दुःखशय्यां वनेषु; दीर्घं कालं नकुलॊ याम अशेत

आशीविषः करुद्ध इव शवसन भृशं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

22

तयक्तात्मानः पार्थिवायॊधनाय; समादिष्टा धर्मराजेन वीराः

रथैः शुभ्रैः सैन्यम अभिद्रवन्तॊ; दृष्ट्वा पश्चात तप्स्यते धार्तराष्ट्रः

23

शिशून कृतास्त्रान अशिशु परकाशान; यदा दरष्टा कौरवः पञ्च शूरान

तयक्त्वा पराणान केकयान आद्रवन्तस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

24

यदा गतॊद्वाहम अकूजनाक्षं; सुवर्णतारं रथम आततायी

दान्तैर युक्तं सहदेवॊ ऽधिरूढः; शिरांसि राज्ञां कषेप्स्यते मार्गणौघैः

25

महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम

सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

26

हरीनिषेधॊ निपुणः सत्यवादी; महाबलः सर्वधर्मॊपपन्नः

गान्धारिम आर्च्छंस तुमुले कषिप्रकारी; कषेप्ता जनान सहदेवस तरस्वी

27

यदा दरष्टा दरौपदेयान महेषूञ; शूरान कृतास्त्रान रथयुद्धकॊविदान

आशीविषान घॊरविषान इवायतस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

28

यदाभिमन्युः परवीर घाती; शरैः परान मेघ इवाभिवर्षन

विगाहिता कृष्ण समः कृतास्त्रस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

29

यदा दरष्टा बालम अबाल वीर्यं; दविषच चमूं मृत्युम इवापतन्तम

सौभद्रम इन्द्र परतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

30

परभद्रकाः शीघ्रतरा युवानॊ; विशारदाः सिंहसमान वीर्याः

यदा कषेप्तारॊ धार्तराष्ट्रान स सैन्यांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

31

वृद्धौ विराटद्रुपदौ महारथौ; पृथक चमूभ्याम अभिवर्तमानौ

यदा दरष्टारौ धार्तराष्ट्रान स सैन्यांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

32

यदा कृतास्त्रॊ दरुपदः परचिन्वञ; शिरांसि यूनां समरे रथस्थः

करुद्धः शरैश छेत्स्यति चापमुक्तैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

33

यदा विराटः परवीर घाती; मर्मान्तरे शत्रुचमूं परवेष्टा

मत्स्यैः सार्धम अनृशंसरूपैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

34

जयेष्ठं मात्स्यानाम अनृशंस रूपं; विराट पुत्रं रथिनं पुरस्तात

यदा दरष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

35

रणे हते कौरवाणां परवीरे; शिखण्डिना सत्तमे शंतनूजे

न जातु नः शत्रवॊ धारयेयुर; असंशयं सत्यम एतद बरवीमि

36

यदा शिखण्डी रथिनः परचिन्वन; भीष्मं रथेनाभियाता वरूथी

दिव्यैर हयैर अवमृद्नन रथौघांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

37

यदा दरष्टा सृञ्जयानाम अनीके; धृष्टद्युम्नं परमुखे रॊचमानम

अस्त्रं यस्मै गुह्यम उवाच धीमान; दरॊणस तदा तप्स्यति धार्तराष्ट्रः

38

यदा स सेनापतिर अप्रमेयः; पराभवन्न इषुभिर धार्तराष्ट्रान

दरॊणं रणे शत्रुसहॊ ऽभियाता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

39

हरीमान मनीषी बलवान मनस्वी; स लक्ष्मीवान सॊमकानां परबर्हः

न जातु तं शत्रवॊ ऽनये सहेरन; येषां स सयाद अग्रणीर वृष्णिसिंहः

40

बरूयाच च मा परवृणीष्वेति लॊके; युद्धे ऽदवितीयं सचिवं रथस्थम

शिनेर नप्तारं परवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम

41

यदा शिनीनाम अधिपॊ मयॊक्तः; शरैः परान मेघ इव परवर्षन

परच्छादयिष्यञ शरजालेन यॊधांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

42

यदा धृतिं कुरुते यॊत्स्यमानः; स दीर्घबाहुर दृढधन्वा महात्मा

सिंहस्येव गन्धम आघ्राय गावः; संवेष्टन्ते शत्रवॊ ऽसयाद यथाग्नेः

43

स दीर्घबाहुर दृढधन्वा महात्मा; भिन्द्याद गिरीन संहरेत सर्वलॊकान

अस्त्रे कृती निपुणः कषिप्रहस्तॊ; दिवि सथितः सूर्य इवाभिभाति

44

चित्रः सूक्ष्मः सुकृतॊ यावद अस्य; अस्त्रे यॊगॊ वृष्णिसिंहस्य भूयान

यथाविधं यॊगम आहुः परशस्तं; सर्वैर गुणैः सात्यकिस तैर उपेतः

45

हिरण्मयं शवेतहयैश चतुर्भिर; यदा युक्तं सयन्दनं माधवस्य

दरष्टा युद्धे सात्यकेर वै सुयॊधनस; तदा तप्स्यत्य अकृतात्मा स मन्दः

46

यदा रथं हेममणिप्रकाशं; शवेताश्वयुक्तं वानरकेतुम उग्रम

दरष्टा रणे संयतं केशवेन; तदा तप्स्यत्य अकृतात्मा स मन्दः

47

यदा मौर्व्यास तलनिष्पेषम उग्रं; महाशब्दं वज्रनिष्पेष तुल्यम

विधूयमानस्य महारणे मया; गाण्डीवस्य शरॊष्यति मन्दबुद्धिः

48

ततॊ मूढॊ धृतराष्ट्रस्य पुत्रस; तप्ता युद्धे दुर्मतिर दुःसहायः

दृष्ट्वा सैन्यं बाणवर्णान्ध कारं; परभज्यन्तं गॊकुलवद रणाग्रे

49

बलाहकाद उच्चरन्तीव विद्युत; सहस्रघ्नी दविषतां संगमेषु

अस्थिच्छिदॊ मर्मभिदॊ वमेच छरांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

50

यदा दरष्टा जया मुखाद वाण संघान; गाण्डीवमुक्तान पततः शिताग्रान

नागान हयान वर्मिणश चाददानांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

51

यदा मन्दः परबाणान विमुक्तान; ममेषुभिर हरियमाणान परतीपम

तिर्यग विद्वांश छिद्यमानान कषुरप्रैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवप्स्यत

52

यदा विपाठा मद भुजविप्रमुक्ता; दविजाः फलानीव महीरुहाग्रात

परच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

53

यदा दरष्टा पततः सयन्दनेभ्यॊ; महागजेभ्यॊ ऽशवगतांश च यॊधान

शरैर हतान पातितांश चैव रङ्गे; तदा युद्धं धार्तराष्ट्रॊ ऽनवतस्यत

54

पदातिसंघान रथसंघान समन्ताद; वयात्ताननः काल इवाततेषुः

परणॊत्स्यामि जवलितैर बाणवर्षैः; शत्रूंस तदा तप्स्यति मन्दबुद्धिः

55

सर्वा दिशः संपतता रथेन; रजॊध्वस्तं गाण्डिवेनापकृत्तम

यदा दरष्टा सवबलं संप्रमूढं; तदा पश्चात तप्स्यति मन्दबुद्धिः

56

कां दिग भूतं छिन्नगात्रं विसंज्ञं; दुर्यॊधनॊ दरक्ष्यति सर्वसैन्यम

हताश्ववीराग्र्य नरेन्द्र नागं; पिपासितं शरान्तपत्रं भयार्तम

57

आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थि कपालसंघम

परजापतेः कर्म यथार्ध निष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः

58

यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश च

तूणाव अक्षय्यौ देवदत्तं च मां च; दरष्टा युद्धे धार्तराष्ट्रः समेतान

59

उद्वर्तयन दस्यु संघान समेतान; परवर्तयन युगम अन्यद युगान्ते

यदा धक्ष्याम्य अग्निवत कौरवेयांस; तदा तप्ता धृतराष्ट्रः सपुत्रः

60

सह भराता सह पुत्रः स सैन्यॊ; भरष्टैश्वर्यः करॊधवशॊ ऽलपचेताः

दर्पस्यान्ते विहिते वेपमानः; पश्चान मन्दस तप्स्यति धार्तराष्ट्रः

61

पूर्वाह्ने मां कृतजप्यं कदा चिद; विप्रः परॊवाचॊदकान्ते मनॊज्ञम

करव्यं ते दुष्करं कर्म पार्थ; यॊद्धव्यं ते शत्रुभिः सव्यसाचिन

62

इन्द्रॊ वा ते हरिवान वज्रहस्तः; पुरस्ताद यातु समरे ऽरीन विनिघ्नन

सुग्रीव युक्तेन रथेन वा ते; पश्चात कृष्णॊ रक्षतु वासुदेवः

63

वव्रे चाहं वज्रहस्तान महेन्द्राद; अस्मिन युद्धे वासुदेवं सहायम

स मे लब्धॊ दस्युवधाय कृष्णॊ; मन्ये चैतद विहितं दैवतैर मे

64

अयुध्यमानॊ मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत

धरुवं सर्वान सॊ ऽभयतीयाद अमित्रान; सेन्द्रान देवान मानुषे नास्ति चिन्ता

65

स बाहुभ्यां सागरम उत्तितीर्षेन; महॊदधिं सलिलस्याप्रमेयम

तेजस्विनं कृष्णम अत्यन्तशूरं; युद्धेन यॊ वासुदेवं जिगीषेत

66

गिरिं य इच्छेत तलेन भेत्तुं; शिलॊच्चयं शवेतम अति परमाणम

तस्यैव पाणिः स नखॊ विशीर्येन; न चापि किं चित स गिरेस तु कुर्यात

67

अग्निं समिद्धं शमयेद भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत

हरेद देवानाम अमृतं परसह्य; युद्धेन यॊ वासुदेवं जिगीषेत

68

यॊ रुक्मिणीम एकरथेन भॊज्याम; उत्साद्य राज्ञां विषयं परसह्य

उवाह भार्यां यशसा जवलन्तीं; यस्यां जज्ञे रक्मिणेयॊ महात्मा

69

अयं गान्धरांस तरसा संप्रमथ्य; जित्वा पुत्रान नग्न जितः समग्रान

बद्धं मुमॊच विनदन्तं परसह्य; सुदर्शनीयं देवतानां ललामम

70

अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान दन्तकूरे ममर्द

अनेन दग्धा वर्षपूगान विनाथा; वाराणसी नगरी संबभूव

71

यं सम युद्धे मन्यते ऽनयैर अजेयम; एकलव्यं नाम निषादराजम

वेगेनेव शैलम अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः

72

तथॊग्रसेनस्य सुतं परदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम

अपातयद बलदेव दवितीयॊ; हत्वा ददौ चॊग्रसेनाय राज्यम

73

अयं सौभं यॊधयाम आस सवस्थं; विभीषणं मायया शाल्वराजम

सौभद्वारि परत्यगृह्णाच छतघ्नीं; दॊर्भ्यां क एनं विषहेत मर्त्यः

74

पराग्ज्यॊतिषं नाम बभूव दुर्गं; पुरं घॊरम असुराणाम असह्यम

महाबलॊ नरकस तत्र भौमॊ; जहारादित्या मणिकुण्डले शुभे

75

न तं देवाः सह शक्रेण सेहिरे; समागताहरणाय भीताः

दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम अवारणीयम

76

जानन्तॊ ऽसय परकृतिं केशवस्य; नययॊजयन दस्यु वधाय कृष्णम

स तत कर्म परतिशुश्राव दुष्करम; ऐश्वर्यवान सिद्धिषु वासुदेवः

77

निर्मॊचने षट सहस्राणि हत्वा; संछिद्य पाशान सहसा कषुरान्तान

मुरं हत्वा विनिहत्यौघराक्षसं; निर्मॊचनं चापि जगाम वीरः

78

तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णॊः

शेते स कृष्णेन हतः परासुर; वातेनेव मथितः कर्णिकारः

79

आहृत्य कृष्णॊ मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च

शरिया वृतॊ यशसा चैव धीमान; परत्याजगामाप्रतिम परभावः

80

तस्मै वरान अददंस तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत

शरमश च ते युध्यमानस्य न सयाद; आकाशे वा अप्सु चैव करमः सयात

81

शस्त्राणि गात्रे च न ते करमेरन्न; इत्य एव कृष्णश च ततः कृतार्थः

एवंरूपे वासुदेवे ऽपरमेये; महाबले गुणसंपत सदैव

82

तम असह्यं विष्णुम अनन्तवीर्यम; आशंसते धारराष्ट्रॊ बलेन

यदा हय एनं तर्कयते दुरात्मा; तच चाप्य अयं सहते ऽसमान समीक्ष्य

83

पर्यागतं मम कृष्णस्य चैव; यॊ मन्यते कलहं संप्रयुज्य

शक्यं हर्तुं पाण्डवानां ममत्वं; तद वेदिता संयुगं तत्र गत्वा

84

नमस्कृत्वा शांतनवाय राज्ञे; दरॊणायाथॊ सह पुत्राय चैव

शारद्वतायाप्रतिद्वन्द्विने च; यॊत्स्याम्य अहं राज्यम अभीप्समानः

85

धर्मेणास्त्रं नियतं तस्य मन्ये; यॊ यॊत्स्यते पाण्डवैर धर्मचारी

मिथ्या घले निर्जिता वै नृशंसैः; संवत्सरान दवादश पाण्डुपुत्राः

86

अवाप्य कृच्छ्रं विहितं हय अरण्ये; दीर्घं कालं चैकम अज्ञातचर्याम

ते हय अकस्माज जीवितं पाण्डवानां; न मृष्यन्ते हार्तराष्ट्राः पदस्थाः

87

ते चेद अस्मान युध्यमानाञ जयेयुर; देवैर अपीन्द्र परमुखैः सहायैः

धर्माद अधर्मश चरितॊ गरीयान; इति धरुवं नास्ति कृतं न साधु

88

न चेद इमं पुरुषं कर्म बद्धं; न चेद अस्मान मन्यते ऽसौ विशिष्टान

आशंसे ऽहं वासुदेव दवितीयॊ; दुर्यॊधनं सानुबन्धं निहन्तुम

89

न चेद इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य सवकर्म

इदं च तच चापि समीक्ष्य नूनं; पराजयॊ धार्तराष्ट्रस्य साधुः

90

परत्यक्षं वः कुरवॊ यद बरवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति

अन्यत्र युद्धात कुरवः परीप्सन; न युध्यतां शेष इहास्ति कश चित

91

हत्वा तव अहं धार्तराष्ट्रान स कर्णान; राज्यं कुरूणाम अवजेता समग्रम

यद वः कार्यं तत कुरुध्वं यथास्वम; इष्टान दारान आत्मजांश चॊपभुङ्क्ते

92

अप्य एवं नॊ बराह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः

सांवत्सरा जयॊतिषि चापि युक्ता; नक्षत्रयॊगेषु च निश्चयज्ञाः

93

उच्चावचं दैवयुक्तं रहस्यं; दिव्याः परश्ना मृगचक्रा मुहूर्ताः

कषयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च

94

तथा हि नॊ मन्यते ऽजातशत्रुः; संसिद्धार्थॊ दविषतां निग्रहाय

जनार्दनश चाप्य अपरॊक्ष विद्यॊ; न संशयं पश्यति वृष्णिसिंहः

95

अहं च जानामि भविष्य रूपं; पश्यामि बुद्ध्या सवयम अप्रमत्तः

दृष्टिश च मे न वयथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति

96

अनालब्धं जृम्भति गाण्डिवं धनुर; अनालब्धा कम्पति मे धनुर्ज्या

बाणाश च मे तूणमुखाद विसृज्य; मुहुर मुहुर गन्तुम उशन्ति चैव

97

सैक्यः कॊशान निःसरति परसन्नॊ; हित्वेव जीर्णाम उरगस तवचं सवाम

धवजे वाचॊ रौद्ररूपा वदन्ति; कदा रथॊ यॊक्ष्यते ते किरीटिन

98

गॊमायुसंघाश च वदन्ति रात्रौ; रक्षांस्य अथॊ निष्पतन्त्य अन्तरिक्षात

मृगाः शृगालाः शितिकण्ठाश च काका; गृध्रा बडाश चैव तरक्षवश च

99

सुपर्णपाताश च पतन्ति पश्चाद; दृष्ट्वा रथं शवेतहयप्रयुक्तम

अहं हय एकः पार्थिवान सर्वयॊधाञ; शरान वर्षन मृत्युलॊकं नयेयम

100

समाददानः पृथग अस्त्रमार्गान; यथाग्निर इद्धॊ गहनं निदाघे

सथूणाकर्णं पाशुपतं च घॊरं; तथा बरह्मास्त्रं यच च शक्रॊ विवेद

101

वधे धृतॊ वेगवतः परमुञ्चन; नाहं परजाः किं चिद इवावशिष्ये

शान्तिं लप्स्ये परमॊ हय एष भावः; सथिरॊ मम बरूहि गावल्गणे तान

102

नित्यं पुनः सचिवैर यैर अवॊचद; देवान अपीन्द्र परमुखान सहायान

तैर मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मॊहम अस्य

103

वृद्धॊ भीष्मः शांतनवः कृपश च; दरॊणः सपुत्रॊ विदुरश च धीमान

एते सर्वे यद्वद अन्ते तद अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे

1

[dhṛ]

pṛcchāmi tvāṃ saṃjaya rājamadhye; kim abravīd vākyam adīnasattvaḥ

dhanaṃjayas tāta yudhāṃ praṇetā; durātmanāṃ jīvitacchin mahātmā

2

duryodhano vācam imāṃ śṛotu; yad abravīd arjuno yotsyamānaḥ

yudhiṣṭhirasyānumate mahātmā; dhanaṃjayaḥ śṛvataḥ keśavasya

3

anvatrasto bāhuvīryaṃ vidāna; upahvare vāsudevasya dhīraḥ

avocan māṃ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṃ kurūṇām

4

ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śṛvatāṃ cāpi teṣām

yathā samagraṃ vacanaṃ mayoktaṃ; sahāmātyaṃ śrāvayethā nṛpaṃ tam

5

yathā nūnaṃ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve

tathāśṛṇvan pāṇḍavāḥ sṛñjayāś ca; kirīṭinā vācam uktāṃ samarthām

6

ity abravīd arjuno yotsyamāno; gāṇḍīvadhanvā lohitapadmanetraḥ

na ced rājyaṃ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ

asti nūnaṃ karmakṛtaṃ purastād; anirviṣṭaṃ pāpakaṃ dhārtarāṣṭrai

7

yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ; tathāśvibhyāṃ vāsudevena caiva

śaineyena dhruvam āttāyudhena; dhṛṣṭadyumnenātha śikhaṇḍinā ca

yudhiṣṭhireṇendra kalpena caiva; yo 'padhyānān nirdahed gāṃ divaṃ ca

8

taiś ced yuddhaṃ manyate dhārtarāṣṭro; nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām

mā tat kārṣīḥ pāṇḍavārthāya hetor; upaihi yuddhaṃ yadi manyase tvam

9

yāṃ tāṃ vane duḥkhaśayyām uvāsa; pravrājitaḥ pāṇḍavo dharmacārī

ā
iṣyate duḥkhatarām anarthām; antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsu

10

hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena

anyāya vṛtāḥ kurupāṇḍaveyān; adhyātiṣṭhad dhārtarāṣṭro durātmā

11

māyopadhaḥ praṇidhānārjavābhyāṃ; tapo damābhyāṃ dharmaguptyā balena

satyaṃ bruvan prītiyuktyānṛtena; titikṣamāṇaḥ kliśyamāno 'tivelam

12

yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā; krodhaṃ yat taṃ varṣapūgān sughoram

avasraṣṭā kuruṣūdvṛtta cetās; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

13

kṛṣṇa vartmeva jvalitaḥ samiddho; yathā dahet kakṣam agnir nidāghe

evaṃ dagdhā dhārtarāṣṭrasya senāṃ; yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya

14

yadyā draṣṭā bhīmasenaṃ raṇasthaṃ; gadāhastaṃ krodhaviṣaṃ vamantam

durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

15

mahāsiṃho gāva iva praviśya; gadāpāṇir dhārtarāṣṭrān upetya

yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

16

mahābhaye vītabhayaḥ kṛtāstraḥ; samāgame śatrubalāvamardī

sakṛd rathena pratiyād rathaughān; padātisaṃghān gadayābhinighnan

17

sainyān anekāṃs tarasā vimṛdnan; yadā kṣeptā dhārtarāṣṭrasya sainyam

chindan vanaṃ paraśuneva śūras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

18

tṛṇaprāyaṃ jvalaneneva dagdhaṃ; grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya

pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ; parāsiktaṃ vipulaṃ svaṃ balaugham

19

hatapravīraṃ vimukhaṃ bhayārtaṃ; parāṅmukhaṃ prāyaśo 'dhṛṣṭa yodham

śastrārciṣā bhīmasenena dagdhaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

20

upāsaṅgād uddharan dakṣiṇena; paraḥśatān nakulaś citrayodhī

yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

21

sukhocito duḥkhaśayyāṃ vaneṣu; dīrghaṃ kālaṃ nakulo yām aśeta

āś
viṣaḥ kruddha iva śvasan bhṛśaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

22

tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ

rathaiḥ śubhraiḥ sainyam abhidravanto; dṛṣṭvā paścāt tapsyate dhārtarāṣṭra

23

iśūn kṛtāstrān aśiśu prakāśān; yadā draṣṭā kauravaḥ pañca śūrān

tyaktvā prāṇān kekayān ādravantas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

24

yadā gatodvāham akūjanākṣaṃ; suvarṇatāraṃ ratham ātatāyī

dāntair yuktaṃ sahadevo 'dhirūḍhaḥ; śirāṃsi rājñāṃ kṣepsyate mārgaṇaughai

25

mahābhaye saṃpravṛtte rathasthaṃ; vivartamānaṃ samare kṛtāstram

sarvāṃ diśaṃ saṃpatantaṃ samīkṣya; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

26

hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ

gāndhārim ārcchaṃs tumule kṣiprakārī; kṣeptā janān sahadevas tarasvī

27

yadā draṣṭā draupadeyān maheṣūñ; śrān kṛtāstrān rathayuddhakovidān

āś
viṣān ghoraviṣān ivāyatas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

28

yadābhimanyuḥ paravīra ghātī; śaraiḥ parān megha ivābhivarṣan

vigāhitā kṛṣṇa samaḥ kṛtāstras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

29

yadā draṣṭā bālam abāla vīryaṃ; dviṣac camūṃ mṛtyum ivāpatantam

saubhadram indra pratimaṃ kṛtāstraṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

30

prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṃhasamāna vīryāḥ

yadā kṣeptāro dhārtarāṣṭrān sa sainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

31

vṛddhau virāṭadrupadau mahārathau; pṛthak camūbhyām abhivartamānau

yadā draṣṭārau dhārtarāṣṭrān sa sainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

32

yadā kṛtāstro drupadaḥ pracinvañ; śirāṃsi yūnāṃ samare rathasthaḥ

kruddhaḥ śaraiś chetsyati cāpamuktais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

33

yadā virāṭaḥ paravīra ghātī; marmāntare śatrucamūṃ praveṣṭā

matsyaiḥ sārdham anṛśaṃsarūpais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

34

jyeṣṭhaṃ mātsyānām anṛśaṃsa rūpaṃ; virāṭa putraṃ rathinaṃ purastāt

yadā draṣṭā daṃśitaṃ pāṇḍavārthe; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

35

raṇe hate kauravāṇāṃ pravīre; śikhaṇḍinā sattame śaṃtanūje

na jātu naḥ śatravo dhārayeyur; asaṃśayaṃ satyam etad bravīmi

36

yadā śikhaṇḍī rathinaḥ pracinvan; bhīṣmaṃ rathenābhiyātā varūthī

divyair hayair avamṛdnan rathaughāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

37

yadā draṣṭā sṛñjayānām anīke; dhṛṣṭadyumnaṃ pramukhe rocamānam

astraṃ yasmai guhyam uvāca dhīmān; droṇas tadā tapsyati dhārtarāṣṭra

38

yadā sa senāpatir aprameyaḥ; parābhavann iṣubhir dhārtarāṣṭrān

droṇaṃ raṇe śatrusaho 'bhiyātā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

39

hrīmān manīṣī balavān manasvī; sa lakṣmīvān somakānāṃ prabarhaḥ

na jātu taṃ śatravo 'nye saheran; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃha

40

brūyāc ca mā pravṛṇīveti loke; yuddhe 'dvitīyaṃ sacivaṃ rathastham

śiner naptāraṃ pravṛṇīma sātyakiṃ; mahābalaṃ vītabhayaṃ kṛtāstram

41

yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan

pracchādayiṣyañ śarajālena yodhāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

42

yadā dhṛtiṃ kurute yotsyamānaḥ; sa dīrghabāhur dṛḍhadhanvā mahātmā

siṃhasyeva gandham āghrāya gāvaḥ; saṃveṣṭante śatravo 'syād yathāgne

43

sa dīrghabāhur dṛḍhadhanvā mahātmā; bhindyād girīn saṃharet sarvalokān

astre kṛtī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti

44

citraḥ sūkṣmaḥ sukṛto yāvad asya; astre yogo vṛṣṇisiṃhasya bhūyān

yathāvidhaṃ yogam āhuḥ praśastaṃ; sarvair guṇaiḥ sātyakis tair upeta

45

hiraṇmayaṃ śvetahayaiś caturbhir; yadā yuktaṃ syandanaṃ mādhavasya

draṣṭā yuddhe sātyaker vai suyodhanas; tadā tapsyaty akṛtātmā sa manda

46

yadā rathaṃ hemamaṇiprakāśaṃ; śvetāśvayuktaṃ vānaraketum ugram

draṣṭā raṇe saṃyataṃ keśavena; tadā tapsyaty akṛtātmā sa manda

47

yadā maurvyās talaniṣpeṣam ugraṃ; mahāśabdaṃ vajraniṣpeṣa tulyam

vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhi

48

tato mūḍho dhṛtarāṣṭrasya putras; taptā yuddhe durmatir duḥsahāyaḥ

dṛṣṭvā sainyaṃ bāṇavarṇāndha kāraṃ; prabhajyantaṃ gokulavad raṇāgre

49

balāhakād uccarantīva vidyut; sahasraghnī dviṣatāṃ saṃgameṣu

asthicchido marmabhido vamec charāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

50

yadā draṣṭā jyā mukhād vāṇa saṃghān; gāṇḍīvamuktān patataḥ śitāgrān

nāgān hayān varmiṇaś cādadānāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

51

yadā mandaḥ parabāṇān vimuktān; mameṣubhir hriyamāṇān pratīpam

tiryag vidvāṃś chidyamānān kṣuraprais; tadā yuddhaṃ dhārtarāṣṭro 'navapsyat

52

yadā vipāṭhā mad bhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt

pracchettāra uttamāṅgāni yūnāṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat

53

yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo 'śvagatāṃś ca yodhān

śarair hatān pātitāṃś caiva raṅge; tadā yuddhaṃ dhārtarāṣṭro 'nvatasyat

54

padātisaṃghān rathasaṃghān samantād; vyāttānanaḥ kāla ivātateṣuḥ

praṇotsyāmi jvalitair bāṇavarṣaiḥ; śatrūṃs tadā tapsyati mandabuddhi

55

sarvā diśaḥ saṃpatatā rathena; rajodhvastaṃ gāṇḍivenāpakṛttam

yadā draṣṭā svabalaṃ saṃpramūḍhaṃ; tadā paścāt tapsyati mandabuddhi

56

kāṃ dig bhūtaṃ chinnagātraṃ visaṃjñaṃ; duryodhano drakṣyati sarvasainyam

hatāśvavīrāgrya narendra nāgaṃ; pipāsitaṃ śrāntapatraṃ bhayārtam

57

rtasvaraṃ hanyamānaṃ hataṃ ca; vikīrṇakeśāsthi kapālasaṃgham

prajāpateḥ karma yathārdha niṣṭhitaṃ; tadā dṛṣṭvā tapsyate mandabuddhi

58

yadā rathe gāṇḍivaṃ vāsudevaṃ; divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃś ca

tūṇāv akṣayyau devadattaṃ ca māṃ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān

59

udvartayan dasyu saṃghān sametān; pravartayan yugam anyad yugānte

yadā dhakṣyāmy agnivat kauraveyāṃs; tadā taptā dhṛtarāṣṭraḥ saputra

60

saha bhrātā saha putraḥ sa sainyo; bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ

darpasyānte vihite vepamānaḥ; paścān mandas tapsyati dhārtarāṣṭra

61

pūrvāhne māṃ kṛtajapyaṃ kadā cid; vipraḥ provācodakānte manojñam

karavyaṃ te duṣkaraṃ karma pārtha; yoddhavyaṃ te śatrubhiḥ savyasācin

62

indro vā te harivān vajrahastaḥ; purastād yātu samare 'rīn vinighnan

sugrīva yuktena rathena vā te; paścāt kṛṣṇo rakṣatu vāsudeva

63

vavre cāhaṃ vajrahastān mahendrād; asmin yuddhe vāsudevaṃ sahāyam

sa me labdho dasyuvadhāya kṛṣṇo; manye caitad vihitaṃ daivatair me

64

ayudhyamāno manasāpi yasya; jayaṃ kṛṣṇaḥ puruṣasyābhinandet

dhruvaṃ sarvān so 'bhyatīyād amitrān; sendrān devān mānuṣe nāsti cintā

65

sa bāhubhyāṃ sāgaram uttitīrṣen; mahodadhiṃ salilasyāprameyam

tejasvinaṃ kṛṣṇam atyantaśūraṃ; yuddhena yo vāsudevaṃ jigīṣet

66

giriṃ ya iccheta talena bhettuṃ; śiloccayaṃ śvetam ati pramāṇam

tasyaiva pāṇiḥ sa nakho viśīryen; na cāpi kiṃ cit sa gires tu kuryāt

67

agniṃ samiddhaṃ śamayed bhujābhyāṃ; candraṃ ca sūryaṃ ca nivārayeta

hared devānām amṛtaṃ prasahya; yuddhena yo vāsudevaṃ jigīṣet

68

yo rukmiṇīm ekarathena bhojyām; utsādya rājñāṃ viṣayaṃ prasahya

uvāha bhāryāṃ yaśasā jvalantīṃ; yasyāṃ jajñe rakmiṇeyo mahātmā

69

ayaṃ gāndharāṃs tarasā saṃpramathya; jitvā putrān nagna jitaḥ samagrān

baddhaṃ mumoca vinadantaṃ prasahya; sudarśanīyaṃ devatānāṃ lalāmam

70

ayaṃ kavāṭe nijaghāna pāṇḍyaṃ; tathā kaliṅgān dantakūre mamarda

anena dagdhā varṣapūgān vināthā; vārāṇasī nagarī saṃbabhūva

71

yaṃ sma yuddhe manyate 'nyair ajeyam; ekalavyaṃ nāma niṣādarājam

vegeneva śailam abhihatya jambhaḥ; śete sa kṛṣṇena hataḥ parāsu

72

tathograsenasya sutaṃ praduṣṭaṃ; vṛṣṇyandhakānāṃ madhyagāṃ tapantam

apātayad baladeva dvitīyo; hatvā dadau cograsenāya rājyam

73

ayaṃ saubhaṃ yodhayām āsa svasthaṃ; vibhīṣaṇaṃ māyayā śālvarājam

saubhadvāri pratyagṛhṇāc chataghnīṃ; dorbhyāṃ ka enaṃ viṣaheta martya

74

prāgjyotiṣaṃ nāma babhūva durgaṃ; puraṃ ghoram asurāṇām asahyam

mahābalo narakas tatra bhaumo; jahārādityā maṇikuṇḍale śubhe

75

na taṃ devāḥ saha śakreṇa sehire; samāgatāharaṇāya bhītāḥ

dṛṣṭvā ca te vikramaṃ keśavasya; balaṃ tathaivāstram avāraṇīyam

76

jānanto 'sya prakṛtiṃ keśavasya; nyayojayan dasyu vadhāya kṛṣṇam

sa tat karma pratiśuśrāva duṣkaram; aiśvaryavān siddhiṣu vāsudeva

77

nirmocane ṣaṭ sahasrāṇi hatvā; saṃchidya pāśān sahasā kṣurāntān

muraṃ hatvā vinihatyaugharākṣasaṃ; nirmocanaṃ cāpi jagāma vīra

78

tatraiva tenāsya babhūva yuddhaṃ; mahābalenātibalasya viṣṇoḥ

śete sa kṛṣṇena hataḥ parāsur; vāteneva mathitaḥ karṇikāra

79

hṛtya kṛṣṇo maṇikuṇḍale te; hatvā ca bhaumaṃ narakaṃ muraṃ ca

śriyā vṛto yaśasā caiva dhīmān; pratyājagāmāpratima prabhāva

80

tasmai varān adadaṃs tatra devā; dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat

śramaś ca te yudhyamānasya na syād; ākāśe vā apsu caiva kramaḥ syāt

81

astrāṇi gātre ca na te kramerann; ity eva kṛṣṇaś ca tataḥ kṛtārthaḥ

evaṃrūpe vāsudeve 'prameye; mahābale guṇasaṃpat sadaiva

82

tam asahyaṃ viṣṇum anantavīryam; āśaṃsate dhārarāṣṭro balena

yadā hy enaṃ tarkayate durātmā; tac cāpy ayaṃ sahate 'smān samīkṣya

83

paryāgataṃ mama kṛṣṇasya caiva; yo manyate kalahaṃ saṃprayujya

śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ; tad veditā saṃyugaṃ tatra gatvā

84

namaskṛtvā śāṃtanavāya rājñe; droṇāyātho saha putrāya caiva

śāradvatāyāpratidvandvine ca; yotsyāmy ahaṃ rājyam abhīpsamāna

85

dharmeṇāstraṃ niyataṃ tasya manye; yo yotsyate pāṇḍavair dharmacārī

mithyā ghale nirjitā vai nṛśaṃsaiḥ; saṃvatsarān dvādaśa pāṇḍuputrāḥ

86

avāpya kṛcchraṃ vihitaṃ hy araṇye; dīrghaṃ kālaṃ caikam ajñātacaryām

te hy akasmāj jīvitaṃ pāṇḍavānāṃ; na mṛṣyante hārtarāṣṭrāḥ padasthāḥ

87

te ced asmān yudhyamānāñ jayeyur; devair apīndra pramukhaiḥ sahāyaiḥ

dharmād adharmaś carito garīyān; iti dhruvaṃ nāsti kṛtaṃ na sādhu

88

na ced imaṃ puruṣaṃ karma baddhaṃ; na ced asmān manyate 'sau viśiṣṭān

āśaṃse 'haṃ vāsudeva dvitīyo; duryodhanaṃ sānubandhaṃ nihantum

89

na ced idaṃ karma nareṣu baddhaṃ; na vidyate puruṣasya svakarma

idaṃ ca tac cāpi samīkṣya nūnaṃ; parājayo dhārtarāṣṭrasya sādhu

90

pratyakṣaṃ vaḥ kuravo yad bravīmi; yudhyamānā dhārtarāṣṭrā na santi

anyatra yuddhāt kuravaḥ parīpsan; na yudhyatāṃ śeṣa ihāsti kaś cit

91

hatvā tv ahaṃ dhārtarāṣṭrān sa karṇān; rājyaṃ kurūṇām avajetā samagram

yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam; iṣṭān dārān ātmajāṃś copabhuṅkte

92

apy evaṃ no brāhmaṇāḥ santi vṛddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ

sāṃvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ

93

uccāvacaṃ daivayuktaṃ rahasyaṃ; divyāḥ praśnā mṛgacakrā muhūrtāḥ

kṣayaṃ mahāntaṃ kurusṛñjayānāṃ; nivedayante pāṇḍavānāṃ jayaṃ ca

94

tathā hi no manyate 'jātaśatruḥ; saṃsiddhārtho dviṣatāṃ nigrahāya

janārdanaś cāpy aparokṣa vidyo; na saṃśayaṃ paśyati vṛṣṇisiṃha

95

ahaṃ ca jānāmi bhaviṣya rūpaṃ; paśyāmi buddhyā svayam apramattaḥ

dṛṣṭiś ca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi

96

anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur; anālabdhā kampati me dhanurjyā

bāṇāś ca me tūṇamukhād visṛjya; muhur muhur gantum uśanti caiva

97

saikyaḥ kośān niḥsarati prasanno; hitveva jīrṇām uragas tvacaṃ svām

dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin

98

gomāyusaṃghāś ca vadanti rātrau; rakṣāṃsy atho niṣpatanty antarikṣāt

mṛgāḥ śgālāḥ śitikaṇṭhāś ca kākā; gṛdhrā baḍāś caiva tarakṣavaś ca

99

suparṇapātāś ca patanti paścād; dṛṣṭvā rathaṃ śvetahayaprayuktam

ahaṃ hy ekaḥ pārthivān sarvayodhāñ; śarān varṣan mṛtyulokaṃ nayeyam

100

samādadānaḥ pṛthag astramārgān; yathāgnir iddho gahanaṃ nidāghe

sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ; tathā brahmāstraṃ yac ca śakro viveda

101

vadhe dhṛto vegavataḥ pramuñcan; nāhaṃ prajāḥ kiṃ cid ivāvaśiṣye

śāntiṃ lapsye paramo hy eṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān

102

nityaṃ punaḥ sacivair yair avocad; devān apīndra pramukhān sahāyān

tair manyate kalahaṃ saṃprayujya; sa dhārtarāṣṭraḥ paśyata moham asya

103

vṛddho bhīṣmaḥ śātanavaḥ kṛpaś ca; droṇaḥ saputro viduraś ca dhīmān

ete sarve yadvad ante tad astu; āyuṣmantaḥ kuravaḥ santu sarve
taping 341 chapter 13 meeting| least known novel twentieth century
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 47