Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 164

Book 7. Chapter 164

The Mahabharata In Sanskrit


Book 7

Chapter 164

1

[स]

तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये

दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत

2

स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः

अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत

3

कषणेन स रथस तस्य स धवजः सह सारथिः

नादृश्यत महाराज पार्षतस्य शरैश चितः

4

दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः

नाशकत परमुखे सथातुं शरजालप्रपीडितः

5

स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः

किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे

6

परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम

सॊदर्याणां तरयश चैव त एनं पर्यवारयन

7

तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ

दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम

8

संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः

अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः

9

शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः

आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः

10

शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः

धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम

11

न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च

नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः

12

न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः

इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः

13

ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन

सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च

14

तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम

चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह

15

धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान

यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात

16

निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः

समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव

17

दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ

समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत

18

दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम

यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत

19

दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान

तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत

20

तौ परस्परम आसाद्य समिप्पे कुरु माधवौ

हसमानौ नृशार्दूलाव अभीतौ समगच्छताम

21

बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ

अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः

22

अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत

परियं सखायं सततं गर्हयन वृत्तम आत्मनः

23

धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम

धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम

24

यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव

तवं हि पराणैः परियतरॊ ममाहं च सदा तव

25

समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ

तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे

किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत

26

तं तथा वादिनं राजन सात्यकिः परत्यभाषत

परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित

27

नेयं सभा राजपुत्र न चाचार्य निवेशनम

यत्र करीडितम अस्माभिस तदा राजन समागतैः

28

[दुर]

कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव

कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः

29

किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया

यत्र युध्यामहे सर्वे धनलॊभात समागताः

30

[सम्जय]

तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत

एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि

31

यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः

तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ

32

या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय

नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत

33

इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः

अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते

34

तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः

शरैश चावाकिरद राजञ शैनेयं तनयस तव

35

ततः परववृते युद्धं कुरु माधव सिंहयॊः

अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः

36

ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम

दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः

37

तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः

पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह

38

तस्य संधधतश चेषून संहितेषुं च कार्मुकम

अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत

39

स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम

दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः

40

समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात

विसृजन्न इषुजालानि युयुधान रथं परथि

41

तथैव सात्यकिर बाणान दुर्यॊधन रथं परति

परततं वयसृजद राजंस तत संकुलम अवर्तत

42

तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः

अग्नेर इव महाकक्षे शब्दः समभवन महान

43

तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम

कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव

44

न तु तं मर्षयाम आस भीमसेनॊ महाबलः

अभ्ययात तवरितः कर्णं विसृजन सायकान बहून

45

तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव

धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः

46

भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः

धवजं धनुश च सूतं च संममर्दाहवे रिपॊः

47

अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत

विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे

48

संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत

पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान

49

ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः

त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः

50

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः

तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः

51

कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः

जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ

52

जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः

हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान

53

ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः

चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः

54

पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः

भीमसेनपुरॊगाश च एकतः पर्यवारयन

55

आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः

यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम

56

अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद

तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम

57

कौरवेयांस ततः पार्थः सहसा समुपाद्रवत

पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान

58

पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत

यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा

59

दरॊणास्त्रेण महाराज वध्यमानाः परे युधि

नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः

60

वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा

दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम

61

तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः

अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः

62

वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना

उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत

63

दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि

पाण्डवेया महाराज नाशंसुर विजयं तदा

64

कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित

समिद्धः शिशिरापाये दहन कक्षम इवानलः

65

न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम

न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित

66

तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान

मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत

67

नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन

अपि वृत्रहणा युद्धे रथयूथप यूथपः

68

आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव

यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः

69

अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम

तं हतं संयुगे कश चिद अस्मै शंसतु मानवः

70

एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः

अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः

71

ततॊ भीमॊ महाबाहुर अनीके सवे महागजम

जघान गदया राजन्न अश्वत्थामानम इत्य उत

72

भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे

अश्वत्थामा हत इति शब्दम उच्चैश चकार ह

73

अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत

कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा

74

भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम

मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि

75

शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै

हतः स इति च शरुत्वा नैव धैर्याद अकम्पत

76

स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत

अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः

77

स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः

अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम

78

तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः

तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः

79

ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः

वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः

80

ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान

शिरांस्य अपातयच चापि पाञ्चालानां महामृधे

तथैव परिघाकारान बाहून कनकभूषणान

81

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः

मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः

82

कुञ्जराणां च पततां हयौघानां च भारत

अगम्यरूपा पृथिवी मांसशॊणितकर्दमा

83

हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान

अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन

84

तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान

वसु दानस्य भल्लेन शिरः कायाद अपाहरत

85

पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान

हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः

86

कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम

ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः

87

विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः

वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः

88

सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः

भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः

89

त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम

अधर्मतः कृतं युद्धं समयॊ निधनस्य ते

90

नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान

नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि

91

वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च

बराह्मणस्य विशेषेण तवैतन नॊपपद्यते

92

नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते

परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे

93

इति तेषां वचः शरुत्वा भीमसेन वचश च तत

धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत

94

स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम

अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः

95

सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम

तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन

96

तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः

तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे

97

ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम

दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत

98

यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः

सत्यं बरवीमि ते सेना विनाशं समुपैष्यति

99

स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत

अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः

100

तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम

शरुत्वैव तं महाराज वधॊपायं महात्मनः

101

गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः

अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः

102

निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम

अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति

103

नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः

स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः

104

दरॊणाय निहतं शंस राजञ शारद्वती सुतम

तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः

सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप

105

तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः

भावित्वाच च महाराज वक्तुं समुपचक्रमे

106

तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः

अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत

107

तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः

बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम

108

युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः

पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत

109

आगः कृतम इवात्मानं पाण्डवानां महात्मनाम

ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम

110

विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च

यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम

111

तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम

पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत

112

य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे

लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात

113

सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम

दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान

114

संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम

दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम

115

तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे

दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः

116

पार्षतेन परामृष्टं जवलन्तम इव तद धनुः

अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः

117

तम इषुं संहितं तेन भारद्वाजः परतापवान

दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम

118

ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे

न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः

119

तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता

तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः

120

स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः

विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम

121

उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः

तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम

122

अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः

शरांश च शरवर्षेण महता समवाकिरत

123

ततस तं शरवर्षेण महता समवाकिरत

वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः

124

तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः

धवजं धनुश च निशितैः सारथिं चाप्य अपातयत

125

धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम

शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे

126

सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे

भल्लेन शितधारेण चिच्छेदास्य महद धनुः

127

यच चास्य बाणं विकृतं धनूंषि च विशां पते

सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च

128

धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः

जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः

129

धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः

अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन

130

ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः

पारावत सवर्णाश च शॊणाश च भरतर्षभ

131

यथा स विद्युतॊ मेघा नदन्तॊ जललागमे

तथा रेजुर महाराज मिश्रिता रणमूर्धनि

132

ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च

परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः

133

स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः

उत्तमाम आपदं पराप्य गदां वीरः परामृशत

134

ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः

निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः

135

तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः

विमलं खड्गम आदत्त शतचन्द्रं च भानुमत

136

असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत

वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः

137

ततः सवरथनीडस्थः सवरथस्य रथेषया

अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत

138

चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः

इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे

139

सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च

शॊणानां जघनार्धेषु तत सैन्याः समपूजयन

140

तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः

नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत

141

कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः

तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे

142

तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी

सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत

143

ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः

शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते

144

तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः

नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः

145

विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः

दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम

146

तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः

यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे

147

सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम

भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम

148

परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन

संपातं समुदीर्णं च दर्शयाम आस पार्षतः

149

ततः शरसहस्रेण शतचन्द्रम अपातयत

खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः

150

ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः

निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः

151

शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च

परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः

152

अथास्येषुं समाधत्त दृढं परमसंशितम

अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम

153

तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः

पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः

गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत

154

चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम

दरॊणकर्णान्तर गतं कृपस्यापि च भारत

अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ

155

अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति

दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम

अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ

156

धनंजयस ततः कृष्णम अब्रवीत पश्य केशव

आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः

157

आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः

माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम

158

यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः

महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः

159

तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः

अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम

यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन

1

[s]

tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye

duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat

2

sa tu rukmarathāsakto duḥśāsana śarārditaḥ

amarṣāt tava putrasya śarair vāhān avākirat

3

kṣaṇena sa rathas tasya sa dhvajaḥ saha sārathiḥ

nādṛśyata mahārāja pārṣatasya śaraiś cita

4

duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ

nāśakat pramukhe sthātuṃ śarajālaprapīḍita

5

sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ

kirañ śarasahasrāṇi droṇam evābhyayād raṇe

6

pratyapadyata hārdikyaḥ kṛtavarmā tadantaram

sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan

7

taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau

droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam

8

saṃprahāram akurvaṃs te sarve sapta mahārathāḥ

amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrata

9

uddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ

ryaṃ yuddham akurvanta parasparajigīṣava

10

uklābhijana karmāṇo matimanto janādhipāḥ

dharmayuddham ayudhyanta prekṣanto gatim uttamām

11

na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca

nātra karṇī na nālīko na lipto na ca vastaka

12

na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ

iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmaga

13

jūny eva viśuddhāni sarve śastrāṇy adhārayan

suyuddhena parāṁl lokān īpsantaḥ kīrtim eva ca

14

tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam

caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha

15

dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān

yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt

16

nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ

samasajjanta catvāro vātāḥ parvatayor iva

17

dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau

samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata

18

dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam

yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat

19

duryodhano mahārāja kirañ śoṇitabhojanān

taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata

20

tau parasparam āsādya samippe kuru mādhavau

hasamānau nṛśārdūlāv abhītau samagacchatām

21

bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau

anyonyaṃ prekṣamāṇau ca hasamānau punaḥ puna

22

atha duryodhano rājā sātyakiṃ pratyabhāṣata

priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmana

23

dhik krodhaṃ dhik sakhe lobhaṃ dhin mohaṃ dhig amarṣitam

dhig astu kṣātram ācāraṃ dhig astu balam aurasam

24

yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava

tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava

25

smarāmi tāni sarvāṇi bālye vṛttāni yāni nau

tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire

kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata

26

taṃ tathā vādinaṃ rājan sātyakiḥ pratyabhāṣata

prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit

27

neyaṃ sabhā rājaputra na cācārya niveśanam

yatra krīḍitam asmābhis tadā rājan samāgatai

28

[dur]

kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava

kva ca yuddham idaṃ bhūyaḥ kālo hi duratikrama

29

kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā

yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ

30

[samjaya]

taṃ tathā vādinaṃ tatra rājānaṃ mādhavo 'bravīt

evaṃvṛtthaṃ sadā kṣatraṃ yad dhantīha gurūn api

31

yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ

tvatkṛte sukṛtāṁl lokān gaccheyaṃ bharatarṣabha

32

yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya

necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat

33

ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ

abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate

34

tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ

śaraiś cāvākirad rājañ śaineyaṃ tanayas tava

35

tataḥ pravavṛte yuddhaṃ kuru mādhava siṃhayoḥ

anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayo

36

tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam

duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śarai

37

taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ

pañcāśatā punaś cājau triṃśatā daśabhiś ca ha

38

tasya saṃdhadhataś ceṣūn saṃhiteṣuṃ ca kārmukam

acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat

39

sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram

duryodhano mahārāja dāśārha śarapīḍita

40

samāśvasya tu putras te sātyakiṃ punar abhyayāt

visṛjann iṣujālāni yuyudhāna rathaṃ prathi

41

tathaiva sātyakir bāṇān duryodhana rathaṃ prati

pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata

42

tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ

agner iva mahākakṣe śabdaḥ samabhavan mahān

43

tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam

kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava

44

na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ

abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn

45

tasya karṇaḥ śitān bāṇān pratihanya hasann iva

dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charai

46

bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ

dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripo

47

amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata

vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge

48

saṃkule vartamāne tu rājā dharmasuto 'bravīt

pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān

49

ye naḥ prāṇāḥ iro ye no ye no yodhā mahābalāḥ

ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ

50

kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ

tatra gacchata yatraite yudhyante māmakā rathāḥ

51

kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ

jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha

52

jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ

hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān

53

te rājñā coditā vīrā yotsyamānā mahārathāḥ

caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayu

54

pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ

bhīmasenapurogāś ca ekataḥ paryavārayan

55

saṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ

yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam

56

abhidravārjuna kṣipraṃ kurūn droṇād anānuda

tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam

57

kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat

pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān

58

pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat

yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā

59

droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi

nātrasanta raṇe droṇāt sattvavanto mahārathāḥ

60

vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā

droṇam evābhyayur yuddhe mohayanto mahāratham

61

teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ

abhavad bhairavo nādo vadhyatāṃ śaraśaktibhi

62

vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā

udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat

63

dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi

pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā

64

kac cid droṇo na naḥ sarvān kṣapayet paramāstravit

samiddhaḥ śiśirāpāye dahan kakṣam ivānala

65

na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum

na cainam arjuno jātu pratiyudhyeta dharmavit

66

trastān kuntīsutān dṛṣṭvā droṇa sāyakapīḍitān

matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt

67

naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana

api vṛtrahaṇā yuddhe rathayūthapa yūthapa

68

sthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava

yathā vaḥ saṃyuge sarvān na hanyād rukmavāhana

69

aśvatthāmni hate naiṣa yudhyed iti matir mama

taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānava

70

etan nārocayad rājan kuntīputro dhanaṃjayaḥ

anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhira

71

tato bhīmo mahābāhur anīke sve mahāgajam

jaghāna gadayā rājann aśvatthāmānam ity uta

72

bhīmasenas tu savrīḍam upetya droṇam āhave

aśvatthāmā hata iti śabdam uccaiś cakāra ha

73

aśvattmāmeti hi gajaḥ khyāto nāmnā hato 'bhavat

kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā

74

bhīmasena vacaḥ śrutvā droṇas tatparamapriyam

manasā sannagātro 'bhūd yathā saikatam ambhasi

75

aṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai

hataḥ sa iti ca śrutvā naiva dhairyād akampata

76

sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat

anucintyātmanaḥ putram aviṣahyam arātibhi

77

sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ

avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām

78

taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ

tathā carantaṃ saṃgrāme sarvato vyakirac charai

79

tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ

vadhāya teṣāṃ śrāṇāṃ pāñcālānām amarṣita

80

tato vyarocata droṇo vinighnan sarvasomakān

śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe

tathaiva parighākārān bāhūn kanakabhūṣaṇān

81

te vadhyamānāḥ samare bhāradvājena pārthivāḥ

medinyām anvakīryanta vātanunnā iva drumāḥ

82

kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata

agamyarūpā pṛthivī māṃsaśoṇitakardamā

83

hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān

atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan

84

tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān

vasu dānasya bhallena śiraḥ kāyād apāharat

85

punaḥ pañcaśatān mastyān ṣaṭ sahasrāṃś ca sṛñjayān

hastinām ayutaṃ hatvā jaghānāśvāyutaṃ puna

86

kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam

ayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ

87

viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ

vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣava

88

sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ

bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣaya

89

ta enam abruvan sarve droṇam āhavaśobhinam

adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te

90

nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān

nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi

91

vedavedāṅgaviduṣaḥ satyadharmaparasya ca

brāhmaṇasya viśeṣeṇa tavaitan nopapadyate

92

nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate

paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe

93

iti teṣāṃ vacaḥ śrutvā bhīmasena vacaś ca tat

dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat

94

sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram

ahataṃ vā hataṃ veti papraccha sutam ātmana

95

sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam

trayāṇām api lokānām aiśvaryārthe kathaṃ cana

96

tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ

tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave

97

tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim

droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt

98

yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ

satyaṃ bravīmi te senā vināśaṃ samupaiṣyati

99

sa bhavāṃs trātuno droṇāt satyāj jyāyo 'nṛtaṃ bhavet

anṛtaṃ jīvitasyārthe vacan na spṛśyate 'nṛtai

100

tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam

śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmana

101

gāhamānasya te senāṃ mālavasyendra varmaṇaḥ

aśvatthāmeti vikhyāto gajaḥ śakra gajopama

102

nihato yudhi vikramya tato 'haṃ droṇam abruvam

aśvatthāmā hato brahman nivartasvāhavād iti

103

nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ

sa tvaṃ govinda vākyāni mānayasva jayaiṣiṇa

104

droṇāya nihataṃ śaṃsa rājañ śāradvatī sutam

tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ

satyavān hi nṛloke 'smin bhavān khyāto janādhipa

105

tasya tad vacanaṃ śrutvā kṛṣṇa vākyapracoditaḥ

bhāvitvāc ca mahārāja vaktuṃ samupacakrame

106

tam atathya bhaye magno jaye sakto yudhiṣṭhiraḥ

avyaktam abravīd rājan hataḥ kuñjara ity uta

107

tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ

babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm

108

yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ

putravyasanasaṃtapto nirāśo jīvite 'bhavat

109

gaḥ kṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām

ivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam

110

vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca

yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama

111

taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam

pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat

112

ya iṣṭvā manujendreṇa drupadena mahāmakhe

labdhvā droṇa vināśāya samiddhād dhavyavāhanāt

113

sadhanur jaitram ādāya ghoraṃ jaladanisvanam

dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān

114

saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam

droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam

115

tasya rūpaṃ śarasyāsīd dhanurjyā maṇḍalāntare

dyotato bhāskarasyeva ghanānte pariveśina

116

pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ

antakālam iva prāptaṃ menire vīkṣya sainikāḥ

117

tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān

dṛṣṭvāmanyata dehasya kālaparyāyam āgatam

118

tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe

na cāsyāstrāṇi rājendra prādurāsan mahātmana

119

tasya tv ahāni catvāri kṣapā caikāsyato gatā

tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇa

120

sa śarakṣayam āsādya putraśokena cārditaḥ

vividhānāṃ ca divyānām astrāṇām aprasannatām

121

utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ

tejasā preryamāṇaś ca yuyudhe so 'timānuṣam

122

athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ

śarāṃś ca śaravarṣeṇa mahatā samavākirat

123

tatas taṃ śaravarṣeṇa mahatā samavākirat

vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇa

124

taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ

dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat

125

dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam

śitena cainaṃ bāṇena pratyavidhyat stanāntare

126

so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge

bhallena śitadhāreṇa cicchedāsya mahad dhanu

127

yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate

sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca

128

dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ

jīvitāntakaraiḥ kruddhaiḥ kruddha rūpaṃ paraṃtapa

129

dhṛṣṭadyumna rathasyāśvān svarathāśvair mahārathaḥ

amiśrayad ameyātmā brāhmam astram udīrayan

130

te miśrā bahv aśobhanta javanā vātaraṃhasaḥ

pārāvata savarṇāś ca śoṇāś ca bharatarṣabha

131

yathā sa vidyuto meghā nadanto jalalāgame

tathā rejur mahārāja miśritā raṇamūrdhani

132

īṣā
bandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca

praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvija

133

sa chinnadhanvā viratho hatāśvo hatasārathiḥ

uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat

134

tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ

nijaghāna śarair droṇaḥ kruddhaḥ satyaparākrama

135

tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ

vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat

136

asaṃśayaṃ tathā bhūte pāñcālyaḥ sādhv amanyata

vadham ācārya mukhyasya prāptakālaṃ mahātmana

137

tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā

agacchad asim udyamya śatacandraṃ ca bhānumat

138

cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ

iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge

139

so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca

śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan

140

tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ

nāpaśyad antaraṃ doṇas tad adbhutam ivābhavat

141

kṣipraṃ śyenasya carato yathaivāmiṣa gṛddhinaḥ

tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe

142

tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī

sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat

143

te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ

śoṇāś ca paryamucyanta rathabandhād viśāṃ pate

144

tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ

nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahāratha

145

virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ

droṇam abhyapatad rājan vainateya ivoragam

146

tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ

yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe

147

so 'cirad vividhān mārgān prakārān ekaviṃśatim

bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam

148

parivṛttaṃ nivṛttaṃca khaḍgaṃ carma ca dhārayan

saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣata

149

tataḥ śarasahasreṇa śatacandram apātayat

khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvija

150

te tu vaitastikā nāma śarā hy āsanna ghātinaḥ

nikṛṣṭa yuddhe droṇasya nānyeṣāṃ santi te śarāḥ

151

ś
radvatasya pārthasya drauṇer vaikartanasya ca

pradyumna yuyudhānābhyām abhimanyoś ca te śarāḥ

152

athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam

antevāsinam ācāryo jighāṃsuḥ putra saṃmitam

153

taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ

paśyatas tava putrasya karṇasya ca mahātmanaḥ

grastam ācārya mukhyena dhṛṭṣadyumnam amocayat

154

carantaṃ rathamārgeṣu sātyakiṃ satyavikramam

droṇakarṇāntara gataṃ kṛpasyāpi ca bhārata

apaśyetāṃ mahātmānau viṣvaksena dhanaṃjayau

155

apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti

divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam

abhipatya tataḥ senāṃ viṣvaksena dhanaṃjayau

156

dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava

ācārya varamukhyānāṃ madhye krīḍan madhūdvaha

157

nandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ

mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram

158

yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ

mahārathān upakrīḍan vṛṣṇnāṃ kīrtivardhana

159

tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ

ajayyaṃ samare dṛṣṭvā sāhu sādhv iti sātvatam

yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan
true nobility is exempt from fear| naked eyes promises promises chord
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 164