Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 154

Book 7. Chapter 154

The Mahabharata In Sanskrit


Book 7

Chapter 154

1

[स]

निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः

ननाद विविधान नादान वाहिन्याः परमुखे सथितः

2

तस्य तं तुमुलं शब्दं शरुत्वा कुञ्जरकम्पनम

तावकानां महाराज भयम आसीत सुदारुणम

3

अलायुध विषक्तं तु भैमसेनिं महाबलम

दृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाद्रवत

4

दशभिर दशभिर बाणैर धृष्टद्युम्न शिखण्डिनौ

दृढैः पूर्णायतॊत्सृष्टैर बिभेद नतपर्वभिः

5

ततः परमनाराचैर युधामन्यूत्तमौजसौ

सात्यकिं च रथॊदारं कम्पयाम आस मार्गणैः

6

तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम

मण्डलान्य एव चापानि वयदृश्यन्त जनाधिप

7

तेषां जयातलनिर्घॊषॊ रथनेमि सवनश च ह

मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि

8

जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः

शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन

9

तद उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः

विध्वंसयाम आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी

10

ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः

शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते

11

संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्दित भिन्नदेहाः

के चिद विसूता विहयाश च के चिद; वैकर्तनेनाशु कृता बभूवुः

12

अविन्दमानास तव अथ शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपद्यन

तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे

13

आस्थाय तं काञ्चनरत्नचित्रं; रथॊत्तमं सिंह इवॊननाद

वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः

14

तौ कर्णिनाराच शिलीमुखैश; च नालीकदण्डैश च स वत्सदन्तैः

वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेदतुः खम

15

तद बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज

सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः

16

समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः

तयॊर हि वीरॊत्तमयॊर न कश चिद; ददर्श तस्मिन समरे विशेषम

17

अतीव तच चित्रम अतीव रूपं; बभूव युद्धं रविभीम सून्वॊः

समाकुलं शस्त्रनिपात घॊरं; दिवीव राह्वंशुमतॊः परतप्तम

18

घटॊत्कचॊ यदा कर्णं न विशेषयते नृप

तदा परादुश्चकारॊग्रम अस्त्रम अस्त्रविदां वरः

19

तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः

सारथिं चैव हैडिम्बः कषिप्रम अन्तरधीयत

20

[धृ]

तथा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे

मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय

21

[स]

अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रॊशन कुरवः सर्व एव

कथं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽदृश्यमानः

22

ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा दिशॊ वयावृणॊद बाणजालैः

न वै किं चिद वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे

23

न चाददानॊ न च संदधानॊ; न चेषुधी सपृशमानः कराग्रैः

अदृश्यद वै लाघवात सूतपुत्रः; सर्वं बाणैश छादयानॊ ऽनतरिक्षम

24

ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां दारुणां राक्षसेन

संपश्यामॊ लॊहिताभ्र परकाशां; देदीप्यन्तीम अग्निशिखाम इवॊग्राम

25

ततस तस्या विद्युतः परादुरासन्न; उल्काश चापि जवलिताः कौरवेन्द्र

घॊषश चान्यः परादुरासीत सुघॊरः; सहस्रशॊ नदतां दुन्दुभीनाम

26

ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि

परश्वधास तैलधौताश च खड्गाः; परदीप्ताग्राः पट्टिशास तॊमराश च

27

मयूखिनः परिघा लॊहबद्धा; गदाश चित्राः शितधाराश च शूलाः

गुर्व्यॊ गदा हेमपट्टावनद्धाः; शतघ्न्यश च परादुरासन समन्तात

28

महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः

चक्राणि चानेक शतक्षुराणि; परादुर्बभूवुर जवलनप्रभाणि

29

तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुद्गराणाम

वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम

30

शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम

शिला हतानां च महारथानां; महान निनादः पततां बभूव

31

सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात

दौर्यॊधनं तद बलम आर्तरूपम; आवर्तमानं ददृशे भरमन्तम

32

हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम

ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तदानीम

33

तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम

दृष्ट्वा बलौघांश च निपात्यमानान; महद भयं तव पुत्रान विवेश

34

शिवाश च वैश्वानरदीप्तजिह्वाः; सुभीम नादाः शतशॊ नदन्त्यः

रक्षॊगणान नर्दतश चाभिवीक्ष्य; नरेन्द्र यॊधा वयथिता बभूवुः

35

ते दीप्तजिह्वानन तीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाश कायाः

नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम

36

तैर आहतास ते शरशक्तिशूलैर; गदाभिर उग्रैः परिघैश च दीप्तैः

वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मथिताश च पेतुः

37

हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सथूणाश च कार्ष्णायस पट्टनद्धाः

अवाकिरंस तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं परादुरासीत

38

निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः

भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रथाः शिलाभिः

39

एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः

मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम

40

तस्मिन घॊरे कुरुवीरावमर्दे; कालॊत्सृष्टे कषत्रियाणाम अभावे

ते वै भग्नाः सहसा वयद्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव

41

पलायध्वं कुरवॊ नैतद अस्ति; सेन्द्रा देवा घनन्ति नः पाण्डवार्थे

तथा तेषां मज्जतां भारतानां; न सम दवीपस तत्र कश चिद बभूव

42

तस्मिन संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम

अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा

43

निर्मर्यादे विद्रवे घॊररूपे; सर्वा दिशः परेक्षमाणाः सम शून्याः

तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम

44

ततॊ बाणैर आवृणॊद अन्तरिक्षं; दिव्यां मायां यॊधयन राक्षसस्य

हरीमान कुर्वन दुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः

45

ततॊ भीताः समुदैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च

असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य

46

तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान

ते जानुभिर जगतीम अन्वपद्यन; गतासवॊ निर्दशनाक्षि जिह्वाः

47

ततॊ हताश्वाद अवरुह्य वाहाद; अन्तर मनाः कुरुषु पराद्रवत्सु

दिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम

48

ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं दृष्ट्वा घॊररूपां च मायाम

शक्त्या रक्षॊ जहि कर्णाद य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः

49

करिष्यतः किं च नॊ भीम पार्थौ; पतन्तम एनं जहि रक्षॊ निशीथे

यॊ नः संग्रामाद घॊररूपाद विमुच्येत; स नः पार्थान समरे यॊधयेत

50

तस्माद एनं राक्षसं घॊररूपं; जहि शक्त्या दत्तया वासवेन

मा कौरवाः सर्व एवेन्द्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः

51

स वध्यमानॊ रक्षसा वै निशीथे; दृष्ट्वा राजन नश्यमानं बलं च

महच च शरुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमॊक्षाय कर्णः

52

स वै करुद्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम

शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाददे तस्य वधं चिकीर्षन

53

यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य

यां वै परादात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय

54

तां वै शक्तिं लेलिहानां परदीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम

मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊद राक्षसाय

55

ताम उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर बाहुसंस्थां जवलन्तीम

भीतं रक्षॊ विप्रदुद्राव राजन; कृत्वात्मानं विन्ध्यपादप्रमाणम

56

दृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्थां; नेदुर भूतान्य अन्तरिक्षे नरेन्द्र

ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम

57

सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य

ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती

58

युद्ध्वा चित्रैर विविधैः शस्त्रपूगैर; दिव्यैर वीरॊ मानुषै राक्षसैश च

नदन नादान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या

59

इदं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय

तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः

60

ततॊ ऽनतरिक्षाद अपतद गतासुः; स राक्षसेन्द्रॊ भुवि भिन्नदेहः

अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महद आस्थाय रूपम

61

स तद रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात

हतॊ ऽपय एवं तव सैन्य एकदेशम; अपॊथयत कौरवान भीषयाणः

62

ततॊ मिश्राः पराणदन सिंहनादैर; भेर्यः शङ्खा मुरजाश चानकाश च

दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः पराणदन कौरवेयाः

63

ततः कर्णः कुरुभिः पूज्यमानॊ; यथा शक्रॊ वृत्रवधे मरुद्भिः

अन्वारूढस तव पुत्रं रथस्यं; हृष्टश चापि पराविशत सवं स सैन्यम

1

[s]

nihatyālāyudhaṃ rakṣaḥ prahṛṣṭtmā ghaṭotkacaḥ

nanāda vividhān nādān vāhinyāḥ pramukhe sthita

2

tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam

tāvakānāṃ mahārāja bhayam āsīt sudāruṇam

3

alāyudha viṣaktaṃ tu bhaimaseniṃ mahābalam

dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat

4

daśabhir daśabhir bāṇair dhṛṣṭadyumna śikhaṇḍinau

dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhi

5

tataḥ paramanārācair yudhāmanyūttamaujasau

sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇai

6

teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam

maṇḍalāny eva cāpāni vyadṛśyanta janādhipa

7

teṣāṃ jyātalanirghoṣo rathanemi svanaś ca ha

meghānām iva gharmānte babhūva tumulo niśi

8

jyānemighoṣastanayitnumān vai; dhanus taḍin maṇḍalaketuśṛṅgaḥ

śaraughavarṣākula vṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan

9

tad udhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ

vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī

10

tato 'tulair vajranipāta kalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ

śatrūn vyapohat samare mahātmā; vaikartanaḥ putra hite ratas te

11

saṃchinnabhinna dhvajinaś ca ke cit; ke cic charair ardita bhinnadehāḥ

ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvu

12

avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan

tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre

13

sthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonanāda

vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkai

14

tau karṇinārāca śilīmukhaiś; ca nālīkadaṇḍaiś ca sa vatsadantaiḥ

varāhakarṇaiḥ sa viṣāṇa śṛṅgaiḥ; kṣurapra varṣaiś ca vinedatuḥ kham

15

tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja

suvarṇapuṅkha jvalitaprabhābhir; vicitrapuṣpābhir iva srajābhi

16

samaṃ hi tāv āpratima prabhāvāv; anyonyam ājaghnatur uttamāstraiḥ

tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam

17

atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīma sūnvoḥ

samākulaṃ śastranipāta ghoraṃ; divīva rāhvaṃśumatoḥ prataptam

18

ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa

tadā prāduścakārogram astram astravidāṃ vara

19

tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ

sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata

20

[dhṛ]

tathā hy antarhite tasmin kūṭayodhini rākṣase

māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya

21

[s]

antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva

kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamāna

22

tataḥ karṇo laghucitrāstra yodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ

na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamo bhūte sāyakair antarikṣe

23

na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ

adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam

24

tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena

saṃpaśyāmo lohitābhra prakāśāṃ; dedīpyantīm agniśikhām ivogrām

25

tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra

ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām

26

tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyāḥ prāsā musalāny āyudhāni

paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca

27

mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ

gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt

28

mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ

cakrāṇi cāneka śatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi

29

tāṃ śaktipāṣāṇa paraśvadhānāṃ; prāsāsivajrāśanimudgarāṇām

vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum

30

arāhatānām atatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām

śilā hatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva

31

subhīma nānāvidha śastrapātair; ghaṭotkacenābhihataṃ samantāt

dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam

32

hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam

te tv ārya bhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm

33

tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm

dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa

34

ivāś ca vaiśvānaradīptajihvāḥ; subhīma nādāḥ śataśo nadantyaḥ

rakṣogaṇān nardataś cābhivīkṣya; narendra yodhā vyathitā babhūvu

35

te dīptajihvānana tīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ ailanikāśa kāyāḥ

nabhogatāḥ śaktiviṣakta hastā; meghā vyamuñcann iva vṛṣṭimārgam

36

tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ

vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petu

37

huḍā bhuśuṇḍyo 'śmaguḍāḥ atadhnyaḥ; sthūṇāś ca kārṣṇāyasa paṭṭanaddhāḥ

avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt

38

niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ

bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhi

39

evaṃ mahac chastra varṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ

māyāḥ sṛṣṭs tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam

40

tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve

te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva

41

palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe

tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva

42

tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām

anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā

43

nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ

tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam

44

tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya

hrīmān kurvan duṣkaram ārya karma; naivāmuhyat saṃyuge sūtaputra

45

tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca

asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya

46

tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna

te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣi jihvāḥ

47

tato hatāśvād avaruhya vāhād; antar manāḥ kuruṣu prādravatsu

divye cāstre māyayā vadhyamāne; naimāmuhyac cintayan prāptakālam

48

tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām

śaktyā rakṣo jahi karṇād ya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ

49

kariṣyataḥ kiṃ ca no bhīma pārthau; patantam enaṃ jahi rakṣo niśīthe

yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta

50

tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena

mā kauravāḥ sarva evendra kalpā; rātrī mukhe karṇa neśuḥ sa yodhāḥ

51

sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca

mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇa

52

sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam

śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan

53

yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya

yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya

54

tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim

mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya

55

tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm

bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam

56

dṛṣṭvā śaktiṃ karṇa bāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra

vavur tāvās tumulāś cāpi rājan; sa nirghātā cāśānir gāṃ jagāma

57

sā tāṃ māyāṃ bhasmakṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya

ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī

58

yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca

nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭās tyājitaḥ śakra śaktyā

59

idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya

tasmin kāle śaktinirbhinna marmā; babhau rājan meghaśailaprakāśa

60

tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ

avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam

61

sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta

hato 'py evaṃ tava sainy ekadeśam; apothayat kauravān bhīṣayāṇa

62

tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca

dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ

63

tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ

anvārūḍhas tava putraṃ rathasyaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 154