Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 24

Book 8. Chapter 24

The Mahabharata In Sanskrit


Book 8

Chapter 24

1

[दुर]

भूय एव तु मद्रेश यत ते वक्ष्यामि तच छृणु

यथा पुरावृत्तम इदं युद्धे देवासुरे विभॊ

2

यद उक्तवान पितुर मह्यं मार्कण्डेयॊ महान ऋषिः

तद अशेषेण बरुवतॊ मम राजर्षिसत्तम

तवं निबॊध न चाप्य अत्र कर्तव्या ते विचारणा

3

देवानाम असुराणां च महान आसीत समागमः

बभूव परथमॊ राजन संग्रामस तारका मयः

निर्जिताश च तदा दैत्या दैवतैर इति नः शरुतम

4

निर्जितेषु च दैत्येषु तारकस्य सुतास तरयः

ताराक्षः कमलाक्षश च विद्युन्माली च पार्थिव

5

तप उग्रं समास्थाय नियमे परमे सथिताः

तपसा कर्शयाम आसुर देहान सवाञ शत्रुतापन

6

दमेन तपसा चैव नियमेन च पार्थिव

तेषां पितामहः परीतॊ वरदः परददौ वरान

7

अवध्यत्वं च ते राजन सर्वभूतेषु सर्वदा

सहिता वरयाम आसुः सर्वलॊकपितामहम

8

तान बरवीत तदा देवॊ लॊकानां परभुर ईश्वरः

नास्ति सर्वामरत्वं हि निवर्तध्वम अतॊ ऽसुराः

वरम अन्यं वृणीध्वं वै यादृशं संप्ररॊचते

9

ततस ते सहिता राजन संप्रधार्यासकृद बहु

सर्वलॊकेश्वरं वाक्यं परणम्यैनम अथाब्रुवन

10

अस्माकं तवं वरं देव परयच्छेमं पितामह

वयं पुराणि तरीण्य एव समास्थाय महीम इमाम

विचरिष्याम लॊके ऽसमिंस तवत्प्रसाद पुरस्कृताः

11

ततॊ वर्षसहस्रे तु समेष्यामः परस्परम

एकीभावं गमिष्यन्ति पुराण्य एतानि चानघ

12

समागतानि चैतानि यॊ हन्याद भगवंस तदा

एकेषुणा देववरः स नॊ मृत्युर भविष्यति

एवम अस्त्व इति तान देवः परत्युक्त्वा पराविशद दिवम

13

ते तु लब्धवराः परीताः संप्रधार्य परस्परम

पुरत्रय विसृष्ट्य अर्थं मयं वव्रुर महासुरम

विश्वकर्माणम अजरं दैत्यदानव पूजितम

14

ततॊ मयः सवतपसा चक्रे धीमान पुराणि ह

तरीणि काञ्चनम एकं तु रौप्यं कार्ष्णायसं तथा

15

काञ्चनं दिवि तत्रासीद अन्तरिक्षे च राजतम

आयसं चाभवद भूमौ चक्रस्थं पृथिवीपते

16

एकैकं यॊजनशतं विस्तारायाम संमितम

गृहाट्टाट्टालक युतं बृहत पराकारतॊरणम

17

गुणप्रसव संबाधम असंबाधम अनामयम

परासादैर विविधैश चैव दवारैश चाप्य उपशॊभितम

18

पुरेषु चाभवन राजन राजानॊ वै पृथक पृथक

काञ्चनं तारकाक्षस्य चित्रम आसीन महात्मनः

राजतं कमलाक्षस्य विद्युन्मालिन आयसम

19

तरयस ते दैत्य राजानस तरीँल लॊकान आशु तेजसा

आक्रम्य तस्थुर वर्षाणां पूगान नाम परजापतिः

20

तेषां दानवमुख्यानां परयुतान्य अर्बुदानि च

कॊट्यश चाप्रतिवीराणां समाजग्मुस ततस ततः

महद ऐश्वर्यम इच्छन्तस तरिपुरं दुर्गम आश्रिताः

21

सर्वेषां च पुनस तेषां सर्वयॊगवहॊ मयः

तम आश्रित्य हि ते सर्वे अवर्तन्ताकुतॊ भयाः

22

यॊ हि यं मनसा कामं दध्यौ तरिपुरसंश्रयः

तस्मै कामं मयस तं तं विदधे मायया तदा

23

तारकाक्ष सुतश चासीद धरिर नाम महाबलः

तपस तेपे परमकं येनातुष्यत पितामहः

24

स तुष्टम अवृणॊद देवं वापी भवतु नः पुरे

शस्त्रैर विनिहता यत्र कषिप्ताः सयुर बलवत्तराः

25

स तु लब्ध्वा वरं वीरस तारकाक्ष सुतॊ हरिः

ससृजे तत्र वापीं तां मृतानां जीवनीं परभॊ

26

येन रूपेण दैत्यस तु येन वेषेण चैव ह

मृतस तस्यां परिक्षिप्तस तादृशेनैव जज्ञिवान

27

तां पराप्य तरैपुरस्थास तु सर्वाँल लॊकान बबाधिरे

महता तपसा सिद्धाः सुराणां भयवर्धनाः

न तेषाम अभवद राजन कषयॊ युद्धे कथं चन

28

ततस ते लॊभमॊहाभ्याम अभिभूता विचेतसः

निर्ह्रीकाः संस्थितिं सर्वे सथापितां समलूलुपन

29

विद्राव्य सगणान देवांस तत्र तत्र तदा तदा

विचेरुः सवेन कामेन वरदानेन दर्पिताः

30

देवारण्यानि सर्वाणि परियाणि च दिवौकसाम

ऋषीणाम आश्रमान्पुण्यान यूपाञ्जन पदांस तथा

वयनाशयन्त मर्यादा दानवा दुष्टचारिणः

31

ते देवाः सहिताः सर्वे पितामहम अरिंदम

अभिजग्मुस तदाख्यातुं विप्र कारं सुरेतरैः

32

ते तत्त्वं सर्वम आख्याय शिरसाभिप्रणम्य च

वधॊपायमपृच्छन्त भगवन्तं पितामहम

33

शरुत्वा तद भगवान देवॊ देवान इदम उवाच ह

असुराश च दुरात्मानस ते चापि विभुध दविषः

अपराध्यन्ति सततं ये युष्मान पीडयन्त्य उत

34

अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः

अधार्मिकास तु हन्तव्या इत्य अहं परब्रवीमि वः

35

ते यूयं सथाणुम ईशानं जिष्णुम अक्लिष्टकारिणम

यॊद्धारं वृणुतादित्याः स तान हन्ता सुरेतरान

36

इति तस्य वचः शरुत्वा देवाः शक्रपुरॊगमाः

बरह्माणम अग्रतः कृत्वा वृषाङ्कं शरणं ययुः

37

तपः परं समातस्थुर गृणन्तॊ बरह्म शाश्वतम

ऋषिभिः सहधर्मज्ञा भवं सर्वात्मना गताः

38

तुष्टुवुर वाग्भिर अर्थ्याभिर भयेष्व अभयकृत्तमम

सर्वात्मानं महात्मानं येनाप्तं सर्वम आत्मना

39

तपॊ विशेषैर बहुभिर यॊगं यॊ वेद चात्मनः

यः सांख्यम आत्मनॊ वेद यस्य चात्मा वशे सदा

40

ते तं ददृशुर ईशानं तेजॊराशिम उमापतिम

अनन्यसदृशं लॊके वरतवन्तम अकल्मषम

41

एकं च भगवन्तं ते नानारूपम अकल्पयन

आत्मनः परतिरूपाणि रूपाण्य अथ महात्मनि

परस्परस्य चापश्यन सर्वे परमविस्मिताः

42

सर्वभूतमयं चेशं तम अजं जगतः पतिम

देवा बरह्मर्षयश चैव शिरॊभिर धरणीं गताः

43

तान सवस्ति वाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः

बरूत बरूतेति भगवान समयमानॊ ऽभयभाषत

44

तर्यम्बकेणाभ्यनुज्ञातास ततस ते ऽसवस्थचेतसः

नमॊ नमस ते ऽसतु विभॊ तत इत्य अब्रुवन भवम

45

नमॊ देवातिदेवाय धन्विने चातिमन्यवे

परजापतिमखघ्नाय परजापतिभिर ईड्यसे

46

नमः सतुताय सतुत्याय सतूयमानाय मृत्यवे

विलॊहिताय रुद्राय नीलग्रीवाय शूलिने

47

अमॊघाय मृगाक्षाय परवरायुध यॊधिने

दुर्वारणाय शुक्राय बरह्मणे बरह्मचारिणे

48

ईशानायाप्रमेयाय नियन्त्रे चर्म वाससे

तपॊनित्याय पिङ्गाय वरतिने कृत्ति वाससे

49

कुमार पित्रे तर्यक्षाय परवरायुध धारिणे

परपन्नार्ति विनाशाय बरह्म दविट संघघातिने

50

वनस्पतीनां पतये नराणां पतये नमः

गवां च पतये नित्यं यज्ञानां पतये नमः

51

नमॊ ऽसतु ते ससैन्याय तर्यम्बकायॊग्र तेजसे

मनॊवाक कर्मभिर देव तवां परपन्नान भजस्व नः

52

ततः परसन्नॊ भगवान सवागतेनाभिनन्द्य तान

परॊवाच वयेतु वस्त्रासॊ बरूत किं करवाणि वः

53

पितृदेवर्षिसंघेभ्यॊ वरे दत्ते महात्मना

सत्कृत्य शंकरं पराह बरह्मा लॊकहितं वचः

54

तवातिसर्गाद देवेश पराजापत्यम इदं पदम

मयाधितिष्ठता दत्तॊ दानवेभ्यॊ महान वरः

55

तान अतिक्रान्त मर्यादान नान्यः संहर्तुम अर्हति

तवाम ऋते भूतभव्येश तवं हय एषां परत्य अरिर वधे

56

स तवं देव परपन्नानां याचतां च दिवौकसाम

कुरु परसादं देवेश दानवाञ जहि शूलभृत

57

[भग]

हन्तव्याः शत्रवः सर्वे युष्माकम इति मे मतिः

न तव एकॊ ऽहं वधे तेषां समर्थॊ वै सुरद्विषाम

58

ते यूयं सहिताः सर्वे मदीयेनास्त्र तेजसा

जयध्वं युधि ताञ शत्रून संघातॊ हि महाबलः

59

[देवाह]

अस्मत तेजॊबलं यावत तावद दविगुणम एव च

तेषाम इति ह मन्यामॊ दृष्टतेजॊबला हि ते

60

[भग]

वध्यास ते सर्वतः पापा ये युष्मास्व अपराधिनः

मम तेजॊबलार्धेन सर्वांस तान घनत शात्रवान

61

[देवाह]

बिभर्तुं तेजसॊ ऽरधं ते न शक्ष्यामॊ महेश्वर

सर्वेषां नॊ बलार्धेन तवम एव जहि शात्रवान

62

[दुर]

ततस तथेति देवेशस तैर उक्तॊ राजसत्तम

अर्धम आदाय सर्वेभ्यस तेजसाभ्यधिकॊ ऽभवत

63

स तु देवॊ बलेनासीत सर्वेभ्यॊ बलवत्तरः

महादेव इति खयातस तदा परभृति शंकरः

64

ततॊ ऽबरवीन महादेवॊ धनुर बाणधरस तव अहम

हनिष्यामि रथेनाजौ तान रिपून वै दिवौकसः

65

ते यूयं मे रथं चैव धनुर बाणं तथैव च

पश्यध्वं यावद अद्यैतान पातयामि महीतले

66

[देवाह]

मूर्ति सर्वस्वम आदाय तरैलॊक्यस्य ततस ततः

रथं ते कल्पयिष्याम देवेश्वर महौजसम

67

तथैव बुद्ध्या विहितं विश्वकर्म कृतं शुभम

ततॊ विबुधशार्दूलास तं रथं समकल्पयन

68

वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम

सपर्वतवनद्वीपां चक्रूर भूतधरां तदा

69

मन्दरं पर्वतं चाक्षं जङ्घास तस्य महानदीः

दिशश च परदिशश चैव परिवारं रथस्य हि

70

अनुकर्षान गरहान दीप्तान वरूथं चापि तारकाः

धर्मार्थकामसंयुक्तं तरिवेणुं चापि बन्धुरम

ओषधीर विविधास तत्र नानापुष्पफलॊद्गमाः

71

सूर्या चन्द्रमसौ कृत्वा चक्रे रथवरॊत्तमे

पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे

72

दशनागपतीनीषाम धृतराष्ट्र मुखान दृढाम

दयां युगं युगचर्माणि संवर्तक बलाहकान

73

शम्यां धृतिं च मेघां च सथितिं संनतिम एव च

गरहनक्षत्रताराभिश चर्म चित्रं नभस्तलम

74

सुराम्बुप्रेतवित्तानां पतीँल लॊकेश्वरान हयान

सिनीवालीम अनुमतिं कुहूं राकां च सुव्रताम

यॊक्त्राणि चक्रुर वाहानां रॊहकांश चापि कण्ठकम

75

कर्म सत्यं तपॊ ऽरथश च विहितास तत्र रश्मयः

अधिष्ठानं मनस तव आसीत परिरथ्यं सरस्वती

76

नानावर्णाश च चित्राश च पताकाः पवनेरिताः

विद्युद इन्द्र धनुर नद्धं रथं दीप्तं वयदीपयत

77

एवं तस्मिन महाराज कल्पिते रथसत्तमे

देवैर मनुजशार्दूल दविषताम अभिमर्दने

78

सवान्य आयुधानि मुख्यानि नयदधाच छंकरॊ रथे

रथयष्टिं वियत कृष्टां सथापयाम आस गॊवृषम

79

बरह्मदण्डः कालदण्डॊ रुद्र दण्डस तथा जवरः

परिस्कन्दा रथस्यास्य सर्वतॊदिशम उद्यताः

80

अथर्वाङ्गिरसाव आस्तां चक्ररक्षौ महात्मनः

ऋग्वेदः सामवेदश च पुराणं च पुरःसराः

81

इतिहास यजुर्वेदौ पृष्ठरक्षौ बभूवतुः

दिव्या वाचश च विद्याश च परिपार्श्व चराः कृताः

82

तॊत्त्रादयश च राजेन्द्र वषट्कारस तथैव च

ओंकारश च मुखे राजन्न अतिशॊभा करॊ ऽभवत

83

विचित्रम ऋतुभिः षड्भिः कृत्वा संवत्सरं धनुः

तस्मान नॄणां कालरात्रिर जया कृता धनुषॊ ऽजरा

84

इषुश चाप्य अभवद विष्णुर जवलनः सॊम एव च

अग्नी षॊमौ जगत कृत्स्नं वैष्णवं चॊच्यते जगत

85

विष्णुश चात्मा भगवतॊ भवस्यामित तेजसः

तस्माद धनुर्ज्या संस्पर्शं न विषेहुर हरस्य ते

86

तस्मिञ शरे तिग्ममन्युर मुमॊचाविषहं परभुः

भृग्वङ्गिरॊ मन्युभवं करॊधाग्निम अतिदुःसहम

87

स नीललॊहितॊ धूम्रः कृत्तिवासा भयंकरः

आदित्यायुत संकाशस तेजॊ जवालावृतॊ जवलन

88

दुश्च्यावश चयावनॊ जेता हन्ता बरह्म दविषां हरः

नित्यं तराता च हन्ता च धर्माधर्माश्रिताञ जनान

89

परमाथिभिर घॊररूपैर भीमॊदग्रैर गणैर वृतः

विभाति भगवान सथाणुस तैर एवात्म गुणैर वृतः

90

तस्याङ्गानि समाश्रित्य सथितं विश्वम इदं जगत

जङ्गमाजङ्गमं राजञ शुशुभे ऽदभुतदर्शनम

91

दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी

बाणम आदत्त तं दिव्यं सॊमविष्ण्व अग्निसंभवम

92

तस्य वाजांस ततॊ देवाः कल्पयां चक्रिरे विभॊः

पुण्यगन्धवहं राजञ शवसनं राजसत्तम

93

तम आस्थाय महादेवस तरासयन दैवतान्य अपि

आरुरॊह तदा यत्तः कम्पयन्न इव रॊदसी

94

स शॊभमानॊ वरदः खड्गी बाणी शरासनी

हसन्न इवारवीद देवॊ सारथिः कॊ भविष्यति

95

तम अब्रुवन देवगणा यं भवान संनियॊक्ष्यते

स भविष्यति देवेश सारथिस ते न संशयः

96

तान अब्रवीत पुनर देवॊ मत्तः शरेष्ठतरॊ हि यः

तं सारथिं कुरुध्वं मे सवयं संचिन्त्य माचिरम

97

एतच छरुत्वा ततॊ देवा वाक्यम उक्तं महात्मना

गत्वा पितामहं देवं परसाद्यैवं वचॊ ऽबरुवन

98

देव तवयेदं कथितं तरिदशारिनिबर्हणम

तथा च कृतम अस्माभिः परसन्नॊ वृषभध्वजः

99

रथश च विहितॊ ऽसमाभिर विचित्रायुध संवृतः

सारथिं तु न जानीमः कः सयात तस्मिन रथॊत्तमे

100

तस्माद विधीयतां कश चित सारथिर देव सत्तम

सफलां तां गिरं देवकर्तुम अर्हसि नॊ विभॊ

101

एवम अस्मासु हि पुरा भगवन्न उक्तवान असि

हितंकर्तास्मि भवताम इति तत कर्तुम अर्हसि

102

स देव युक्तॊ रथसत्तमॊ नॊ; दुरावरॊ दरावणः शात्रवाणाम

पिनाक पाणिर विहितॊ ऽतर यॊद्धा; विभीषयन दानवान उद्यतॊ ऽसौ

103

तथैव वेदाश चतुरॊ हयाग्र्या; धरा सशैला च रथॊ महात्मन

नक्षत्रवंशॊ ऽनुगतॊ वरूथे; यस्मिन यॊद्धा सारथिनाभिरक्ष्यः

104

तत्र सारथिर एष्टव्यः सर्वैर एतैर विशेषवान

तत परतिष्ठॊ रथॊ देव हया यॊद्धा तथैव च

कवचानि च शस्त्राणि कार्मुकं च पितामह

105

तवाम ऋते सारथिं तत्र नान्यं पश्यामहे वयम

तवं हि सर्वैर गुणैर युक्तॊ देवताभ्यॊ ऽधिकः परभॊ

सारथ्ये तूर्णम आरॊह संयच्छ परमान हयान

106

इति ते शिरसा नत्वा तरिलॊकेशं पितामहम

देवाः परसादयाम आसुः सारथ्यायेति नः शरुतम

107

[बरह्मा]

नात्र किं चिन मृषा वाक्यं यद उक्तं वॊ दिवौकसः

संयच्छामि हयान एष युध्यतॊ वै कपर्दिनः

108

ततः स भगवान देवॊ लॊकस्रष्टा पितामहः

सारथ्ये कल्पितॊ देवैर ईशानस्य महात्मनः

109

तस्मिन्न आरॊहति कषिप्रं सयन्दनं लॊकपूजिते

शिरॊभिर अगमंस तूर्णं ते हया वातरंहसः

110

महेश्वरे तवारुहति जानुभ्याम अगमन महीम

111

अभीशून हि तरिलॊकेशः संगृह्य परपितामहः

तान अश्वांश चॊदयाम आस मनॊमारुतरंहसः

112

ततॊ ऽधिरूढे वरदे परयाते चासुरान परति

साधु साध्व इति विश्वेशः समयमानॊ ऽभयभाषत

113

याहि देव यतॊ दैत्याश चॊदयाश्वान अतन्द्रितः

पश्य बाह्वॊर बलं मे ऽदय निघ्नतः शात्रवान रणे

114

ततस तांश चॊदयाम आस वायुवेगसमाञ्जवे

येन तन्त्रिपुरं राजन दैत्यदानवरक्षितम

115

अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम

युक्त्वा पाशुपतास्त्रेण तरिपुरं समचिन्तयत

116

तस्मिन सथिते तदा राजन करुद्धे विधृत कार्मुके

पुराणि तानि कालेन जग्मुर एकत्वतां तदा

117

एकीभावं गते चैव तरिपुरे समुपागते

बभूव तुमुलॊ हर्षॊ दैवतानां महात्मनाम

118

ततॊ देवगणाः सर्वे सिद्धाश च परमर्षयः

जयेति वाचॊ मुमुचुः संस्तुवन्तॊ मुदान्विताः

119

ततॊ ऽगरतॊ परादुरभूत तरिपुरं जघ्नुषॊ ऽसुरान

अनिर्देश्यॊग्र वपुषॊ देवस्यासह्य तेजसः

120

स तद विकृष्य भगवान दिव्यं लॊकेश्वरॊ धनुः

तरैलॊक्यसारं तम इषुं मुमॊच तरिपुरं परति

तत सासुरगणं दग्ध्वा पराक्षिपत पश्चिमार्णवे

121

एवं तत तरिपुरं दग्धं दानवाश चाप्य अशेषतः

महेश्वरेण करुद्धेन तरैलॊक्यस्य हितैषिणा

122

स चात्मक्रॊधजॊ वह्निर हाहेत्य उक्त्वा निवारितः

मा कार्षीर भस्मसाल लॊकान इति तर्यक्षॊ ऽबरवीच च तम

123

ततः परकृतिम आपन्ना देवा लॊकास तथर्षयः

तुष्टुवुर वाग्भिर अर्थ्याभिः सथाणुम अप्रतिमौजसम

124

ते ऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम

कृतकामाः परसन्नेन परजापतिमुखाः सुराः

125

यथैव भगवान बरह्मा लॊकधाता पिता महः

संयच्छ तवं हयान अस्य राधेयस्य महात्मनः

126

तवं हि कृष्णाच च कर्णाच च फल्गुनाच च विशेषतः

विशिष्टॊ राजशार्दूल नास्ति तत्र विचारणा

127

युद्धे हय अयं रुद्र कल्पस तवं च बरह्म समॊ ऽनघ

तस्माच छक्तौ युवां जेतुं मच्छत्रूंस ताव इवासुरान

128

यथा शल्याद्य कर्णॊ ऽयं शवेताश्वं कृष्णसारथिम

परमथ्य हन्यात कौन्तेयं तथा शीघ्रं विधीयताम

तवयि कर्णश च राज्यं च वयं चैव परतिष्ठिताः

129

इंमं चाप्य अपरं भूय इतिहासं निबॊध मे

पितुर मम सकाशे यं बराह्मणः पराह धर्मवित

130

शरुत्वा चैतद वचश चित्रं हेतुकार्यार्थ संहितम

कुरु शल्य विनिश्चित्य मा भूद अत्र विचारणा

131

भार्गवाणां कुले जातॊ जमद अग्निर महातपाः

तस्य रामेति विख्यातः पुत्रस तेजॊ गुणान्वितः

132

स तीव्रं तप आस्थाय परसादयितवान भवम

अस्त्रहेतॊः परसन्नात्मा नियतः संयतेन्द्रियः

133

तस्य तुष्टॊ महादेवॊ भक्त्या च परशमेन च

हृद्गतं चास्य विज्ञाय दर्शयाम आस शंकरः

134

[इष्वर]

राम तुष्टॊ ऽसमि भद्रं ते विदितं मे तवेप्सितम

कुरुष्व पूतम आत्मानं सर्वम एतद अवाप्स्यसि

135

दास्यामि ते तदास्त्राणि यदा पूतॊ भविष्यसि

अपात्रम असमर्थं च दहन्त्य अस्त्राणि भार्गव

136

इत्य उक्तॊ जामदग्न्यस तु देवदेवेन शूलिना

परत्युवाच महात्मानं शिरसावनतः परभुम

137

यदा जानासि देवेश पात्रं माम अस्त्रधारणे

तदा शुश्रूषते ऽसत्राणि भवान मे दातुम अर्हति

138

[दुर]

ततः स तपसा चैव दमेन नियमेन च

पूजॊपहार बलिभिर हॊममन्त्रपुरस्कृतैः

139

आराधयितवाञ शर्वं बहून वर्षगणांस तदा

परसन्नश च महादेवॊ भार्गवस्य महात्मनः

140

अब्रवीत तस्य बहुशॊ गुणान देव्याः समीपतः

भक्तिमान एष सततं मयि रामॊ दृढव्रतः

141

एवं तस्य गुणान परीतॊ बहुशॊ ऽकथयत परभुः

देवतानां पितॄणां च समक्षम अरिसूदनः

142

एतस्मिन्न एव काले तु दैत्या आसन महाबलाः

तैस तदा दर्पमॊहान्धैर अबाध्यन्त दिवौकसः

143

ततः संभूय विबुधास तान हन्तुं कृतनिश्चयाः

चक्रुः शत्रुवधे यत्नं न शेकुर जेतुम एव ते

144

अभिगम्य ततॊ देवा महेश्वरम अथाब्रुवन

परसादयन्तस तं भक्त्या जहि शत्रुगणान इति

145

परतिज्ञाय ततॊ देवॊ देवतानां रिपुक्षयम

रामं भार्गवम आहूय सॊ ऽभयभाषत शंकरः

146

रिपून भार्गव देवानां जहि सर्वान समागतान

लॊकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च

147

[राम]

अकृतास्त्रस्य देवेश का शक्तिर मे महेश्वर

निहन्तुं दानवान सर्वान कृतास्त्रान युद्धदुर्मदान

148

[इष्वर]

गच्छ तवं मद अनुध्यानान निहनिष्यसि दानवान

विजित्य च रिपून सर्वान गुणान पराप्स्यसि पुष्कलान

149

[दुर]

एतच छरुत्वा च वचनं परतिगृह्य च सर्वशः

रामः कृतस्वस्त्ययनः परययौ दानवान परति

150

अवधीद देवशत्रूंस तान मददर्प बलान्वितान

वज्राशनिसमस्पर्शैः परहारैर एव भार्गवः

151

स दानवैः कषततनुर जामद अग्न्यॊ दविजॊत्तमः

संस्पृष्टः सथाणुना सद्यॊ निर्व्रणः समजायत

152

परीतश च भगवान देवः कर्मणा तेन तस्य वै

वरान परादाद बरह्म विदे भार्गवाय महात्मने

153

उक्तश च देवदेवेन परीतियुक्तेन शूलिना

निपातात तव शस्त्राणां शरीरे याभवद रुजा

154

तया ते मानुषं कर्म वयपॊढं भृगुनन्दन

गृहाणास्त्राणि दिव्यानि मत्सकाशाद यथेप्सितम

155

ततॊ ऽसत्राणि समस्तानि वरांश च मनसेप्सितान

लब्ध्वा बहुविधान रामः परणम्या शिरसा शिवम

156

अनुज्ञां पराप्य देवेशाञ जगाम स महातपाः

एवम एतत पुरावृत्तं तदा कथितवान ऋषिः

157

भार्गवॊ ऽपय अददात सर्वं धनुर्वेदं महात्मने

कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना

158

वृजिनं हि भवेत किं चिद यदि कर्णस्य पार्थिव

नास्मै हय अस्त्राणि दिव्यानि परादास्यद भृगुनन्दनः

159

नापि सूत कुले जात्म कर्णं मन्ये कथं चन

देवपुत्रम अहं मन्ये कषत्रियाणां कुलॊद्भवम

160

सकुण्डलं सकवचं दीर्घबाहुं महारथम

कथम आदित्यसदृशं मृगी वयाघ्रं जनिष्यति

161

पश्य हय अस्य भुजौ पीनौ नागराजकरॊपमौ

वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम

1

[dur]

bhūya eva tu madreśa yat te vakṣyāmi tac chṛṇu

yathā purāvṛttam idaṃ yuddhe devāsure vibho

2

yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ

tad aśeṣeṇa bruvato mama rājarṣisattama

tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā

3

devānām asurāṇāṃ ca mahān āsīt samāgamaḥ

babhūva prathamo rājan saṃgrāmas tārakā mayaḥ

nirjitāś ca tadā daityā daivatair iti naḥ śrutam

4

nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ

tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva

5

tapa ugraṃ samāsthāya niyame parame sthitāḥ

tapasā karśayām āsur dehān svāñ śatrutāpana

6

damena tapasā caiva niyamena ca pārthiva

teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān

7

avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā

sahitā varayām āsuḥ sarvalokapitāmaham

8

tāna bravīt tadā devo lokānāṃ prabhur īśvaraḥ

nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ

varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate

9

tatas te sahitā rājan saṃpradhāryāsakṛd bahu

sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan

10

asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha

vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām

vicariṣyāma loke 'smiṃs tvatprasāda puraskṛtāḥ

11

tato varṣasahasre tu sameṣyāmaḥ parasparam

ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha

12

samāgatāni caitāni yo hanyād bhagavaṃs tadā

ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati

evam astv iti tān devaḥ pratyuktvā prāviśad divam

13

te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam

puratraya visṛṣṭy arthaṃ mayaṃ vavrur mahāsuram

viśvakarmāṇam ajaraṃ daityadānava pūjitam

14

tato mayaḥ svatapasā cakre dhīmān purāṇi ha

trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā

15

kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam

āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate

16

ekaikaṃ yojanaśataṃ vistārāyāma saṃmitam

gṛhāṭṭāṭṭlaka yutaṃ bṛhat prākāratoraṇam

17

guṇaprasava saṃbādham asaṃbādham anāmayam

prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam

18

pureṣu cābhavan rājan rājāno vai pṛthak pṛthak

kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ

rājataṃ kamalākṣasya vidyunmālina āyasam

19

trayas te daitya rājānas trīṁl lokān āśu tejasā

ākramya tasthur varṣāṇāṃ pūgān nāma prajāpati

20

teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca

koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ

mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ

21

sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ

tam āśritya hi te sarve avartantākuto bhayāḥ

22

yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ

tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā

23

tārakākṣa sutaś cāsīd dharir nāma mahābalaḥ

tapas tepe paramakaṃ yenātuṣyat pitāmaha

24

sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure

śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ

25

sa tu labdhvā varaṃ vīras tārakākṣa suto hariḥ

sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho

26

yena rūpeṇa daityas tu yena veṣeṇa caiva ha

mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān

27

tāṃ prāpya traipurasthās tu sarvāṁl lokān babādhire

mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ

na teṣām abhavad rājan kṣayo yuddhe kathaṃ cana

28

tatas te lobhamohābhyām abhibhūtā vicetasaḥ

nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan

29

vidrāvya sagaṇān devāṃs tatra tatra tadā tadā

viceruḥ svena kāmena varadānena darpitāḥ

30

devāraṇyāni sarvāṇi priyāṇi ca divaukasām

ṛṣīṇ
m āśramānpuṇyān yūpāñjana padāṃs tathā

vyanāśayanta maryādā dānavā duṣṭacāriṇa

31

te devāḥ sahitāḥ sarve pitāmaham ariṃdama

abhijagmus tadākhyātuṃ vipra kāraṃ suretarai

32

te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca

vadhopāyamapṛcchanta bhagavantaṃ pitāmaham

33

rutvā tad bhagavān devo devān idam uvāca ha

asurāś ca durātmānas te cāpi vibhudha dviṣaḥ

aparādhyanti satataṃ ye yuṣmān pīḍayanty uta

34

ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ

adhārmikās tu hantavyā ity ahaṃ prabravīmi va

35

te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam

yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān

36

iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ

brahmāṇam agrataḥ kṛtvā vṛṣākaṃ śaraṇaṃ yayu

37

tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam

ibhiḥ sahadharmajñā bhavaṃ sarvātmanā gatāḥ

38

tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam

sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā

39

tapo viśeṣair bahubhir yogaṃ yo veda cātmanaḥ

yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā

40

te taṃ dadṛśur īśānaṃ tejorāśim umāpatim

ananyasadṛśaṃ loke vratavantam akalmaṣam

41

ekaṃ ca bhagavantaṃ te nānārūpam akalpayan

ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani

parasparasya cāpaśyan sarve paramavismitāḥ

42

sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim

devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ

43

tān svasti vākyenābhyarcya samutthāpya ca śaṃkaraḥ

brūta brūteti bhagavān smayamāno 'bhyabhāṣata

44

tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ

namo namas te 'stu vibho tata ity abruvan bhavam

45

namo devātidevāya dhanvine cātimanyave

prajāpatimakhaghnāya prajāpatibhir īḍyase

46

namaḥ stutāya stutyāya stūyamānāya mṛtyave

vilohitāya rudrāya nīlagrīvāya śūline

47

amoghāya mṛgākṣāya pravarāyudha yodhine

durvāraṇāya śukrāya brahmaṇe brahmacāriṇe

48

īś
nāyāprameyāya niyantre carma vāsase

taponityāya piṅgāya vratine kṛtti vāsase

49

kumāra pitre tryakṣāya pravarāyudha dhāriṇe

prapannārti vināśāya brahma dviṭ saṃghaghātine

50

vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ

gavāṃ ca pataye nityaṃ yajñānāṃ pataye nama

51

namo 'stu te sasainyāya tryambakāyogra tejase

manovāk karmabhir deva tvāṃ prapannān bhajasva na

52

tataḥ prasanno bhagavān svāgatenābhinandya tān

provāca vyetu vastrāso brūta kiṃ karavāṇi va

53

pitṛdevarṣisaṃghebhyo vare datte mahātmanā

satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vaca

54

tavātisargād deveśa prājāpatyam idaṃ padam

mayādhitiṣṭhatā datto dānavebhyo mahān vara

55

tān atikrānta maryādān nānyaḥ saṃhartum arhati

tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ praty arir vadhe

56

sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām

kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt

57

[bhag]

hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ

na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām

58

te yūyaṃ sahitāḥ sarve madīyenāstra tejasā

jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābala

59

[devāh]

asmat tejobalaṃ yāvat tāvad dviguṇam eva ca

teṣām iti ha manyāmo dṛṣṭatejobalā hi te

60

[bhag]

vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ

mama tejobalārdhena sarvāṃs tān ghnata śātravān

61

[devāh]

bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara

sarveṣāṃ no balārdhena tvam eva jahi śātravān

62

[dur]

tatas tatheti deveśas tair ukto rājasattama

ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat

63

sa tu devo balenāsīt sarvebhyo balavattaraḥ

mahādeva iti khyātas tadā prabhṛti śaṃkara

64

tato 'bravīn mahādevo dhanur bāṇadharas tv aham

haniṣyāmi rathenājau tān ripūn vai divaukasa

65

te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca

paśyadhvaṃ yāvad adyaitān pātayāmi mahītale

66

[devāh]

mūrti sarvasvam ādāya trailokyasya tatas tataḥ

rathaṃ te kalpayiṣyāma deveśvara mahaujasam

67

tathaiva buddhyā vihitaṃ viśvakarma kṛtaṃ śubham

tato vibudhaśārdūlās taṃ rathaṃ samakalpayan

68

vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm

saparvatavanadvīpāṃ cakrūr bhūtadharāṃ tadā

69

mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ

diśaś ca pradiśaś caiva parivāraṃ rathasya hi

70

anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ

dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram

oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ

71

sūryā candramasau kṛtvā cakre rathavarottame

pakṣau pūrvāparau tatra kṛte rātryahanī śubhe

72

daśanāgapatīnīṣām dhṛtarāṣṭra mukhān dṛḍhām

dyāṃ yugaṃ yugacarmāṇi saṃvartaka balāhakān

73

amyāṃ dhṛtiṃ ca meghāṃ ca sthitiṃ saṃnatim eva ca

grahanakṣatratārābhiś carma citraṃ nabhastalam

74

surāmbupretavittānāṃ patīṁl lokeśvarān hayān

sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām

yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam

75

karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ

adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī

76

nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ

vidyud indra dhanur naddhaṃ rathaṃ dīptaṃ vyadīpayat

77

evaṃ tasmin mahārāja kalpite rathasattame

devair manujaśārdūla dviṣatām abhimardane

78

svāny āyudhāni mukhyāni nyadadhāc chaṃkaro rathe

rathayaṣṭiṃ viyat kṛṣṭāṃ sthāpayām āsa govṛṣam

79

brahmadaṇḍaḥ kāladaṇḍo rudra daṇḍas tathā jvaraḥ

pariskandā rathasyāsya sarvatodiśam udyatāḥ

80

atharvāṅgirasāv āstāṃ cakrarakṣau mahātmana

gvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ

81

itihāsa yajurvedau pṛṣṭharakṣau babhūvatuḥ

divyā vācaś ca vidyāś ca paripārśva carāḥ kṛtāḥ

82

tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca

oṃkāraś ca mukhe rājann atiśobhā karo 'bhavat

83

vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ

tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā

84

iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca

agnī ṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat

85

viṣṇuś cātmā bhagavato bhavasyāmita tejasaḥ

tasmād dhanurjyā saṃsparśaṃ na viṣehur harasya te

86

tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ

bhṛgvaṅgiro manyubhavaṃ krodhāgnim atiduḥsaham

87

sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ

ādityāyuta saṃkāśas tejo jvālāvṛto jvalan

88

duścyāvaś cyāvano jetā hantā brahma dviṣāṃ haraḥ

nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān

89

pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ

vibhāti bhagavān sthāṇus tair evātma guṇair vṛta

90

tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat

jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam

91

dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī

bāṇam ādatta taṃ divyaṃ somaviṣṇv agnisaṃbhavam

92

tasya vājāṃs tato devāḥ kalpayāṃ cakrire vibhoḥ

puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama

93

tam āsthāya mahādevas trāsayan daivatāny api

āruroha tadā yattaḥ kampayann iva rodasī

94

sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī

hasann ivāravīd devo sārathiḥ ko bhaviṣyati

95

tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate

sa bhaviṣyati deveśa sārathis te na saṃśaya

96

tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ

taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram

97

etac chrutvā tato devā vākyam uktaṃ mahātmanā

gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan

98

deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam

tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvaja

99

rathaś ca vihito 'smābhir vicitrāyudha saṃvṛtaḥ

sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame

100

tasmād vidhīyatāṃ kaś cit sārathir deva sattama

saphalāṃ tāṃ giraṃ devakartum arhasi no vibho

101

evam asmāsu hi purā bhagavann uktavān asi

hitaṃkartāsmi bhavatām iti tat kartum arhasi

102

sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām

pināka pāṇir vihito 'tra yoddhā; vibhīṣayan dānavān udyato 'sau

103

tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman

nakṣatravaṃśo 'nugato varūthe; yasmin yoddhā sārathinābhirakṣya

104

tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān

tat pratiṣṭho ratho deva hayā yoddhā tathaiva ca

kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha

105

tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam

tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho

sārathye tūrṇam āroha saṃyaccha paramān hayān

106

iti te śirasā natvā trilokeśaṃ pitāmaham

devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam

107

[brahmā]

nātra kiṃ cin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ

saṃyacchāmi hayān eṣa yudhyato vai kapardina

108

tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ

sārathye kalpito devair īśānasya mahātmana

109

tasminn ārohati kṣipraṃ syandanaṃ lokapūjite

śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasa

110

maheśvare tvāruhati jānubhyām agaman mahīm

111

abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ

tān aśvāṃś codayām āsa manomārutaraṃhasa

112

tato 'dhirūḍhe varade prayāte cāsurān prati

sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata

113

yāhi deva yato daityāś codayāśvān atandritaḥ

paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe

114

tatas tāṃś codayām āsa vāyuvegasamāñjave

yena tantripuraṃ rājan daityadānavarakṣitam

115

athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram

yuktvā pāśupatāstreṇa tripuraṃ samacintayat

116

tasmin sthite tadā rājan kruddhe vidhṛta kārmuke

purāṇi tāni kālena jagmur ekatvatāṃ tadā

117

ekībhāvaṃ gate caiva tripure samupāgate

babhūva tumulo harṣo daivatānāṃ mahātmanām

118

tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ

jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ

119

tato 'grato prādurabhūt tripuraṃ jaghnuṣo 'surān

anirdeśyogra vapuṣo devasyāsahya tejasa

120

sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ

trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati

tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave

121

evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ

maheśvareṇa kruddhena trailokyasya hitaiṣiṇā

122

sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ

mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam

123

tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ

tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam

124

te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam

kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ

125

yathaiva bhagavān brahmā lokadhātā pitā mahaḥ

saṃyaccha tvaṃ hayān asya rādheyasya mahātmana

126

tvaṃ hi kṛṣṇc ca karṇāc ca phalgunāc ca viśeṣataḥ

viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā

127

yuddhe hy ayaṃ rudra kalpas tvaṃ ca brahma samo 'nagha

tasmāc chaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān

128

yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim

pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām

tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ

129

iṃmaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me

pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit

130

rutvā caitad vacaś citraṃ hetukāryārtha saṃhitam

kuru śalya viniścitya mā bhūd atra vicāraṇā

131

bhārgavāṇāṃ kule jāto jamad agnir mahātapāḥ

tasya rāmeti vikhyātaḥ putras tejo guṇānvita

132

sa tīvraṃ tapa āsthāya prasādayitavān bhavam

astrahetoḥ prasannātmā niyataḥ saṃyatendriya

133

tasya tuṣṭo mahādevo bhaktyā ca praśamena ca

hṛdgataṃ cāsya vijñāya darśayām āsa śaṃkara

134

[iṣvara]

rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam

kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi

135

dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi

apātram asamarthaṃ ca dahanty astrāṇi bhārgava

136

ity ukto jāmadagnyas tu devadevena śūlinā

pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum

137

yadā jānāsi deveśa pātraṃ mām astradhāraṇe

tadā śuśrūṣate 'strāṇi bhavān me dātum arhati

138

[dur]

tataḥ sa tapasā caiva damena niyamena ca

pūjopahāra balibhir homamantrapuraskṛtai

139

rādhayitavāñ śarvaṃ bahūn varṣagaṇāṃs tadā

prasannaś ca mahādevo bhārgavasya mahātmana

140

abravīt tasya bahuśo guṇān devyāḥ samīpataḥ

bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrata

141

evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ

devatānāṃ pitṝṇāṃ ca samakṣam arisūdana

142

etasminn eva kāle tu daityā āsan mahābalāḥ

tais tadā darpamohāndhair abādhyanta divaukasa

143

tataḥ saṃbhūya vibudhās tān hantuṃ kṛtaniścayāḥ

cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te

144

abhigamya tato devā maheśvaram athābruvan

prasādayantas taṃ bhaktyā jahi śatrugaṇān iti

145

pratijñāya tato devo devatānāṃ ripukṣayam

rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkara

146

ripūn bhārgava devānāṃ jahi sarvān samāgatān

lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca

147

[rāma]

akṛtāstrasya deveśa kā śaktir me maheśvara

nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān

148

[iṣvara]

gaccha tvaṃ mad anudhyānān nihaniṣyasi dānavān

vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān

149

[dur]

etac chrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ

rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati

150

avadhīd devaśatrūṃs tān madadarpa balānvitān

vajrāśanisamasparśaiḥ prahārair eva bhārgava

151

sa dānavaiḥ kṣatatanur jāmad agnyo dvijottamaḥ

saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata

152

prītaś ca bhagavān devaḥ karmaṇā tena tasya vai

varān prādād brahma vide bhārgavāya mahātmane

153

uktaś ca devadevena prītiyuktena śūlinā

nipātāt tava śastrāṇāṃ arīre yābhavad rujā

154

tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana

gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam

155

tato 'strāṇi samastāni varāṃś ca manasepsitān

labdhvā bahuvidhān rāmaḥ praṇamyā śirasā śivam

156

anujñāṃ prāpya deveśāñ jagāma sa mahātapāḥ

evam etat purāvṛttaṃ tadā kathitavān ṛṣi

157

bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane

karṇāya puruṣavyāghra suprītenāntarātmanā

158

vṛjinaṃ hi bhavet kiṃ cid yadi karṇasya pārthiva

nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandana

159

nāpi sūta kule jātma karṇaṃ manye kathaṃ cana

devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam

160

sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham

katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati

161

paśya hy asya bhujau pīnau nāgarājakaropamau

vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam
yajur veda sama veda atharva| agni rig veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 24