Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 5

Book 8. Chapter 5

The Mahabharata In Sanskrit


Book 8

Chapter 5

1

[ज]

शरुत्वा कर्णं हतं युद्धे पुत्रांश चैवापलायिनः

नरेन्द्रः किं चिद आश्वस्तॊ दविजश्रेष्ठ किम अब्रवीत

2

पराप्तवान परमं दुःखं पुत्रव्यसनजं महत

तस्मिन यद उक्तवान काले तन ममाचक्ष्व पृच्छतः

3

[वै]

शरुत्वा कर्णस्य निधनम अश्रद्धेयम इवाद्भुतम

भूतसंमॊहनं भीमं मेरॊः पर्यसनं यथा

4

चित्तमॊहम इवायुक्तं भार्गवस्य महामतेः

पराजयम इवेन्द्रस्य दविषद्भ्यॊ भीमकर्मणः

5

दिवः परपतनं भानॊर उर्व्याम इव महाद्युतेः

संशॊषणम इवाचिन्त्यं समुद्रस्याक्षयाम्भसः

6

मही वियद दिग ईशानां सर्वनाशम इवाद्भुतम

कर्मणॊर इव वैफल्यम उभयॊः पुण्यपापयॊः

7

संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रॊ जनेश्वरः

नेदम अस्तीति संचिन्त्य कर्णस्य निधनं परति

8

पराणिनाम एतद आत्मत्वात सयाद अपीति विनाशनम

शॊकाग्निना दह्यमानॊ धम्यमान इवाशयः

9

विध्वस्तात्मा शवसन दीनॊ हाहेत्य उक्त्वा सुदुःखितः

विललाप महाराज धृतराष्ट्रॊ ऽमबिका सुतः

10

[धृ]

संजयाधिरथॊ वीरः सिंहद्विरदविक्रमः

वृषम अप्रतिमस्कन्धॊ वृषभाक्ष गतिस्वनः

11

वृषभॊ वृषभस्येव यॊ युद्धे न निवर्तते

शत्रॊर अपि महेन्द्रस्य वज्रसंहननॊ युवा

12

यस्य जयातलशब्देन शरवृष्टिरवेण च

रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे

13

यम आश्रित्य महाबाहुं दविषत संघघ्नम अच्युतम

दुर्यॊधनॊ ऽकरॊद वैरं पाण्डुपुत्रैर महाबलैः

14

स कथं रथिनां शरेष्ठः कर्णः पार्थेन संयुगे

निहतः पुरुषव्याघ्रः परसह्यासह्य विक्रमः

15

यॊ नामन्यत वै नित्यम अच्युतं न धनंजयम

न वृष्णीन अपि तान अन्यान सवबाहुबलम आश्रितः

16

शार्ङ्गगाण्डीवधन्वानौ सहिताव अपराजितौ

अहं दिव्याद रथाद एकः पातयिष्यामि संयुगे

17

इति यः सततं मन्दम अवॊचल लॊभमॊहितम

दुर्यॊधनम अपादीनं राज्यकामुकम आतुलम

18

यश चाजैषीद अतिबलान अमित्रान अपि दुर्जयान

गान्धारान मद्रकान मत्स्यांस तरिगर्तांस तङ्गणाञ शकान

19

पाञ्चालांश च विदेहांश च कुणिन्दान काशिकॊसलान

सुह्यान अङ्गांश च पुण्ड्रांश च निषादान वङ्ग कीचकान

20

वत्सान कलिङ्गांस तरलान अश्मकान ऋषिकांस तथा

यॊ जित्वा समरे वीरश चक्रे बलिभृतः पुरा

21

उच्चैःश्रवा वरॊ ऽशवानां राज्ञां वैश्रवणॊ वरः

वरॊ महेन्द्रॊ देवानां कर्णः परहरतां वरः

22

यं लब्ध्वा मागधॊ राजा सान्त्वमानार्थ गौरवैः

अरौत्सीत पार्थिवं कषत्रम ऋते कौरव यादवान

23

तं शरुत्वा निहतं कर्णं दवैरथे सव्यसाचिना

शॊकार्णवे निमग्नॊ ऽहम अप्लवः सागरे यथा

24

ईदृशैर यद्य अहं दुःखैर न विनश्यामि संजय

वज्राद दृढतरं मन्ये हृदयं मम दुर्भिदम

25

जञातिसंबन्धिमित्राणाम इमं शरुत्वा पराजयम

कॊ मद अन्यः पुमाँल लॊके न जह्यात सूत जीवितम

26

विषम अग्निं परपातं वा पर्वताग्राद अहं वृणे

न हि शक्ष्यामि दुःखानि सॊढुं कष्टानि संजय

27

[स]

शरिया कुलेन यशसा तपसा च शरुतेन च

तवाम अद्य सन्तॊ मन्यन्ते ययातिम इव नाहुषम

28

शरुते महर्षिप्रतिमः कृतकृत्यॊ ऽसि पार्थिव

पर्यवस्थापयात्मानं मा विषादे मनः कृथाः

29

[धृ]

दैवम एव परं मन्ये धिक पौरुषम अनर्थकम

यत्र राम परतीकाशः कर्णॊ ऽहन्यत संयुगे

30

हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान

परताप्य शरवर्षेण दिशः सर्वा महारथः

31

मॊहयित्वा रणे पार्थान वज्रहस्त इवासुरान

स कथं निहतः शेते वातरुग्ण इव दरुमः

32

शॊकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः

चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते

33

कर्णस्य निधनं शरुत्वा विजयं फल्गुनस्य च

अश्रद्धेयम अहं मन्ये वधं कर्णस्य संजय

34

वज्रसार मयं नूनं हृदयं सुदृढं मम

यच छरुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते

35

आयुर नूनं सुदीर्घं मे विहितं दैवतैः पुरा

यत्र कर्णं हतं शरुत्वा जीवामीह सुदुःखितः

36

धिग जीवितम इदं मे ऽदय सुहृद धीनस्य संजय

अद्य चाहं दशाम एतां गतः संजय गर्हिताम

कृपणं वर्तयिष्यामि शॊच्यः सर्वस्य मन्दधीः

37

अहम एव पुरा भूत्वा सर्वलॊकस्य सत्कृतः

परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम

दुःखात सुदुःखं वयसनं पराप्तवान अस्मि संजय

38

तस्माद भीष्म वधे चैव दरॊणस्य च महात्मनः

नात्र शेषं परपश्यामि सूतपुत्रे हते युधि

39

स हि पारं महान आसीत पुत्राणां मम संजय

युद्धे विनिहतः शूरॊ विसृजन सायकान बहून

40

कॊ हि मे जीवितेनार्थस तम ऋते पुरुषर्षभम

रथाद अतिरथॊ नूनम अपतत सायकार्दितः

41

पर्वतस्येव शिखरं वज्रपात विदारितम

शयीत पृथिवीं नूनं शॊभयन रुधिरॊक्षितः

मातङ्ग इव मत्तेन मातङ्गेन निपातितः

42

यद बलं धार्तराष्ट्राणां पाण्डवानां यतॊ भयम

सॊ ऽरजुनेन हतः कर्णः परतिमानं धनुष्मताम

43

स हि वीरॊ महेष्वासः पुत्राणाम अभयंकरः

शेते विनिहतॊ वीरः शक्रेणेव यथाबलः

44

पङ्गॊर इवाध्व गमनं दरिद्रस्येव कामितम

दुर्यॊधनस्य चाकूतं तृषितस्येव पिप्लुकाः

45

अन्यथा चिन्तितं कार्यम अन्यथा तत तु जायते

अहॊ नु बलवद दैवं कालश च दुरतिक्रमः

46

पलायमानः कृपणं दीनात्मा दीनपौरुषः

कच चिन न निहतः सूतपुत्रॊ दुःशासनॊ मम

47

कच चिन न नीचाचरितं कृतवांस तात संयुगे

कच चिन न निहतः शूरॊ यथा न कषत्रिया हताः

48

युधिष्ठिरस्य वचनं मा युद्धम इति सर्वदा

दुर्यॊधनॊ नाभ्यगृह्णान मूढः पथ्यम इवौषधम

49

शरतल्पे शयानेन भीष्मेण सुमहात्मना

पानीयं याचितः पार्थः सॊ ऽविध्यन मेदिनी तलम

50

जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह

अब्रवीत स महाबाहुस तात संशाम्य पाण्डवैः

51

परशमाद धि भवेच छान्तिर मदन्तं युद्धम अस्तु च

भरातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह

52

अकुर्वन वचनं तस्य नूनं शॊचति मे सुतः

तद इदं समनुप्राप्तं वचनं दीर्घदर्शिनः

53

अहं तु निहतामात्यॊ हतपुत्रश च संजय

दयूततः कृच्छ्रम आपन्नॊ लूनपक्ष इव दविजः

54

यथा हि शकुनिं गृह्य छित्वा पक्षौ च संजय

विसर्जयन्ति संहृष्टाः करीडमानाः कुमारकाः

55

छिन्नपक्षतया तस्य गमनं नॊपपद्यते

तथाहम अपि संप्राप्तॊ लूनपक्ष इव दविजः

56

कषीणः सर्वार्थहीनश च निर्बन्धुर जञातिवर्जितः

कां दिशं परतिपत्स्यामि दीनः शत्रुवशं गतः

57

दुर्यॊधनस्य वृद्ध्यर्थं पृथिवीं यॊ ऽजयत परभुः

स जितः पाण्डवैः शूरैः समर्थैर वीर्यशालिभिः

58

तस्मिन हते महेष्वासे कर्णे युधि किरीटिना

के वीराः पर्यवर्तन्त तन ममाचक्ष्व संजय

59

कच चिन नैकः परित्यक्तः पाण्डवैर निहतॊ रणे

उक्तं तवया पुरा वीर यथा वीरा निपातिताः

60

भीष्मम अप्रतियुध्यन्तं शिखण्डी सायकॊत्तमैः

पातयाम आस समरे सर्वशस्त्रभृतां वरम

61

तथा दरौपदिना दरॊणॊ नयस्तसर्वायुधॊ युधि

युक्तयॊगॊ महेष्वासः शरैर बहुभिर आचितः

निहतः खड्गम उद्यम्य धृष्टद्युम्नेन संजय

62

अन्तरेण हताव एतौ छलेन च विशेषतः

अश्रौषम अहम एतद वै भीष्मद्रॊणौ निपातितौ

63

भीष्मद्रॊणौ हि समरे न हन्याद वज्रभृत सवयम

नयायेन युध्यमानौ हि तद वै सत्यं बरवीमि ते

64

कर्णं तव अस्यन्तम अस्त्राणि दिव्यानि च बहूनि च

कथम इन्द्रॊपमं वीरं मृत्युर युद्धे समस्पृशत

65

यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम

परायच्छद दविषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः

66

यस्य सर्पमुखॊ दिव्यः शरः कनकभूषणः

अशेत निहतः पत्री चन्दनेष्व अरिसूदनः

67

भीष्मद्रॊणमुखान वीरान यॊ ऽवमन्य महारथान

जामदग्न्यान महाघॊरं बराह्मम अस्त्रम अशिक्षत

68

यश च दरॊण मुखान दृष्ट्वा विमुखान अर्दिताञ शरैः

सौभद्रस्य महाबाहुर वयधमत कार्मुकं शरैः

69

यश च नागायुत पराणं वातरंहसम अच्युतम

विरथं भरातरं कृत्वा भीमसेनम उपाहसत

70

सहदेवं च निर्जित्य शरैः संनतपर्वभिः

कृपया विरथं कृत्वा नाहनद धर्मवित्तया

71

यश च माया सहस्राणि धवंसयित्वा रणॊत्कटम

घटॊत्कचं राक्षसेन्द्रं शक्र शक्त्याभिजघ्निवान

72

एतानि दिवसान्य अस्य युद्धे भीतॊ धनंजयः

नागमद दवैरथं वीरः स कथं निहतॊ रणे

73

रथसङ्गॊ न चेत तस्य धनुर वा न वयशीर्यत

न चेद अस्त्राणि निर्णेशुः स कथं निहतः परैः

74

कॊ हि शक्तॊ रणे कर्णं विधुन्वानं महद धनुः

विमुञ्चन्तं शरान घॊरान दिव्यान्य अस्त्राणि चाहवे

जेतुं पुरुषशार्दूलं शार्दूलम इव वेगितम

75

धरुवं तस्य धनुश छिन्नं रथॊ वापि गतॊ महीम

अस्त्राणि वा परनष्टानि यथा शंससि मे हतम

न हय अन्यद अनुपश्यामि कारणं तस्य नाशने

76

न हन्याम अर्जुनं यावत तावत पादौ न धावये

इति यस्य महाघॊरं वरतम आसीन महात्मनः

77

यस्य भीतॊ वने नित्यं धर्मराजॊ युधिष्ठिरः

तरयॊदश समा निद्रां न लेभे पुरुषर्षभः

78

यस्य वीर्यवतॊ वीर्यं समाश्रित्य महात्मनः

मम पुत्रः सभां भार्यां पाण्डूनां नीतवान बलात

79

तत्र चापि सभामध्ये पाण्डवानां च पश्यताम

दासभार्येति पाञ्चालीम अब्रवीत कुरुसंसदि

80

यश च गाण्डीवमुक्तानां सपर्शम उग्रम अचिन्तयन

अपतिर हय असि कृष्णेति बरुवन पार्थान अवैक्षत

81

यस्य नासीद भयं पार्थैः सपुत्रैः सजनार्दनैः

सवबाहुबलम आश्रित्य मुहूर्तम अपि संजय

82

तस्य नाहं वधं मन्ये देवैर अपि स वासवैः

परतीपम उपधावद्भिः किं पुनस तात पाण्डवैः

83

न हि जयां सपृशमानस्य तलत्रे चापि गृह्णतः

पुमान आधिरथेः कश चित परमुखे सथातुम अर्हति

84

अपि सयान मेदिनी हीना सॊमसूर्यप्रभांशुभिः

न वधः पुरुषेन्द्रस्य समरेष्व अपलायिनः

85

यदि मन्दः सहायेन भरात्रा दुःशासनेन च

वासुदेवस्य दुर्बुद्धिः परत्याख्यानम अरॊचयत

86

स नूनम ऋषभस्कन्धं दृष्ट्वा कर्णं निपातितम

दुःशासनं च निहतं मन्ये शॊचति पुत्रकः

87

हतं वैकर्तनं शरुत्वा दवैरथे सव्यसाचिना

जयतः पाण्डवान दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत

88

दुर्मर्षणं हतं शरुत्वा वृषसेनं च संयुगे

परभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः

89

पराङ्मुखांस तथा राज्ञः पलायनपरायणान

विद्रुतान रथिनॊ दृष्ट्वा मन्ये शॊचति पुत्रकः

90

अनेयश चाभिमानेन बाल बुद्धिर अमर्षणः

हतॊत्साहं बलं दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत

91

भरातरं निहतं दृष्ट्वा भीमसेनेन संयुगे

रुधिरं पीयमानेन किंस्विद दुर्यॊधनॊ ऽबरवीत

92

सह गान्धारराजेन सभायां यद अभाषत

कर्णॊ ऽरजुनं रणे हन्ता हते तस्मिन किम अब्रवीत

93

दयूतं कृत्वा पुरा हृष्टॊ वञ्चयित्वा च पाण्डवान

शकुनिः सौबलस तात हते कर्णे किम अब्रवीत

94

कृतवर्मा महेष्वासः सात्वतानां महारथः

कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किम अभाषत

95

बराह्मणाः कषत्रिया वैश्या यस्य शिक्षाम उपासते

धनुर्वेदं चिकीर्षन्तॊ दरॊणपुत्रस्य धीमतः

96

युवा रूपेण संपन्नॊ दर्शनीयॊ महायशाः

अश्वत्थामा हते कर्णे किम अभाषत संजय

97

आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित

कृपः शारद्वतस तात हते कर्णे किम अब्रवीत

98

मद्रराजॊ महेष्वासः शल्यः समितिशॊभनः

दिष्टं तेन हि तत सर्वं यथा कर्णॊ निपातितः

99

ये च के चन राजानः पृथिव्यां यॊद्धुम आगताः

वैकर्तनं हतं दृष्ट्वा किम अभाषन्त संजय

100

कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे

किं वॊ मुखम अनीकानाम आसीत संजय भागशः

101

मद्रराजः कथं शल्यॊ नियुक्तॊ रथिनां वरः

वैकर्तनस्य सारथ्ये तन ममाचक्ष्व संजय

102

के ऽरक्षन दक्षिणं चक्रं सूतपुत्रस्य संयुगे

वामं चक्रं ररक्षुर वा के वा वीरस्य पृष्ठतः

103

के कर्णं वाजहुः शूराः के कषुद्राः पराद्रवन भयात

कथं च वः समेतानां हतः कर्णॊ महारथः

104

पाण्डवाश च कथं शूराः परत्युदीयुर महारथम

सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम

105

स च सर्पमुखॊ दिव्यॊ महेषु परवरस तदा

वयर्थः कथं समभवत तन ममाचक्ष्व संजय

106

मामकस्यास्य सैन्यस्य हृतॊत्सेधस्य संजय

अवशेषं न पश्यामि ककुदे मृदिते सति

107

तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ

भीष्मद्रॊणौ हतौ शरुत्वा कॊ नव अर्थॊ जीवितेन मे

108

न मृष्यामि च राधेयं हतम आहवशॊभिनम

यस्य बाह्वॊर बलं तुल्यं कुञ्जराणां शतं शतम

109

दरॊणे हते च यद्वृत्तं कौरवाणां परैः सह

संग्रामे नरवीराणां तन ममाचक्ष्व संजय

110

यथा च कर्णः कौन्तेयैः सह युद्धम अयॊजयत

यथा च दविषतां हन्ता रणे शान्तस तद उच्यताम

1

[j]

śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ

narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt

2

prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat

tasmin yad uktavān kāle tan mamācakṣva pṛcchata

3

[vai]

śrutvā karṇasya nidhanam aśraddheyam ivādbhutam

bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā

4

cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ

parājayam ivendrasya dviṣadbhyo bhīmakarmaṇa

5

divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ

saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasa

6

mahī viyad dig īśānāṃ sarvanāśam ivādbhutam

karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayo

7

saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ

nedam astīti saṃcintya karṇasya nidhanaṃ prati

8

prāṇinām etad ātmatvāt syād apīti vināśanam

śokāgninā dahyamāno dhamyamāna ivāśaya

9

vidhvastātmā śvasan dīno hāhety uktvā suduḥkhitaḥ

vilalāpa mahārāja dhṛtarāṣṭro 'mbikā suta

10

[dhṛ]

saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ

vṛṣam apratimaskandho vṛṣabhākṣa gatisvana

11

vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate

śatror api mahendrasya vajrasaṃhanano yuvā

12

yasya jyātalaśabdena śaravṛṣṭiraveṇa ca

rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge

13

yam āśritya mahābāhuṃ dviṣat saṃghaghnam acyutam

duryodhano 'karod vairaṃ pāṇḍuputrair mahābalai

14

sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge

nihataḥ puruṣavyāghraḥ prasahyāsahya vikrama

15

yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam

na vṛṣṇn api tān anyān svabāhubalam āśrita

16

ś
rṅgagāṇḍīvadhanvānau sahitāv aparājitau

ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge

17

iti yaḥ satataṃ mandam avocal lobhamohitam

duryodhanam apādīnaṃ rājyakāmukam ātulam

18

yaś cājaiṣīd atibalān amitrān api durjayān

gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān

19

pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān

suhyān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅga kīcakān

20

vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā

yo jitvā samare vīraś cakre balibhṛtaḥ purā

21

uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ

varo mahendro devānāṃ karṇaḥ praharatāṃ vara

22

yaṃ labdhvā māgadho rājā sāntvamānārtha gauravaiḥ

arautsīt pārthivaṃ kṣatram ṛte kaurava yādavān

23

taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā

śokārṇave nimagno 'ham aplavaḥ sāgare yathā

24

dṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya

vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam

25

jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam

ko mad anyaḥ pumāṁl loke na jahyāt sūta jīvitam

26

viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe

na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya

27

[s]

śriyā kulena yaśasā tapasā ca śrutena ca

tvām adya santo manyante yayātim iva nāhuṣam

28

rute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva

paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ

29

[dhṛ]

daivam eva paraṃ manye dhik pauruṣam anarthakam

yatra rāma pratīkāśaḥ karṇo 'hanyata saṃyuge

30

hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān

pratāpya śaravarṣeṇa diśaḥ sarvā mahāratha

31

mohayitvā raṇe pārthān vajrahasta ivāsurān

sa kathaṃ nihataḥ śete vātarugṇa iva druma

32

okasyāntaṃ na paśyāmi samudrasyeva viplukāḥ

cintā me vardhate tīvrā mumūrṣā cāpi jāyate

33

karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca

aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya

34

vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama

yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate

35

yur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā

yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhita

36

dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya

adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām

kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ

37

aham eva purā bhūtvā sarvalokasya satkṛtaḥ

paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum

duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya

38

tasmād bhīṣma vadhe caiva droṇasya ca mahātmanaḥ

nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi

39

sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya

yuddhe vinihataḥ śūro visṛjan sāyakān bahūn

40

ko hi me jīvitenārthas tam ṛte puruṣarṣabham

rathād atiratho nūnam apatat sāyakārdita

41

parvatasyeva śikharaṃ vajrapāta vidāritam

śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ

mātaṅga iva mattena mātaṅgena nipātita

42

yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam

so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām

43

sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ

śete vinihato vīraḥ śakreṇeva yathābala

44

paṅgor ivādhva gamanaṃ daridrasyeva kāmitam

duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ

45

anyathā cintitaṃ kāryam anyathā tat tu jāyate

aho nu balavad daivaṃ kālaś ca duratikrama

46

palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ

kac cin na nihataḥ sūtaputro duḥśāsano mama

47

kac cin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge

kac cin na nihataḥ śūro yathā na kṣatriyā hatāḥ

48

yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā

duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham

49

aratalpe śayānena bhīṣmeṇa sumahātmanā

pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinī talam

50

jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha

abravīt sa mahābāhus tāta saṃśāmya pāṇḍavai

51

praśamād dhi bhavec chāntir madantaṃ yuddham astu ca

bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha

52

akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ

tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśina

53

ahaṃ tu nihatāmātyo hataputraś ca saṃjaya

dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvija

54

yathā hi śakuniṃ gṛhya chitvā pakṣau ca saṃjaya

visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ

55

chinnapakṣatayā tasya gamanaṃ nopapadyate

tathāham api saṃprāpto lūnapakṣa iva dvija

56

kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ

kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gata

57

duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ

sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhi

58

tasmin hate maheṣvāse karṇe yudhi kirīṭinā

ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya

59

kac cin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe

uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ

60

bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ

pātayām āsa samare sarvaśastrabhṛtāṃ varam

61

tathā draupadinā droṇo nyastasarvāyudho yudhi

yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ

nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya

62

antareṇa hatāv etau chalena ca viśeṣataḥ

aśrauṣam aham etad vai bhīṣmadroṇau nipātitau

63

bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam

nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te

64

karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca

katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat

65

yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām

prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdara

66

yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ

aśeta nihataḥ patrī candaneṣv arisūdana

67

bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān

jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata

68

yaś ca droṇa mukhān dṛṣṭvā vimukhān arditāñ śaraiḥ

saubhadrasya mahābāhur vyadhamat kārmukaṃ śarai

69

yaś ca nāgāyuta prāṇaṃ vātaraṃhasam acyutam

virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat

70

sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ

kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā

71

yaś ca māyā sahasrāṇi dhvaṃsayitvā raṇotkaṭam

ghaṭotkacaṃ rākṣasendraṃ śakra śaktyābhijaghnivān

72

etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ

nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe

73

rathasaṅgo na cet tasya dhanur vā na vyaśīryata

na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ parai

74

ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ

vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave

jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam

75

dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm

astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam

na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane

76

na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye

iti yasya mahāghoraṃ vratam āsīn mahātmana

77

yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ

trayodaśa samā nidrāṃ na lebhe puruṣarṣabha

78

yasya vīryavato vīryaṃ samāśritya mahātmanaḥ

mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt

79

tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām

dāsabhāryeti pāñcālīm abravīt kurusaṃsadi

80

yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan

apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata

81

yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ

svabāhubalam āśritya muhūrtam api saṃjaya

82

tasya nāhaṃ vadhaṃ manye devair api sa vāsavaiḥ

pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavai

83

na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ

pumān ādhiratheḥ kaś cit pramukhe sthātum arhati

84

api syān medinī hīnā somasūryaprabhāṃśubhiḥ

na vadhaḥ puruṣendrasya samareṣv apalāyina

85

yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca

vāsudevasya durbuddhiḥ pratyākhyānam arocayat

86

sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam

duḥśāsanaṃ ca nihataṃ manye śocati putraka

87

hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā

jayataḥ pāṇḍavān dṛṣṭvā kiṃsvid duryodhano 'bravīt

88

durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge

prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathai

89

parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān

vidrutān rathino dṛṣṭvā manye śocati putraka

90

aneyaś cābhimānena bāla buddhir amarṣaṇaḥ

hatotsāhaṃ balaṃ dṛṣṭvā kiṃsvid duryodhano 'bravīt

91

bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge

rudhiraṃ pīyamānena kiṃsvid duryodhano 'bravīt

92

saha gāndhārarājena sabhāyāṃ yad abhāṣata

karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt

93

dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān

śakuniḥ saubalas tāta hate karṇe kim abravīt

94

kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ

karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata

95

brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate

dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmata

96

yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ

aśvatthāmā hate karṇe kim abhāṣata saṃjaya

97

cāryatvaṃ dhanurvede gataḥ paramatattvavit

kṛpaḥ śāradvatas tāta hate karṇe kim abravīt

98

madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ

diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātita

99

ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ

vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya

100

karṇe tu nihate vīre rathavyāghre nararṣabhe

kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśa

101

madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ

vaikartanasya sārathye tan mamācakṣva saṃjaya

102

ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge

vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhata

103

ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt

kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahāratha

104

pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham

sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam

105

sa ca sarpamukho divyo maheṣu pravaras tadā

vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya

106

māmakasyāsya sainyasya hṛtotsedhasya saṃjaya

avaśeṣaṃ na paśyāmi kakude mṛdite sati

107

tau hi vīrau maheṣvāsau madarthe kurusattamau

bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me

108

na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam

yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ ataṃ śatam

109

droṇe hate ca yadvṛttaṃ kauravāṇāṃ paraiḥ saha

saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya

110

yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat

yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām
kama sutra vatsyayana| kama sutra vatsyayana
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 5