Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 4

Book 8. Chapter 4

The Mahabharata In Sanskrit


Book 8

Chapter 4

1

[वै]

एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः

अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः

2

दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः

हतं वैकर्तनं शरुत्वा शॊकॊ मर्माणि कृन्तति

3

कृतास्त्र परमाः शल्ये दुःखपारं तितीर्षवः

कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः

4

[स]

हतः शांतनवॊ राजन दुराधर्षः परतापवान

हत्वा पाण्डव यॊधानाम अर्बुदं दशभिर दिनैः

5

ततॊ दरॊणॊ महेष्वासः पाञ्चालानां रथव्रजान

निहत्य युधि दुर्धर्षः पश्चाद रुक्मरथॊ हतः

6

हतशिष्टस्य भीष्मेण दरॊणेन च महात्मना

अर्धं निहत्य सैन्यस्य कर्णॊ वैकर्तनॊ हतः

7

विविंशतिर महाराज राजपुत्रॊ महाबलः

आनर्तयॊधाञ शतशॊ निहत्य निहतॊ रणे

8

अथ पुत्रॊ विकर्णस ते कषत्रव्रतम अनुस्मरन

कषीणवाहायुधः शूरः सथितॊ ऽभिमुखतः परान

9

घॊररूपान परिक्लेशान दुर्यॊधनकृतान बहून

परतिज्ञां समरता चैव भीमसेनेन पातितः

10

विन्दानुविन्दाव आवन्त्यौ राजपुत्रौ महाबलौ

कृत्वा न सुकरं कर्म गतौ वैवस्वतक्षयम

11

सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै

वशे तिष्ठन्ति वीरस्य यः सथितस तव शासने

12

अक्षौहिणीर दशैकां च निर्जित्य निशितैः शरैः

अर्जुनेन हतॊ राजन महावीर्यॊ जयद्रथः

13

तथा दुर्यॊधन सुतस तरस्वी युद्धदुर्मदः

वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः

14

तथा दौःशासनिर वीरॊ बाहुशाली रणॊत्कटः

दरौपदेयेन विक्रम्य गमितॊ यमसादनम

15

किरातानाम अधिपतिः सागरानूपवासिनाम

देवराजस्य धर्मात्मा परियॊ बहुमतः सखा

16

भगदत्तॊ महीपालः कषत्रधर्मरतः सदा

धनंजयेन विक्रम्य गमितॊ यमसादनम

17

तथा कौरव दायादः सौमदत्तिर महायशाः

हतॊ भूरिश्रवा राजञ शूरः सात्यकिना युधि

18

शरुतायुर अपि चाम्बष्ठः कषत्रियाणां धनुर्धरः

चरन्न अभीतवत संख्ये निहतः सव्यसाचिना

19

तव पुत्रः सदा संख्ये कृतास्त्रॊ युद्धदुर्मदः

दुःशासनॊ महाराज भीमसेनेन पातितः

20

यस्य राजन गजानीकं बहुसाहस्रम अद्भुतम

सुदक्षिणः स संग्रामे निहतः सव्यसाचिना

21

कॊसलानाम अधिपतिर हत्वा बहुशतान परान

सौभद्रेण हि विक्रम्य गमितॊ यमसादनम

22

बहुशॊ यॊधयित्वा च भीमसेनं महारथः

चित्रसेनस तव सुतॊ भीमसेनेन पातितः

23

मद्रराजात्मजः शूरः परेषां भयवर्धनः

असि चर्म धरः शरीमान सौभद्रेण निपातितः

24

समः कर्णस्य समरे यः स कर्णस्य पश्यतः

वृषसेनॊ महातेजाः शीघ्रास्त्रः कृतनिश्चयः

25

अभिमन्यॊर वधं समृत्वा परतिज्ञाम अपि चात्मनः

धनंजयेन विक्रम्य गमितॊ यमसादनम

26

नित्यप्रसक्तवैरॊ यः पाण्डवैः पृथिवीपतिः

विश्राव्य वैरं पार्थेन शरुतायुः स निपातितः

27

शल्य पुत्रस तु विक्रान्तः सहदेवेन मारिष

हतॊ रुक्मरथॊ राजन भराता मातुलजॊ युधि

28

राजा भगीरथॊ वृद्धॊ बृहत कषत्रश च केकयः

पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ

29

भगदत्तसुतॊ राजन कृतप्रज्ञॊ महाबलः

शयेनवच चरता संख्ये नकुलेन निपातितः

30

पितामहस तव तथा बाह्लिकः सह बाह्लिकैः

भीमसेनेन विक्रम्य गमितॊ यमसादनम

31

जयत्सेनस तथा राजञ जारासंधिर महाबलः

मागधॊ निहतः संख्ये सौभद्रेण महात्मना

32

पुत्रस ते दुर्मुखॊ राजन दुःसहश च महारथः

गदया भीमसेनेन निहतौ शूरमानिनौ

33

दुर्मर्षणॊ दुर्विषहॊ दुर्जयश च महारथः

कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम

34

सचिवॊ वृषवर्मा ते सूतः परमवीर्यवान

भीमसेनेन विक्रम्य गमितॊ यमसादनम

35

नागायुत बलॊ राजा नागायुत बलॊ महान

सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना

36

वसातयॊ महाराज दविसाहस्राः परहारिणः

शूरसेनाश च विक्रान्ताः सर्वे युधि निपातिताः

37

अभीषाहाः कवचिनः परहरन्तॊ महॊत्कटाः

शिबयश च रथॊदाराः कलिङ्ग सहिता हताः

38

गॊकुले नित्यसंवृद्धा युद्धे परमकॊविदाः

शरेणयॊ बहुसाहस्राः संशप्तक गणाश च ये

ते सर्वे पार्थम आसाद्य गता वैवस्वतक्षयम

39

सयालौ तव महाराज राजानौ वृषकाचलौ

तवदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना

40

उग्रकर्मा महेष्वासॊ नामतः कर्मतस तथा

शाल्वराजॊ महाराज भीमसेनेन पातितः

41

ओघवांश च महाराज बृहन्तः सहितॊ रणे

पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम

42

तथैव रथिनां शरेष्ठः कषेमधूर्तिर विशां पते

निहतॊ गदया राजन भीमसेनेन संयुगे

43

तथा राजा महेष्वासॊ जलसंधॊ महाबलः

सुमहत कदनं कृत्त्वा हतः सात्यकिना रणे

44

अलायुधॊ राक्षसेन्द्रः खरबन्धुर यानगः

घटॊत्कचेन विक्रम्य गमितॊ यमसादनम

45

राधेयाः सूतपुत्राश च भरातरश च महारथाः

केकयाः सर्वशश चापि निहताः सव्यसाचिना

46

मालवा मद्रकाश चैव दरविडाश चॊग्रविक्रमाः

यौधेयाश च ललित्थाश च कषुद्रकाश चाप्य उशीनराः

47

मावेल्लकास तुण्डिकेराः सावित्री पुत्र काञ्चलाह

पराच्यॊदीच्याः परतीच्याश च दाक्षिणात्याश च मारिष

48

पत्तीनां निहताः संघा हयानाम अयुतानि च

रथव्रजाश च निहता हताश च वरवारणाः

49

स धवजाः सायुधाः शूराः स वर्माम्बर भूषणाः

कालेन महता यत्ताः कुले ये च विवर्धिताः

50

ते हताः समरे राजन पार्थेनाक्लिष्ट कर्मणा

अन्ये तथामित बलाः परस्परवधैषिणः

51

एते चान्ये च बहवॊ राजानः सगणा रणे

हताः सहस्रशॊ राजन यन मां तवं परिपृच्छसि

एवम एष कषयॊ वृत्तः कर्णार्जुन समागमे

52

महेन्द्रेण यथा वृत्रॊ यथा रामेण रावणः

यथा कृष्णेन निहतॊ मुरॊ रणनिपातितः

कार्तवीर्यश च रामेण भार्गवेण हतॊ यथा

53

स जञातिबान्धवः शूरः समरे युद्धदुर्मदः

रणे कृत्वा महायुद्धं घॊरं तरैलॊक्यविश्रुतम

54

तथार्जुनेन निहतॊ दवैरथे युद्धदुर्मदः

सामात्यबान्धवॊ राजन कर्णः परहरतां वरः

55

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः

तीर्णं तत पाण्डवै राजन यत पुरा नावबुध्यसे

56

उच्यमानॊ महाराज बन्धुभिर हितकाङ्क्षिभिः

तद इदं समनुप्राप्तं वयसनं तवां महात्ययम

57

पुत्राणां राज्यकामानां तवया राजन हितैषिणा

अहितानीव चीर्णानि तेषां ते फलम आगतम

58

[धृ]

आख्याता मामकास तात निहता युधि पाण्डवैः

निहतान पाण्डवेयानां मामकैर बरूहि संजय

59

[स]

कुन्तयॊ युधि विक्रान्ता महासत्त्वा महाबलाः

सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः

60

समः किरीटिना संख्ये वीर्येण च बलेन च

सत्यजित सत्यसंधेन दरॊणेन निहतॊ रणे

61

तथा विराटद्रुपदौ वृद्धौ सह सुतौ नृपौ

पराक्रमन्तौ मित्रार्थे दरॊणेन निहतौ रणे

62

यॊ बाल एव समरे संमितः सव्यसाचिना

केशवेन च दुर्धर्षॊ बलदेवेन चाभिभूः

63

स एष कदनं कृत्वा महद रणविशारदः

परिवार्य महामात्रैः षड्भिः परमकै रथैः

अशक्नुवद्भिर बीभत्सुम अभिमन्युर निपातितः

64

तं कृतं विरथं वीरं कषत्रधर्मे वयवस्थितम

दौःशासनिर महाराज सौभद्रं हतवान रणे

65

बृहन्तस तु महेष्वासः कृतास्त्रॊ युद्धदुर्मदः

दुःशासनेन विक्रम्य गमितॊ यमसादनम

66

मणिमान दण्डधारश च राजानौ युद्धदुर्मदौ

पराक्रमन्तौ मित्रार्थे दरॊणेन विनिपातितौ

67

अंशुमान भॊजराजस तु सह सैन्यॊ महारथः

भारद्वाजेन विक्रम्य गमितॊ यमसादनम

68

चित्रायुधश चित्रयॊधी कृत्वा तौ कदनं महत

चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि

69

वृकॊदर समॊ युद्धे दृढः केकयजॊ युधि

केकयेनैव विक्रम्य भरात्रा भराता निपातितः

70

जनमेजयॊ गदायुधी पार्वतीयः परतापवान

दुर्मुखेन महाराज तव पुत्रेण पातितः

71

रॊचमानौ नरव्याघ्रौ रॊचमानौ गरहाव इव

दरॊणेन युगपद राजन दिवं संप्रेषितौ शरैः

72

नृपाश च परतियुध्यन्तः पराक्रान्ता विशां पते

कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम

73

पुरुजित कुन्तिभॊजश च मातुलः सव्यसाचिनः

संग्रामनिर्जिताँल लॊकान गमितॊ दरॊण सायकैः

74

अभिभूः काशिराजश च काशिकैर बहुभिर वृतः

वसु दानस्य पुत्रेण नयासितॊ देहम आहवे

75

अमितौजा युधामन्युर उत्तमौजाश च वीर्यवान

निहत्य शतशः शूरान परैर विनिहतौ रणे

76

कषत्रधर्मा च पाञ्चाल्यः कषत्रवर्मा च मारिष

दरॊणेन परमेष्वासौ गमितौ यमसादनम

77

शिखण्डितनयॊ युद्धे कषत्रदेवॊ युधां पतिः

लक्ष्मणेन हतॊ राजंस तव पौत्रेण भारत

78

सुचित्रश चित्रधर्मा च पिता पुत्रौ महारथौ

परचरन्तौ महावीर्यौ दरॊणेन निहतौ रणे

79

वार्धक्षेमिर महाराज कृत्वा कदनम आहवे

बाह्लिकेन महाराज कौरवेण निपातितः

80

धृष्टकेतुर महाराज चेदीनां परवरॊ रथः

कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम

81

तथा सत्यधृतिस तात कृत्वा कदनम आहवे

पाण्डवार्थे पराक्रान्तॊ गमितॊ यमसादनम

82

पुत्रस तु शिशुपालस्य सुकेतुः पृथिवीपते

निहत्य शात्रवान संख्ये दरॊणेन निहतॊ युधि

83

तथा सत्यधृतिर वीरॊ मदिराश्वश च वीर्यवान

सूर्यदत्तश च विक्रान्तॊ निहतॊ दरॊण सायकैः

84

शरेणिमांश च महाराज युध्यमानः पराक्रमी

कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम

85

तथैव युधि विक्रान्तॊ मागधः परवीरहा

भीष्मेण निहतॊ राजन्युध्यमानः पराक्रमी

86

वसु दानश च कदनं कुर्वाणॊ ऽतीव संयुगे

भारद्वाजेन विक्रम्य गमितॊ यमसादनम

87

एते चान्ये च बहवः पाण्डवानां महारथाः

हता दरॊणेन विक्रम्य यन मां तवं परिपृच्छसि

88

[धृ]

हतप्रवीरे सैन्ये ऽसमिन मामके वदतां वर

अहताञ शंस मे सूत ये ऽतर जीवन्ति के चन

89

एतेषु निहतेष्व अद्य ये तवया परिकीर्तिताः

अहतान मन्यसे यांस तवं ते ऽपि सवर्गजितॊ मताः

90

[स]

यस्मिन महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि

दिव्यानि राजन निहितानि चैव; दरॊणेन वीर दविजसत्तमेन

91

महारथः कृतिमान कषिप्रहस्तॊ; दृढायुधॊ दृढमुष्टिर दृढेषुः

स वीर्यवान दरॊणपुत्रस तरस्वी; वयवस्थितॊ यॊद्धुकामस तवदर्थे

92

आनर्तवासी हृदिकात्मजॊ ऽसौ; महारथः सात्वतानां वरिष्ठः

सवयं भॊजः कृतवर्मा कृतास्त्रॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे

93

शारद्वतॊ गौतमश चापि राजन; महाबलॊ बहु चित्रास्त्र यॊधी

धनुश चित्रं सुमहद भारसाहं; वयवस्थितॊ यॊत्स्यमानः परगृह्य

94

आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः परथमस तावकानाम

सवस्रेयांस तान पाण्डवेयान विसृज्य; सत्यां वाचं तां चिकीर्षुस तरस्वी

95

तेजॊवधं सूतपुत्रस्य संख्ये; परतिश्रुत्वाजात शत्रॊः पुरस्तात

दुराधर्षः शक्रसमानवीर्यः; शल्यः सथितॊ युद्दु कामस तवदर्थे

96

आजानेयैः सैन्धवैः पार्वतीयैर; नदीज काम्बॊजवनायु बाह्लिकैः

गान्धारराजः सवबलेन युक्तॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे

97

तथा सुतस ते जवलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर

वयवस्थितः कुरु मित्रॊ नरेन्द्र; वयभ्रे सूर्यॊ भराजमानॊ यथा वै

98

दुर्यॊधनॊ नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः

रथेन जाम्बूनदभूषणेन; वयवस्थितः समरे यॊद्धुकामः

99

स राजमध्ये पुरुषप्रवीरॊ; रराज जाम्बूनदचित्रवर्मा

पद्मप्रभॊ वह्निर इवाल्पधूमॊ; मेघान्तरे सूर्य इव परकाशः

100

तथा सुषेणॊ ऽपय असि चर्म पाणिस; तवात्मजः सत्यसेनश च वीरः

वयवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे यॊद्धुकामौ

101

हरीनिषेधा भरता राजपुत्राश; चित्रायुधः शरुतकर्मा जयश च

शलश च सत्यव्रतदुःशलौ च; वयवस्थिता बलिनॊ यॊद्धुकामाः

102

कैतव्यानाम अधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः

पत्री हयी नागरथप्रयायी; वयवस्थितॊ यॊद्धुकामस तवदर्थे

103

वीरः शरुतायुश च शरुतायुधश च; चित्राङ्गदश चित्रवर्मा स वीरः

वयवस्थिता ये तु सैन्ये नराग्र्याः; परहारिणॊ मानिनः सत्यसंधाः

104

कर्णात्मजः सत्यसेनॊ महात्मा; वयवस्थितः समरे यॊद्धुकामः

अथापरौ कर्णसुतौ वरार्हौ; वयवस्थितौ लघुहस्तौ नरेन्द्र

बलं महद दुर्भिदम अल्पधैर्यैः; समाश्रितौ यॊत्स्यमानौ तवदर्थे

105

एतैश च मुख्यैर अपरैश च राजन; यॊधप्रवीरैर अमितप्रभावैः

वयवस्थितॊ नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजॊ जयाय

106

[धृ]

आख्याता जीवमाना ये परेभ्यॊ ऽनये यथातथम

इतीदम अभिगच्छामि वयक्तम अर्थाभिपत्तितः

107

[वै]

एवं बरुवन्न एव तदा धृतराष्ट्रॊ ऽबमिका सुतः

हतप्रवीरं विध्वस्तं किं चिच छेषं सवकं बलम

शरुत्वा वयामॊहम अगमच छॊकव्याकुलितेन्द्रियः

108

मुह्यमानॊ ऽबरवीच चापि मुहूर्तं तिष्ठ संजय

वयाकुलं मे मनस तात शरुत्वा सुमहद अप्रियम

नष्टचित्तस ततः सॊ ऽथ बभूव जगतीपतिः

1

[vai]

etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ

abravīt saṃjayaṃ sūtaṃ śokavyākula cetana

2

duṣpraṇītena me tāta manasābhiplutātmanaḥ

hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati

3

kṛtāstra paramāḥ śalye duḥkhapāraṃ titīrṣavaḥ

kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ

4

[s]

hataḥ śātanavo rājan durādharṣaḥ pratāpavān

hatvā pāṇḍava yodhānām arbudaṃ daśabhir dinai

5

tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān

nihatya yudhi durdharṣaḥ paścād rukmaratho hata

6

hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā

ardhaṃ nihatya sainyasya karṇo vaikartano hata

7

viviṃśatir mahārāja rājaputro mahābalaḥ

ānartayodhāñ śataśo nihatya nihato raṇe

8

atha putro vikarṇas te kṣatravratam anusmaran

kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān

9

ghorarūpān parikleśān duryodhanakṛtān bahūn

pratijñāṃ smaratā caiva bhīmasenena pātita

10

vindānuvindāv āvantyau rājaputrau mahābalau

kṛtvā na sukaraṃ karma gatau vaivasvatakṣayam

11

sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai

vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane

12

akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ

arjunena hato rājan mahāvīryo jayadratha

13

tathā duryodhana sutas tarasvī yuddhadurmadaḥ

vartamānaḥ pituḥ śāstre saubhadreṇa nipātita

14

tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ

draupadeyena vikramya gamito yamasādanam

15

kirātānām adhipatiḥ sāgarānūpavāsinām

devarājasya dharmātmā priyo bahumataḥ sakhā

16

bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā

dhanaṃjayena vikramya gamito yamasādanam

17

tathā kaurava dāyādaḥ saumadattir mahāyaśāḥ

hato bhūriśravā rājañ śūraḥ sātyakinā yudhi

18

rutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ

carann abhītavat saṃkhye nihataḥ savyasācinā

19

tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ

duḥśāsano mahārāja bhīmasenena pātita

20

yasya rājan gajānīkaṃ bahusāhasram adbhutam

sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā

21

kosalānām adhipatir hatvā bahuśatān parān

saubhadreṇa hi vikramya gamito yamasādanam

22

bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ

citrasenas tava suto bhīmasenena pātita

23

madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ

asi carma dharaḥ śrīmān saubhadreṇa nipātita

24

samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ

vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścaya

25

abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ

dhanaṃjayena vikramya gamito yamasādanam

26

nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ

viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātita

27

alya putras tu vikrāntaḥ sahadevena māriṣa

hato rukmaratho rājan bhrātā mātulajo yudhi

28

rājā bhagīratho vṛddho bṛhat kṣatraś ca kekayaḥ

parākramantau vikrāntau nihatau vīryavattarau

29

bhagadattasuto rājan kṛtaprajño mahābalaḥ

śyenavac caratā saṃkhye nakulena nipātita

30

pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ

bhīmasenena vikramya gamito yamasādanam

31

jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ

māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā

32

putras te durmukho rājan duḥsahaś ca mahārathaḥ

gadayā bhīmasenena nihatau śūramāninau

33

durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ

kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam

34

sacivo vṛṣavarmā te sūtaḥ paramavīryavān

bhīmasenena vikramya gamito yamasādanam

35

nāgāyuta balo rājā nāgāyuta balo mahān

sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā

36

vasātayo mahārāja dvisāhasrāḥ prahāriṇa

ś
rasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ

37

abhīṣāhāḥ kavacinaḥ praharanto mahotkaṭāḥ

ibayaś ca rathodārāḥ kaliṅga sahitā hatāḥ

38

gokule nityasaṃvṛddhā yuddhe paramakovidāḥ

reṇayo bahusāhasrāḥ saṃśaptaka gaṇāś ca ye

te sarve pārtham āsādya gatā vaivasvatakṣayam

39

syālau tava mahārāja rājānau vṛṣakācalau

tvadarthe saṃparākrāntau nihatau savyasācinā

40

ugrakarmā maheṣvāso nāmataḥ karmatas tathā

ś
lvarājo mahārāja bhīmasenena pātita

41

oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe

parākramantau mitrārthe gatau vaivasvatakṣayam

42

tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate

nihato gadayā rājan bhīmasenena saṃyuge

43

tathā rājā maheṣvāso jalasaṃdho mahābalaḥ

sumahat kadanaṃ kṛttvā hataḥ sātyakinā raṇe

44

alāyudho rākṣasendraḥ kharabandhura yānagaḥ

ghaṭotkacena vikramya gamito yamasādanam

45

rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ

kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā

46

mālavā madrakāś caiva draviḍāś cogravikramāḥ

yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ

47

māvellakās tuṇḍikerāḥ sāvitrī putra kāñcalāh

prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa

48

pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca

rathavrajāś ca nihatā hatāś ca varavāraṇāḥ

49

sa dhvajāḥ sāyudhāḥ śūrāḥ sa varmāmbara bhūṣaṇāḥ

kālena mahatā yattāḥ kule ye ca vivardhitāḥ

50

te hatāḥ samare rājan pārthenākliṣṭa karmaṇā

anye tathāmita balāḥ parasparavadhaiṣiṇa

51

ete cānye ca bahavo rājānaḥ sagaṇā raṇe

hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi

evam eṣa kṣayo vṛttaḥ karṇārjuna samāgame

52

mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ

yathā kṛṣṇena nihato muro raṇanipātitaḥ

kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā

53

sa jñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ

raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam

54

tathārjunena nihato dvairathe yuddhadurmadaḥ

sāmātyabāndhavo rājan karṇaḥ praharatāṃ vara

55

jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ

tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase

56

ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ

tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam

57

putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā

ahitānīva cīrṇāni teṣāṃ te phalam āgatam

58

[dhṛ]

khyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ

nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya

59

[s]

kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ

sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ

60

samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca

satyajit satyasaṃdhena droṇena nihato raṇe

61

tathā virāṭadrupadau vṛddhau saha sutau nṛpau

parākramantau mitrārthe droṇena nihatau raṇe

62

yo bāla eva samare saṃmitaḥ savyasācinā

keśavena ca durdharṣo baladevena cābhibhūḥ

63

sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ

parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ

aśaknuvadbhir bībhatsum abhimanyur nipātita

64

taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam

dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe

65

bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ

duḥśāsanena vikramya gamito yamasādanam

66

maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau

parākramantau mitrārthe droṇena vinipātitau

67

aṃśumān bhojarājas tu saha sainyo mahārathaḥ

bhāradvājena vikramya gamito yamasādanam

68

citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat

citramārgeṇa vikramya karṇena nihatau yudhi

69

vṛkodara samo yuddhe dṛḍhaḥ kekayajo yudhi

kekayenaiva vikramya bhrātrā bhrātā nipātita

70

janamejayo gadāyudhī pārvatīyaḥ pratāpavān

durmukhena mahārāja tava putreṇa pātita

71

rocamānau naravyāghrau rocamānau grahāv iva

droṇena yugapad rājan divaṃ saṃpreṣitau śarai

72

nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate

kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam

73

purujit kuntibhojaś ca mātulaḥ savyasācinaḥ

saṃgrāmanirjitāṁl lokān gamito droṇa sāyakai

74

abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ

vasu dānasya putreṇa nyāsito deham āhave

75

amitaujā yudhāmanyur uttamaujāś ca vīryavān

nihatya śataśaḥ śūrān parair vinihatau raṇe

76

kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa

droṇena parameṣvāsau gamitau yamasādanam

77

ikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ

lakṣmaṇena hato rājaṃs tava pautreṇa bhārata

78

sucitraś citradharmā ca pitā putrau mahārathau

pracarantau mahāvīryau droṇena nihatau raṇe

79

vārdhakṣemir mahārāja kṛtvā kadanam āhave

bāhlikena mahārāja kauraveṇa nipātita

80

dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ

kṛtvā na sukaraṃ karma gato vaivasvatakṣayam

81

tathā satyadhṛtis tāta kṛtvā kadanam āhave

pāṇḍavārthe parākrānto gamito yamasādanam

82

putras tu śiśupālasya suketuḥ pṛthivīpate

nihatya śātravān saṃkhye droṇena nihato yudhi

83

tathā satyadhṛtir vīro madirāśvaś ca vīryavān

sūryadattaś ca vikrānto nihato droṇa sāyakai

84

reṇimāṃś ca mahārāja yudhyamānaḥ parākramī

kṛtvā na sukaraṃ karma gato vaivasvatakṣayam

85

tathaiva yudhi vikrānto māgadhaḥ paravīrahā

bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī

86

vasu dānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge

bhāradvājena vikramya gamito yamasādanam

87

ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ

hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi

88

[dhṛ]

hatapravīre sainye 'smin māmake vadatāṃ vara

ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana

89

eteṣu nihateṣv adya ye tvayā parikīrtitāḥ

ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ

90

[s]

yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni

divyāni rājan nihitāni caiva; droṇena vīra dvijasattamena

91

mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ

sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe

92

nartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ

svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe

93

ś
radvato gautamaś cāpi rājan; mahābalo bahu citrāstra yodhī

dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya

94

rtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām

svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī

95

tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājāta śatroḥ purastāt

durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yuddu kāmas tvadarthe

96

jāneyaiḥ saindhavaiḥ pārvatīyair; nadīja kāmbojavanāyu bāhlikaiḥ

gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe

97

tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra

vyavasthitaḥ kuru mitro narendra; vyabhre sūryo bhrājamāno yathā vai

98

duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ

rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāma

99

sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā

padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśa

100

tathā suṣeṇo 'py asi carma pāṇis; tavātmajaḥ satyasenaś ca vīraḥ

vyavasthitau citrasenena sārdhaṃ; hṛṣṭtmānau samare yoddhukāmau

101

hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca

śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ

102

kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ

patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe

103

vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ

vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ

104

karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ

athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra

balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe

105

etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ

vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya

106

[dhṛ]

khyātā jīvamānā ye parebhyo 'nye yathātatham

itīdam abhigacchāmi vyaktam arthābhipattita

107

[vai]

evaṃ bruvann eva tadā dhṛtarāṣṭro 'bmikā sutaḥ

hatapravīraṃ vidhvastaṃ kiṃ cic cheṣaṃ svakaṃ balam

śrutvā vyāmoham agamac chokavyākulitendriya

108

muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya

vyākulaṃ me manas tāta śrutvā sumahad apriyam

naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ
umma theologica 1| umma theologica 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 4