Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 43

Book 8. Chapter 43

The Mahabharata In Sanskrit


Book 8

Chapter 43

1

[स]

एतस्मिन्न अन्तरे कृष्णः पार्थं वचनम अब्रवीत

दर्शयन्न इव कौन्तेयं धर्मराजं युधिष्ठिरम

2

एष पाण्डव ते भराता धार्तराष्ट्रैर महाबलैः

जिघांसुभिर महेष्वासैर दरुतं पार्थानुसर्यते

3

तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः

युधिष्ठिरं महात्मानं परीप्सन्तॊ महाजवाः

4

एष दुर्यॊधनः पार्थरथानीकेन दंशितः

राजा सर्वस्य लॊकस्य राजानम अनुधावति

5

जिघांसुः पुरुषव्याघ्रं भरातृभिः सहितॊ बली

आशीविषा समस्पर्शैः सर्वयुद्धविशारदैः

6

एते जिघृक्षवॊ यान्ति दविपाश्वरथपत्तयः

युधिष्ठिरं धार्तराष्ट्रा रत्नॊत्तमम इवार्थिनः

7

पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठितः परभुः

जिहीर्षवॊ ऽमृतं दैत्याः शक्राग्निभ्याम इवावशाः

8

एते बहुत्वात तवरिताः पुनर गच्छन्ति पाण्डवम

समुद्रम इव वार्यॊघाः परावृट्काले महारथः

9

नदन्तः सिंहनादांश च धमन्तश चापि वारिजान

बलवन्तॊ महेष्वासा विधुन्वन्तॊ धनूंषि च

10

मृत्यॊर मुखगतं मन्ये कुन्तीपुत्रं युधिष्ट्ष्हिरम

हुतम अग्नौ च भद्रं ते दुर्यॊधन वशंगतम

11

यथा युक्तम अनीकं हि धार्तराष्ट्रस्य पाण्डव

नास्य शक्रॊ ऽपि मुच्येत संप्राप्तॊ बाणगॊच्चरम

12

दुर्यॊधनस्य शूरस्य दरौणेः शारद्वतस्य च

कर्णस्य चेषु वेगॊ वै पर्वतान अपि दारयेत

13

दुर्यॊधनस्य शूरस्य शरौघाञ शीघ्रम अस्यतः

संक्रुद्धस्यान्तकस्येव कॊ वेगं संसहेद रणे

14

कर्णेन च कृतॊ राजा विमुखः शत्रुतापनः

बलवाँल लघु तस्तश च कृती युद्धविशारदः

15

राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे

सहितॊ धृतराष्ट्रस्य पुत्रैः शूरॊ महात्मभिः

16

तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः

अन्यैर अपि च पार्थस्य हृतं वर्म महारथैः

17

उपवासकृशॊ राजा भृशं भरतसत्तम

बराह्मे बले सथितॊ हय एष न कषत्रे ऽतिबले विभॊ

18

न जीवति महाराजॊ मन्ये पार्थ युधिष्ठिरः

यद भीमसेनः सहते सिंहनादम अमर्षणः

19

नर्दतां धार्तराष्ट्राणां पुनः पुनर अरिंदम

धमतां च महाशङ्खान संग्रामे जितकर्शिनाम

20

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ

संचॊदयत्य असौ कर्णॊ धार्तराष्ट्रान महाबलान

21

सथूणाकर्णेन्दु जालेन पार्थ पाशुपतेन च

परच्छादयन्तॊ राजानम अनुयान्ति महारथाः

आतुरॊ मे मतॊ राजा संनिषेव्यश च भारत

22

यथैनम अनुवर्तन्ते पाञ्चालाः सह पाण्डवैः

तवरमाणास तवरा काले सर्वशस्त्रभृतां वराः

मज्जन्तम इव पाताले बलिनॊ ऽपय उज्जिहीर्षवः

23

न केतुर दृश्यते राज्ञः कर्णेन निहतः शरैः

पश्यतॊर यमयॊः पार्थ सात्यकेश च शिखण्डिनः

24

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभॊ

पाञ्चालानां च सर्वेषां चेदीनां चैव भारत

25

एष कर्णॊ रणे पार्थ पाण्डवानाम अनीकिनीम

शरैर विध्वंसयति वै नलिनीम इव कुञ्जरः

26

एते दरवन्ति रथिनस तवदीयाः पाण्डुनन्दन

पश्य पश्य यथा पार्थ गच्छन्त्य एते महारथाः

27

एते भारत मातङ्गाः कर्णेनाभिहता रणे

आर्तनादान विकुर्वाणा विद्रवन्ति दिशॊ दश

28

रथानां दरवतां वृन्दं पश्य पार्थ समन्ततः

दराव्यमाणं रणे चैव कर्णेनामित्र कर्शिना

29

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह

रथस्थं सूतपुत्रस्य केतुं केतुमतां वर

30

असौ धावति राधेयॊ भीमसेनरथं परति

किरञ शरशतानीव विनिघ्नंस तव वाहिनीम

31

एतान पश्य च पाञ्चालान दराव्यमाणान महात्मना

शक्रेणेव यथा दैत्यान हन्यमानान महाहवे

32

एष कर्णॊ रणे जित्वा पाञ्चालान पाण्डुसृञ्जयान

दिशॊ विप्रेक्षते सर्वास तवदर्थम इति मे मतिः

33

पश्य पार्थधनुःश्रेष्ठं विकर्षन साधु शॊभते

शत्रूञ जित्वा यथा शक्रॊ देवसंघैः समावृतः

34

एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम

तरासयन्तॊ रणे पार्थान सृञ्जयांश च सहस्रशः

35

एष सर्वात्मना पाण्डूंस तरासयित्वा महारणे

अभिभाषति राधेयः सर्वसैन्यानि मानद

36

अभिद्रवत गच्छध्वं दरुतं दरवत कौरवाः

यथा जीवन न वः कश चिन मुच्यते युधि सृञ्जयः

37

तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः

एवम उक्त्वा ययाव एष पृष्ठतॊ विकिरञ शरैः

38

पश्य कर्णं रणे पार्थ शवेतच्छवि विराजितम

उदयं पर्वतं यद्वच छॊभयन वै दिवाकरः

39

पूर्णचन्द्र निकाशेन मूर्ध्नि छत्रेण भारत

धरियमाणेन समरे तथा शतशलाकिना

40

एष तवां परेक्षते कर्णः सकताक्षॊ विशां पते

उत्तमं यत्नम आस्थाय धरुवाम एष्यति संयुगे

41

पश्य हय एनं महाबाहॊ विधुन्वानं महद धनुः

शरांश चाशीविषाकारान विसृजन्तं महाबलम

42

असौ निवृत्तॊ राधेयॊ दृश्यते वानरध्वज

वधाय चात्मनॊ ऽभयेति दीपस्य शलभॊ यथा

43

कर्णम एकाकिनं दृष्ट्वा रथानीकेन भारत

रिरक्षिषुः सुसंयत्तॊ धार्तराष्ट्रॊ ऽभिवर्तते

44

सार्वैः सहैभिर दुष्टात्मा वध्य एष परयत्नतः

तवया यशश च राज्यं च सुखं चॊत्तमम इच्छता

45

आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ

कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे

46

परतिपद्यस्व राधेयं पराप्तकालम अनन्तरम

आर्यां युद्धे मतिं कृत्वा परत्येहि रथयूथपम

47

पञ्च हय एतानि मिख्यानां रथानां रथसत्तम

शतान्य आयान्ति वेगेन बलिनां भीम तेजसाम

48

पञ्च नागसहस्राणि दविगुणा वाजिनस तथा

अभिसंहत्य कौन्तेय पदातिप्रयुतानि च

अन्यॊन्यरक्षितं वीर बलं तवाम अभिवर्तते

49

सूतपुत्रे महेष्वासे दर्शयात्मानम आत्मना

उत्तमं यत्नम आस्थाय परत्येहि भरतर्षभ

50

असौ कर्णः सुसंरब्धः पाञ्चालान अभिधावति

केतुम अस्य हि पश्यामि धृष्टद्युम्न रथं परति

समुच्छेत्स्यति पाञ्चालान इति मन्ये परंतप

51

आचक्षे ते परियं पार्थ तद एवं भरतर्षभ

राजा जीवति कौरव्यॊ धर्मपुत्रॊ युधिष्ठिरः

52

असौ भिमॊ महाबाहुह्ल संनिवृत्तश चमूमुखे

वृतः सृञ्जय सैन्येन सात्यकेन च भातत

53

वध्यन्त एते समरे कौरवा निशितैः शरैः

भीमसेनेन कौन्तेय पाञ्चालैश च महात्मभिः

54

सेना हि धार्तराष्ट्रस्य विमुखा चाभवद रणात

विप्रधावति वेगेन भीमस्य निहता शरैः

55

विपन्नसस्येव मही रुधिरेण समुक्षिता

भारती भरतश्रेष्ठ सेना कृपण दर्शना

56

निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम

आशीविषम इव करुद्धं तस्माद दरवति वाहिनी

57

पीतरक्तासित सितास तारा चन्द्रार्क मण्डिताः

पताकाविप्रकीर्यन्ते छत्राण्य एतानि चार्जुन

58

सौवर्णा राजताश चैव तैजसाश च पृथग्विधाः

केतवॊ विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते

59

रथेभ्यः परपतन्त्य एते रथिनॊ विगतासवः

नानावर्णैर हता बाणैः पाञ्चालैर अपलायिभिः

60

निर्मनुष्यान गजान अश्वान रथांश चैव धनंजय

समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस तरस्विनः

61

मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात

बलं परेषां दुर्धर्षं तयक्त्वा पराणान अरिंदम

62

एते नदन्ति पाञ्चाला धमन्त्य अपि च वारिजान

अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान

63

पश्य सवर्गस्य माहात्म्यं पाञ्चाला हि परंतप

धार्तराष्ट्रान विनिघ्नन्ति करुद्धाः सिंहा इव दविपान

64

सर्वतश चाभिपन्नैषा धार्तराष्ट्री महाचमूः

पाञ्चालैर मानसाद एत्य हंसैर गङ्गेव वेगितैः

65

सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे

कृप कर्णादयॊ वीरा ऋषभाणाम इवर्षभाः

66

सुनिमग्नांश च भीमास्त्रैर धार्तराष्ट्रान महारथान

धृष्टद्युम्नमुखा वीरा घनन्ति शत्रून सहस्रशः

विषण्णभूयिष्ठ रथा धार्तराष्ट्री महाचमूः

67

पश्य भीमेन नाराचैश छिन्ना नागाःपतन्त्य अमी

वज्रिवज्राहतानीव शिखराणि महीभृताम

68

भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः

सवान्य अनीकानि मृद्नन्तॊ दरवत्य एते महागजाः

69

नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम

नदतॊ ऽरजुन संग्रामे वीरस्य जितकाशिनः

70

एष नैषादिर अब्भ्येति दविपमुख्येन पाण्डवम

जिघांसुस तॊमरैः करुद्धॊ दण्डा पाणिर इवान्तकः

71

सतॊमराव अस्य भुजौ छिन्नौ भीमेन गर्जतः

तीक्ष्णैर अग्निशिखा परख्यैर नाराचैर दशभिर हतः

72

हत्वैनं पुनर आयाति नागान अन्यान परहारिणः

पश्य नीलाम्बुदनिभान महामात्रैर अधिष्ठितान

शक्तितॊमरसंकाशैर विनिघ्नन्तं वृकॊदरम

73

सप्त सप्त च नागंस तान वैजयन्तीश च सध्वजाः

निहत्य निशितैर बाणैश छिन्नाः पार्थाग्रजेन ते

दशभिर दशभिश चैकॊ नाराचैर निहतॊ गजः

74

न चासौ धार्तराष्ट्राणां शरूयते निनदस तथा

पुरंदरसमे करुद्धे निवृत्ते भरतर्षभे

75

अक्षौहिण्यस तथा तिस्रॊ धार्तराष्ट्रस्य संहताः

करुद्धेन नरसिंहेन भीमसेनेन वारिताः

76

[स]

भीमसेनेन तत कर्मकृतं दृष्ट्वा सुदुष्करम

अर्जुनॊ वयधमच छिष्टान अहितान निशितैः शरैः

77

ते वध्यमानाः समरे संशप्तक गणाः परभॊ

शक्रस्यातिथितां गत्वा विशॊका हय अभवन मुदा

78

पार्थश च पुरुषव्याघ्रः शरैः संनतपर्वभिः

जघान धार्तराष्ट्रस्य चतुर्विध बलां चमूम

1

[s]

etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt

darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram

2

eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ

jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate

3

tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ

yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ

4

eṣa duryodhanaḥ pārtharathānīkena daṃśitaḥ

rājā sarvasya lokasya rājānam anudhāvati

5

jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī

āś
viṣā samasparśaiḥ sarvayuddhaviśāradai

6

ete jighṛkṣavo yānti dvipāśvarathapattayaḥ

yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthina

7

paśya sātvata bhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ

jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ

8

ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam

samudram iva vāryoghāḥ prāvṛṭkāle mahāratha

9

nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān

balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca

10

mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭṣhiram

hutam agnau ca bhadraṃ te duryodhana vaśaṃgatam

11

yathā yuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava

nāsya śakro 'pi mucyeta saṃprāpto bāṇagoccaram

12

duryodhanasya śūrasya drauṇeḥ śāradvatasya ca

karṇasya ceṣu vego vai parvatān api dārayet

13

duryodhanasya śūrasya śaraughāñ śīghram asyataḥ

saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe

14

karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ

balavāṁl laghu tastaś ca kṛtī yuddhaviśārada

15

rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe

sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhi

16

tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ

anyair api ca pārthasya hṛtaṃ varma mahārathai

17

upavāsakṛśo rājā bhṛśaṃ bharatasattama

brāhme bale sthito hy eṣa na kṣatre 'tibale vibho

18

na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ

yad bhīmasenaḥ sahate siṃhanādam amarṣaṇa

19

nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama

dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakarśinām

20

yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha

saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān

21

sthūṇākarṇendu jālena pārtha pāśupatena ca

pracchādayanto rājānam anuyānti mahārathāḥ

turo me mato rājā saṃniṣevyaś ca bhārata

22

yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ

tvaramāṇās tvarā kāle sarvaśastrabhṛtāṃ varāḥ

majjantam iva pātāle balino 'py ujjihīrṣava

23

na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ

paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍina

24

dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho

pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata

25

eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm

śarair vidhvaṃsayati vai nalinīm iva kuñjara

26

ete dravanti rathinas tvadīyāḥ pāṇḍunandana

paśya paśya yathā pārtha gacchanty ete mahārathāḥ

27

ete bhārata mātaṅgāḥ karṇenābhihatā raṇe

ārtanādān vikurvāṇā vidravanti diśo daśa

28

rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ

drāvyamāṇaṃ raṇe caiva karṇenāmitra karśinā

29

hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha

rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara

30

asau dhāvati rādheyo bhīmasenarathaṃ prati

kirañ śaraśatānīva vinighnaṃs tava vāhinīm

31

etān paśya ca pāñcālān drāvyamāṇān mahātmanā

śakreṇeva yathā daityān hanyamānān mahāhave

32

eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān

diśo viprekṣate sarvās tvadartham iti me mati

33

paśya pārthadhanuḥśreṣṭhaṃ vikarṣan sādhu śobhate

śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛta

34

ete nadanti kauravyā dṛṣṭvā karṇasya vikramam

trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśa

35

eṣa sarvātmanā pāṇḍūs trāsayitvā mahāraṇe

abhibhāṣati rādheyaḥ sarvasainyāni mānada

36

abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ

yathā jīvan na vaḥ kaś cin mucyate yudhi sṛñjaya

37

tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ

evam uktvā yayāv eṣa pṛṣṭhato vikirañ śarai

38

paśya karṇaṃ raṇe pārtha śvetacchavi virājitam

udayaṃ parvataṃ yadvac chobhayan vai divākara

39

pūrṇacandra nikāśena mūrdhni chatreṇa bhārata

dhriyamāṇena samare tathā śataśalākinā

40

eṣa tvāṃ prekṣate karṇaḥ sakatākṣo viśāṃ pate

uttamaṃ yatnam āsthāya dhruvām eṣyati saṃyuge

41

paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ

śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam

42

asau nivṛtto rādheyo dṛśyate vānaradhvaja

vadhāya cātmano 'bhyeti dīpasya śalabho yathā

43

karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata

rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate

44

sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ

tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā

45

tmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha

kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire

46

pratipadyasva rādheyaṃ prāptakālam anantaram

āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam

47

pañca hy etāni mikhyānāṃ rathānāṃ rathasattama

śatāny āyānti vegena balināṃ bhīma tejasām

48

pañca nāgasahasrāṇi dviguṇā vājinas tathā

abhisaṃhatya kaunteya padātiprayutāni ca

anyonyarakṣitaṃ vīra balaṃ tvām abhivartate

49

sūtaputre maheṣvāse darśayātmānam ātmanā

uttamaṃ yatnam āsthāya pratyehi bharatarṣabha

50

asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati

ketum asya hi paśyāmi dhṛṣṭadyumna rathaṃ prati

samucchetsyati pāñcālān iti manye paraṃtapa

51

cakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha

rājā jīvati kauravyo dharmaputro yudhiṣṭhira

52

asau bhimo mahābāhuhl saṃnivṛttaś camūmukhe

vṛtaḥ sṛñjaya sainyena sātyakena ca bhātata

53

vadhyanta ete samare kauravā niśitaiḥ śaraiḥ

bhīmasenena kaunteya pāñcālaiś ca mahātmabhi

54

senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt

vipradhāvati vegena bhīmasya nihatā śarai

55

vipannasasyeva mahī rudhireṇa samukṣitā

bhāratī bharataśreṣṭha senā kṛpaṇa darśanā

56

nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim

āś
viṣam iva kruddhaṃ tasmād dravati vāhinī

57

pītaraktāsita sitās tārā candrārka maṇḍitāḥ

patākāviprakīryante chatrāṇy etāni cārjuna

58

sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ

ketavo vinipātyante hastyaśvaṃ viprakīryate

59

rathebhyaḥ prapatanty ete rathino vigatāsavaḥ

nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhi

60

nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya

samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvina

61

mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt

balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama

62

ete nadanti pāñcālā dhamanty api ca vārijān

abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān

63

paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa

dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān

64

sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ

pāñcālair mānasād etya haṃsair gaṅgeva vegitai

65

subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe

kṛpa karṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ

66

sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān

dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ

viṣaṇṇabhūyiṣṭha rathā dhārtarāṣṭrī mahācamūḥ

67

paśya bhīmena nārācaiś chinnā nāgāḥpatanty amī

vajrivajrāhatānīva śikharāṇi mahībhṛtām

68

bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ

svāny anīkāni mṛdnanto dravaty ete mahāgajāḥ

69

nābhijānāsi bhīmasya siṃhanādaṃ durutsaham

nadato 'rjuna saṃgrāme vīrasya jitakāśina

70

eṣa naiṣādir abbhyeti dvipamukhyena pāṇḍavam

jighāṃsus tomaraiḥ kruddho daṇḍā pāṇir ivāntaka

71

satomarāv asya bhujau chinnau bhīmena garjataḥ

tīkṣṇair agniśikhā prakhyair nārācair daśabhir hata

72

hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ

paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān

śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram

73

sapta sapta ca nāgaṃs tān vaijayantīś ca sadhvajāḥ

nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te

daśabhir daśabhiś caiko nārācair nihato gaja

74

na cāsau dhārtarāṣṭrāṇāṃ rūyate ninadas tathā

puraṃdarasame kruddhe nivṛtte bharatarṣabhe

75

akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ

kruddhena narasiṃhena bhīmasenena vāritāḥ

76

[s]

bhīmasenena tat karmakṛtaṃ dṛṣṭvā suduṣkaram

arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śarai

77

te vadhyamānāḥ samare saṃśaptaka gaṇāḥ prabho

śakrasyātithitāṃ gatvā viśokā hy abhavan mudā

78

pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ

jaghāna dhārtarāṣṭrasya caturvidha balāṃ camūm
what are ballad| the ballads 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 43