Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 70

Book 5. Chapter 70

The Mahabharata In Sanskrit


Book 5

Chapter 70

1

[व]

संजये परतियाते तु धर्मराजॊ युधिष्ठिरः

अभ्यभाषत दाशार्हम ऋषभं सर्वसात्वताम

2

अयं स कालः संप्राप्तॊ मित्राणां मे जनार्दन

न च तवदन्यं पश्यामि यॊ न आपत्सु तारयेत

3

तवां हि माधव संश्रित्य निर्भया मॊहदर्पितम

धार्तराष्ट्रं सहामात्यं सवम अंशम अनुयुञ्ज्महे

4

यथा हि सर्वास्व आपत्सु पासि वृष्णीन अरिंदम

तथा ते पाण्डवा रक्ष्याः पाह्य अस्मान महतॊ भयात

5

[भगवान]

अयम अस्मि महाबाहॊ बरूहि यत ते विवक्षितम

करिष्यामि हि तत सर्वं यत तवं वक्ष्यसि भारत

6

शरुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम

एतद धि सकलं कृष्ण संजयॊ मां यद अब्रवीत

7

तन मतं धृतराष्ट्रस्य सॊ ऽसयात्मा विवृतान्तरः

यथॊक्तं दूत आचष्टे वध्यः सयाद अन्यथा बरुवन

8

अप्रदानेन राज्यस्य शान्तिम अस्मासु मार्गति

लुब्धः पापेन मनसा चरन्न असमम आत्मनः

9

यत तद दवादश वर्षाणि वने निर्व्युषिता वयम

छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात

10

सथाता नः समये तस्मिन धृतराष्ट्र इति परभॊ

नाहास्म समयं कृष्ण तद धि नॊ बराह्मणा विदुः

11

वृद्धॊ राजा धृतराष्ट्रः सवधर्मं नानुपश्यति

पश्यन वा पुत्रगृद्धित्वान मन्दस्यान्वेति शासनम

12

सुयॊधन मते तिष्ठन राजास्मासु जनार्दन

मिथ्या चरति लुब्धः संश चरन परियम इवात्मनः

13

इतॊ दुःखतरं किं नु यत्राहं मातरं ततः

संविधातुं न शक्नॊमि मित्राणां वा जनार्दन

14

काशिभिश चेदिपाञ्चालैर मत्स्यैश च मधुसूदन

भवता चैव नाथेन पञ्च गरामा वृता मया

15

कुश सथलं वृकस्थलम आसन्दी वारणावतम

अवसानं च गॊविन्द किं चिद एवात्र पञ्चमम

16

पञ्च नस तात दीयन्तां गरामा वा नगराणि वा

वसेम सहिता येषु मा च नॊ भरता नशन

17

न च तान अपि दुष्टात्मा धार्तराष्ट्रॊ ऽनुमन्यते

सवाम्यम आत्मनि मत्वासाव अतॊ दुःखतरं नु किम

18

कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः

लॊभः परज्ञानम आहन्ति परज्ञा हन्ति हता हरियम

19

हरीर हता बाधते धर्मं धर्मॊ हन्ति हतः शरियम

शरीर हता पुरुषं हन्ति पुरुषस्यास्वता वधः

20

अस्वतॊ हि निवर्तन्ते जञातयः सुहृदर्त्विजः

अपुष्पाद अफलाद वृक्षाद यथा तात पतत्रिणः

21

एतच च मरणं तात यद अस्मात पतिताद इव

जञातयॊ विनिवर्तन्ते परेतसत्त्वाद इवासवः

22

नातः पापीयसीं कां चिद अवस्थां शम्बरॊ ऽबरवीत

यत्र नैवाद्य न परातर भॊजनं पतिदृश्यते

23

धनम आहुः परं धर्मं धने सर्वं परतिष्ठितम

जीवन्ति धनिनॊ लॊके मृता ये तव अधना नराः

24

ये धनाद अपकर्षन्ति नरं सवबलम आश्रिताः

ते धर्मम अर्थं कामं च परमथ्नन्ति नरं च तम

25

एताम अवस्थां पराप्यैके मरणं वव्रिरे जनाः

गरामायैके वनायैके नाशायैके पवव्रजुः

26

उन्मादम एके पुष्यन्ति यान्त्य अन्ये दविषतां वशम

दास्यम एके निगच्छन्ति परेषाम अर्थहेतुना

27

आपद एवास्य मरणात पुरुषस्य गरीयसी

शरियॊ विनाशस तद धयस्य निमित्तं धर्मकामयॊः

28

यद अस्य धर्म्यं मरणं शाश्वतं लॊकवर्त्म तत

समन्तात सर्वभूतानां न तद अत्येति कश चन

29

न तथा बाध्यते कृष्ण परकृत्या निर्धनॊ जनः

यथा भद्रां शरियं पराप्य तया हीनः सुखैधितः

30

स तदात्मापराधेन संप्राप्तॊ वयसनं महत

सेन्द्रान गर्हयते देवान नात्मानं च कथं चन

31

न चास्मिन सर्वशास्त्राणि परतरन्ति निगर्हणाम

सॊ ऽभिक्रुध्यति भृत्यानां सुहृदश चाभ्यसूयति

32

तं तदा मन्युर एवैति स भूयः संप्रमुह्यति

स मॊहवशम आपन्नः करूरं कर्म निषेवते

33

पापकर्मात्ययायैव संकरं तेन पुष्यति

संकरॊ नरकायैव सा काष्ठा पापकर्मणाम

34

न चेत परबुध्यते कृष्ण नरकायैव गच्छति

तस्य परबॊधः परज्ञैव परज्ञा चक्षुर न रिष्यति

35

परज्ञा लाभे हि पुरुषः शास्त्राण्य एवान्ववेक्षते

शास्त्रनित्यः पुनर धर्मं तस्य हरीर अङ्गम उत्तमम

36

हरीमान हि पापं परद्वेष्टि तस्य शरीर अभिवर्धते

शरीमान स यावद भवति तावद भवति पूरुषः

37

धर्मनित्यः परशान्तात्मा कार्ययॊगवहः सदा

नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते

38

अह्रीकॊ वा विमूढॊ वा नैव सत्री न पुनः पुमान

नास्याधिकारॊ धर्मे ऽसति यथा शूद्रस तथैव सः

39

हरीमान अवति देवांश च पितॄन आत्मानम एव च

तेनामृतत्वं वरजति सा काष्ठा पुण्यकर्मणाम

40

तद इदं मयि ते दृष्टं परत्यक्षं मधुसूदन

यथा राज्यात परिभ्रष्टॊ वसामि वसतीर इमाः

41

ते वयं न शरियं हातुम अलं नयायेन केन चित

अत्र नॊ यतमानानां वधश चेद अपि साधु तत

42

तत्र नः परथमः कल्पॊ यद वयं ते च माधव

परशान्ताः समभूताश च शरियं तान अश्नुवीमहि

43

तत्रैषा परमा काष्ठा रौद्रकर्म कषयॊदया

यद वयं हौरवान हत्वा तानि राष्ट्राण्य अशीमहि

44

ये पुनः सयुर असंबद्धा अनार्याः कृष्ण शत्रवः

तेषाम अप्य अवधः कार्यः किं पुनर ये सयुर ईदृशाः

45

जञातयश च हि भूयिष्ठाः सहाया गुरवश च नः

तेषां वधॊ ऽतिपापीयान किं नु युद्धे ऽसति शॊभनम

46

पापः कषत्रिय धर्मॊ ऽयं वयं च कषत्रबान्धवाः

स नः सवधर्मॊ ऽधर्मॊ वा वृत्तिर अन्या विगर्हिता

47

शूद्रः करॊति शुश्रूषां वैश्या विपणि जीविनः

वयं वधेन जीवामः कपालं बराह्मणैर वृतम

48

कषत्रियः कषत्रियं हन्ति मत्स्यॊ मत्स्येन जीवति

शवा शवानं हन्ति दाशार्ह पश्य धर्मॊ यथागतः

49

युद्धे कृष्ण कलिर नित्यं पराणाः सीदन्ति संयुगे

बलं तु नीतिमात्राय हठे जयपराजयौ

50

नात्मच छन्देन भूतानां जीवितं मरणं तथा

नाप्य अकाले सुखं पराप्यं दुःखं वापि यदूत्तम

51

एकॊ हय अपि बहून हन्ति घनन्त्य एकं बहवॊ ऽपय उत

शूरं कापुरुषॊ हन्ति अयशस्वी यशस्विनम

52

जयश चैवॊभयॊर दृष्ट उभयॊश च पराजयः

तथैवापचयॊ दृष्टॊ वयपयाने कषयव्ययौ

53

सर्वथा वृजिनं युद्धं कॊ घनन न परतिहन्यते

हतस्य च हृषीकेश समौ जयपराजयौ

54

पराजयश च मरणान मन्ये नैव विशिष्यते

यस्य सयाद विजयः कृष्ण तस्याप्य अपचयॊ धरुवम

55

अन्ततॊ दयितं घनन्ति के चिद अप्य अपरे जनाः

तस्याङ्गबलहीनस्य पुत्रान भरातॄन अपश्यतः

निर्वेदॊ जीविते कृष्ण सर्वतश चॊपजायते

56

ये हय एव वीरा हरीमन्त आर्याः करुणवेदिनः

त एव युद्धे हन्यन्ते यवीयान मुच्यते जनः

57

हत्वाप्य अनुशयॊ नित्यं परान अपि जनार्दन

अनुबन्धश च पापॊ ऽतर शेषश चाप्य अवशिष्यते

58

शेषे हि बलम आसाद्य न शेषम अवषेषयेत

सर्वॊच्छेदे च यतते वैरस्यान्त विधित्सया

59

जयॊ वैरं परसृजति दुःखम आस्ते पराजितः

सुखं परशान्तः सवपिति हित्वा जयपराजयौ

60

जातवैरश च पुरुषॊ दुःखं सवपिति नित्यदा

अनिर्वृतेन मनसा स सर्प इव वेश्मनि

61

उत्सादयति यः सर्वं यशसा स वियुज्यते

अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति

62

न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य अपि

आख्यातारश च विद्यन्ते पुमांश चॊत्पद्यते कुले

63

न चापि वैरं वैरेण केशव वयुपशाम्यति

हविषाग्निर यथा कृष्ण भूय एवाभिवर्धते

64

अतॊ ऽनयथा नास्ति शान्तिर नित्यम अन्तरम अन्ततः

अन्तरं लिप्समानानाम अयं दॊषॊ निरन्तरः

65

पौरुषेयॊ हि बलवान आधिर हृदयबाधनः

तस्य तयागेन वा शान्तिर निवृत्त्या मनसॊ ऽपि वा

66

अथ वा मूलघातेन दविषतां मधुसूदन

फलनिर्वृत्तिर इद्धा सयात तन नृशंसतरं भवेत

67

या तु तयागेन शान्तिः सयात तद ऋते वध एव सः

संशयाच च समुच्छेदाद दविषताम आत्मनस तथा

68

न च तयक्तुं तद इच्छामॊ न चेच्छामः कुलक्षयम

अत्र या परणिपातेन शान्तिः सैव गरीयसी

69

सर्वथा यतमानानाम अयुद्धम अभिकाङ्क्षताम

सान्त्वे परतिहते युद्धं परसिद्धम अपराक्रमम

70

परतिघातेन सान्त्वस्य दारुणं संप्रवर्तते

तच छुनाम इव गॊपादे पण्डितैर उपलक्षितम

71

लाङ्गूलचालनं कष्वेडः परतिरावॊ विवर्तनम

दन्तदर्शनम आरावस ततॊ युद्धं परवर्तते

72

तत्र यॊ बलवान कृष्ण जित्वा सॊ ऽतति तद आमिषम

एवम एव मनुष्येषु विशेषॊ नास्ति कश चन

73

सर्वथा तव एतद उचितं दुर्बलेषु बलीयसाम

अनादरॊ विरॊधश च परणिपाती हि दुर्बलः

74

पिता राजा च वृद्धश च सर्वथा मानम अर्हति

तस्मान मान्यश च पूज्यश च धृतराष्ट्रॊ जनार्दन

75

पुत्रस्नेहस तु बलवान धृतराष्ट्रस्य माधव

सपुत्रवशम आपन्नः परणिपातं परहास्यति

76

तत्र किं मन्यसे कृष्ण पराप्तकालम अनन्तरम

कथम अर्थाच च धर्माच च न हीयेमहि माधव

77

ईदृशे हय अर्थकृच्छ्रे ऽसमिन कम अन्यं मधुसूदन

उपसंप्रष्टुम अर्हामि तवाम ऋते पुरुषॊत्तम

78

परियश च परियकामश च गतिज्ञः सर्वकर्मणाम

कॊ हि कृष्णास्ति नस तवादृक सर्वनिश्चयवित सुहृत

79

एवम उक्तः परत्युवाच धर्मराजं जनार्दनः

उभयॊर एव वाम अर्थे यास्यामि कुरुसंसदम

80

शमं तत्र लभेयं चेद युष्मदर्थम अहापयन

पुण्यं मे सुमहद राजंश चरितं सयान महाफलम

81

मॊचयेयं मृत्युपाशात संरब्धान कुरुसृञ्जयान

पाण्डवान धार्तराष्ट्रांश च सर्वां च पृथिवीम इमाम

82

न ममैतन मतं कृष्ण यत तवं यायाः कुरून परति

सुयॊधनः सूक्तम अपि न करिष्यति ते वचः

83

समेतं पार्थिवं कषत्रं सुयॊधन वशानुगम

तेषां मध्यावतरणं तव कृष्ण न रॊचये

84

न हि नः परीणयेद दरव्यं न देवत्वं कुतः सुखम

न च सर्वामरैश्वर्यं तव रॊधेन माधव

85

[भगवान]

जानाम्य एतां महाराज धार्तराष्ट्रस्य पापताम

अवाच्यास तु भविष्यामः सर्वलॊके महीक्षिताम

86

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः

करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः

87

अथ चेत ते परवर्तेरन मयि किं चिद असांप्रतम

निर्दहेयं कुरून सर्वान इति मे धीयते मतिः

88

न जातु गमनं तत्र भवेत पार्थ निरर्थकम

अर्थप्राप्तिः कदा चित सयाद अन्ततॊ वाप्य अवाच्यता

89

यत तुभ्यं रॊचते कृष्ण सवस्ति पराप्नुहि कौरवान

कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामि पुनरागतम

90

विष्वक्सेन कुरून गत्वा भारताञ शमयेः परभॊ

यथा सर्वे सुमनसः सह सयामः सुचेतसः

91

भराता चासि सखा चासि बीभत्सॊर मम च परियः

सौहृदेनाविशङ्क्यॊ ऽसि सवस्ति पराप्नुहि भूतये

92

अस्मान वेत्थ परान वेत्थ वेत्थार्थं वेत्थ भाषितम

यद यद अस्मद्धितं कृष्ण तत तद वाच्यः सुयॊधनः

93

यद यद धर्मेण संयुक्तम उपपद्येद धितं वचः

तत तत केशव भाषेथाः सान्त्वं वा यदि वेतरत

1

[v]

saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ

abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām

2

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana

na ca tvadanyaṃ paśyāmi yo na āpatsu tārayet

3

tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam

dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe

4

yathā hi sarvāsv āpatsu pāsi vṛṣṇn ariṃdama

tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt

5

[bhagavān]

ayam asmi mahābāho brūhi yat te vivakṣitam

kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata

6

rutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam

etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt

7

tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ

yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan

8

apradānena rājyasya śāntim asmāsu mārgati

lubdhaḥ pāpena manasā carann asamam ātmana

9

yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam

chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt

10

sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho

nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā vidu

11

vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati

paśyan vā putragṛddhitvān mandasyānveti śāsanam

12

suyodhana mate tiṣṭhan rājāsmāsu janārdana

mithyā carati lubdhaḥ saṃś caran priyam ivātmana

13

ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ

saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana

14

kāśibhiś cedipāñcālair matsyaiś ca madhusūdana

bhavatā caiva nāthena pañca grāmā vṛtā mayā

15

kuśa sthalaṃ vṛkasthalam āsandī vāraṇāvatam

avasānaṃ ca govinda kiṃ cid evātra pañcamam

16

pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā

vasema sahitā yeṣu mā ca no bharatā naśan

17

na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate

svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim

18

kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ

lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam

19

hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam

śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadha

20

asvato hi nivartante jñātayaḥ suhṛdartvijaḥ

apuṣpād aphalād vṛkṣād yathā tāta patatriṇa

21

etac ca maraṇaṃ tāta yad asmāt patitād iva

jñātayo vinivartante pretasattvād ivāsava

22

nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt

yatra naivādya na prātar bhojanaṃ patidṛśyate

23

dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam

jīvanti dhanino loke mṛtā ye tv adhanā narāḥ

24

ye dhanād apakarṣanti naraṃ svabalam āśritāḥ

te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam

25

etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ

grāmāyaike vanāyaike nāśāyaike pavavraju

26

unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam

dāsyam eke nigacchanti pareṣām arthahetunā

27

pad evāsya maraṇāt puruṣasya garīyasī

śriyo vināśas tad dhyasya nimittaṃ dharmakāmayo

28

yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat

samantāt sarvabhūtānāṃ na tad atyeti kaś cana

29

na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ

yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhita

30

sa tadātmāparādhena saṃprāpto vyasanaṃ mahat

sendrān garhayate devān nātmānaṃ ca kathaṃ cana

31

na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām

so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati

32

taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati

sa mohavaśam āpannaḥ krūraṃ karma niṣevate

33

pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati

saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām

34

na cet prabudhyate kṛṣṇa narakāyaiva gacchati

tasya prabodhaḥ prajñaiva prajñā cakṣur na riṣyati

35

prajñā lābhe hi puruṣaḥ śāstrāṇy evānvavekṣate

śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam

36

hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate

śrīmān sa yāvad bhavati tāvad bhavati pūruṣa

37

dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā

nādharme kurute buddhiṃ na ca pāpeṣu vartate

38

ahrīko vā vimūḍho vā naiva strī na punaḥ pumān

nāsyādhikāro dharme 'sti yathā śūdras tathaiva sa

39

hrīmān avati devāṃś ca pitṝn ātmānam eva ca

tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām

40

tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana

yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ

41

te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit

atra no yatamānānāṃ vadhaś ced api sādhu tat

42

tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava

praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi

43

tatraiṣā paramā kāṣṭhā raudrakarma kṣayodayā

yad vayaṃ hauravān hatvā tāni rāṣṭrāṇy aśīmahi

44

ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ

teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ

45

jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ

teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam

46

pāpaḥ kṣatriya dharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ

sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā

47

ś
draḥ karoti śuśrūṣāṃ vaiśyā vipaṇi jīvinaḥ

vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam

48

kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati

śvā śvānaṃ hanti dāśārha paśya dharmo yathāgata

49

yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge

balaṃ tu nītimātrāya haṭhe jayaparājayau

50

nātmac chandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā

nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama

51

eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta

śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam

52

jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ

tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau

53

sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate

hatasya ca hṛṣīkeśa samau jayaparājayau

54

parājayaś ca maraṇān manye naiva viśiṣyate

yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam

55

antato dayitaṃ ghnanti ke cid apy apare janāḥ

tasyāṅgabalahīnasya putrān bhrātṝn apaśyataḥ

nirvedo jīvite kṛṣṇa sarvataś copajāyate

56

ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ

ta eva yuddhe hanyante yavīyān mucyate jana

57

hatvāpy anuśayo nityaṃ parān api janārdana

anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate

58

eṣe hi balam āsādya na śeṣam avaṣeṣayet

sarvocchede ca yatate vairasyānta vidhitsayā

59

jayo vairaṃ prasṛjati duḥkham āste parājitaḥ

sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau

60

jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā

anirvṛtena manasā sa sarpa iva veśmani

61

utsādayati yaḥ sarvaṃ yaśasā sa viyujyate

akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati

62

na hi vairāṇi śāmyanti dīrghakālakṛtāny api

ākhyātāraś ca vidyante pumāṃś cotpadyate kule

63

na cāpi vairaṃ vaireṇa keśava vyupaśāmyati

haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate

64

ato 'nyathā nāsti śāntir nityam antaram antataḥ

antaraṃ lipsamānānām ayaṃ doṣo nirantara

65

pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ

tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā

66

atha vā mūlaghātena dviṣatāṃ madhusūdana

phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet

67

yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ

saṃśayāc ca samucchedād dviṣatām ātmanas tathā

68

na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam

atra yā praṇipātena śāntiḥ saiva garīyasī

69

sarvathā yatamānānām ayuddham abhikāṅkṣatām

sāntve pratihate yuddhaṃ prasiddham aparākramam

70

pratighātena sāntvasya dāruṇaṃ saṃpravartate

tac chunām iva gopāde paṇḍitair upalakṣitam

71

lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam

dantadarśanam ārāvas tato yuddhaṃ pravartate

72

tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam

evam eva manuṣyeṣu viśeṣo nāsti kaś cana

73

sarvathā tv etad ucitaṃ durbaleṣu balīyasām

anādaro virodhaś ca praṇipātī hi durbala

74

pitā rājā ca vṛddhaś ca sarvathā mānam arhati

tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana

75

putrasnehas tu balavān dhṛtarāṣṭrasya mādhava

saputravaśam āpannaḥ praṇipātaṃ prahāsyati

76

tatra kiṃ manyase kṛṣṇa prāptakālam anantaram

katham arthāc ca dharmāc ca na hīyemahi mādhava

77

dṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana

upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama

78

priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām

ko hi kṛṣṇsti nas tvādṛk sarvaniścayavit suhṛt

79

evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ

ubhayor eva vām arthe yāsyāmi kurusaṃsadam

80

amaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan

puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam

81

mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān

pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām

82

na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati

suyodhanaḥ sūktam api na kariṣyati te vaca

83

sametaṃ pārthivaṃ kṣatraṃ suyodhana vaśānugam

teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye

84

na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham

na ca sarvāmaraiśvaryaṃ tava rodhena mādhava

85

[bhagavān]

jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām

avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām

86

na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ

kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ

87

atha cet te pravarteran mayi kiṃ cid asāṃpratam

nirdaheyaṃ kurūn sarvān iti me dhīyate mati

88

na jātu gamanaṃ tatra bhavet pārtha nirarthakam

arthaprāptiḥ kadā cit syād antato vāpy avācyatā

89

yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān

kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam

90

viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho

yathā sarve sumanasaḥ saha syāmaḥ sucetasa

91

bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ

sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye

92

asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam

yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhana

93

yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ

tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 70